← अध्यायः १६८ वराहपुराणम्
अध्यायः १६९
[[लेखकः :|]]
अध्यायः १७० →

श्रीवराह उवाच ।।
मथुरायाः परं क्षेत्रं त्रैलोक्ये न च विद्यते ।।
तस्यां वसाम्यहं देवि मथुरायां च सर्वदा ।। १ ।।
सर्वेषामेव तीर्थानां मथुरा च परं महत् ।।
कृष्णेन क्रीडितं तत्र तच्छुद्धं हि पदे पदे ।। २ ।।
चक्रस्थितं हि तत्सर्वं कृष्णस्यैव पदेन तु ।।
तत्र मध्यं तु तत्स्थानमर्द्धचन्द्रे प्रतिष्ठितम् ।। ३ ।।
तत्रैव वासिनो लोका मुक्तिं यान्ति न संशयः ।।
कृष्णस्य दक्षिणा कोटिरुत्तरा कोटिमध्यतः ।।४।।
तयोर्मध्ये स्थितो देव आकारात्सोमचक्रता ।।
तौ देवौ क्षेत्रफलदौ स्नानदानादिकर्मणि ।। ९ ।।
तस्माद्धि मरणं चात्र द्वे कोटी सर्वकर्मसु ।।
अर्द्धचन्द्रे तु यः स्नानं करोति नियताशनः ।। ६ ।।
तेन वै चाक्षया लोकाः प्राप्ताश्चैव न संशयः ।।
दक्षिणस्यां समारभ्य उत्तरस्यां समापयेत् ।।
यज्ञोपवीतमात्रेण त्रायन्ते च कुलं बहु ।। ७ ।।
पृथिव्युवाच ।।
यज्ञोपवीत मात्राया विधानं कीदृशं प्रभो ।। ८ ।।
यथामानं हि कर्तव्यं तत्सर्वं वक्तुमर्हसि ।।
श्रीवराह उवाच ।।
यज्ञोपवीतस्य विधिं शृणुष्व वरवर्णिनि ।। ९ ।।
दक्षिणस्यां समारभ्य उत्तरस्यां समापयेत् ।।
यज्ञोपवीतस्य विधिरेष एव प्रकार्तितः ।। 169.१० ।।
मनुजा येन विधिना मुक्तिं यान्ति न संशयः ।।
अनेन विधिना चैव उत्तरस्यां समापयेत् ।।
गृहान्निःसृत्य मौनेन यावत्स्नानं समाचरेत् ।। ११ ।।
पूजां कृष्णस्य कृत्वा वै ततो ब्रूयाद्वसुन्धरे ।।
स्नाने समाप्ते विधिवद्देवदेवस्य चैव हि ।। १२ ।।
कृष्णस्य कृत्वा तु मखं स्नानादीनि यथाक्रमम् ।।
गां वै पयस्विनीं दत्त्वा हिरण्यं वसु चैव हि ।।१३।।
ब्राह्मणान्भोजयेत्पश्चाद्विधिरेष उदाहृतः ।।
तथा शयनमुद्दिश्य एवमेवं तु कारयेत् ।। १४ ।।
न तस्य पुनरावृत्तिर्मम लोके महीयते ।।
अर्द्धचन्द्रे मृता देवि मम लोकं व्रजन्ति ते ।।१५।।
अन्यत्र तु मृता ये च अर्धचन्द्रकृतक्रियाः ।।
तेऽपि स्वर्गं गमिष्यन्ति दाहादिकरणैर्युताः ।।१६।।
यावदस्थीन्यर्द्धचन्द्रं यस्य तिष्ठन्ति देहिनः ।।
तावत्सुपुण्यकर्त्ता च स्वर्गलोके महीयते ।।१७।।
अर्द्धचन्द्रे विशेषोऽस्ति तीर्थे विश्रान्तिसंज्ञके ।।
दाहादिकरणे तत्र गर्दभोऽपि चतुर्भुजः ।।१८।।
गर्त्तेश्वरोऽथ भूतेशो द्वे कोटी तु वसुन्धरे ।।
मध्ये सदैव तिष्ठामि न त्यजामि कदाचन ।।१९।।
माथुराणां च यद्रूपं तद्रूपं मे वसुन्धरे ।।
माथुरेण तु तृप्तेन तृप्तोऽहं नात्र संशयः ।।169.२० ।।
शृणु देवि यथावृत्तं गरुडस्य महात्मनः ।।
मथुरामागतो योऽसौ कृष्णदर्शनकांक्षया ।।
