प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १८६ वराहपुराणम्
अध्यायः १८७
[[लेखकः :|]]
अध्यायः १८८ →

अथ सृष्टिपितृयज्ञौ ।।
सूत उवाच ।।
एवं नारायणाच्छ्रुत्वा सा मही संशितव्रता ।।
कराभ्यामञ्जलिं कृत्वा माधवं पुनरब्रवीत् ।। १ ।।
धरण्युवाच ।।
श्रुतमेतन्मयाख्यानं क्षेत्रस्य च महत्फलम् ।।
एकं मे परमं गुह्यं तद्भवान्वक्तुमर्हति ।। २ ।।
पितृयज्ञस्य माहात्म्यं सोमदत्तो नराधिपः ।।
मृगयां समुपागम्य यत्त्वया पूर्वभाषितम् ।।३ ।।
को गुणः पितृयज्ञस्य कथमेव प्रयुज्यते ।।
केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम् ।। ४ ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण वदस्व मे।।
श्रीवराह उवाच ।।
साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि ।। ५ ।।
मोहितासि वरारोहे भाराक्रान्ता वसुन्धरे ।।
दिव्यां ददामि ते बुद्धिं शृणु सुन्दरि तत्त्वतः ।।६।।
कथयिष्यामि ते ह्येवं श्राद्धोत्पत्तिविनिश्चयम् ।।
आदौ स्वर्गस्य चोत्पत्तिं देवानां च वरानने ।।७ ।।
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।।
स्रष्टुं वै बुद्धिरुत्पन्ना त्रैलोक्यं सचराचरम् ।।८।।
सोऽहं च शेषपर्यङ्के एकश्चैव पराङ्मुखः ।।
स्वपामि च वरारोहे अनन्तशयने ह्यहम् ।। ९ ।।
निद्रां मायामयीं कृत्वा जागर्मि च स्वपामि वा ।।
विष्णुमायामयं कृत्वा जानासि त्वं न धारिणि ।।187.१०।।
युगं युगसहस्राणि यास्यन्ति च गतानि च ।।
न त्वं मम विजानासि ज्ञातुं मायां यशस्विनि ।। ११ ।।
धारितं मम सुश्रोणि दिवा पंचशतानि च ।।
वाराहं रूपमादाय न जानासि हि भामिनि ।। १२ ।।
यन्मां पृच्छसि वै ज्ञातुमात्मानं च यशस्विनि ।।
एकमूर्त्तिस्त्रिधा जातो ब्रह्मविष्णु हरात्मकः ।। १३ ।।
क्रोधहेतोर्मया सृष्ट ईश्वरोऽसुरनाशनः ।।
मम नाभ्यामभूत्पद्मं पद्मगर्भः पितामहः ।। १४।।
एवं त्रयो वयं देवाः कृत्वा ह्येकार्णवां महीम् ।।
तिष्ठाम परमप्रीत्या मायां कृत्वा तु वैष्णवीम् ।। १५ ।।
सर्वं तज्जलपूर्णं तु न चाज्ञायत किञ्चन ।।
वटमेकं वर्जयित्वा विष्णुमूलं यशोद्रुमम् ।। १६ ।।
तिष्ठाम वटवृक्षेऽहं मायया बालरूपधृक् ।।
पश्यामि च जगत्सर्वं त्रैलोक्यं यन्मया कृतम् ।। १७ ।।
वारयामि वरारोहे जानासि त्वं धरे शुभे ।।
कालेन तु तदा देवि कृत्वा वै वडवामुखम् ।। १८ ।।
विनिस्सृतं जलं तत्र मायया तदनन्तरम् ।।
प्रलये च विनिर्वृत्ते ब्रह्मा लोकपितामहः ।। १९ ।।
मुहूर्त्तं ध्यानमास्थाय भाषितो वचनं मया ।।
शीघ्रमुत्पादय ब्रह्मन्देवतासुरमानुषान् ।। 187.२० ।।
एवमुक्तो मया देवि गृह्य तत्र कमण्डलुम् ।।
उपस्पृश्य शुचिर्भूत्वा ब्रह्मा चोत्पादयन्सुरान् ।। २१ ।।
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।।
तारणार्थं च सर्वेषां ब्राह्मणान्भुवि दैवतान् ।। २२ ।।
बाहुभ्यां क्षत्रमुत्पन्नं वैश्या ऊरुविनिःस्सृताः ।।
पद्भ्यां विनिःसृताः शूद्राः सर्ववर्णोपचारकाः ।। २३ ।।
देवताश्चासुरा देवि जातास्ते ब्रह्मणस्तथा ।।
