← अध्यायः १८५ वराहपुराणम्
अध्यायः १८६
[[लेखकः :|]]
अध्यायः १८७ →

श्रीवराह उवाच।।
राजतीं प्रतिमां कृत्वा सुरूपां निर्मलां शुचिम् ।।
अश्लिष्टां चैव निर्दोषां सर्वतः परिनिष्ठिताम् ।। १ ।।
चन्द्रपाण्डुरसङ्काशां सुश्लक्ष्णां निर्व्रणां शुभाम् ।।
श्रियायुक्तां मनोज्ञां च दीप्यमानां दिशो दश ।।२।।
ईदृशीं प्रतिमां कृत्वा मम कर्मपरायणः ।।
गीतवादित्रशब्देन शंखदुन्दुभिनिःस्वनैः ।। ३ ।।
स्तुतिभिर्मङ्गलैश्चैव मम वेश्मन्युपानयेत् ।।
अर्घ्यपाद्यादिकं गृह्य इमं मन्त्रमुदाहरेत् ।।४।।
मन्त्रः-
ॐ यः सर्वलोकेष्वपि सर्वमर्घ्यं पूज्यश्च मान्यश्च दिवौकसामपि।।
उपागतो गृह्य इदं ममार्घ्यं प्रसीद मां तिष्ठतु लोकनाथ ।।
यो राजते यज्ञपतिश्च यज्ञे सूर्योदये मम कर्माग्निहोत्रम् ।।५।।
मन्दश्चेति आदिमध्यस्वरूपायेति ।।
तत एतेन मन्त्रेण अर्घ्यं दत्त्वा यथाविधि ।।
सुस्नातोऽलंकृतश्चैव स्थापयेत्तामुदड्मुखः ।। ६ ।।
आश्लेषासु च नक्षत्रे राशौ कर्कटके स्थिते ।।
अस्तङ्गते दिनकरे स्वजने यजति स्थिरे ।। ७ ।।
तत्राधिवासनं कुर्याद्विधिवन्मन्त्रपूर्वकम् ।।
चत्वारः कलशास्तत्र चन्दनोदकमिश्रिताः ।। ८ ।।
सर्वौषधीसमायुक्ताः सहकारविभूषिताः ।।
ततस्ते कर्मिणः सर्वे मम शास्त्रानुसारिणः ।। ९ ।।
गुरोस्तु वचनाद्देवि मनोज्ञान्सुखशीतलान् ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।। 186.१० ।।
मन्त्रः -
योऽसौ भवान् सर्वलोकैककर्त्ता सर्वाध्यक्षः सर्वरूपैकरूपः ।।
आयातु मूर्त्तौ सहितो मया च ध्रुवादिभिर्लोकपालैस्तु पूज्यः ।। ११ ।।
नमोऽनन्तायेति ।।
व्यतीतायां तु शर्वर्यामुदिते सूर्यमण्डले ।।
दिशासु च प्रसन्नासु द्वारमूलमुपानयेत् ।। १२ ।।
एवं संस्थापनं कृत्वा मम कर्मानुसारिणः ।।
घटैः पूर्णैर्यथान्यायं कुर्यात्तत्राभिषेचनम् ।। १३ ।।
अभिषिच्य ततः पश्चात्स्थापयेत विधानतः।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।।१४।।
मन्त्रः -
गङ्गादिभ्यो नदीभ्यश्च सागरेभ्यो मया हृतम् ।।
स्नानाय ते सुरश्रेष्ठ कर्पूरावासितं जलम् ।। १५ ।।
एवं स्नाप्य विधानेन गृहस्याभ्यन्तरं नयेत् ।।
स्थापना तत्र मे कार्या मन्त्रेणानेन सुन्दरि।। १६ ।। ।
मन्त्रः –
वेदैर्वेद्यो वेदविद्भिश्च पूज्यो यज्ञात्मको यज्ञफलप्रदाता ।।
यज्ञार्थं त्वामाह्वये देवदेव मूर्त्तावस्यां तिष्ठ सुलोकनाथ ।। १७ ।।
धनजन रूप्यस्वर्ण अनन्ताय नम इति ।।
एवं संस्थापनं कृत्वा प्रहृष्टेनान्तरात्मना ।।
