प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १६९ वराहपुराणम्
अध्यायः १७०
[[लेखकः :|]]
अध्यायः १७१ →

श्रीवराह उवाच ।।
पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
मथुरायां पुरा वृत्तं गोकर्णस्य महात्मनः।।
वसुकर्णः पिता तस्य वैश्यो धनसमृद्धिमान् ।। १ ।।
तस्य भार्या सुशीला तु नाम्ना गुणसमन्विता ।।
भर्त्तुः प्रियकरी साध्वी न प्रसूता वयोऽधिका ।।२।।
विललाप च सुश्रोणि चैकान्ते दीनमानसा ।।
सरस्वती संगमेऽथ स्त्रियो दृष्ट्वा प्रजावतीः ।। ३ ।।
वृक्षमूले तु तत्रैव मुनिरेकः समास्थितः ।।
तस्या विलपितं श्रुत्वा शनैः सकरुणं हृदि ।। ४ ।।
जात हार्दः प्रियं चेष्टं शनैः स्त्रियमथाब्रवीत् ।।
का त्वं कस्यासि सुभगे किमर्थं रोदिषि स्वयम् ।।९।।
इति तस्य वचः श्रुत्वा सा स्त्री ऋषिमथाब्रवीत् ।।
सापत्यास्तु स्त्रियो दृष्ट्वा क्रीडन्त्यो बालकैः सह ।। ६ ।।
मम तन्नास्ति हि मुने दुर्भगायाः प्रजासुखम् ।।
उवाच मुनिशार्दूलस्तां स्त्रियं पुत्रगर्द्धिनीम् ।। ७ ।।
देवतायाः प्रसादेन तव पुत्रो भविष्यति ।।
शिवस्यायतनं पुण्यं गोकर्णेति च विश्रुतम् ।। ८ ।।
तमाराधय देवेशं पत्या सह यशस्विनि ।।
स्नानदीपोपहारेण स्तोत्रैर्नानाविधैर्जपैः ।।९।।
इत्युक्ता सा च सुश्रोणी प्रणिपत्य प्रसाद्य तम् ।।
भर्त्रे सा कथयामास यदुक्तं मुनिना प्रियम् ।। 170.१० ।।
स तद्वचनमाकर्ण्य प्रीतियुक्तं सुसंयुतम् ।।
जगादोच्चैः प्रियां देवि भद्रं जातो मनोरथः ।। ११ ।।
ममाप्येतन्मतं देवि यदुक्तमृषिणा ततः ।।
इति प्रियां समाभाष्य प्रियया च तथाऽकरोत् ।। १२ ।।
सरस्वत्याः संगमे तौ स्नात्वा गोकर्णमर्चतुः ।।
पुष्पदीपोपहारं तु चक्राते तौ दिनेदिने ।। १३ ।।
एवं तयोर्दशाब्दानि गतानि सुतहेतवे ।।
ततः प्रसन्नो भगवानुमापतिरुवाच ह ।। १४ ।।
भविष्यति युवां पुत्रो रूपवान्गुणसंयुतः ।।
सस्यसन्ततिवद्दृश्यः सन्तानो यस्य वै बहु ।। १५ ।।
देवतानां प्रसादेन तदुक्तस्य भविष्यति ।।
इत्युक्तौ तौ तु देवेन स्नानं कृत्वा सरस्वतीम् ।। १६ ।।
प्रभाते देवदेवाय ददौ द्रव्यमनन्तकम् ।।
ब्राह्मणेभ्यो ददौ भोज्यं वस्त्राय बहुदक्षिणम् ।। १७ ।।
ततस्तस्यां सुशीलायां गर्भाधानमविन्दत ।।