देवता ह्यसुराः सर्वे तपोवीर्यबलान्विताः ।। २४ ।।
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ।।
देवतास्तु त्रयस्त्रिंशददित्यां जनयन्पुरा ।। २९ ।।
दित्यां च जनिताः पुत्रा असुराः सुरशत्रवः ।।
प्रजापतिश्चाजनयदृषींश्चैव तपोधनान् ।। २६ ।।
तेजसा भास्कराकाराः सर्वे शास्त्रविदो द्विजाः ।।
तेषां पुत्राश्च पौत्राश्च जनिता ब्रह्मसूनुना ।। २७ ।।
निमेस्तु वंशसम्भूतो आत्रेय इति विश्रुतः ।।
जातमात्रो महात्मा स श्रीमांश्चापि तपोनिधिः ।। २८ ।।
एकचित्तं समाधाय तपश्चरति निश्चलः ।।
पंचाग्निर्वायुभक्षश्च एकपादोर्द्ध्वबाहुकः ।। २९ ।।
शीर्णपर्णाम्बुभक्षश्च शिशिरे च जलेशयः ।।
स कृच्छ्रे फलभक्षश्च पुनश्चान्द्रायणं चरन् ।। 187.३० ।।
वर्षाणां च सहस्राणि तपस्तप्त्वा वसुन्धरे ।।
मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः ।। ३१ ।।
नष्टं च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् ।।
पुत्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन् ।। ३२ ।।
निमिः कृत्वा ततः शोकं विधानात्तत्र माधवि ।।
तं मनोगतसंकल्पं त्रिरात्रे प्रत्यपद्यत ।। ३३ ।।
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् ।।
मानसं सृज्य विषयं बुद्धिर्विस्तारगामिनी ।।३४ ।।
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः ।।
यानि तस्यैव भोज्यानि मूलानि च फलानि च ।। ३५ ।।
यानि कानि च भक्ष्याणि नवश्च रससंभवः ।।
यानि तस्यैव चेष्टानि सर्वमेतदुदाहरेत् ।। ३६ ।।
आमन्त्र्य ब्राह्मणं पूर्वं शुचिर्भूत्वा समाहितः ।।
दक्षिणावर्ततः सर्वमकरोदृषिसत्तमः ।। ३७ ।।
सप्तकृत्वस्ततस्तत्र युगपत्समुपाविशत् ।।
दत्त्वा तु मांसशाकानि मूलानि च फलानि च ।।३८।।
पूजयित्वा तु विप्रान्स सप्तकृत्वश्च सुन्दरि ।।
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः ।। ३९ ।।
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ।।
तत्कृत्वा स मुनिश्रेष्ठो धर्मसंकल्पमात्मनः ।। 187.४०।।
एवं दिने गते भद्रे ह्यस्तं प्राप्ते दिवाकरे ।।
ब्रह्म कर्मोत्तमं दिव्यं भावसाध्यमुपासत ।। ४१ ।।
एकाकी यतचित्तात्मा निराशी निष्परिग्रहः ।।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।। ४२ ।।
नात्युच्चं नातिनीचं च चेलाजिनकुशोत्तरम् ।।
तत्रैकाग्रं मनः कृत्वा यतचित्तो जितेन्द्रियः ।। ४३ ।।
उपविश्यासनेऽयुञ्जद्योगमात्मविशुद्धये ।।
समं कायशिरोग्रीवं धारयन्नचलं स्थितः ।। ४४ ।।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।।
प्रकाशात्मा विगतभीर्ब्रह्मचारी व्रते स्थितः ।। ४५ ।।
संयम्य मयि चित्तं यो युक्त आसीत मत्परः ।।
प्रयुञ्जीत तदात्मानं मद्भक्तो नान्यमानसः ।। ४६ ।।
एवं निवृत्तसंध्यायां ततो रात्रिरुपागता ।।
पुनश्चिन्तितुमारब्धः शोकसंविग्नमानसः ।। ४७ ।।
कृत्वा तु पिण्ड संकल्पं पश्चात्तापं चकार ह ।।
अकृतं मुनिभिः सर्वं किं मया तदनुष्ठितम् ।। ४८ ।।
निवापकर्म ह्यशुचि पुत्रार्थे विनियोजितम् ।।
अहो स्नेहप्रभावेण मया चाकृतबुद्धिना ।।४९।।