अर्चयित्वा यथान्यायं पूर्वोक्तविधिना नरः ।।१८ ।।
नील वस्त्राणि मे दद्यात्प्रियाणि मम भूषणम्।।
ततो वस्त्राण्युपादाय जानुभ्यां पतितो भुवि।।१९।।
नमो नारायणायेति उक्त्वा काममुदाहरेत् ।।186.२० ।।
मन्त्रः -
योऽसौ भवांश्चन्द्ररश्मिप्रकाशः शंखेन कुन्देन समानवर्णः ।।
क्षीरोज्ज्वलः कौमुदवर्ण देव वस्त्राणि गृह्णीष्व मम प्रियाय ।। २१ ।।
वेषः सुवेषः अनन्तः अमरः मारणः कारणः सुलभः दुर्ल्लभः श्रेष्ठः सुवर्चा इति ।।
अनैनेव तु मन्त्रेण दत्त्वा वस्त्राणि मे शुचिः ।।
ततो मे प्रापणं दद्याद्भक्तियुक्तेन चेतसा ।। २२ ।।
नमो नारायणायेति इमं मन्त्रमुदाहरेत् ।।
शाल्यन्नं पायसैर्युक्तं सितया च घृतेन च ।। २३ ।।
प्रापणं गृह्यतां देव अनन्त पुरुषोत्तम ।।
दत्त्वा तु मम नैवेद्यं दद्यादाचमनं बुधः ।। २४ ।।
सर्वलोकहितार्थाय शान्तिपाठमुदाहरेत् ।।
ॐ शान्तिं करोति ब्रह्मा च रुद्रो विष्णुर्हि भास्करः।।२५।।
रात्रिश्चैव तु सन्ध्ये द्वे नक्षत्राणि ग्रहा दिशः।।२६।।
अचल चंचल सचल खेचल प्रचल अरविन्दप्रभ उद्भव चेति नमः संस्थापितानां वासुदेव इति ।।
कृत्वा वै शान्तिकं तत्र सर्वपापप्रणाशनम् ।।
पूज्य भागवतांस्तत्र यथाविभवशक्तितः ।। २७ ।।
ब्राह्मणान्भोजयेत्तत्र गुरुं मन्त्रेण पूजयेत् ।।
तेभ्यः शान्त्युदकं गृह्य कुर्यादभ्युक्षणं ततः ।। २८ ।।
ब्राह्मणान्स्वजनं चैव अभिवाद्य कृताञ्जलिः ।।
शीघ्रं विसर्जयेत्तांश्च ये तत्र समुपागताः।।२९।।
ततो गुरुं च संपूज्य दानमानादिभिर्विभुम् ।।
गुरौ सम्पूजिते तत्र मम पूजा कृता भवेत् ।।186.३० ।।
जलस्य बिन्दवो येऽन्नभोजनान्ते पतन्ति हि ।।
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ।।३१ ।।
य एतेन विधानेन पूजयेन्मतिमान्नरः ।।
उद्धृतं च कुलं तेन पितृजं मातृजं तथा ।। ३२ ।।
अनेन विधिना देवि रौप्यार्च्चास्थापनं मम ।।
सुवर्णस्य प्रवक्ष्यामि स्थापनं मम सुप्रियम् ।। ३३ ।।
यथैव राजती कुर्यात्तथैव च सुवर्णिकाम् ।।
तेनैव विधिना सर्वं कुर्यादावाहनादिकम् ।।३४।।
यत्फलं दारुशैलादिनाम्ना कांस्यादिराजते ।।
तत्फलं कोटिगुणितं सौवर्णस्य प्रपूजने ।। ३५ ।।
कुलानि तारयेत्सुभ्रु अयुतान्येकविंशतिम् ।।
याति मल्लयतां भूमे पुनरावृत्तिवर्जितः ।। ३६ ।।
एतत्ते कथितं भूमे यत्त्वया परिपृच्छितम् ।।
रहस्यं विपुलश्रोणि किमन्यत्कथयामि ते ।। ३७ ।।
भूमिरुवाच ।।
उक्ता याः प्रतिमाः सर्वाः सुवर्णादि विनिर्मिताः ।।
तासु तिष्ठसि सर्वासु शालग्रामे च सर्वदा ।। ३८ ।।
कति पूज्या गृहादौ च अविशेषस्तु पूजने ।।