ततः प्रववृधे गर्भः शुक्लपक्षे यथा शशी ।।
सुषुवे दशमे मासि पुत्रं बालं शशिप्रभम् ।। १८ ।।
गोसहस्रं तदा दत्त्वा ससुवर्णं सवस्त्रकम् ।।
बहुशः सर्ववर्णेभ्यः पुत्रजन्ममहोत्सवे ।। १९ ।।
जातकर्म तथा चैव नामकर्म चकार च ।।
गोकर्णं नाम तस्यैव पिता चक्रे निरूप्य च ।। 170.२० ।।
एवमन्नप्राशनं च चूडोपनयनं तथा ।।
अतःपरं च गोदानं वैवाहिकमनुत्तमम् ।। २१ ।।
दानं तु ददतस्तस्य देवतां पूजयिष्यतः ।।
कृतानि बहुमुख्यानि मंगलानि यथाविधि ।। २२ ।।
ततः प्रविष्टे तारुण्ये त्वप्रजं वीक्ष्य पुत्रकम् ।।
पुनर्विवाहयामास भार्याणां च चतुष्टयम् ।।२३।।
वयोरूपगुणोपेतास्तस्य भार्याः सुलोचनाः ।।
अप्रजा एव ताः सर्वा नाभवत्पुत्रिणी क्वचित् ।। २४ ।।
तेनैव धर्म आरब्धः प्रजार्थो देवसेवनम् ।।
वापीकूपतडागानि देवतायतनानि च ।। २९ ।।
प्रपामालाश्च नित्यान्नं भोजनं वर्त्तनानि च ।।
अनित्यतां ततो मत्वा चंचलाऽस्थिरजीवितम् ।। २६ ।।
विनियोगः कृतस्तेन सर्वदा सर्वकर्मसु ।।
गोकर्णस्य समीपे तु पश्चिमे चक्रपाणिनः ।।२७।।
प्रासादं कारयामास पंचायतनकं हरेः ।।
आरामस्तत्र विस्तीर्णः पुष्पजात्यस्तथैव च ।।२८ ।।
आम्रजम्बीरनारङ्गं बीजपूरः सदाडिमः ।।
प्राकारं कारयामास परिखामण्डलीयकम् ।। २९ ।।
प्रावर्त्तनं च कूपेषु येन सिंचेत्प्रवाटिकाम् ।।
पुष्पाणि च विचिन्वंति सर्वास्ता वरयोषितः ।। 170.३० ।।
स्नानं पूजादिकं तद्वन्मार्जनं दीपकर्म च ।।
कुर्वन्ति देवतागारे ताः सर्वाः शुभलोचना ।। ३१ ।।
पतिव्रता महाभागाश्चतुरो भगिनीर्यथा ।।
नित्यकालं पतेर्वाक्ये स्थिताः कुर्वन्त्यहर्निशम् ।। ३२ ।।
मालाकारस्तथा नित्यं विटपांश्च प्रसिंचति ।।
पालयामास विधिवद्विधिदृष्टेन कर्मणा ।। ३३ ।।
जाताः सुपुष्पवन्तश्च द्रुमाः फलसमन्विताः ।।
नित्यकालं त्वर्पयन्तः फलानां सुमहोत्सवम् ।। ३४ ।।
दीयते भुज्यते सर्वैर्यथा शक्रस्तथा सदा ।।
एवं तु वसतस्तस्य मथुरायां स्थितस्य च ।। ३५ ।।
धनस्य संक्षयो जातः प्रत्यहं ददतः सतः ।।
शेषमात्रे धने तस्य चिन्ताभून्महती तदा ।। ३६।।
मातापित्रोः कुटुम्बस्य भरणीयस्य भोजनम् ।।
कथं ब्रूहि करिष्यामि महाकष्टं तु सोऽब्रवीत् ।। ३७ ।।
इति निश्चित्य मनसा वणिग्भावं हृदि स्थिरम् ।।
