← अध्यायः १७२ वराहपुराणम्
अध्यायः १७३
[[लेखकः :|]]
अध्यायः १७४ →

श्रीवराह उवाच ।।
तत्र स्थित्वा यथान्यायं गोकर्णः सर्वमंगलम् ।।
शुकं च मातापितरौ साधुभार्याचतुष्टयम् ।। १ ।।
संमान्य पूजयामास यथाविभवशक्तितः ।।
मथुरावासिभिर्लोकैरुद्यानं कारयंस्तदा ।। २ ।।
स्वयं च कृतवांस्तत्र अविघ्नस्य महामखम् ।।
भक्ष्यभोज्ये ब्राह्मणेभ्यो ददौ दानानि नित्यशः ।।३।।
गीतवादित्रमंगल्यं पुत्रवृद्धौ यथोचितम् ।।
तत्सर्वं कृतवाँल्लोको गोकर्णस्य महात्मनः।।४।।
एकैकं च परिष्वज्य प्रणिपत्य यथाक्रमम् ।।
मातापित्रोः प्रणम्याथ शिरसा पादपंकजे ।।५।।
शुकं हृदि समालोक्य प्ररुरोद स वै वणिक् ।।
यस्य प्रसादाज्जीवश्च धर्मश्चानुत्तमा गतिः ।। ६ ।।
विशिष्टेन मया प्राप्तो राज्ञो लाभः सुपुष्कलः ।।
शुक पुत्रान्मया प्राप्तमिह लोके परत्र च ।। ७ ।।
एवं वसन्सुखं तत्र गोकर्णः सह बन्धुभिः ।।
शुक नाम्ना कृतं तेन शिवस्यायतनं महत् ।। ८ ।।
शुकेश्वरं प्रतिष्ठाप्य दिव्यं सत्रं चकार ह ।।
ब्राह्मणानां शते द्वे च मिष्टान्नवरभोजने ।।९।।
शुकसत्रमिति ख्यातं मृतो मुक्तिमवाप सः ।।
विमानवरमारुह्य स्वर्गलोकं गतः शुकः ।।173.१०।।
शुकप्रदाने गोकर्णः फलं स्नानस्य संगमात्।।
श्राद्धं सुवर्णैर्गोदानं कृत्वा तस्मै ददौ च सः ।। ११ ।।
शबराय सभार्याय तेन स्वर्गं गतश्च ह ।।
शुकोदरेण सहितो विमानवरमास्थितः ।। १२ ।।
एतत्ते कथितं सर्वं मथुरायां महत्फलम् ।।
सरस्वतीसंगमस्य गोकर्णस्य शिवस्य च ।। १३ ।।
गोकर्णस्य तु सन्तानमक्षयं धर्मतोऽव्ययम् ।।
सम्भूतं स सुखं भुक्त्वा ततो मोक्षमवाप्नुयात् ।। १४ ।।
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये त्रयस्सप्तत्यधिकशततमोऽध्यायः।।१७३।।