प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७० वराहपुराणम्
अध्यायः १७१
[[लेखकः :|]]
अध्यायः १७२ →

श्रीवराह उवाच ।।
शुकं गृह्य ततः स्थानात्प्रस्थितो मथुरां पुरीम् ।।
प्रविश्य गृह्य तत्पुण्यं मातापित्रोस्तदर्पितम् ।। १ ।।
शुकस्य चरितं सर्वं निवेद्य च महामतिः ।।
एवं निवसतस्तस्य बहुवर्षाणि तत्र वै ।। २ ।।
सुखं प्राप्तं मतं चापि व्यवहारे च पूजने ।।
एवं निवसतस्तस्य द्रव्यं शेषमजायत ।।३।।
पुनस्तत्रैव गमने वणिग्भावे मतिर्गता ।।
समुद्रयाने रत्नानि महामौल्यानि साधुभिः ।।४।।
आनयिष्ये बहून्यत्र सार्धं रत्नपरीक्षकैः ।।
एवं निश्चित्य मनसा महासार्थपुरःसरः ।।
समुद्रयायिभिर्लोकैः संविदं प्रोच्य निर्गतः ।। ५ ।।
पेयाहार समाहारं कृत्वा कृत्यविदार्थकम् ।।
शुकं गृहीत्वा प्रस्थानमकरोत्पुण्यवासरे ।। ६ ।।
मातापित्रोः शुभा वाचो गृहीत्वा देवतागृहे ।।
भार्याणां देवकार्यं च वाटिकायाश्च पोषणम् ।। ७ ।।
पितुः शुश्रूषणं चोक्त्वा सर्वं यूयं करिष्यथ ।।
यथायोगं यथाकालं यथाकृत्यं यथा च यत् ।। ८ ।।
भवतीभिश्च कृत्यं मे करणीयं यथा तथा ।।
सन्दिश्य भार्याः सुश्रोणीर्देवं दृष्ट्वा प्रसाद्य च ।। ९ ।।
भार्याभिः समनुज्ञातो यानपात्रं गतस्तदा ।।
शुकेन सह संप्राप्तो महान्तं लवणार्णवम् ।। 171.१० ।।
पोतारूढास्ततः सर्वे पोतवाहैरुपोहिताः ।।
अपारे दुस्तरेऽगाधे यान्ति वेगेन नित्यशः ।। ११ ।।
अथ दैववशाद्वायुर्विलोमः समजायत ।।
दुर्वातेन तदा नित्यं बलात्पोत उपोहितः ।।
पोतवाहास्ततः सर्वे विसंज्ञा मोहिताः कृशाः ।। १२।।
हा कष्टं हि कथं किञ्च कुत्र गच्छामहे वयम् ।।
तेषां तु वचनं श्रुत्वा ज्ञात्वा दुर्वातपीडनम् ।।
आक्षिपद्वाग्भिरुग्राभिरन्योन्यं शङ्क्य मूर्च्छिताः ।। १३ ।।
जल्पन्ति कोऽत्र पापिष्ठः समारूढो निराकृतः ।।
तस्य पातकसंस्पर्शान्मृताः सर्वे न संशयः ।। १४ ।।
एवं विलपतां तेषां चत्वारोऽपि समभ्ययुः ।।
मासास्तत्रैव वाणिज्यं षण्मासात्सिध्यते फलम् ।। १५ ।।
निर्भर्त्सनं ततस्तेषामन्योन्यमभिजल्पनम् ।।
श्रुत्वा शुकस्य गोकर्णः शशंसात्मविनिन्दनम् ।। १६ ।।
अपुत्रस्य गतिर्नास्ति इति सर्वस्य निश्चितम् ।।
एषां मध्ये ह्यहं पापस्तेन तप्यामि पुत्रक ।। १७ ।।
यदत्र युक्तं कालेऽस्मिन्विषमे समुपस्थिते ।।
वद स्वाध्यायषाड्गुण्यं कृच्छ्रे त्वं कार्यवित्तमः ।। १८ ।।
शुक उवाच ।।
मा जोषमास्व भैस्तात अस्मिन्काले यथोचितम् ।।
अहं करिष्ये तत्सर्वं मा विषादे मनः कृथाः ।। १९ ।।
एवमाश्वास्य पितरं समुड्डीय ततो द्रुतम् ।।
