← अध्यायः १६४ वराहपुराणम्
अध्यायः १६५
[[लेखकः :|]]
अध्यायः १६६ →

श्रीवराह उवाच ।।
अतः परं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यथावृत्तं प्रतिष्ठाने दक्षिणापथमण्डले ।। १ ।।
सुशीलो नाम वैश्यस्तु तस्मिन्वसति पत्तने ।।
धनधान्यसमृद्धस्तु बहुपुत्रः कुटुम्बवान् ।। २ ।।
कुटुम्बभरणासक्तो नित्यकालं हि तिष्ठति ।।
स्नानं दानं जपं होमं देवार्चां न करोति सः ।।३।।
क्रयविक्रयसक्तस्य कालो दीर्घो गतस्तदा ।।
कदाचिदपि पापोऽसौ न साधु गमनं गतः ।। ४ ।।
न तेन धर्मश्रवणं कदाचिदपि संश्रुतम् ।।
देवानां ब्राह्मणानां च भक्तिस्तस्य न विद्यते ।। ५ ।।
आत्मोदरनिमित्तं हि पापं च कुरुते सदा ।।
गच्छन्तं बहुकालं च न तं बुध्यति पापकृत् ।। ६ ।।
न तस्य जायते बुद्धिर्दानं दातुं कदाचन ।।
तस्यैवं वसतस्तत्र प्रतिष्ठाने पुरोत्तमे ।। ७ ।।
धनयुक्तोऽपि पापोऽसौ न ददाति कदाचन ।।
नैवान्यमतिदातारं शक्नोति च निरीक्षितुम् ।। ८ ।।
स तु कालेन महता कुटुम्बासक्तमानसः ।।
कदाचिद्दैवयोगेन साध्वीं भार्यां प्रियान्सुतान् ।। ९ ।।
त्यक्त्वा जगाम निधनं प्रेतत्वं समुपागतः ।।
निरुदकेषु देशेषु विच्छायेषु वनेषु च ।। 165.१० ।।
परिभ्रमन्क्षुधाविष्टो मरुदेशं गतोऽपि सः ।।
तत्रैव च कृतावासो बहुकालं स वै वणिक् ।। ११ ।।
कदाचिद्दैवयोगेन तत्र सार्थ उपागतः ।।
तस्य मध्ये तु वणिजो मथुरायां विनिःसृताः ।। १२ ।।
गते सार्थे तु स वणिक् तं वृक्षं समुपाश्रितः ।।
तत्रैव वसति प्रेतो रौद्ररूपो भयानकः ।। १३ ।।
दीर्घदंष्ट्रः सुविकटो ह्रस्वबाहुर्विभीषणः ।।
महाहनुर्विशालाक्षो बिडालसदृशाननः ।। १४ ।।
अथ कालेन बहुना दैवयोगेन भामिनि ।।
तत्राजगाम कश्चित्तु क्रयविक्रयकारकः ।। १५ ।।
तं दृष्ट्वा दूरतः प्रेतश्चातिहर्षेण संयुतः ।।
तत्राजगाम नृत्यन् स इदं वचनमब्रवीत् ।।१६।।
भक्ष्यभूतो ममाद्यत्वं क्व भवान्यातुमिच्छति।।
प्रेतस्य वचनं श्रुत्वा सोऽतिभीतो द्रुतङ्गतः।।१७।।
गच्छन्तं तं गृहीत्वा स प्रेतो वचनमब्रवीत् ।।
मम त्वं विहितो भक्ष्यः स्वयं प्राप्तोऽसि मानव ।।१८।।
मांसं ते भक्षयिष्यामि पिबामि तव शोणितम् ।।
इत्याकर्ण्य वचस्तस्य स वणिग्वाक्यमब्रवीत् ।। १९ ।।
कुटुम्बभरणार्थाय सम्प्राप्तो दुर्गमाटवीम् ।।
वृद्धः पिता मम गृहे माता पत्नी पतिव्रता ।।165.२०।।
मयि सम्भक्षिते रक्षः कुटुम्बं हि मरिष्यति ।।
ततो वचनमाकर्ण्य प्रेतो वचनमब्रवीत् ।। २१ ।।
कस्मात्स्थानात्समायातः सत्यं ब्रूहि महामते ।। २२ ।।
विभुरुवाच ।।
गोवर्द्धनो गिरिवरो यमुना च महानदी ।।
तयोर्मध्ये पुरी रम्या मथुरा लोकविश्रुता ।। २३ ।।
