प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७३ वराहपुराणम्
अध्यायः १७४
[[लेखकः :|]]
अध्यायः १७५ →

श्रीवराह उवाच।।
पुनरन्यत्प्रवक्ष्यामि महापातकनाशनम् ।।
संगमस्य प्रभावं हि पापिनामपि मुक्तिदम् ।।१ ।।
अत्रैव श्रूयते पूर्वं ब्राह्मणः संशितव्रतः ।।
महानामेति विख्यातः स्थितोऽसौ वनमाश्रितः।।२।।
स्वाध्याययुक्तो होमे च नित्ययुक्तः सः योगवित् ।।
जपहोमपरो नित्यं स्वकालं क्षपते च सः ।। ३ ।।
एवं कर्माणि कुर्वन्स ब्रह्मलोकजिगीषया।।
बहून्यब्दान्यतीतानि ब्राह्मणस्य वने तदा।।४।।
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति।।
पुनस्तीर्थजलैरेतत्क्षालयामि कलेवरम् ।।५।।
प्रयातो विधिवत्साक्षात् सूर्यस्योदयनं प्रति ।।
असिकुण्डादितः कृत्वा दक्षिणां कोटिकां ततः ।।६।।
तथा चोत्तरकोट्यां तु तथा मन्माथुरं च यत् ।।
क्रमेण सर्वतीर्थानि स्नात्वा मामपि पुष्करम् ।। ७ ।।
गत्वा सर्वाणि तीर्थानि स्नात्वा पूतो भवाम्यहम् ।।
इति कृत्वा मथुराया निर्जगामाथ स द्विजः ।। ८ ।।
कृतपूजानमस्कारः अध्वानं प्रत्यपद्यत ।।
अध्वप्रपन्नो ह्यदृशत्पंचप्रेतान्सुभीषणान् ।। ९ ।।
अरण्ये कण्टकवृते निर्जने शब्दवर्जिते ।।
तान्दृष्ट्वा विकृताकारानतितीव्रभयङ्करान् ।। 174.१० ।।
ईषदुत्त्रस्तहृदयस्तिष्ठदुन्मील्य चक्षुषी ।।
आलम्ब्य स ततो धैर्यं त्रासमुत्सृज्य दूरतः ।। ११ ।।
पप्रच्छ मधुरालापः के यूयं रौद्रमूर्त्तयः ।।
भवन्तः कर्मणा केन दुष्कृतेन भयावहाः ।।१२।।
एकस्थानात्सदा यूयं प्रस्थिताः कुत्र वा सदा ।।
प्रेता ऊचुः ।।
क्षुत्पिपासातुरा नित्यं बहुदुःखसमन्विताः ।। १३ ।।
दुर्बुद्ध्या च वृताः सर्वे हीनज्ञाना विचेतसः ।।
न जानीमो दिशं काचिद्विदिशं चापि चाध्वनि ।।१४।।
नान्तरिक्षं महीं चापि जानीमो दिवसं तथा ।।
यदेतद्दुःखमापन्नं सुखोदर्कफलं भवेत् ।। १५ ।।
अप्रकाममिदं भाति भास्करोदयनं प्रति ।।
अहं पर्युषितो नाम परः सूचीमुखस्ततः ।। १६ ।।
शीघ्रगो रोधकश्चैव पंचमो लेखकस्तथा ।।
ब्राह्मण उवाच ।।
प्रेतानां कर्मजातानां नाम्नां वै सम्भवः कुतः ।।१७।।
किं तत्कारणमेतद्धि यूयं सर्वे सनामकाः ।।
प्रेत उवाच ।।
अहं स्वादु सदाश्नामि दद्मि पर्युषितं द्विजे ।। १८।।
एतत्कारणमुद्दिश्य नाम पर्युषितं द्विज ।।
सूचीता बहवोऽनेन विप्राश्चान्नादिकांक्षिणः ।।१९।।
एतत्कारणमुद्दिश्य परः सूचीमुखस्ततः ।।