कथं ते मुनयः शापात्प्रदहेयुर्न मामिति ।।
सदेवासुरगन्धर्वपिशाचोरगराक्षसाः ।। 187.५०।।
किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः ।।
एवं विचिन्त्यमानस्य गता रात्रिर्वसुन्धरे ।। ५१ ।।
पूर्वसन्ध्यानु सम्प्राप्ता उदिते च दिवाकरे ।।
सन्ध्याविधिं विनिर्वर्त्त्य हुत्वाग्नीन्द्विजसत्तमः।। ५२ ।।
पुनश्चिन्तां प्रपन्नः स आत्रेयो ह्यतिदुःखितः ।।
एकाकी भाषते तत्र शोकपीडितमानसः ।। ५३ ।।
धिग्वयो धिक्च मे कर्म धिग्बलं धिक्च जीवितम् ।।
पुत्रं सर्वसुखैर्युक्तं जीवितं हि न दृश्यते ।। ५४ ।।
नरकं पूतिकाख्यातं हृदि दुःखं विदुर्बुधाः ।।
परित्राणं ततः पुत्रादिच्छन्तीह परत्र च ।। ५५ ।।
पूजयित्वा तु देवांश्च दत्त्वा दानं त्वनेकशः ।।
हुत्वाग्निं विधिवच्चैव स्वर्गं तु लभते नरः ।। ५६ ।।
पुत्रेण लभते येन पौत्रेण च पितामहाः ।।
अथ पुत्रस्य पौत्रेण मोदन्ते प्रपितामहाः ।। ५७ ।।
पुत्रेण श्रीमता हीनं नाहं जीवितुमुत्सहे ।।
एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः ।। ५८ ।।
जगाम तापसारण्यमृष्याश्रमविभूषितम् ।।
सर्वकामयुतं रम्यं बहुपुष्पफलोदकम् ।। ५९ ।।
तत्प्रविश्याश्रमपदं भ्राजमानं स्वतेजसा ।।
तं दृष्ट्वा पूजयामास स्वागतेनाथ धर्मवित् ।। 187.६० ।।
तस्मै दत्त्वा पाद्यमर्घ्यं आसने चोपवेश्य च ।।
उपविश्यासने देवि नारदो वाक्यमब्रवीत ।। ६१ ।।
नारद उवाच ।।
निमे शृणु महाप्राज्ञ शोकमुत्सृज्य दूरतः ।।
अशोच्यानन्वशोचस्त्वं प्रज्ञावान्नावबुध्यसे ।। ६२ ।।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।।
मृतं वा यदि वा नष्टं यो यान्तमनुशोचति ।। ६३ ।।
अमित्रास्तस्य हृष्यन्ति स चापि न निवर्त्तते ।।
अमरत्वं न पश्यामि त्रैलोक्ये सचराचरे ।। ६४ ।।
देवतासुरगन्धर्वा मानुषा मृगपक्षिणः ।।
सर्वे कालवशं यान्ति सर्वे कालमुदीक्षते ।। ६५ ।।
जातस्य सर्वभूतस्य कालो मृत्युरुपस्थितः ।।
अवश्यं चैव गन्तव्यं कृतान्तविहितेन च ।। ६६ ।।
तव पुत्रो महात्मा वै श्रीमान्नाम श्रियो निधिः ।।
पूर्णं वर्षसहस्रं तु तपः कृत्वा सुदुश्चरम् ।। ६७ ।।
मृत्युकालमनुप्राप्य गतो दिव्यां परां गतिम् ।।
एतत्सर्वं विदित्वा तु नानुशोचितुमर्हति ।। ६८ ।।
नारदेनैवमुक्ते तु श्रुत्वा स द्विजसत्तमः ।।
प्रणम्य शिरसा पादौ निमिरुद्विग्नमानसः ।। ६९ ।।
भीतो गद्गदया वाचा निःश्वसंश्च मुहुर्मुहुः ।।
सव्रीडो भाषते विप्रः कारुण्येन समन्वितः ।। 187.७० ।।
अहो मुनिवरश्रेष्ठ अहो धर्मविदां वर ।।
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः ।। ७१ ।।
प्रणयात्सौहृदाद्वापि स्नेहाद्वक्ष्यामि तच्छृणु ।।
शोको निरन्तरं चित्ते ममैतद्धृदि वर्त्तते ।। ७२ ।।
कृतस्नेहस्य पुत्रार्थे मया संकल्प्य यत्कृतम् ।।
तर्पयित्वा द्विजान्सप्त अन्नाद्येन फलेन च ।। ७३ ।।
पश्चाद्विसर्जितं पिण्डं दर्भानास्तीर्य भूतले ।।
उदकानयनं चैव ह्यपसव्येन वासितम् ।। ७४ ।।
शोकस्य तु प्रभावेण एतत्कर्म मया कृतम् ।।