तस्यां वसाम्यहं प्रेत पितृपैतामहे गृहे ।।
तत्र मे वसतो नित्यं यद्द्रव्यं पूर्वसञ्चितम् ।। २४ ।।
तत्सर्वं तस्करैर्नीतं क्षीणवित्तोऽभवं तदा ।।
स्वल्पं वित्तं गृहीत्वा ऽहं समायातो मरुस्थलम् ।। २५ ।।
तव दृष्टिपथं यातो यत्कार्यं तत्कुरुष्व मे ।। २६ ।।
प्रेत उवाच ।।
न त्वां खादितुमिच्छामि कृपा मे जायते त्वयि ।।
समयेन हि मोक्ष्यामि कुरुष्व वचनं मम ।। २७ ।।
निर्वृत्य गच्छ मथुरां मम कार्यार्थसाधकः ।।
तत्र गत्वा त्वया कार्यं यत्कर्तव्यं वदामि तत् ।।२८।।
स्नानं कृत्वा तु विधिवत्कूपे चातुःसामुद्रिके ।।
पिण्डदानं कुरुष्व त्वं मम नाम्ना प्रयत्नतः ।।२९।।
स्नानस्य च फलं देहि ततो गच्छ यथासुखम् ।।
प्रेतवाक्यं ततः श्रुत्वा विभुर्वचनमब्रवीत्।165.३०।।
नाहं यास्यामि मथुरां द्रव्याभावे कथंचन ।।
भक्षयस्व शरीरं मे ततस्तृप्तिमवाप्स्यसि ।।३१।।
प्रेत उवाच ।।
गृहे बहुधनं तेऽस्ति त्वं गच्छ मम सत्कुरु ।।
आस्ते धनमपर्याप्तं गच्छ त्वं मा विलम्बय ।।३२।।
विभुरुवाच ।।
गृहे मम धनं नास्ति यत्त्वया समुदीरितम् ।।
गृहशेषं मम धनं न चान्यत्तत्र विद्यते ।। ३३ ।।
पितृपैतामही कीर्त्तिरविक्रेया हि सा मया ।।
प्रेतः प्रहस्य सानन्दमिदं वचनमब्रवीत् ।। ३४ ।।
अस्ति चैव धनं प्रोक्तं यन्मया त्वद्गृहे विभो ।।
सुवर्णभारो गर्त्तस्थो गृहे तिष्ठति सञ्चितः ।। ३५ ।।
निवर्त्त गच्छ संतुष्टः सुहृदां प्रीतिवर्द्धनः ।।
एवं द्रक्ष्यामि ते मार्गं मथुरा येन गम्यते ।। ३६ ।।
सूत उवाच ।।
वणिग्घृष्टमना भूत्वा पुनर्वचनमब्रवीत् ।।
इमामवस्थां सम्प्राप्य कथं ज्ञानसमुद्भवः ।। ३७ ।।
ततः स कथयामास यद्वृत्तं हि पुरातनम् ।।
प्रतिष्ठाने पुरवरे विष्णोरायतनं महत् ।। ३८ ।।
प्रभातसमये तत्र विष्णोरायतने शुभे ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र समागताः ।। ३९ ।।
वाचकस्तत्र पठति कथां पौराणिकीं शुभाम् ।।
मम मित्रं च तत्रैव नित्यकालं च गच्छति।।165.४० ।।
तस्मिन्काले तु मित्रेण नीतोऽहं विष्णुमन्दिरम्।
अत्यादरेण महता सन्तोष्य च पुनः पुनः ।।४१।।
मित्रेण सह तत्रैव तस्य पार्श्वे व्यवस्थितः ।।
श्रुतो मया ततः कूपः पुण्योऽयं पापनाशनः ।।४२।।
समुद्राः किल तिष्ठन्ति चत्वारोऽत्र समागताः ।।
तस्य कूपस्य माहात्म्यं श्रुतं तत्र महत्फलम् ।। ४३ ।।
वाचकाय ततो दानं दत्तं सर्वैर्महाजनैः ।।
मित्रेण प्रेरितो दाने मया मौनं समाश्रितम् ।। ४४।।
मित्रेण च पुनः प्रोक्तं यथाशक्त्या प्रदीयताम् ।।
तदा मित्रमसङ्गेन दत्तो वै स्वर्णमाषकः ।।४५।।
ततः कालेन महता गतो वैवस्वतक्षयम् ।।
वैवस्वतनियोगेन ततोऽहं पूर्वकर्मभिः ।। ४६ ।।