समर्थितो द्विजेनैव शीघ्रं याति यतो हि सः ।। 174.२० ।।
एतत्कारणमुद्दिश्य शीघ्रगस्तेन सोच्यते ।।
एको गृहस्य मध्ये तु भुङ्क्ते द्विजभयेन हि ।। २१ ।।
समारुह्योद्विग्नमना रोधकस्तेन चोच्यते ।।
मौनेनापि स्थितो नित्यं याचितोऽपि लिखेन्महीम् ।। २२ ।।
अस्माकमपि पापिष्ठो लेखकस्तेन नाम वै ।।
मदेन लेखको याति रोधकस्तु ह्यवाक्छिराः ।।२३।।
शीघ्रगः पङ्गुतां प्राप्तः परं सूचीमुखस्ततः ।।
उषितः केवलग्रीवो लम्बौष्ठो वै महोदरः ।। २४ ।।
बृहद्वृषणशुष्काङ्गः पापादेव प्रजायते ।।
एतत्ते सर्वमाख्यातमात्मवृत्तान्त सम्भवम् ।।२५।।
यदि ते श्रवणे श्रद्धा पृच्छ चान्यद्यदिच्छसि ।।
ब्राह्मण उवाच ।।
ये जीवा भुवि तिष्ठन्ति सर्व आहारजीविनः ।।२६।।
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः ।।
प्रेता ऊचुः ।।
शृणु चाहारमस्माकं सर्वभूतदयापर ।। २७ ।।
यच्छ्रुत्वा निन्दसे नित्यं भूयो भूयश्च नित्यशः ।।
श्लेष्ममूत्रपुरीषेण योषितां च समन्ततः ।। २८ ।।
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै ।।
बलिमन्त्रविहीनानि दानहीनानि यानि च ।।२९।।
गुरवो नैव पूज्यन्ते स्त्रीजितानि गृहाणि च ।।
यानि प्रकीर्णभाण्डानि प्रकीर्णोच्छेषणानि च ।।174.३०।।
नित्यं च कलहो यत्र प्रेता भुञ्जन्ति तत्र वै ।।
अपात्रे प्रतिदत्तानि विधिहीनानि यानि च ।।
निन्दितानां द्विजातीनां जुगुप्सितकुलोद्भवे ।। ३१ ।।
जातानां विहितानां च दुष्कृतं कर्म कुर्वताम् ।।
तेभ्यो दत्तं तदस्माकमुपतिष्ठति भोजने ।। ३२ ।।
एतत्पापतरं चान्यद्भोजनं दुष्टकर्मिणाम् ।।
निर्विण्णाः प्रेतभावेन पृच्छामः सुदृढव्रत ।। ३३ ।।
प्रेतो यथा न भवति तथा ब्रूहि तपोधन ।।
ब्राह्मण उवाच ।।
एकरात्रत्रिरात्रेण कृच्छ्रचान्द्रायणादिभिः ।। ३४ ।।
व्रतैरभ्युद्यतः पूतो न प्रेतो जायते नरः ।।
मिष्टान्नपानदाता च सततं श्रद्धयान्वितः ।। ३५ ।।
यतीनां पूजको नित्यं न प्रेतो जायते नरः ।।
त्रीनद्भिः पंच चैकं वा प्रतिनित्यं तु पोषयेत् ।।३६।।
सर्वभूतदयालुश्च न प्रेतो जायते नरः ।।
देवातिथिषु पूजासु गुरुपूजासु नित्यशः ।।३७।।
रतो वै पितृपूजायां न प्रेतो जायते नरः ।।
जितक्रोधो ह्यमात्सर्यस्तृष्णासङ्गविवर्जितः ।। ३८ ।।
क्षमायुक्तो दानशीलो न प्रेतो जायते नरः ।।
एकादशीं सितां कृष्णां सप्तमीं वा चतुर्दशीम् ।। ३९ ।।
उपवासपरो नित्यं न स प्रेतोऽभिजायते ।।
