वराहपुराणम्/अध्यायः १६२
← अध्यायः १६१ | वराहपुराणम् अध्यायः १६२ [[लेखकः :|]] |
अध्यायः १६३ → |
अथ चक्रतीर्थप्रभावः ।।
श्रीवराह उवाच ।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
चक्रतीर्थे पुरावृत्तं मथुरायास्तथोत्तरे ।।१।।
महागृहोदयं नाम जम्बूद्वीपस्य भूषणम् ।।
तस्मिन् पुरवरे दिव्ये ब्राह्मणो वसते शुभे ।।२।।
स कन्यां पुत्रमादाय ब्राह्मणो वेदपारगः ।।
शालिग्रामं महापुण्यमगच्छद्ब्राह्मणोत्तमः ।। ३ ।।
तत्रासौ वासमकरोत्पुण्यसेवी जितेन्द्रियः ।।
तीर्थसेवी तथा स्नायी देवतादर्शने रतः ।। ४ ।।
तत्र सिद्धेन संवासो ब्राह्मणस्याभवत्तदा।।
स सिद्धो वसते नित्यं कल्पग्रामे च सर्वदा ।।५।।
गच्छेत्स सर्वकालं तु शालिग्रामे वसुन्धरे ।।
स तेन सह सङ्गत्य कान्यकुब्जनिवासिना ।।६।।
कल्पग्राम विभूतिं च नित्यकालमवर्णयत् ।।
कल्पग्रामविभूतिं च श्रुत्वा स मुनिसत्तमः ।। ७ ।।
गमने बुद्धिरुत्पन्ना ततः सिद्धमयाचत ।।
मित्रत्वं वर्त्तते सिद्ध नयस्वात्मनिवेशने ।। ८ ।।
ब्राह्मणस्य वचः श्रुत्वा सिद्धो वचनमब्रवीत् ।।
तत्र सिद्धा हि गच्छन्ति तेन तत्र गतिर्भवेत् ।। ९ ।।
प्रार्थना दुःखलाभं तु शृणु वै ब्राह्मणोत्तम ।।
आत्मयोगबलेनैव चलिष्यामि सपुत्रकः ।। 162.१० ।।
दक्षिणे तु करे गृह्य ब्राह्मणं वेदपारगम् ।।
वामे चैव करे गृह्य तस्य पुत्रं महामतिम् ।। ११ ।।
उत्पपात तदा सिद्धो गृहीत्वा ब्राह्मणोत्तमौ ।।
कल्पग्रामे तु तौ मुक्तौ पितापुत्रौ वसुन्धरे ।। १२ ।।
तत्र तौ वसतो नित्यं कल्पग्रामे द्विजोत्तमौ ।।
तत्र कालेन महता रुग्देहे चाभवत्तदा ।। १३ ।।
रुजा तु पीड्यमानः स दशमीं च दशां गतः ।।
मर्तुकामो द्विजवरो निरीक्ष्य सुतमुत्तमम् ।। १४ ।।
उवाच पुत्रं धर्मात्मा मरणे समुपस्थिते ।।
गंगातीरे च मां पुत्र नय त्वं मा विलम्बय ।। १५ ।।
तेन पुत्रेण नीतोऽसौ गंगातीरे महामुनिः ।।
रुरोद पुत्रस्तु तदा पितृस्नेहसमन्वितः ।। १६ ।।
वेदाध्ययनशीलः स पितृभक्त्या नियन्त्रितः ।।
वसतस्तस्य वै तत्र कालो जातो महामतेः ।।१७।।
कल्पग्रामे तदा सिद्धस्तस्य कन्या सुमध्यमा ।।
वरमन्वेषयन्ती सा न प्राप्तस्तु तया मतः ।। १८ ।।
कदाचिद्देवयोगेन कान्यकुब्जनिवासिनः ।।
गृहे प्रविष्टो विप्रः स भोजनार्थं महामतिः ।। १९ ।।
पृष्टोऽसौ ब्राह्मणो भद्रे क्व भवांस्त्वमिहागतः।।
स सर्वं कथयामास यथावृत्तं दृढव्रतः।।162.२०।।
दिव्यज्ञानेन तं ज्ञात्वा पूजयामास तं द्विजः।।
पूजयित्वा यथान्यायं कन्यां तस्मै ददौ तदा।।२१।।
श्वशुरस्य गृहे नित्यं भोजनं कुरुते द्विजः ।।
वसते पितृसान्निध्ये प्रतिचारी स पुत्रकः ।।२२।।
काले भगवतस्तस्य अतिक्षीणः पिता तदा ।।
तं दृष्ट्वा क्षीणतां प्राप्तं श्वशुरं पर्यपृच्छत ।।२३।।