ध्रुवाख्यां दिशमुद्वीक्ष्य उत्तराभिमुखो ययौ ।। 171.२० ।।
नीचगत्या रक्षयन्वै सुतरं दुस्तरं जलम् ।।
सानौ पर्वतसामीप्ये योजनेन वरं गिरिम् ।। २१ ।।
रोमांचिततनुर्जातः शुको वीक्ष्य महागिरिम् ।।
क्रमित्वोर्द्ध्वं च यात्युग्रं तावद्देवालयं शुभम् ।।२२।।
दृष्टं च विष्ण्वायतनं तेजसा चोपशोभितम् ।।
दिक्षु सर्वास्वटित्वैवं निलिल्ये देवमन्दिरे ।।। २३ ।।
वत्साऽयं कोऽत्र संचारी कदा किं तु पिता मम ।।
वितरिष्यति नो कालं दुरन्तं सुकृतिर्यथा ।। २४ ।।
क्षणमेकं तथा चैनं तस्य चिन्तान्वितस्य हि ।।
सौवर्णपात्रहस्ता च देवी देवं समर्च्चयत् ।। २५ ।।
नमो नारायणायोक्त्वा निषसाद वरासने ।।
निमेषान्तरमात्रेण वयोरूपसमन्विताः ।।
असंख्याताः समायाता यथा देवी तथैव ताः ।। २६ ।।
गीतं वाद्यं च नृत्यं च यथासौख्यं विहृत्य च ।।
गतास्ता देवताः सर्वा यथास्थानमनुत्तमम् ।। २७ ।।
देवतादक्षिणे भागे पक्षिणां च जटायुषाम् ।।
लक्ष्यान्यनेकयूथानि बृहन्ति बहु सङ्घशः ।। २८ ।।
शुको लेख्यसमस्तेषां मध्ये कृत्वा तु संविदम् ।।
स्वभाषां पुरतः कृत्य शरणं तमयाचत ।। २९ ।।
ते समाश्वास्य तं प्राहुः कथमस्मिन्भवान्गतः ।।
वारिराशिर्दुराधर्षः समुद्रो झषसंकुलः ।। 171.३० ।।
शुकस्तान्प्रत्युवाचाथ पिता मे पोतसंस्थितः ।।
दुर्गवाताद्दुर्गमस्थो विषमे समुपस्थिते ।। ३१ ।।
तस्य त्राणमभीप्सन्वै ह्यागतोऽत्र वरं गिरिम् ।।
कुरुध्वं तस्य मे त्राणं यथा सुखमवाप्यते ।। ३२ ।।
पक्षिण ऊचुः ।।
एहि पुत्र सुकार्यं ते मार्गं द्रक्ष्यामहे वयम् ।।
पोताभ्याशगतिं यासि पितुस्तव गतिं प्रति ।। ३३ ।।
ममैव पादविन्यासे क्रमयिष्ये यथा जलम् ।।
तेन ते पृष्ठतो मह्यं स पिता सन्तरिष्यति ।। ३४ ।।
मम चंच्वावगाहेन नङ्क्ष्यन्ति जलजन्तवः ।।
एतत्पितुः समक्षं हि शंसन् क्षिप्रं नदीपतिम् ।। ३५ ।।
तारयामास वेगेन गत्वा पृष्ठं जटायुषः ।।
स ययौ पर्वतं तीर्त्वा क्वचिन्नाभिसमं जलम् ।। ३६ ।।
हृत्कण्ठं चैव गम्भीरं सुखेन सुकृती यथा ।।
स्तोकान्तरे ततः सोऽथ देवागारमनुत्तमम् ।। ३७ ।।
सरोवरं च पद्माढ्यं मणिरत्नविभूषितम् ।।
स्नात्वा देवान्पितृंश्चैव तर्पयित्वा यथासुखम् ।। ३८ ।।
पुष्पाण्यादाय देवं च पूजयित्वा स केशवम् ।।
पंचायतनकं चैव खचितं रत्नसंचयैः ।।
दृष्ट्वा निलिल्ये चैकान्ते शुकस्यानुमते स्थितः ।। ३९ ।।
क्षणेन ता यथापूर्वं देवताश्चागताः पुनः ।।
नर्त्तयित्वा यथायोग्यं तासां ज्येष्ठाऽब्रवीदिदम् ।। 171.४० ।।
स्वागतस्य क्षुधार्त्तस्य ब्रह्मिष्ठस्य महात्मनः ।।