गां ब्राह्मणं च तीर्थानि पर्वतांश्च नदीस्तथा ।। 174.४० ।।
देवांश्च वन्दते नित्यं न प्रेतो जायते हि सः ।।
प्रेता ऊचुः ।।
त्वत्तस्तच्छ्रुतमस्माभिर्यो न प्रेतोऽभिजायते ।। ४१ ।।
प्रेतस्तु जायते केन तद्वद त्वं महामुने ।।
विप्र उवाच ।।
शूद्रान्नेन तु भुक्तेन ब्राह्मणो म्रियते यदि ।। ४२ ।।
तेनैव चोदरस्थेन स प्रेतो जायते ध्रुवम् ।।
नग्नकापालिपाषण्डसङ्गतासनभोजनैः ।।४३।।
मनुष्यः प्रेततां याति स्पर्शेन सुतरां तथा ।।
पूर्वपुण्यं विनश्येत्तु प्रेतो भवति नित्यशः ।।४४।।
पाषण्डाश्रमसंस्थश्च मद्यपः पारदारिकः ।।
वृथामांसरतो नित्यं स च प्रेतोऽभिजायते ।। ४५ ।।
देवस्वं ब्राह्मणस्वं च गुरोर्द्रव्यं हरेत्तु यः ।।
कन्यां ददाति शुल्केन स च प्रेतोऽभिजायते ।। ४६ ।।
मातरं पितरं भ्रातृभगिन्यौ च स्त्रियं सुतम् ।।
अदुष्टान्यस्त्यजेत्सोऽपि प्रेतो भवति च ध्रुवम् ।। ४७ ।।
अयाज्ययाजनाच्चैव याज्यानां परिवर्जनात् ।।
रतो वा शूद्रसेवायां स प्रेतो जायते नरः ।। ४८ ।।
ब्रह्महा च कृतघ्नश्च गोघ्नो वै पञ्चपातकी ।।
भूमिकन्यापहर्ता च स प्रेतो जायते नरः ।। ४९ ।।
गुरोर्धर्म्मोपदेष्टुश्च नित्यं हितमभीप्सतः ।।
न करोति वचस्तस्य स प्रेतो जायते नरः ।। 174.५० ।।
असद्भ्यः प्रतिगृह्णाति नास्तिकेभ्यो विशेषतः ।।
स पापो जायते प्रेत आहारादिविवर्जितः ।। ५१ ।।
प्रेता ऊचुः ।।
य एतत्कर्म कुर्वन्ति मूढाऽधर्मपरायणाः ।।
विरुद्धकारिणः पापास्तेषां कांचिद्गतिं वद ।।५२।।
ब्राह्मण उवाच ।।
ये धर्मविमुखा मूढा दयादानविवर्जिताः ।।
तेषां गतिर्भवेदेका मथुरायान्तु सङ्गमे ।।५३।।
श्रवणद्वादशीयोगे मासि भाद्रपदे तथा ।।
वामनं तत्र देवं तु पूजयेज्जुहुयात्तथा ।।५४।।
सुवर्णमन्नं वस्त्रं च च्छत्रोपानत्सुसंयुतम् ।।
तत्र स्नातो पितॄंस्तर्प्य दत्त्वा करकमेव च ।। ५५ ।।
न ते प्रेता भविष्यन्ति मार्गस्थो यो नमस्यते ।।
विमानवरमारुह्य विष्णुलोकं स गच्छति ।।५६।।
तत्र तीर्थे नरः स्नातो हृष्टपुष्टो यथाश्रुतः ।।
ध्यातश्च कीर्त्तितो वापि तेन गङ्गावगाहिता ।।५७।।
तीर्थस्यैव तु माहात्म्यं प्रेतो भूत्वा शृणोति यः ।।
तस्याक्षयपदं विष्णोर्भवतीति मया श्रुतम् ।। ५८ ।।
प्रेता ऊचुः ।।
अस्माकं वद कल्याण व्रतस्यास्य विधिं परम् ।।
येन वै क्रियमाणेन प्रेतत्वात्तु विमुच्यते ।। ५९ ।।
ब्राह्मण उवाच ।।
एवमेव व्रतस्यास्य विधानं कर्मसंहितम् ।।
पुराणं कथितं राज्ञे मान्धात्रे पृच्छते पुरा ।। 174.६० ।।