स्वामिन्पितुर्मे मरणं भविष्यति वदस्व माम् ।।
जामातृवचनं श्रुत्वा प्रहस्य श्वशुरोऽब्रवीत् ।।२४।।
शूद्रान्नं भक्षितं तेन नित्यकालं द्विजोत्तम ।।
तस्य चाहारदोषेण मृत्युर्दूरं गतः पितुः ।।२५ ।।
पादयोर्विद्यते तच्च शूद्रान्नं च पितुस्तव ।।
जान्वोरूर्द्ध्वे न विद्येत शूद्रान्नं च द्विजोत्तम।।२६।।
शूद्रान्नेन विहीनस्य तस्य मृत्युर्भविष्यति ।।
श्वशुरस्य वचस्तस्य पितुरग्रे न्यवेदयत् ।। २७ ।।
तस्य पुत्रस्य वचनं श्रुत्वात्मानं विगर्हयत् ।।
ततः प्रभाते विमले उदिते च दिवाकरे ।।२८।।
पितुः समीपात्स गतः श्वशुरस्य निवेशनम् ।।
गते पुत्रे पिता तस्य रुजा त्वत्यन्तपीडितः ।। २९ ।।
दुःखेन पीडितः क्षीणो मर्त्तुकामो द्विजोत्तमः ।।
गंगातीरात्समुत्तिष्ठन्दिशः सर्वा विलोकयन् ।। 162.३०।।
सन्निधावुपलं दृष्ट्वा गृहीतं तेन तत्पदा ।।
चूर्णयामास तौ पादौ पीडया मोहितो द्विजः ।।३१।।
ततः प्राणान्परित्यज्य गतोऽसौ कालवर्त्तनम् ।।
स्नात्वा भुक्त्वा ततो गत्वा प्रेक्ष्य तं पितरं मृतम् ।।३२।।
गतसंज्ञं च पितरं दृष्ट्वा स रुरुदे भृशम् ।।
रुदित्वा सुचिरं कालं शास्त्रं दृष्ट्वा व्यचिन्तयत् ।। ३३ ।।
संस्कारयोग्यता नास्ति इत्येवं पुनरब्रवीत् ।।
सर्पशृङ्गिहतानां च दंष्ट्रविग्रहतस्य च ।।३४।।
आत्मनस्त्यागिनश्चैव आपस्तम्बोऽब्रवीदिदम् ।।
आत्मघाती नरः पापो नरके पच्यते चिरम् ।। ३५ ।।
प्रायश्चितं विधीयीत न दद्याच्चोदकक्रियाम्।।
अहो दैवं सुबलवत्पौरुषं तु निरर्थकम् ।। ३६ ।।
तस्य पुत्रो महाभागे गतः श्वशुरमन्दिरम् ।।
तं दृष्ट्वा श्वशुरो दीनमिदं वचनमब्रवीत् ।।३७ ।।
ब्रह्महत्या तु ते जाता गच्छ त्वं च यथेप्सितम् ।।
श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत् ।। ३८ ।।
न मया ब्राह्मणवधः कदाचिदपि कारितः ।।
केन दोषेण मे सिद्धं ब्रह्महत्याफलं महत् ।। ३९ ।।
जामातुर्वचनं श्रुत्वा श्वशुरो वाक्यमब्रवीत् ।।
पितुस्त्वया वधोपायो विनिर्दिष्टश्च पुत्रक ।। 162.४० ।।
तेन दोषेण विप्रर्षे ब्रह्महत्याफलं तव ।।
आसन्नशयनाच्चैनं भोजनात्कथनादिषु ।। ४१ ।।
संवत्सरेण पतति पतितेन सहाचरन् ।।
तस्मान्मम गृहे नास्ति वासस्ते हि द्विजोत्तम ।। ४२ ।।
श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत् ।।
किं मया वद कर्त्तव्यं त्वया त्यक्तेन सुव्रत ।। ४३ ।।
तस्य तद्वचनं श्रुत्वा ब्राह्मणः संशितव्रतः ।।
कल्पग्रामं परित्यज्य मथुरां याहि सुव्रत ।। ४४ ।।
नान्यत्र तव संशुद्धिः कदाचित्पितृघातिनः ।।
कल्पग्रामं परित्यज्य तत्क्षणादेव निःसृतः ।।४९।।
ततः कालेन महता सम्प्राप्तो मथुरां पुरीम् ।।
ब्राह्मणेभ्यो बहिःस्थाने नित्यं तु वसते द्विजः ।। ४६ ।।
