प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १६२ वराहपुराणम्
अध्यायः १६३
[[लेखकः :|]]
अध्यायः १६४ →

अथ कपिलवराहमाहात्म्यम् ।।
श्रीवराह उवाच।।
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
वैकुण्ठतीर्थमासाद्य यद्वृत्तं हि पुरातनम् ।।१।।
मिथिलायां पुरी रम्या जनकेन च पालिता ।।
मिथिलावासिनो लोकास्तीर्थयात्रां समागताः ।। २ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि वसुन्धरे ।।
स्नात्वा सौकरवे तीर्थे आयाता मधुरां पुरीम् ।। ३ ।।
तेषां च भक्तिरुत्पन्ना मथुरां प्रति सुन्दरि ।।
वैकुण्ठतीर्थमासाद्य सर्वे ते मनुजाः स्थिताः ।। ४ ।।
तेषां तु ब्राह्मणः कश्चिद्ब्रह्महत्यासु चिह्नितः ।।
रुधिरस्य हि धारा च स्रवन्ती तस्य हस्ततः ।। ५ ।।
प्रत्यक्षा दृश्यते सर्वैर्ब्रह्महत्यास्वरूपिणी ।।
सर्वतीर्थप्लुतस्यापि ब्राह्मणस्य हि सा तदा ।। ६ ।।
न गता पूर्वमेवासीद्वैकुण्ठे स्नानमाचरत् ।।
न सा वै दृश्यते धारा ततस्ते विस्मयङ्गताः।। ७ ।।
किमेतत्किमिति प्राहुर्धारा प्रति वसुन्धरे ।।
देवो ब्राह्मणरूपेण लोकान्सर्वान् हि पृच्छति ।। ८ ।।
केन कारणदोषेण धारा त्यक्त्वा गता द्विजम् ।।
तत्सर्वं कथयामासुर्ब्राह्मणस्य विचेष्टितम् ।। ९ ।।
वैकुण्ठे तु निमग्नोऽयं ब्रह्महत्या गता ततः ।।
विस्मयो नात्र कर्त्तव्यस्तीर्थस्येदं महत्फलम् ।। १६३.१० ।।
इत्युक्तस्तैर्देवदेवस्तत्रैवान्तरधीयत ।।
एष प्रभावस्तीर्थस्य वैकुण्ठस्य वसुन्धरे ।। ११ ।।
वैकुण्ठतीर्थे यः स्नाति मुच्यते सर्वपातकैः ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। १२ ।।
सूत उवाच ।।
पुनरन्यत् प्रवक्ष्यामि असिकुण्डेऽतिपुण्यदे ।।
नाम्ना गन्धर्वकुण्डं तु तीर्थानां तीर्थमुत्तमम् ।। १३ ।।
तत्र स्नातो नरो देवि गन्धर्वैः सह मोदते ।।
तत्र यो मुंचते प्राणान्मम लोकं स गच्छति ।। १४ ।।
विंशतिर्योजनानां तु माथुरं मम मण्डलम् ।।
इदं पद्मं महाभागे सर्वेषां मुक्तिदायि च ।। १५ ।।
कर्णिकायां स्थितो देवि केशवः क्लेशनाशनः ।।
कर्णिकायां मृता ये तु तेऽमरा मुक्तिभागिनः।।१६।।
तत्र मध्ये मृता ये तु तेषां मुक्तिर्वसुन्धरे ।।
पश्चिमेन हरिं देवं गोवर्द्धननिवासिनम् ।। १७ ।।
दृष्ट्वा तं देवदेवेशं किं मनः परितप्यते ।।
उत्तरेण तु गोविन्दं दृष्ट्वा देवं परं शुभम् ।। १८ ।।
नासौ पतति संसारे यावदाभूतसंप्लवम् ।।
विश्रान्तिसंज्ञके देवं पूर्वपत्रे व्यवस्थितम् ।। १९ ।।
यं दृष्ट्वा तु नरो याति मुक्तिं नास्त्यत्र संशयः ।।
दक्षिणेन तु मां विद्धि प्रतिमां दिव्यरूपिणीम् ।। १६३.२० ।।
महाकायां सुरूपां च केशवाकारसन्निभाम् ।।
तां दृष्ट्वा मनुजो देवि ब्रह्मणा सह मोदते ।। २१ ।।
कृते युगे तु राजासीन्मान्धाता नाम नामतः ।।