मथुरायां स्थितं देवं भिन्नरूपं न पश्यति ।।२१ ।।
तदा गतोऽसौ वसुधे देवस्याग्रे विहंगमः ।।
कृष्णस्य दर्शनार्थाय दिव्यं स्तोत्रमुदीरयन् ।। २२ ।।
गरुड उवाच ।।
विश्वरूप जयादित्य जय विष्णो जयाच्युत ।।
जय केशव ईशान जय कृष्ण नमोऽस्तु ते।।२३।।
जय मूर्त जयाचिन्त्य जय लोकविभूषण ।।
इत्येवं संस्तुतो देवो गरुडेन महात्मना ।।२४।।
गरुडस्य पुरस्तत्र स्थितो देवः शरीरवान् ।।
सान्त्वयामास गरुडं प्रीतिपूर्वमुवाच ह ।।२५।।
किं कुर्यात्स्तोत्रमेतन्मे किं वा तव चिकीर्षितम् ।।
मथुरागमकृत्ये ते सर्वं ब्रूहि ममाग्रतः ।। २६ ।।
गरुड उवाच ।।
मथुरामागतश्चाहं तव दर्शनकांक्षया ।।
आगते तु मया देव न दृष्टं तव रूपकम् ।।२७।।
माथुरैरेव लोकैस्तु समं दृष्टं हि रूपकम् ।।
एकीभूतमहं सर्वं दृष्ट्वा मां मोह आविशत् ।।२८।।
तस्मात्स्तुतिस्तु देवेश कृतानुग्रहकाम्यया ।।
गरुडस्य वचः श्रुत्वा प्रहस्य मधुसूदनः ।। २९ ।।
उवाच श्लक्ष्णया वाचा गरुडं प्रति भाविनि ।।
श्रीकृष्ण उवाच ।।
माथुराणां च यद्रूपं तद्रूपं मे विहंगम ।।169.३०।।
ये पापास्ते न पश्यन्ति मद्रूपा माथुरा द्विजाः ।।
एवमुक्त्वा ततः कृष्णस्तत्रैवान्तरधीयत ।।३१।।
गरुडोऽपि ततः स्थानाद्गतो देवि यथासुखम् ।।
एतत्ते कथितं देवि माथुराणां तु रूपकम् ।।३२।।
येषां पूजितमात्रेण तुष्टोऽहं चैव सर्वदा ।।
मथुरायां मृता ये च मुक्तिं यान्ति न चान्यथा ।।३३।।
अपि कीटः पतंगो वा तिर्यग्योनिगतोऽपि वा ।।
चतुर्भुजास्तु ते सर्वे भवन्तीति विनिश्चितम् ।।३४।।
यः पश्येत्पद्मनाभं तु द्वादश्यामाश्विनस्य तु ।।
एकदेहधरौ देवौ शिवकेशवरूपिणौ ।।३५।।
एकादश्यां चोपवासी कृतशौचः समाहितः ।।
कालिन्द्यां तु नरः स्नातो मुंचते योनिसंकटात् ।। ३६ ।।
चैत्रस्य शुक्लद्वादश्यामुपोष्य स्नानमाचरेत् ।।
चिन्ताविष्णुं समभ्यर्च्य कृत्वा वै जागरं निशि ।। ३७ ।।
यः करोति स मुच्येत नात्र कार्या विचारणा ।।
एकानंशां ततो देवीं यशोदां देवकीं तथा ।।३८।।
महाविद्येश्वरीं देवि मुच्यते ब्रह्महत्यया ।।
या धारा धर्मराजस्य मथुरायाश्च पश्चिमे ।।३९।।
स्नानं करोति तस्यां तु ग्रहदाषैर्न लिप्यते ।।
यं यं देवमभिध्यायेद्भक्तियुक्तेन चेतसा ।। 169.४० ।।
विश्रान्तिसंज्ञकं दृष्ट्वा दीर्घविष्णुं च केशवम् ।।
सर्वेषां दर्शनं पुण्यं पूजनात्तु फलं भवेत् ।। ४१ ।।
इति जपविधिहोमध्यानकाले स सम्यक्सततमभिसमीक्ष्य ब्रह्मणा यत्प्रयुक्तम् ।।
सकलगुणगणानामास्पदं ब्रह्मसंज्ञं जननमरणहीनं विष्णुमेवाभियाति ।। ४२ ।।
इति श्रीवराहपुराणे प्रागितिहासे मथुरामाहात्म्यं नामैकोनसप्तत्यधिकशततमोऽध्यायः ।।१६९।।