प्रेतत्वं समनुप्राप्तो दुस्तरं दुर्गमं महत् ।।
न दत्तं न हुतं चापि तीर्थं नैवावगाहितम् ।।४७।।
न तर्पितास्तु पितरः प्राप्तोऽहं प्रेततां ततः ।।
इत्येत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।। ४८ ।।
गच्छ त्वं सम्मुखस्तत्र यत्र सा मथुरा पुरी ।।
प्रेतस्य वचनं श्रुत्वा विभुर्वचनमब्रवीत् ।। ४९ ।।
कथं धारयसे प्राणान्वृक्षमूलं समाश्रितः ।। 165.५० ।।
प्रेत उवाच ।।
कथितं हि मया पूर्वं यद्वृत्तं हि पुरातनम् ।।
वाचकाय तु यद्दत्तं सुवर्णस्य च माषकम् ।। ५१ ।।
तद्दानस्य प्रभावेण नित्यं तृप्तोऽस्मि वै विभो ।।
अकामेन मया दत्तं तस्येदं कर्मणः फलम् ।। ५२ ।।
प्रेतभावं गतस्यापि न मे ज्ञानस्य विभ्रमः ।।
ततश्च स वणिक्श्रेष्ठ आगत्य मथुरां पुरीम् ।। ५३ ।।
कृतं तेन च तत्सर्वं यथा प्रेतेन भाषितम् ।।
प्रेतोऽसौ तेन कृत्येन मुक्तिं प्राप्य दिवं गतः ।।५४।।
एतत्ते कथितं भूमे माहात्म्यं मथुराभवम् ।।
चतुःसामुद्रिके कूपे पिण्डदाने परां गतिम् ।।९५।।
तीर्थे चैव गृहे वापि देवस्थानेऽपि चत्वरे ।।
यत्र तत्र मृता देवि मुक्तिं यान्ति न चान्यथा ।। ५६ ।।
अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ।।
तीर्थे तु यत्कृतं पापं वज्रलेपो भविष्यति ।। ५७ ।।
मथुरायां कृतं पापं तत्रैव च विनश्यति ।।
एषा पुरी महापुण्या यस्यां पापं न विद्यते ।। ५८ ।।
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा ।।
मथुरां प्राप्य मनुजो मुच्यते सर्वकिल्बिषैः ।। ५९ ।।
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।।
तस्याधिकं भवेत्पुण्यं मथुरायां निवासिनः ।। 165.६० ।।
परदाररता ये च ये नरा अजितेंद्रियाः ।।
मथुरावासिनः सर्वे ते देवा नरविग्रहाः ।। ६१ ।
बलिभिक्षाप्रदातारस्ते मृताः क्रोधवर्जिताः ।।
तीर्थस्नानरता ये च देवास्ते नरमूर्तयः ।। ६२ ।।
यदन्येषां सहस्रेण ब्राह्मणानां महात्मनाम् ।।
एकेन पूजितेन स्यान्माथुरेणाखिलं हि तत् ।।६३।।
अनृग्वै माथुरो यत्र चतुर्वेदस्तथापरः ।।
न च वेदैश्चतुर्भिः स्यान्माथुरेण समः क्वचित् ।।६४।।
भवन्ति सर्वतीर्थानि पुण्यान्यायतनानि च ।।
मङ्गलानि च सर्वाणि यत्र तिष्ठन्ति माथुराः ।। ६५ ।।
चतुर्वेदं परित्यज्य माथुरं पूजयेत्सदा ।।
सिद्धा भूतगणाः सर्वे ये च देवगणा भुवि ।। ६६ ।।
मथुरावासिनो लोकान्पश्यन्ति च चतुर्भुजान् ।।
मथुरायां ये वसन्ति विष्णुरूपा हि ते नराः ।। ६७ ।।
ज्ञानिनस्तान्हि पश्यन्ति अज्ञाः पश्यन्ति तान्न च ।। ६८ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये कूपप्रभावे ब्राह्मणमाहात्म्यं नाम पंचषष्ट्यधिकशततमोऽध्यायः ।। १६५ ।।