वसिष्ठेन महाभागाः शृणुध्वं कथयाम्यहम् ।।
प्रेतानां मोक्षणं पुण्यं गतिप्रवरदायकम् ।। ६१ ।।
मासि भाद्रपदे शुद्धा द्वादशी श्रवणान्विता ।।
तस्यां दत्तं हुतं स्नानं सर्वं लक्षगुणं भवेत् ।। ६२ ।।
सङ्गमे च पुनः स्नात्वा पूजयित्वा तु वामनम् ।।
कलशं विधिना दत्त्वा तस्य पुण्यफलं शृणु ।। ६३ ।।
कपिलानां शतं दत्त्वा हिरण्योपस्कराञ्चितम् ।।
तेन यत्फलमाप्नोति तद्द्वादश्यामखण्डितम् ।। ६४ ।।
राक्षसत्वं न गच्छेत्तु श्रवणद्वादशीव्रतात् ।।
स्वर्गे च वसते तावद्यावदिन्द्राश्चतुर्दश ।। ६९ ।।
ततः स्वर्गात्परिभ्रष्टो ब्राह्मणो वेदपारगः ।।
जातिस्मरो महायोगी मोक्षमार्गपरायणः ।। ६६ ।।
ध्यानयुक्तेन भावेन मुक्तो यात्यपुनर्भवम् ।।
कनकं च सुसंपीतं सान्नं रत्नसमन्वितम् ।। ६७ ।।
यथालाभोपपन्नेन सौवर्णो वामनः कृतः ।।
उपानच्छत्रसंयुक्तो विधिमन्त्रपुरःसरः ।। ६८ ।।
कृत्वा च विधिवत्तस्य स्नानपूजादिकं नरः ।।
मन्त्रैस्तथाविधैर्होमैर्ब्राह्मणं चोपपादयेत् ।। ६९ ।।
आगच्छ वरदानन्त श्रीपते मदनुग्रहात् ।।
सर्वगोपि निजांशेन स्थानमेतदलङ्कुरु ।। 174.७० ।।
(आवाहनम्)
यत्त्वं नक्षत्ररूपेण दवादश्यां नभसि स्थितः ।।
तन्नक्षत्रमहं वन्दे मनोवाञ्छितसिद्धये ।। ७१ ।।
( नक्षत्रम्)
नमः कमलनाभाय कमलालय केशव ।।
( स्नानम् )
अमूर्त्ते सर्वतोव्यापिन्नारायण नमोऽस्तु ते ।। ७२ ।।
सर्वव्यापिन्जगद्योने नमः सर्वमयाच्युत ।।
( पूजा)
श्रवणद्वादशीयोगे पूजां गृह्णीष्व केशव ।। ७३ ।।
धूपोऽयं देवदेवेश शंखचक्रगदाधर ।।
(धूपं) अच्युतानन्त गोविन्द वासुदेव नमोऽस्तु ते ।। ७४ ।।
तेजसा सर्वलोकाश्च विवृताः सन्तु तेऽव्ययाः ।।
( दीपम्)
त्वं हि सर्वगतं तेजो जनार्दन नमोऽस्तु ते ।। ७५ ।।
अदितेर्गर्भमाधाय वैरोचनिशमाय च ।।
त्रिभिः क्रमैर्जिता लोका वामनाय नमोऽस्तु ते ।। ७६ ।। (नैवेद्यम्)
देवानां सम्मतश्चापि योगिनां परमां गतिः ।।
जलशायी जगद्योने अर्घ्यं मे प्रति गृह्यताम् ।। ७७ ।। ( अर्घ्यम्)
हव्यभुग्घव्यकर्त्ता त्वं होता हव्यं त्वमेव च ।।
सर्वमूर्त्ते जगद्योने नमस्ते केशवाय च ।। ७८ ।। (इति स्वाहा होमः)
हिरण्यमन्नं त्वं देव जलवस्त्रमयो भवान् ।। ( दक्षिणाम्)
उपानच्छत्रदानेन प्रीतो भव जनार्दन ।। ७९ ।। ( छत्रादिदानम्)
पर्जन्यो वरुणः सूर्यः सलिलं केशवः शिवः ।।
अग्निर्वैश्रवणो देवः पापं हरतु मेऽव्ययः ।। 174.८० ।। ( वामनस्तुतिम्)
