वराहपुराणम्/अध्यायः १५६
← अध्यायः १५५ | वराहपुराणम् अध्यायः १५६ [[लेखकः :|]] |
अध्यायः १५७ → |
अथ मथुराप्रादुर्भावः ।।
श्रीवराह उवाच ।।
वत्सक्रीडनकं नाम तीर्थं वक्ष्ये परं मम ।।
तत्र रक्तशिलाबद्धं रक्तचन्दनभूषितम् ।। १ ।।
स्नानमात्रेण तत्रैव वायुलोकं व्रजेन्नरः ।।
तत्राऽथ मुञ्चते प्राणान्मम लोके महीयते ।। २ ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
अस्ति भाण्डीरकं नाम यत्तीर्थं परमुत्तमम् ।। ३ ।।
सालैस्तालैश्च तरुभिस्तमालैरर्ज्जुनैस्तथा ।।
इङ्गुदैः पीलुकैश्चैव करीरैरक्तपुष्पकैः ।। ४ ।।
तस्मिन्भाण्डीरके स्नातो नियतो नियताशनः ।।
सर्वपापविनिर्मुक्तश्चेन्द्रलोकं स गच्छति ।। ५ ।।
तत्राऽथ मुञ्चते प्राणान्मम लोकं च गच्छति ।।
पुनरन्यत्प्रवक्ष्यामि क्षेत्रं वृन्दावनं मम ।। ६ ।।
तत्राहं क्रीडयिष्यामि गोभिर् गोपालकैः सह ।।
रम्यं च सुप्रतीतं च देवदानवदुर्लभम् ।।७।।
तत्र कुण्डे महाभागे बहुगुल्मलतावृते ।।
तत्र स्नानं प्रकुर्वीत चैकरात्रोषितो नरः।।८।।
गन्धर्वैरप्सरोभिश्च क्रीडमानः स मोदते ।।
तत्राथ मुञ्चते प्राणान्मम लोकं च गच्छति ।। ९ ।।
पुनरन्यत्प्रवक्ष्यामि महापातकनाशनम् ।।
तत्र वृन्दावने तीर्थे यत्र केशी निपातितः ।। 156.१० ।।
तीर्थं शतगुणं पुण्यं यत्र केशी निपातितः ।।
केश्यः शतगुणं पुण्यं यत्र विश्रमते हरिः ।। ११ ।।
तस्माच्छतगुणं पुण्यं नात्र कार्या विचारणा ।।
तत्रापि च विशेषोऽस्ति केशीतीर्थे वसुन्धरे ।।१२।।
तस्मिन्पिण्डप्रदानेन गयातुल्य फलं भवेत्।।
स्नाने दाने तथा होमे अग्निष्टोमफलं भवेत् ।। १३ ।।
सूर्यतीर्थेषु वसुधे द्वादशादित्यसंज्ञिके ।।
कालियो रमते तत्र कालिंद्याः सलिले शुभे।।१४।।
कालियो दमितस्तत्र आदित्याः स्थापिता मया ।।
वरं वृणुध्वं भद्रं वो यद्वो मनसि वर्त्तते।।१९।।
आदित्या ऊचुः ।।
वरं ददासि नो देव वरार्हा यदि वा वयम् ।।
अस्मिंस्तीर्थवरे स्नानमस्माकं संप्रदीयताम् ।। १६ ।।
आदित्यानां वचः श्रुत्वा क्रीडां कृत्वा वसुन्धरे ।।
स्नानमात्रेण तत्रैव मुच्यते सर्वकिल्बिषैः ।। १७ ।।
अथात्र मुंचते प्राणान्मम लोकं स गच्छति ।।
उत्तरे हरिदेवस्य दक्षिणे कालियस्य तु ।। १८ ।।
अनयोर्देवयोर्मध्ये ये मृतास्तेऽपुनर्भवाः ।।१९।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रादुर्भावो नाम षट्पंचाशदधिकशततमोऽध्यायः।।१५६।।