कन्यापुरनिवासी तु कुशिकोऽयं नराधिपः ।।
तस्य सत्रं नित्यकालं मथुरायां प्रवर्त्तते ।। ४७ ।।
द्वेसहस्रे तु विप्राणां तस्य सत्रे च भुञ्जते ।।
ब्राह्मणानां सदोच्छिष्टं ततश्चोद्धरते तु सः ।। ४८ ।।
चक्रतीर्थं समासाद्य स्नानं स कुरुते सदा ।।
न भिक्षां कुरुते तत्र भोजनार्थं न गच्छति ।। ४९ ।।
ततः कालेन महता चिन्ताभूच्छ्वशुरस्य च ।।
दिव्यज्ञानेन तत्सर्वं ज्ञात्वा जामातृचेष्टितम् ।। 162.५० ।।
स्वां सुतां चोदयामास गच्छ तां मथुरां पुरीम् ।।
भोजनं गृह्य तत्रैव गच्छ त्वं भर्तृसन्निधौ ।।५१।।
दिव्यज्ञानेन च तदा नित्यं सा भर्तृसन्निधौ ।।
दिनेदिने गच्छति सा भर्तृभोजनकारणात् ।। ५२ ।।
दिवसस्यावसाने तु भोजनं गृह्य गच्छति ।।
भोजनं कुरुते नित्यं प्रियादत्तं वसुन्धरे ।। ५३ ।।
पात्रं निःक्षिप्य कुण्डे तु सत्रे वसति सर्वदा ।।
एवं निवसतस्तस्य वर्षार्द्धं तु गतं तदा ।। ५४ ।।
ततः कालेन महता तैः पृष्टः स द्विजोत्तमः ।।
कुत्र सन्तिष्ठते नित्यं भोजनं कुरुषे कुतः ।।५५।।
कथयामास वृत्तान्तं तं सर्वं चात्मनो हि सः ।।
ते श्रुत्वा ब्राह्मणाः सर्वे एकीभूता वसुन्धरे ।। ५६ ।।
इदमूचुस्ततो विप्राः शुद्रोऽसीति द्विजं प्रति ।।
चक्रतीर्थप्रभावेण पापान्मुक्तः सनातनः ।। ५७ ।।
अस्माकं वदनाच्चैव पुनः सिद्धोऽसि वै द्विज ।।
ब्राह्मणानां वचः श्रुत्वा स द्विजो हृष्टमानसः ।। ५८ ।।
स्नानार्थं तु ततः स्थानाच्चक्रतीर्थं समागतः ।।
गते तस्मिंस्तस्य भार्या भिक्षामादाय चागता ।।५९।।
सा तु हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् ।।
भोजनं कुरु मे दत्तं हत्यां लक्ष्यामि ते गताम्।।162.६० ।।
प्रियावचनमाकर्ण्य भर्ता वचनमब्रवीत् ।।
पुनराभाषितं ब्रूहि यदिदं भाषितं त्वया ।।६१।।
भर्त्तुर्वचनमाकर्ण्य पत्नी वचनमब्रवीत् ।।
न त्वं सम्भाषितः पूर्वं ब्रह्महत्यासमन्वितः ।।६२।।
चक्रतीर्थप्रभावेण मुक्तोऽसि द्विजसत्तम।।
उत्तिष्ठ कान्त गच्छाव कल्पग्रामं सुशोभितम् ।।६३।।
तया सार्द्धं जगामाथ कल्पग्रामं द्विजोत्तमः ।।
भद्रेश्वरनिमित्तं हि द्रव्यं च कथितं शुभम् ।। ६४ ।।
नित्यं च भुञ्जते यत्र पात्रं द्रव्यसमर्पितम् ।।
दृष्ट्वा भद्रेश्वरं देवं चक्रतीर्थे फलं लभेत् ।।६९।।
कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे ।।
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ।।६६।।
कल्पग्रामेण किं तस्य वाराणस्यां च वा शुभे ।।
मथुरां तु समासाद्य यः कश्चिन्म्रियते भुवि ।। ६७ ।।
अपि कीटः पतङ्गो वा जायते स चतुर्भुजः ।।६८।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये चक्रतीर्थप्रभावो नाम द्विषष्टयधिकशततमोऽध्यायः ।। १६२ ।।