← अध्यायः १८९ वराहपुराणम्
अध्यायः १९०
[[लेखकः :|]]
अध्यायः १९१ →

अथ श्राद्धपितृयज्ञनिश्चयप्रकरणम् ।।
धरण्युवाच ।।
देवमानुषतिर्यक्षु प्रेतेषु नरकेषु च ।।
आयान्ति जन्तवः केचिद्भूत्वा गच्छन्ति चापरे ।। १ ।।
स्वप्नोपममिमं लोकं ह्यात्मकर्म शुभाशुभम् ।।
वर्त्तते तिष्ठते देव तव मायाबलैर्जगत् ।। २ ।।
क एते पितरो देव श्राद्धं भोक्ष्यन्ति योगतः ।।
आत्मकर्मवशाल्लोके गतिः पञ्चसु वर्त्तते ।। ३ ।।
कथं तं पिण्डसङ्कल्पं मासे मासे नियोजयेत् ।।
के भवन्ति च भोक्तारः श्राद्धे पिण्डान्पितृक्रियाः ।। ४ ।।
निश्चयं श्रोतुमिच्छामि परं कौतूहलं हि मे ।।
पृथिव्या एवमुक्तस्तु देवो नारायणो हरिः ।।५।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम्।।
श्रीवराह उवाच ।।
साधु भूमे वरारोहे सर्वधर्मव्यवस्थिते ।। ६ ।।
कथयिष्यामि ते देवि यन्मां त्वं परिपृच्छसि ।।
ये ते भवन्ति भोक्तारः पितृयज्ञेषु माधवि ।।७।।
पिता पितामहश्चैव तथैव प्रपितामहः ।।
क्रियते पिण्डसङ्कल्पो मासे ह्येकदिने तथा।।८।।
ज्ञात्वा नक्षत्रसंयोगं पितृपक्षे ह्युपागते ।।
तिथिं पर्वं विजानीयाद्येषु दत्तं महत्फलम् ।। ९ ।।
करिष्यन्ति च ये श्राद्धं श्रद्धया ज्ञानिनो जनाः ।।
तत्सर्वं कथयिष्यामि श्रूयतां शुभ लोचने ।। १९०.१० ।।
केचिद्यजन्ति यज्ञं वै ब्रह्मयज्ञं द्विजातयः ।।
केचिद्यजन्ति सुभगे देवयज्ञं हुताशने ।। ११।।
केचिच्च भूतयज्ञेन वर्त्तयन्ति सुमध्यमे ।।
केचिन्मनुष्ययज्ञेन पूजयन्ति गृहाश्रमे ।। १२ ।।
पितृयज्ञं च भो देवि शृणु वक्ष्यामि निश्चयम् ।।
ये यजन्ति वरारोहे क्रतूनेकशतैरपि ।। १३ ।।
सर्वे ते मयि वर्त्तन्ते सत्यमेतद्ब्रवीमि ते ।।
अग्निर्मुखं च देवानां हव्यकव्येषु माधवि ।। १४ ।।
उत्तरोऽग्निरहं चैव दक्षिणाग्निरहं तथा।।
अहमाहवनीयोऽग्निः सर्वयज्ञेषु सुन्दरि ।। १५ ।।
पावनः पावकश्चैव अहमेव व्यवस्थितः ।।
सर्वेष्वेव तु कार्येषु देवसत्रेषु माधवि।।१६।।
वैश्वदेवे नियुञ्जीत ब्रह्मचारी शुचिः सदा ।।
भिक्षुको देवतीर्थेषु वानप्रस्थो यतिस्तथा ।। १७ ।।
एतान्न भोजयेच्छ्राद्धे देवतीर्थेषु पूजयेत् ।।
व्रतस्थान्संप्रवक्ष्यामि श्राद्धमर्हन्ति ये द्विजाः ।। १८ ।।
उत्तमो गृहसन्तुष्टः क्षान्तो दान्तो जितेन्द्रियः ।।
उदासीनः सत्यसन्धः श्रोत्रियो धर्म पाठकः ।। १९ ।।
वेदविद्याव्रतस्नातो सुविमृष्टान्नभोजकः ।।
ईदृशान्भोजयेच्छ्राद्धे पितृयज्ञेषु माधवि ।। १९०.२० ।।
दत्त्वा हुताशनायादौ देवतीर्थेषु सुन्दरि ।।
मुखेषु पश्चाद्ब्राह्मणस्य पित्रे दद्याद्यथाविधि ।। २१ ।।
चतुर्णामेव वर्णानां यद्यथा श्राद्धमर्हति ।।
