प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १८८ वराहपुराणम्
अध्यायः १८९
[[लेखकः :|]]
अध्यायः १९० →

अथ पिण्डकल्पोत्पत्तिप्रकरणम् ।।
धरण्युवाच ।।
श्रुतं श्राद्धं यथावृत्तं शौचाशौचांश्च सर्वशः ।।
चतुर्णामपि वर्णानां प्रेतभोज्यं यथाविधि ।। १ ।।
उत्पन्नं संशयं मेऽद्य भगवन्वक्तुमर्हसि ।।
चातुर्वर्ण्येषु सर्वेषु दद्याद्दानं द्विजोत्तमे ।। २ ।।
प्रतिगृह्णन्ति ये तत्र प्रेतभागं विशेषतः ।।
अनिष्टं गर्हितं तत्र प्रेतेन सह भोजनम् ।। ३ ।।
भुक्त्वा तेषां द्विजो देव मुच्यते केन कर्मणा ।।
कथं ते तारयिष्यन्ति दातारं पुरुषोतम ।। ४ ।।
प्रणयात्स्त्रीस्वभावेन पृच्छामि त्वां जनार्दन ।।
एवमुक्तोऽपि भूम्या ऽसौ शंखदुन्दुभिनिःस्वनः ।। ५ ।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।।
श्रीवराह उवाच ।।
साधु भूमे वरारोहे यन्मां त्वं परिपृच्छसि ।।६।।
कथयिष्यामि ते देवि तारयन्ति यथा द्विजाः।।
भुक्त्वा तु प्रेतभोज्यानि ब्राह्मणो ज्ञानदुर्बलः ।। ७ ।।
विशोधनार्थं देहस्य उपवासं तु कारयेत् ।।
अहोरात्रोषितो भूत्वा विप्रो ज्ञानेन संयुतः ।। ८ ।।
पूर्वसंध्यां विनिर्वर्त्य कृत्वा चैवाग्नितर्पणम् ।।
तिलहोमं प्रकुर्वीत शान्तिमङ्गलपाठकः।।९।।
प्राक्स्रोतसं नदीं गत्वा स्नानं कृत्वा विधानतः ।।
पंचगव्यं ततः पीत्वा मधुपर्केण संयुतम् ।। 189.१० ।।
औदुम्बरे च पात्रे च कृत्वा शान्त्युदकानि च।।
प्रोक्षयेच्च गृहं सर्वं यत्रातिष्ठत्स्वयं द्विजः ।। ११ ।।
देवाश्चाग्निमुखाः सर्वे तर्पयित्वा विभागशः ।।
भूतानां च बलिं दद्याद्ब्राह्मणेभ्यश्च भोजनम् ।। १२ ।।
एका गौस्तु प्रदातव्या पापक्षयकरी तदा ।।
एवं तु कुरुते यश्च स याति परमां गतिम् ।। १३ ।।
प्रेतान्ने चोदरस्थे तु कालधर्ममुपागतः ।।
आकल्पं नरके घोरं वसमानः सुदुःखितः ।। १४ ।।
प्राप्नोति राक्षसत्वं वै ततो मुच्येत किल्बिषात् ।।
प्रायश्चित्तं तु कर्त्तव्यं दातृभोक्तृसुखावहम् ।। १५ ।।
गोहस्त्यश्वधनादीनि सागरान्तानि माधवि ।।
प्रतिगृह्णन्ति ये विप्रा मन्त्रेण विधिपूवर्कम् ।। १६ ।।
प्रायश्चित्तं चरेद्यस्तु स तारयति निश्चितम् ।
द्विजो ज्ञानेन सम्पन्नो वेदाभ्यासरतः सदा ।। १७ ।।
स तारयति चात्मानं दातारं नैव संशयः ।।
ब्राह्मणो नावमन्तव्यस्त्रिभिर्वर्णैर्धराधरे ।। १८ ।।
दैवे च जन्मनक्षत्रे श्राद्धकाले च पर्वसु ।।
प्रेतकार्येषु सर्वेषु परीक्ष्य निपुणं द्विजम् ।। १९ ।।
वेदविद्याव्रतस्नातं बहुधर्मनिरन्तरम् ।।
शीलयुक्तं सुसन्तुष्टं धर्मज्ञं सत्यवादिनम् ।। 189.२० ।।