कृत्वा सार्थमुपामन्त्र्य निर्गतः पूर्वमण्डलम् ।। ३८ ।।
तत्र क्रीत्वा सुपण्यानि उत्तरापथगानि च ।।
यातायातं ततः कृत्वा लाभालाभविचक्षणः ।।३९ ।।
क्रीत्वा क्रेयानि वस्तूनि लाभालाभं विचार्य च ।।
उत्तरापथदेशात्तु सार्थं सबहुविस्तरम् ।। 170.४० ।।
मणिरत्नं ह्यश्वरत्नं पट्टरत्नं समर्थकम् ।।
गृहीत्वा तु समागच्छन्मथुरायां गृहं प्रति ।। ४१ ।।
एकदा सार्थसम्भारो विश्रान्तुमुपचक्रमे ।।
सानौ पर्वतसामीप्ये प्रभूतयवसोदके ।। ४२ ।।
नद्यास्तीरे सुप्रदेशे आवासांश्च प्रचक्रिरे ।।
निवेश्य भाण्डं तत्रैव अश्वानां यवसादिकम् ।। ४३ ।।
समादिश्येतिकृत्यं च भृत्यैः कतिपयैर्वृतः ।।
समारुरोह तं शैलं बहुकन्दरशोभितम् ।। ४४ ।।
क्रीडार्थं विहरंस्तत्र सोऽपश्यत् स्थानमुत्तमम् ।।
प्रसन्नसलिलोपेतं नारङ्गैस्तु विभूषितम् ।। ४५ ।।
फलवन्तश्च वृक्षाश्च पुष्पाणि सुरभीणि च ।।
पाषाणसन्धौ तत्रस्थैर्मालाकारैस्तु रोपितम् ।। ४६ ।।
तत्रारुह्य दरीद्वारं यावद्दृष्टिर्निपात्यते ।।
तावदभ्यागतादीनि स्वागतादि शृणोति च ।। ४७ ।।
श्रुत्वापि शब्दप्रभवं किमेतदिति निश्चयम् ।।
करिष्यंस्तत्र चैकान्ते दृष्टः पञ्जरगः शुकः ।। ४८ ।।
तेनोक्तं भो इहागच्छ आतिथ्यं करवाणि ते ।।
पाद्यं गृहाण भोः पान्थ आसनं ते इदं शुभम् ।। ४९ ।।
फलानीमानि स्वादूनि मधुमांसोदकानि च ।।
यथेष्टं यावतीच्छा च तावद्गृह्णन्त्विमे नराः ।। 170.५० ।।
आगत्य पितरौ मह्यं विशेषं तौ करिष्यतः ।।
अतिथेरागतस्येह पूजाया विमुखो भवेत् ।। ५१ ।।
गृहस्थस्तस्य पितरो वसन्ति नरके ध्रुवम् ।।
पूजिते पूजिताः स्वर्गे मोदन्ते कालमक्षयम् ।। ५२ ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रव्रजते यदि ।।
आत्मनो दुष्कृतं तस्मै दत्त्वा तत्सुकृतं हरेत् ।। ५३ ।।
तस्मात्सर्वप्रयत्नेन पूज्यो वै गृहमेधिना ।।
काले प्राप्तस्त्वकाले वा यथा विष्णुस्तथैव सः ।। ५४ ।।
एवंविधाः शुभा वाचो वैश्यो धर्मोपदेशकात् ।।
श्रुत्वा शुकात्स सर्वस्मै गोकर्णो मुदितोऽब्रवीत् ।। ५५ ।।
ऋषिः कस्त्वं पुराणज्ञः किं वा देवोऽथ गुह्यकः ।।
तव प्रसन्नरूपस्य यस्येयं वागमानुषी ।। ५६ ।।
कस्त्वं कथय मे सत्यमुत्साहश्चातिथिप्रियः ।।