तेनाहं तोषितो देवि भक्तियुक्तेन चेतसा ।।२२।।
तस्य तुष्टेन हि मया प्रतिमेयं समर्पिता ।।
तेनेयं पूजिता नित्यमात्ममुक्तिमभीप्सता ।। २३ ।।
यदा तु मथुरां प्राप्य लवणोऽयं निपातितः ।।
तदैव प्रतिमा दिव्या मथुरायां व्यवस्थिता ।। २४ ।।
पुण्येयं प्रतिमा दिव्या तैजसी दिव्यरूपिणी ।।
कपिलो नाम विप्रर्षिर्मम भक्तिपरायणः ।। २५ ।।
मनसा निर्मिता तेन वाराही प्रतिमा शुभा ।।
कपिलो ध्यायते नित्यमर्चति स्म दिने दिने ।।२६।।
इन्द्रेणाराधितो देवि कपिलो मुनिसत्तमः ।।
तस्य प्रीतो ददौ देवं वराहं दिव्यरूपिणम् ।। २७ ।।
देवे लब्धे वरारोहे शक्रो हर्षसमन्वितः ।।
ध्यायति स्म सदा देवं पूजां कृत्वा हि भक्तितः ।। २८ ।।
इन्द्रेण तु तदा प्राप्तं दिव्यं ज्ञानमनुत्तमम् ।।
ततः कालेन महता रावणो नाम राक्षसः ।। २९ ।।
इन्द्रलोकं गतः सोऽथ स्वर्गं जेतुं महाबलः ।।
शक्रेण सह सङ्गम्य ततो युद्धं प्रवर्तितम् ।। १६३.३० ।।
रावणेन जिता देवाः शक्रश्चैव महाबलः ।।
बद्ध्वा चेन्द्रं महाबाहुं शक्रस्य भवनं गतः ।। ३१ ।।
प्रविश्य रावणस्तत्र गृहे रत्नविभूषिते ।।
दृष्ट्वा कपिलवाराहं शिरसा धरणीं गतः ।। ३२ ।।
तेन संमोहितो देवि रावणो नाम राक्षसः ।।
त्रातुमर्हसि मे देव धरणीधर माधव ।। ३३ ।।
दामोदर हषीकेश हिरण्याक्षविदारण ।।
वेदगर्भ नमस्तेऽस्तु वासुदेव नमोऽस्तु ते ।। ३४ ।।
कूर्मरूप नमस्तेऽस्तु नारायण नमोस्तु ते ।।
मस्त्यरूपधरं देवं मधुकैटभनाशिनम् ।। ३९ ।।
निरीक्षितुं न शक्नोमि प्रष्टुं चैव गुणव्रत ।।
देवदेव नमस्तुभ्यं भक्तानामभयप्रद ।।३६।।
मम त्वं भक्तिनम्रस्य प्रसादं कुरु सर्वदा ।।
इति स्तुतो रावणेन देवदेवो जगत्पतिः ।।३७।।
सौम्यरूपोऽभवद्देवो लोक नाथो जनार्दनः ।।
सन्निधानमनुप्राप्य पुष्पकारोहणोत्सुकः ।। ३८ ।।
तदुद्धर्त्तुं न शक्नोति रावणो विस्मयङ्गतः ।।
शङ्करेण पुरा सार्द्धं कैलास स्तु मयोद्धृतः ।। ३९ ।।
देव त्वं स्वल्पकायोऽसि नाहमुद्धरणक्षमः ।।
प्रसीद देवदेवेश सुरनाथ नमोऽस्तु ते ।। १६३.४० ।।
अहं त्वां नेतुमिच्छामि पुरीं लङ्कामनुत्तमाम् ।। ४१ ।।
श्रीवराह उवाच ।।
अवैष्णवोऽसि रक्षस्त्वं कुतो भक्तिस्तवेदृशी ।।
कपिलस्य वचः श्रुत्वा रावणो वाक्य मब्रवीत् ।। ४२ ।।
त्वद्दर्शनात्समुत्पन्ना भक्तिरव्यभिचारिणी ।।
महात्मस्त्वां नयिष्यामि देवदेव नमोऽस्तु ते ।। ४३ ।।
भक्तिमुद्वहतस्तस्य लघु वेषोऽभवत्तदा ।।
पुष्पके तु समारोप्य देवं त्रैलोक्यविश्रुतम् ।। ४४ ।।
आनयामास लङ्कायां स्थापयित्वा स्वके गृहे ।।
तदा स्थितोऽहं लङ्कायां रावणेन प्रपूजितः ।। ४५ ।।
अयोध्याधिपती रामो हन्तुं राक्षसपुङ्गवम् ।।
गतोऽसौ विक्रमेणैव हत्त्वा राक्षसपुङ्गवम् ।। ४६ ।।
विभीषणश्च लङ्काया आधिपत्येऽभिषेचितः ।।