अन्नं प्रजापतिर्विष्णुरुद्रचन्द्रेन्द्रभास्कराः ।।
अन्नं त्वष्टा यमोऽग्निश्च पापं हरतु मेऽव्ययः ।। ८१ ।। ( करकदानं)
वामनो बुद्धिदाता च द्रवस्थो वामनः स्वयम् ।।
वामनस्तारकोभाभ्यां वामनाय नमोऽस्तु ये ।। ८२ ।।( यजमानः)
वामनं प्रतिगृह्णामि वामनो मे प्रयच्छति ।।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ।। ८३ ।। ( द्विजः प्रतिग्रहीता)
कपिलाङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।।
दत्त्वा कामदुघां लोका भवन्ति सफला नृणाम् ।।८४।। ( गोदानं)
मम पापच्छिदे तुभ्यं देवगर्भ सुपूजित ।।
मया विसर्जितो देव स्थानमन्यदलङ्कुरु ।।८५।। (विसर्जनम्)
एवं विद्वांस्तु द्वादश्यां यो नरः श्रद्धयान्वितः ।।
यत्र तत्र नभस्ये तु कृत्वा फलमवाप्नुयात् ।। ८६ ।।
ब्राह्मण उवाच ।।
यस्तु सारस्वते तीर्थे यमुनायाश्च सङ्गमे ।।
करोति विधिनानेन तस्य पुण्यं शतोत्तरम् ।।८७।।
मयापि श्रद्धया चैतत्कालं तीर्थस्य सेवनम् ।।
क्षेत्रसंन्यासरूपेण कृतभक्तिसमन्वितम् ।।८८।।
येन यूयं न शक्ता मां बाधितुं पापकर्मिणः ।।
श्रवणद्वादशीयोगे व्रतं तिथिसमन्वितम् ।। ८९ ।।
तावद्व्रतं तु कर्त्तव्यं यावदेकं क्षयं व्रजेत् ।।
तीर्थस्यैव प्रभावो हि प्रत्यक्षमिह दृश्यते ।।174.९० ।।
श्रवणाद्वो गतिः साक्षात्साधु लक्ष्यामि चाऽधुना ।।
श्रीवराह उवाच ।।
एवं ब्रुवति विप्रे तु आकाशे दुन्दुभिस्वनः ।।
पुष्पवृष्टिर्भुव्यपतद्देवैर्मुक्ता सहस्रशः ।।९१ ।।
प्रेतानां तु विमानानि आगतानि समन्ततः ।।
देवदूत उवाचेदं प्रेतानां शृण्वतां तदा।।९२।।
अस्य विप्रस्य सम्भाषात्पुण्यसत्कीर्त्तितेन च ।।
प्रेतभावविमुक्ताः स्थ तीर्थस्य श्रवणादपि ।।९३।।
तस्मात्सर्वप्रयत्नेन सता सम्भाषणं वरम् ।।
कर्त्तव्यस्तीर्थभावश्च व्रतभावश्च मानसे ।।९४।।
तीर्थाभिषेकिपुरुषाद्यथा तेषां दुरात्मनाम् ।।
प्रेतानामक्षयः स्वर्गः सरस्वत्याश्च सङ्गमात् ।।९५।।
प्राप्तं तीर्थप्रभावस्य श्रवणान्मुक्तिदं फलम् ।।
तिलकं सर्वधर्माणां पंचप्रेतत्वमुक्तिदम् ।।९६।।
यः पठेत्परया भक्त्या शृणुयाद्भक्तितत्परः ।।
करोति श्रद्धया युक्तो न प्रेतो जायते नरः ।।९७।।
पिशाचसंज्ञकं नाम तीर्थं त्रैलोक्यविश्रुतम् ।।
यस्य श्रवणमात्रेण न प्रेतो जायते नरः ।। ९८ ।।
इति श्रीवराहपुराणे मधु० मा० सर्वतीर्थे यमुनासंगमप्रभावोनाम चतुःसप्तत्यधिकशततमोऽध्यायः ।। १७४।।