विशेषो वा भवेत्तन्मे रहस्यं वद माधव ।। ३९ ।।
शिवादिपूजने के वा संख्यातास्तच्च मे वद ।।
श्रीवराह उवाच ।।
गृहे लिङ्गद्वयं नार्च्यं शालग्रामत्रयं तथा ।। 186.४० ।।
द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्यद्वयं तथा ।।
गणेशत्रितयं नार्च्यं शक्तित्रितयमेव च ।। ४१ ।।
शालग्रामयुगं पूज्यं युग्मेषु द्वितयं न हि ।।
विषमा नैव पूज्याः स्युर्विषमे एक एव हि ।। ४२ ।।
गृहेऽग्निदग्धा भग्ना वा नैव पूज्या वसुन्धरे ।।
आसां तु पूजनाद्गेहे उद्वेगं प्राप्नुयाद्गृही ।। ४३ ।।
शालग्राम शिला भग्ना पूजनीया सचक्रका ।ऽ।
खण्डिता स्फुटिता वापि शालग्रामशिला शुभा ।। ४४ ।।
शिला द्वादश वै देवि शालग्रामसमुद्भवाः ।।
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते ।।४५।।
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।।
यत्स्याद्द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत् ।।४६ ।।
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ।।
तत्फलं नैव शक्तोऽहं वक्तुं वर्षशतैरपि ।। ४७ ।।
सर्वैर्वर्णैस्तु सम्पूज्याः प्रतिमाः सर्वदेवताः ।।
लिङ्गान्यपि तु पूज्यानि मणिभिः कल्पितास्तथा ।। ४८ ।।
शालग्रामो न स्पृष्टव्यो हीनवर्णैर्वसुन्धरे ।।
स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ।। ४९ ।।
मोहाद्यः संस्पृशेच्छूद्रो योषिद्वापि कदाचन ।।
पच्यते नरके घोरे यावदाभूतसंप्लवम् ।।186.५० ।।
यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे ।।
दूरादेवास्पृशन्पूजां कारयेत्सुसमाहितः ।। ५१ ।।
चरणामृतपानेन सर्वपापक्षयो भवेत् ।।
अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।। ५२ ।।
शालग्रामशिलायोगात्पावनं तद्भवेत्सदा ।।
दद्याद्भक्ताय यो देवि शालग्रामशिलां नरः ।। ५३ ।।
सुवर्णसहितां तस्य यत्पुण्यं तच्छृणुष्व मे ।।
सुवर्णसहिता भूमिः सपर्वतवनाकरा ।। ५४ ।।
ससमुद्रा भवेद्दत्ता सत्पात्राय वसुन्धरे ।।
शालग्रामशिलायास्तु मूल्यमुद्घाटयेत्क्वचित् ।। ।।
विक्रेता क्रयकर्त्ता च नरके नीयते ध्रुवम् ।।
पूजाफलं न शक्नोति वक्तुं वर्षशतैरपि ।। ५६ ।।
एतत्ते कथितं गुह्यं प्रतिमा स्थापनं प्रति ।।
शालग्रामे विशेषश्च लिङ्गादीनां च यो भवेत् ।।५७।।
पूजनादौ विधिश्चापि किमन्यच्छ्रोतुमिच्छसि ।।५८।
इति श्रीवराहपुराणे प्रागितिहासे भगवच्छास्त्रे रौप्यसौवर्णार्चालिंगादिस्थापनसंख्यादिकं नाम षडशीत्यधिकशततमोऽध्यायः ।। १८६ ।।