क्षमायुक्तं च शास्त्रज्ञमहिंसायां रतं तथा ।।
एभिर्गुणैस्तु संयुक्तं ब्राह्मणं प्राप्य सत्वरः ।। २१ ।।
दद्याद्दानानि विप्राय स वै तारयितुं क्षमः ।।
कुण्डगोलेषु यद्दत्तं निष्फलं तत्तु जायते ।। २२ ।।
कुण्डगोलं प्रतिग्राहि दातारं चाप्यधो नयेत् ।।
पित्र्ये कर्मणि चैकं तु कुण्डं वा गोलकं तथा ।। २३ ।।
दृष्ट्वा तं पितरो यान्ति निराशा निरयं द्रुतम् ।।
दैवे कर्मणि चैवं तु तेषां दत्तं सुनिष्फलम् ।। २४ ।।
तस्माद्दानं न दातव्यमपात्राय यशस्विनि ।।
अत्रार्थे यत्पुरा वृत्तं तच्छृणुष्व वसुन्धरे ।।२५।।
अवन्तीविषये कश्चिद्राजा ह्यत्यन्तधार्मिकः ।।
नाम्ना मेधातिथिश्चैव मनुवंशविवर्द्धनः ।। २६ ।।
राज्ञः पुरोहितश्चासीच्चन्द्रशर्म्मा द्विजोत्तमः ।।
आत्रेयगोत्रे चोत्पन्नो वेदवादरतः सदा ।। २७ ।।
स राजा ब्राह्मणेभ्यश्च गा ददाति दिने दिने ।।
शतं दत्त्वा विधानेन पृश्चाद्भुङ्क्ते नराधिपः ।। २८ ।।
गते बहुतिथे काले राज्ञो मेधातिथेः पितुः ।।
श्राद्धस्य दिवसः प्राप्तो वैशाखे वरवर्णिनि ।।
विप्रानाह्वापयामास पितुर्वै श्राद्धकारणात् ।। २९ ।।
आगतान्ब्राह्मणान्दृष्ट्वा मेधातिथिरकल्मषः ।।
विप्रान्नत्वा गुरुं चैव श्राद्धारम्भमथाकरोत् ।। 189.३० ।।
श्राद्धं कृत्वा तु विधिवत्पिण्डान्निर्वाप्य यत्नतः ।।
श्राद्धसंकल्पितं चान्नं विप्रेभ्यः प्रददौ बहु ।। ३१ ।।
तन्मध्ये ब्राह्मणः कश्चिद्गोलकोऽवस्थितस्तदा ।।
श्राद्धे संकल्पितं चान्नं तस्मै दत्तं विधानतः ।। ३२ ।।
तेनैव श्राद्धदोषेण राज्ञस्तु पितरस्तदा ।।
स्वर्गाद्भ्रष्टावलम्बन्ते वने कण्टकसंयुते ।।३३।।
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ते च पुनः पुनः ।।
कदाचिद्दैवयोगेन राजा मेधातिथिः स्वयम्।।३४।।
मृगयार्थं गतस्तत्र द्वित्रैः परिजनैर्वृतः ।।
तत्रावलम्बतो दृष्ट्वा तानपृच्छद्द्विजप्रियः ।। ३५ ।।
के भवन्तोऽत्र संप्राप्ता दशामेतां सुदुःखिताः ।।
केन कर्मविपाकेन भवन्तः कथयन्तु मे ।। ३६ ।।
पितर ऊचुः ।।
अस्मद्वंशकरो नित्यं नाम्ना मेधातिथिः प्रभुः ।।
वयं तस्यैव पितरो नरकं गन्तुमुद्यताः ।।३७।।
तेषां तु वचनं श्रुत्वा राजा दुःखसमन्वितः ।।
उवाच तान्पितॄन्सर्वान्सान्त्वपूर्वमिदं वचः ।।३८ ।।
मेधातिथिरुवाच।।
मेधातिथिरहं नाम्ना भवन्तः पितरो मम ।।
केन वै कर्मदोषेण निरयं गन्तुमुद्यताः ।। ३९ ।।
पितर ऊचुः ।।
श्राद्धं संकल्पितं चान्नं दत्तं तद्गोलकाय वै ।।
तेनैव कर्मदोषेण नरकं गन्तुमुद्यताः ।। 189.४० ।।