भोजनार्थं फलं दिव्यं पानार्थं तोयमुत्तमम् ।। ४१ ।।
गोकर्णस्य प्रयच्छध्वं येन तृप्तिस्त्रिमासिकी ।।
यथा शोको यथा पापं यथा मोहः प्रणश्यति ।। ४२ ।।
तथा कृत्वा तमूचुस्ता अभयं तेऽस्तु मा शुचः ।।
वस स्वर्गोपमे स्थाने यावत्सिद्धिर्भवेत्तव ।। ४३ ।।
गतास्ताः पुनरेवं च नित्यमेव दिने दिने ।।
वसते स सुखं तत्र मथुरायां यथा तथा ।। ४४ ।।
पोतात्तस्मादुत्ततार सुवातेनोपवाहितः ।।
रत्नाकरः शुभो यत्र भावित्वाद्दैवयोगतः ।। ४५ ।।
रत्नानि बहु मौल्यानि आहृतानि बहून्यथ ।।
यावत्परीक्षणार्थं च गोकर्णं रत्नकोविदम् ।।४६।।
निरीक्ष्यतेऽस्य संवासो न दृष्टश्चुक्रुशुस्ततः ।।
कुतोऽसौ गतवान्भद्रो मृतो नष्टो जले प्लुतः ।। ४७ ।।
व्रीडायुतो निमग्नोऽयं निश्चितं मकरालये ।।
पितुरस्य वयं सर्वे पुत्रवद्विचरामहे ।। ४८ ।।
यथाभागं च रत्नानां भागं दास्यामहे परम् ।।
एष धर्मः सदास्माकमेकसार्थागमेन हि ।। ४९ ।।
एवं वसन्स गोकर्णो द्वीपस्थः शोकविह्वलः ।।
शुकं प्रोवाच दीनात्मा मातापित्रोः कृते तदा ।। 171.५० ।।
शुकेन मन्त्रमूढत्वात्पितुरेवं निवेदितम् ।।
अहं पक्षी लघुतनुर्भवन्तं नेतुमक्षमः ।।५१।।
याता ऽस्मि मथुरां मार्गे समुद्रे जलमालिनि ।।
पित्रोर्वाक्यं तवाख्यासे त्वदीयं च तयोरहम् ।। ५२ ।।
अवश्यं च गमिष्येऽहमनुज्ञा तु प्रदीयताम् ।।
सत्यमुक्तं ततस्तेन गोकर्णेन शुकं प्रति ।।५३।।
गच्छ त्वं पुत्र मथुरामवस्थां मामकीमिमाम् ।।
त्वया विना न शक्नोमि शीघ्रमागमनं कुरु ।।५४।।
इत्युक्तः स तथेत्युक्त्वा पोतारूढः खगोत्तमः ।।
कालेन मथुरां प्राप्तः सर्वं पित्रे न्यवेदयत् ।। ५५ ।।
श्रुत्वा तौ विषमावस्थं मृतं हृदि निवेश्य च ।।
रुदित्वा सुचिरं कालं शुके स्नेहो निवेशितः ।। ५६ ।।
अस्माकं जीवनार्थाय त्वया कार्यं विहङ्गम ।।
कथाभिरनुकूलाभिर्धर्मदर्शिभिरेव च ।। ५७ ।।
शुकेन पंजरस्थेन कथालापेन विद्यया ।।
पुत्रशोकाभितन्तप्तौ तथैवानेन सान्त्वितौ ।। ५८ ।।
अथ सार्थः समायातो रत्नपूर्णो यथोदधिः ।।
वसुकर्णस्य पुत्रार्थमकरोत्स जनो महान् ।। ९९ ।।
सर्वैस्तैर्विंशतिः संख्या एकैकेन समुद्रगैः ।।
रत्नैः समर्च्चितोऽत्यर्थं पर्वतः कुसुमोत्करैः ।। 171.६० ।।
प्रसाद्य सर्वे सम्पूज्य प्रेषितास्ते गृहं ययुः ।।
एवं ते न्यवसंस्तत्र यावत्कालं सुखेन तु ।। ६१ ।।
शुश्रूषमाणास्तं वैश्यं यथा स्वपितरं तथा ।। ६२ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे गोकर्णमाहात्म्ये एकसप्तत्यधिकशततमोऽध्यायः ।।१७१।।