विभीषणेन रामस्य सर्वस्वं च निवेदितम् ।।४७।।
श्रीराम उवाच ।।
अनेन नस्ति मे कार्यं तव रक्षा विभीषण ।।
देवो मे दीयतां रक्षः शक्रलोकाद्य आगतः ।। ४८ ।।
अहन्यहनि पूजामि देवं वाराहरूपिणम् ।।
अयोध्यां चैव नेष्यामि त्वया दत्तं हि राक्षस ।। ४९ ।।
ततः समर्पयामास कपिलं दिव्यरूपिणम् ।।
पुष्पके तु समारोप्य नीतवान्नगरीं प्रति ।। १६३.५० ।।
अयोध्यायां स्थापयित्वा पूजयामास तं तदा ।।
गतं वर्षसहस्रं तु दशोत्तरमतः परम् ।। ५१ ।।
लवणस्य वधार्थं हि शत्रुघ्नं प्रेषयत्तदा ।।
कृतप्रणामः शत्रुघ्नो राघवाय महात्मने ।। ५२ ।।
चतुरङ्गबलोपेतो जगाम मथुरां प्रति ।।
गत्वा तु राक्षसश्रेष्ठं लवणं रौद्ररूपिणम् ।। ५३ ।।
घातयित्वा तु शत्रुघ्नः प्रविश्य मथुरां पुरीम् ।।
ब्राह्मणान्स्थापयित्वा तु मया तुल्यान्महौजसः ।। ५४ ।।
षड्विंशतिसहस्राणि वेदवेदाङ्गपारगान् ।।
अनृचो माथुरो यत्र चतुर्वेदस्तथापरः ।। ५५ ।।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजितः ।।
लवणस्य यथावृत्तं कथितं ते वसुन्धरे ।। ५६ ।।
लवणस्य वधं श्रुत्वा राघवो वाक्यमब्रवीत् ।।
वरं वरय शत्रुघ्न यत्ते मनसि रोचते ।। ९७ ।।
राघवस्य वचः श्रुत्वा शत्रुघ्नो वाक्यमब्रवीत् ।।
यदि तुष्टोऽसि मे देव वरार्हो यदि वाप्यहम् ।। ५८ ।।
दीयतां मम देवोऽयं यदि मे वरदो भवान् ।।
शत्रुघ्नस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ।। ५९ ।।
नय शत्रुघ्न देवं त्वं दिव्यं वाराहरूपिणम् ।।
धन्याऽसौ मण्डली लोके धन्या सा मथुरा पुरी ।। १६३.६० ।।
धन्यास्ते माथुरा लोकाः पश्यन्ति कपिलं सदा ।।
दृष्टः स्पृष्टः तदा ध्यातः स्नापितश्च दिने दिने ।। ६१ ।।
अनुलिप्तश्च शत्रुघ्न सर्वपापं व्यपोहति ।।
पूजितः स्नापितो देवो दृष्टो यैस्तु दिने दिने ।। ६२ ।।
सर्वं हरति वै पापं मोक्षं चैव प्रयच्छति ।।
इत्युक्त्वा राघवस्तस्मै देवं प्रादाद्वसुन्धरे ।। ६३ ।।
देवमादाय शत्रुघ्नो जगाम मथुरां पुरीम् ।।
ब्राह्मणं स्थापयित्वा तु आगच्छन्मम सन्निधौ ।। ६४ ।।
तत्र मध्ये तु संस्थाप्य पूजयामास राघवः ।।
अनेन क्रमयोगेण मथुरायां स्थितः प्रभुः ।।६५।।
गयायां पिण्डदानेन यत्फलं ज्यष्ठेपुष्करे ।।
तत्फलं समवाप्नोति श्वेतं दृष्ट्वा सदा नरः ।।६६।।
विश्रान्तिसंज्ञके तद्वद्गोविन्दे च तथा हरौ ।।
केशवे दीर्घविष्णौ च तदेव फलमश्नुते ।।६७।।
उदये मामकं तेजः सदा विश्रांतिसंज्ञके ।।
मध्याह्ने मामकं तेजो दीर्घविष्णौ व्यवस्थितम् ।।
केशवे मामकं तेजो दिनभागे चतुर्थके ।। ६८ ।।
एषा विद्या पुरा देवि नित्यकालं सुगो पिता ।।
भक्ता त्वं मम शिष्या च कथिता ते वसुन्धरे ।। ६९ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये कपिलवराहमाहात्म्यं नाम त्रिषष्ट्यधिकशत तमोऽध्यायः ।।१६३।।