तत्र दुःखं महद्भुक्त्वा पुनर्गच्छामहे दिवम् ।।
पुत्र त्वं चैव दाता च सर्वलोकहिते रतः ।। ४१ ।।
असंख्यातास्त्वया दत्ता गावः सुबहुदक्षिणा।।
तेन पुण्येन गच्छामः स्वर्गं ह्यतिसुखप्रदम्।।४२।।
तत्र चान्नं न विद्येत येन तृप्तिर्भविष्यति ।।
पुनः श्राद्धं त्वया कार्यं पितॄणां तृप्तिदायकम् ।। ४३।।
तेषां तु वचनं श्रुत्वा मेधातिथिरगाद्गृहम् ।।
आहूय चन्द्रशर्मार्णं गुरुं वचनमब्रवीत् ।। ४४ ।।
मेधातिथिरुवाच ।।
चन्द्रशर्मन्पुनः श्राद्धं करिष्ये पितुरद्य वै ।।
आहूयन्तां द्विजाः सर्वे कुण्डगोलकवर्जिताः ।। ४९ ।।
इत्युक्तमात्रे वचने चन्द्रशर्मा पुरोहितः ।।
आहूतवान्द्विजान्सर्वान्वेदपाठकृतश्रमान् ।। ४६।।
साधून्क्षांतान्कुलीनांश्च सुशीलान्मानवर्जितान् ।।
राज्ञा तु कारयामास श्राद्धं विधिविदां वरः ।। ४७ ।।
कृते श्राद्धे ततः पश्चात्पिण्डान्निर्वाप्य यत्नतः ।।
ब्राह्मणान्भोजयामास दक्षिणाभिः प्रपूज्य च ।। ४८ ।।
पश्चाद्विसर्जयामास स्वयं तु बुभुजे नृपः ।।
भुक्त्वा पुनर्वनं गत्वा दृष्टवांश्च स्वकान्पितॄन् ।।४९।।
हृष्टान्पुष्टान्बलैर्युक्तान्राजा तु मुमुदे भृशम् ।।
दृष्ट्वा तु पितरश्चैव राजानं पितृवत्सलम् ।। 189.५० ।।
ऊचुर्विनयसम्पन्नाः प्रीतिपूर्वमिदं वचः।।
स्वस्ति तेऽस्तु गमिष्यामः स्वर्गलोकं प्रति प्रभो ।। ५१ ।।
इदानीं च त्वया कार्यमस्मद्धितमनुऽत्तमम् ।।
गोलकाय न दातव्यं दैवं पित्र्यमथापि वा ।। ९२ ।।
तयोर्दत्तं तु यच्छ्राद्धं निष्फलं तत्स्मृतं बुधैः ।।
दैवे कर्मणि दिव्ये च ब्राह्मणो नैव लभ्यते ।। ५३।।
सङ्कल्पयित्वा चान्नं तु गोभ्यो देयं यथाविधि ।।
गवामभावे नद्यां वा क्षिपेदन्नं प्रयत्नतः ।। ५४ ।।
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे ।।
गोलकाय न दातव्यं कुण्डाय च विशेषतः ।।५५।।
इत्युक्त्वा पितरः सर्वे गताः स्वर्गाय भामिनि।।
मेधातिथिरपि प्रायात्स्वपुरं ब्राह्मणैर्वृतः।।५६।
यदुक्तं पितृभिः सर्वं तच्चकार मुदायुतः ।।
तस्मात्ते कथितं देवि एकोऽपि ब्राह्मणोत्तमः ।।५७।।
सन्तारयति दुर्गेभ्यो विषमेभ्यो न संशयः ।।
एकोऽपि तारितुं शक्तो यथा नावा महज्जलम् ।।५८ ।।
तस्माद्दानं प्रदातव्यं ब्राह्मणाय वसुन्धरे ।।
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।। ५९ ।।
सर्वे श्राद्धं करिष्यन्ति निमिप्रभृतयो धरे ।।
मासे मासे च वै पश्चात्पितृपक्षे तपोधनाः ।। 189.६० ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे पिण्डकल्पोत्पत्तिर्नामेकोननवत्यधिकशततमोऽध्यायः ।। १८९ ।।