प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १६५ वराहपुराणम्
अध्यायः १६६
[[लेखकः :|]]
अध्यायः १६७ →

धरण्युवाच ।।
श्रुतानि तु महादेव तीर्थानि विविधानि तु ।।
असिकुण्डेति संज्ञेयं तन्मे त्वं कथय प्रभो ।। १ ।।
श्रीवराह उवाच ।।
सुमतिर्नाम राजासीद्धार्मिको लोकविश्रुतः ।।
तीर्थयात्रानिमित्तेन स्वर्गलोकं गतः पुरा ।। २ ।।
गते स्वर्गं तु नृपतौ पुत्रो राज्यं चकार ह ।।
विमतिर्नाम नाम्ना च राज्ये पैतामहे स्थितः ।। ३ ।।
राज्यं च कुर्वतस्तस्य आगतो नारदस्तदा ।।
विष्टरं पाद्यमर्घ्यं च तस्मै दत्तं यथोचितम् ।। ४ ।।
प्रतिगृह्य च तत्सर्वं तमुवाच स नारदः ।।
पितुर्ह्यनृणतां गत्वा स पुत्रो धर्मभाग्भवेत् ।। ५ ।।
इत्युक्त्वा नारदस्तत्र तत्रैवान्तरधीयत ।।
नारदे तु गते राजा पप्रच्छ स्वात्ममन्त्रिणः ।।६।।
तदा किमुक्तमृषिणा नारदेन पितुः कृते ।।
आनृण्यमिति यद्वाक्यं मया बुद्धं न किंचन ।। ७ ।।
मन्त्रिणश्च ततो ज्ञात्वा पितुर्मरणमेव च ।।
तीर्थयात्रानिमित्तं च तस्मै राज्ञे न्यवेदयन् ।। ८ ।।
अतएवोक्तमानृण्यं नारदेन पितुस्तव ।।
श्रुत्वा वाक्यं तदा राजा तीर्थयात्रां चकार ह ।। ९ ।।
विमतेर्बुद्धिरुत्पन्ना गच्छामो मथुरां पुरीम् ।।
चतुरो वार्षिकान्मासान्मथुरायां वसामहे ।।166.१०।।
सर्वाणि तत्र तीर्थानि तिष्ठन्ति विविधानि च ।।
आगते तु नृपे तत्र तीर्थान्यूचुः परस्परम् ।।११ ।।
युद्धं विमतिना सार्द्धं स्वयं कर्त्तुं न शक्नुमः ।।
कल्पग्रामं तु गच्छामो वराहो यत्र तिष्ठति ।। १२ ।।
गतानि तत्र तीर्थानि कल्पग्रामं वसुन्धरे ।।
तत्र वाराहरूपेण स्थितोऽहं च यदृच्छया ।। ३३ ।।
यावन्निरीक्षयाम्यग्रं तावत्तिष्ठन्ति सन्निधौ ।।
तीर्थान्यूचुः ।।
जय विष्णो जयाचिंत्य जय देव जयाच्युत ।।१४।।
जय विश्वेश कर्त्तेश जय देव नमोऽस्तु ते ।।
श्रीवराह उवाच ।।
तीर्थैः स्तुतोऽहं वसुधे वचनं चेदमब्रुवम् ।।१५।।
वरं वृणुत भद्रं वो यद्वो मनसि वर्त्तते ।।
तीर्थान्यूचुः ।।
वराह यदि देवेश अभयं दातुमर्हसि ।। १६ ।।
सुपापिना विमतिना कृतस्त्रासः सुदारुणः ।।
तं नियच्छस्व पापिष्ठं यदि पश्यसि नः सुखम् ।। १७ ।।
श्रीवराह उवाच ।।
हिताय सर्वतीर्थानां हनिष्यामि महारिपुम् ।।
तत्र तीर्थनियोगेन आगतो मथुरां पुरीम् ।।१८।।
तत्रागते तु वसुधे युद्धं कृत्वा तु तेन वै ।।
तदासिना तु दिव्येन स राजा बलदर्पितः ।।
सूदितो हि मया देवि अस्यग्रं निहितं भुवि ।। १९ ।।
असेरग्रेण तूद्धृत्य मृत्तिकां वरवर्णिनि ।।
तत्र कुण्डं महद्दिव्यं देवर्षिविधिनिर्मितम् ।।
असिकुण्डेति संज्ञा च प्राप्ता तेन वसुन्धरे ।।166.२०।।
तत्राश्चर्यं प्रवक्ष्यामि मनःकर्णसुखावहम् ।।
पश्यन्ति मनुजाः सिद्धाः सर्वपापविवर्जिताः ।। २१ ।।
द्वादश्यां च चतुर्दश्यां श्रद्दधाना जितेन्द्रियाः ।।
फलानि तस्य पश्यन्ति लभन्ते न सुनिश्चिताः ।। २२ ।।
तस्मिन्काले ह्यहं देवि मथुरायां समागतः ।।
तत्र तिष्ठाम्यहं भद्रे पश्चिमां दिशमाश्रितः ।। २३ ।।
तत्र कृत्वा च हैरण्या मूर्त्तयश्च चतुर्विधाः ।।
तीर्थे वराहसंज्ञे तु मथुरायां व्यवस्थिताः ।। २४ ।।
सुदृढाः सुदृशः सुभ्रू यः पश्यति स मुच्यते ।।
एका वराहसंज्ञा च तथा नारायणस्य च ।। २५ ।।
वामनस्य तृतीया वै चतुर्थी राघवस्य च ।।
एताश्चतस्रो यः पश्येत्स्नात्वा कुण्डेऽसिसंज्ञिते ।।२६ ।।
चतुःसागरपर्यन्ता क्रान्ता तेन धरा ध्रुवम् ।।
तीर्थानां माथुराणां च सर्वेषां फलमश्नुते ।। २७ ।।
तत्र सर्वेषु तीर्थेषु असिकुण्डं महत्तरम् ।।
या संख्या कथिता पूर्वं तीर्थानां दक्षिणोत्तरे ।। २८ ।।
असिकुण्डं समारभ्य तीर्थानुक्रमणिका वरा ।।
सुप्तोत्थितोऽपि द्वादश्यामसिकुण्डाप्लुतो नरः ।। २९ ।।
मूर्त्तीः पश्यति यस्तास्तु ब्रह्मभूयाय कल्पते ।।
नास्तीह पुनरावृत्तिर्भवेत्कालविपर्यये ।। 166.३० ।।
इति श्रीवराहपुराणे असिकुण्डप्रभावो नाम षट्षष्ट्यधिकशततमोऽध्यायः ।। १६६ ।।