धन्यः स मानुषो यस्य नित्यं सन्निहितो भवान् ।। ५७ ।।
इत्युक्तः स शुकः सर्वं शशंसात्मपुराकृतम् ।।
शृणु रौद्रं यथा पूर्वे मया कृतमबुद्धिना ।। ५८ ।।
शुकस्य विप्रियं यादृङ् महर्षेस्तु तपस्यतः ।।
सुमेरोरुत्तरे पार्श्वे महर्षिगणसेविते ।। ५९ ।।
तपश्चचार विपुलं शुको व्याससुतो महान् ।।
श्रोतुकामाः पुराणानि सेतिहासानि नैगमाः ।। 170.६० ।।
ऋषयस्तत्र चाजग्मुरसितो देवलस्तदा ।।
मार्कण्डेयो भरद्वाजो यवक्रीतस्ततो भृगुः ।। ६१ ।।
अङ्गिरास्तैत्तिरी रैभ्यः काण्वो मेधातिथिः कृतः ।।
तन्तुः सुतन्तुरादित्यो वसुमानेकतो द्वितः ।। ६२ ।।
वामदेवश्चाश्वशिरास्त्रिशीर्षो गौतमोदरः ।।
अन्ये च सिद्धा देवाश्च पन्नगा गुह्यकास्तथा ।। ६३ ।।
शुकं सम्मुखयामासुः पप्रच्छुर्द्धर्मसंहिताम् ।।
अहं तु वामदेवस्य शिष्यो नाम्ना शुकोदरः ।। ६४ ।।
भ्रष्टः श्रद्धान्वितो बाल्यात्सुनीत्यामग्रतश्चरन् ।।
ऊहापोहकरं प्रश्नं वारंवारं च पृष्टवान् ।। ६५ ।।
अन्यायवादिनं मां च गुरुर्नित्यं निषेधति ।।
गुरूणामग्रतो वाक्यं कथायां वदतां सह ।। ६६ ।।
पूर्वपक्षाश्च सिद्धान्ताः परस्परजिगीषवः ।।
अन्तरे चान्तराक्षेपं पुनर्नैवमवोचथाः ।।६७ ।।
एवं निषेधितश्चाहं गुरुणा मुनिसत्तमैः ।।
न कृतं यन्मया वाक्यं तेनाहं शपितस्तदा ।।६८।।
शुकेन कोपाच्छापो मे दत्तोऽयं जल्पको बटुः ।।
यथानामा त्वयं पक्षी शुको भवति नान्यथा ।।६९।।
इत्युक्तमात्रे वचने तत्रैवाहं शुकोदरः ।।
शुकत्वं तत्क्षणात्प्राप्तः क्षमस्वेत्यूचु तेजसा ।।170.७०।।
मुनयस्तं महात्मानं शुकं तत्त्वार्थवित्तमम् ।।
नान्यथा नान्यथा चोक्तं कदाचित्त्संभविष्यति ।। ७१ ।।
आगामिकाले दास्यामि वरमस्मै शुकाय भो।।
युष्माकमुपरोधेन यथारूपो विहङ्गमः ।।७२।।
अयं भविष्यति सदा सद्भावहितभावनः।।
पुराणतत्त्ववेत्ता च सर्वशास्त्रार्थपारगः।।७३।।
मथुरायां मृतः पश्चाद्ब्रह्मलोकं गमिष्यति ।।
एवं शापं वरं गृह्य तस्माद्दीनो ह्यहं द्रुतम् ।।७४।।
मथुरामथुरोच्चारं कुर्वन्नित्यमतन्द्रितः।।
नित्योद्विग्नश्च मे गात्रे हिमाद्रौ तु गुहां वसन् ।। ७५ ।।
प्राप्तोऽहं शबरेणैव येनाहं पञ्जरे धृतः ।।
शबरस्तु सभार्यो वै क्रीडते स मया सह ।।७६।।
मुनेः प्रसादान्मे ज्ञानं न जहाति कदाचन ।।