अनार्यजुष्टमस्वर्ग्यमकीर्त्तिकरणं द्विज ।। ७५ ।।
नष्टबुद्धिस्मृतिसत्त्वो ह्यज्ञानेन विमोहितः ।।
न च श्रुतं मया पूर्वं न देवैर्ऋषिभिः कृतम् ।। ७६ ।।
भयं तीव्रं प्रपश्यामि मुनिशापात्सुदारुणात् ।।
नारद उवाच ।।
न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज ।। ७७ ।।
अधर्मं न च पश्यामि धर्मो नैवात्र संशयः ।।
नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत् ।। ७८ ।।
कर्मणा मनसा वाचा पितरं शरणं गतः ।।
ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः ।। ७९ ।।
ध्यायमानस्ततोऽप्याशु आजगाम तपोधनम् ।।
पुत्रशोकेन सन्तप्तं पुत्रं दृष्ट्वा तपोधनम् ।। 187.८० ।।
पुत्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ।।
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधन ।। ८१ ।।
पितृयज्ञेति निर्दिष्टा धर्मोऽयं ब्रह्मणा स्वयम् ।।
ततो ह्यतितरो धर्मः क्रतुरेकः प्रतिष्ठितः ।। ८२ ।।
कृतः स्वयंभुवा पूर्वं श्राद्धं यो वित्त्वित्तमः ।।
शृण्वतो नारदस्यापि विधिं विधिविदां वरः ।। ८३ ।।
श्राद्धकर्मविधिं चैव प्रेतकर्म च या क्रिया।।
शृषु सुन्दरि तत्त्वेन यथा दाता सपुत्रकः ।।८४।।
मम चैव प्रसादेन तस्य बुद्धिं ददाम्यहम् ।।
जातस्य सर्वभूतस्य कालमृत्युरुपस्थितः ।। ८५ ।।
अवश्यमेव गन्तव्यं धर्मराजस्य शासनात् ।।
अमरत्वं न पश्यामि पिपीलादीनि जन्तवः ।। ८६ ।।
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।।
मोक्षः कर्मविशेषेण प्रायश्चित्तेन च ध्रुवम् ।। ८७ ।।
सत्त्वं रजस्तमश्चैव त्रयः शारीरजाः स्मृताः ।।
अल्पायुषो नराः पश्चाद्भविष्यन्ति युगक्षये ।। ८८ ।।
सात्त्विकं नावबुद्ध्यन्ति कर्मदोषेण तामसः ।।
तामसं नरकं विन्द्यात्तिर्यग्योनिं च राक्षसीम्।।८९।।
सात्त्विकं मुक्तियानाय यान्ति वेदविदो जनाः।।
धर्मज्ञानं तथैश्वर्यं वैराग्यमिति सात्विकम् ॥187.९०॥
क्रूरो भीरुर्विषादि च हिंसको निरपत्रपः॥
अज्ञानान्धश्च पैशाचमेतेषां तामसा गुणाः॥९१॥
तामसं तद्विजानीयादुच्यमानो न बुद्ध्यति ॥
दुर्मदोऽश्रद्धधानश्च विज्ञेयास्तामसा नराः ॥ ९२ ॥।
प्रबलो वाचि युक्तश्चाचलबुद्धिः सदायतः ॥
शूरः सर्वेषु व्यक्तात्मा विज्ञेया राजसा नराः।।९३।।
क्षान्तो दान्तो विशुद्धात्मा विज्ञेयः श्रद्धयान्वितः।।
तपःस्वाध्याशीलश्च एतेषां सात्विका गुणाः।।९४।।
एवं सञ्चिन्तयानस्तु न शोकं कर्तुमर्हसि ॥
त्यज शोकं महाभाग शोकः सर्वविनाशनः ॥ ९५ ।॥
शोको दहति गात्राणि बुद्धिः शोकेन नश्यति ॥
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः ॥९६॥
त्यजन्ति सर्वधर्मश्च शोकेनोपहतं नरम्॥
एवं शोकं त्यजित्वा तु निःशोको भव पुत्रक ॥९७॥
मूढ: स्नेहप्रभावेण कृत्वा हिंसानृते तथा ॥
पच्यते नरके घोरे ह्यात्मदोषैर्वसुन्धरे॥ ९८ ॥
स्नेहं सर्वेषु संयम्य बुद्धिं धर्मे नियोजयेत् ॥
धर्मलोक हितार्थाय शृणु सत्यं ब्रवीम्यहम् ॥९९॥
चातुर्वर्णस्य वक्ष्यामि यश्च स्वायंभुवोऽब्रवीत् ॥
नेमिप्रभृतिनामेवं येन श्राद्धं प्रवर्त्तते॥187.१००॥
कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः ॥
ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥ १० १ ॥
कुशास्तरणशायी च दिशः सर्वा न पश्यति॥
लब्धस्मृतिर्मुहूर्तं तु यावज्जीवो न पश्यति ॥१०२॥
वाचयेत्स्नेहभावेन भूमिदेवा द्विजातयः ॥
सुवर्णं च हिरण्यं च यथोत्पन्नेन माधवि ॥१०३॥
परलोकहितार्थाय गोप्रदानं विशिष्यते ॥
सर्वदेवमया गाव ईश्वरेणावतारिताः ॥ १०४ ।॥
अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले ॥
एतासां चैव दानेन शीघ्रं मुच्येत किल्बिषात् ॥१०५॥
पश्चाछ्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥
यावत्प्राणान्प्रमुञ्चेत कृत्वा कर्म सुदुष्करम् ॥१०६॥
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम्॥
प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम् ॥१०७॥
मंत्रेणानेन कर्तव्यं सर्वसंसारमोक्षणम् ॥
मधुपर्कं त्वरन् गृह्य चेमं मन्त्रमुदाहरेत् ॥ १०८॥
मन्त्रः-
ॐ गृह्णीष्व मे सुविमलं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम् ॥
नारायणेन रचितं भगवत्प्रियाणां दाहे च शान्तिकरणं सुरलोकपूज्यम् ॥ १०९ ॥
तत एतेन मन्त्रेण दद्याद्वै मधुपर्ककम् ॥
मृत्युकाले तु पुरुषो परलोकसुखावहम् ॥ 187.११० ॥
एवं विनिस्सृते प्राणे संसारं च न गच्छति ॥
नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशङ्गतम् ॥१११॥
महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥११२॥।
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च ॥
दक्षिणायां शिरः कृत्वा सलिले सन्निधाप्य च ॥११३॥
तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः॥११४॥
कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा॥
कौशिकी च पयोष्णी च सर्वपापप्रणाशिनी ॥११५॥
गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नव वाराहे तीर्थे पिण्डारके तथा ॥ ११६ ॥|
पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥
सर्वाणि मनसा ध्यात्वा स्नानमेवं तु कारयेत् ॥ ११७ ।॥
प्राणैर्हृतं तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा ॥११८॥
दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम् ॥
प्रज्वाल्य विधिवत्तत्र मन्त्रमेतमुदाहरेत्॥११९॥।
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता॥
मृत्युकालवशं प्राप्य नरः पंचत्वमागतः ॥187.१२०॥
धर्माधर्मसमायुक्तो लोभमोहसमावृतः ॥
दह चैतस्य गात्राणि देवलोकं स गच्छतु ॥ १२१ ।॥
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणाम् ॥
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥ १२२ ॥।
चातुर्वर्ण्येषु संस्कारमेवं भवति पुत्रक ॥
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्तयेत्॥१२३॥
मृतं नाम तथोद्दिश्य दद्यात्पिण्डं महीतले॥
तदाप्रभृति चाशेोचं देवकर्म न कारयेत्॥१२४॥
इति श्रीवराहपुराणे भगवच्छास्त्रे श्राद्धोत्पतिनिरूपणं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