भुज्यते ह्यवशेनैव कृतं येन यथा च यत् ।।७७।।
स्वस्थो भव महाभाग मा स्म शोके मनः कृथाः ।।
इत्युक्तः स तु गोकर्णस्तदा तेन शुकेन च ।।७८।।
तस्य तद्वचनं हृद्यं शुकमोक्षप्रदायकम् ।।
या सा मुक्तिप्रदा रम्या मधुरा पापनाशिनी।।७९।।
तस्यां वसाम्यहं भद्र वाणिज्यार्थमिहागतः ।।
पुनरिच्छामहे तत्र भाण्डं गृह्य यथासुखम् ।170.८०।।
मथुरावासिनं श्रुत्वा गोकर्णं स शुकस्तदा ।।
पुत्रं संस्थाप्य चात्मानं गोकर्णस्य यथेप्सितम् ।।८१।।
एवं च वदतस्तस्य शबरी शयनोत्थिता ।।
दर्पान्निर्गत्य तु बहिर्ददर्शासनसंस्थितम् ।। ८२ ।।
भृत्यैः परिवृतं चारुदर्शनीयस्वरूपकम् ।।
निरीक्ष्य बहुशस्तत्र शुको वचनमब्रवीत् ।। ८३ ।।
प्रियातिथिं च संप्राप्तं मातः पूज्यतमं शुचिम् ।।
कुरु पूजां यथार्हं च गोकर्णस्य वरातिथेः ।। ८४ ।।
शुकस्य वचनाद्यावत्पूजार्थमुपकल्पितम् ।।
न ददाति ततस्तत्र वनाच्छबर आगतः ।। ८५ ।।
तस्याग्रे तु पुनस्तेन शुकेनातिथिपूजनम् ।।
शंसितं स तथेत्युक्त्वा कृत्वा पूजां प्रणम्य च ।। ८६ ।।
फलानि मांसयुक्तानि मधूनि सुरभीणि च।।
संपाद्य संविदं कृत्वा वद किङ्करवाणि ते ।। ८७ ।।
इत्युक्तः शबरेणाथ गोकर्णो वाक्यमब्रवीत् ।।
अन्यत्किंचिदथो देयं यदि किंचिद्ददासि च ।। ८८ ।।
शुकोऽयं पञ्जरस्श्चश्च पुत्रार्थं मे प्रदीयताम् ।।
मथुरायां गमिष्यामि कृतार्थः पितुरन्तिके ।। ८९।।
इत्युक्तमात्रे वचने शबरो वाक्यमब्रवीत् ।।
अस्माकं यमुनास्नानं सङ्गमे यमुनाम्भसः ।।170.९०।।
सरस्वत्याः फले चैव दत्ते दास्यामि ते शुकम् ।।
शबरेणैवमुक्तस्तु गोकर्णः प्रत्यभाषत ।।९१।।
सरस्वत्याः सङ्गमे च यत्फलं लभते नरः ।।
स्नानेन किं फलं तस्य यदि जानासि तद्वद ।।९२।।
शबर उवाच ।।
शुकेनानेन मे सर्वं मथुरायाश्च यत्फलम् ।। ९३ ।।
यत्फलं सङ्गमस्योक्तं शृणुयाद्द्वादशीव्रतम् ।।
वियोनिस्थो राक्षसो वा तिर्यग्योनिं गतस्य वा ।। ९४ ।।
यमुद्दिश्य व्रतं कुर्यात्स गच्छेत्परमां गतिम् ।।
सङ्गमस्य फलं तस्य दृष्ट्वा गोकर्णमीश्वरम् ।।९५।।
नासौ यमपुरं याति विष्णुलोकं च गच्छति ।।
एवं मया श्रुतं तस्य सङ्गमस्य महाफलम् ।। ९६ ।।
इति श्रीवराहपुराणे गोकर्णसरस्वतीमाहात्म्ये सप्तत्यधिकशततमोऽध्यायः ।। १७० ।।