तथा विधिः प्रयोक्तव्यः पितृयज्ञेषु सुन्दरि ।। २२ ।।
यन्न पश्यन्ति ते भोज्यं श्वानः कुक्कुटसूकराः ।।
ब्राह्मणाश्चाप्यपांक्तेया नराः संस्कारवर्जिताः ।।२३ ।।
सर्वकर्मकरा ये च सर्वभक्षाश्च ये नराः ।।
एताञ्श्राद्धे न पश्येत्तु पितृयज्ञेषु सुन्दरि ।। २४ ।।
एते पश्यन्ति यच्छ्राद्धं तच्छ्राद्धं राक्षसं विदुः ।।
मया प्रकल्पितो भागो बलये पूर्वमेव तु ।। २५।।
हृतं यदा तु त्रैलोक्यं शक्रस्यार्थे त्रिविक्रमे ।।
एवं श्राद्धं प्रतीक्षन्ति मन्त्रहीनमविक्रियम् ।। २६ ।।
वर्जनीया बुधैरेते पितृयज्ञेषु सुन्दरि ।।
प्रच्छन्नं भोजयेच्छ्राद्धे तर्पयित्वा द्विजं शुचिः ।। २७ ।।
पितॄंस्तत्राह्वयेद्भूमे मन्त्रेण विधिपूर्वकम् ।।
पिण्डास्त्रयः प्रदातव्याः सह व्यञ्जनसंयुताः ।। २८ ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।।
अपसव्येन दातव्यं मासिमासि तिलोदकम् ।। २९ ।।
प्रणम्य शिरसा देवीर्निर्वापस्य च धारिणीः ।।
वैष्णवी काश्यपी चेति अजया चेति नामतः ।। १९०.३० ।।
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ।।
परमात्मा शरीरस्थो देवतानां मया कृतः ।। ३१ ।।
त्रयस्तत्र वरारोहे देवगात्राद्विनिस्सृताः ।।
पितृदेवा भविष्यन्ति भोक्तारः पितृपिण्डकान् ।। ३२ ।।
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः ।।
छिद्रं श्राद्धेऽस्य पश्यन्ति वायुभूता न संशयः ।। ३३ ।।
पितृयज्ञं विशालाक्षि ये कुर्वन्ति विदो जनाः ।।
आयुः कीर्तिं बलं तेजो धनपुत्रपशुस्त्रियः ।। ३४ ।।
ददन्ते पितरस्तस्य आरोग्यं नात्र संशयः ।।
आत्मकर्मवशाल्लोकान् प्राप्नुवन्तीह शोभनान् ।।३५।।
तिर्यग्भ्यश्च विमुच्यन्ते प्रेतभावेन मानवाः ।।
नरके पच्यमानानां त्राता भवति मानवः।।३६।।
पूजकः पितृदेवानां सर्वकालं गृहाश्रमे ।।
द्विजातींस्तर्पयित्वा तु पूर्णेन विधिना नरः ।। ३७।।
अक्षय्यं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः ।।
नरा ये पितृभक्तास्ते प्राप्नुवन्ति परां गतिम् ।। ३८ ।।
सात्विकं शुक्लपन्थानमेते यान्ति विदो जनाः ।।
पुनरन्यत्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।।३९।।
अज्ञानतमसारूढा निकृतिज्ञाः शठास्तथा ।।
स्नेहपाशशतेनैव पच्यन्ते नरके नराः ।। १९०.४० ।।
कल्पान्तं पच्यमानापि त्रायन्ते येन मानवाः ।।
तेषां पुत्राश्च पौत्राश्च कदाचिदपि सुन्दरि।।४१ ।।
मुंचन्ति जलबिन्दूंश्च अमां प्राप्य जलाशये ।।
तेनैव भविता तृप्तिस्तेषां निरयगामिनाम् ।।४२।।
ये वै श्राद्धं प्रकुर्वन्ति तर्पयित्वा द्विजातयः ।।
दत्त्वा तिलोदकं पिण्डान् पितृभ्यो भक्तिभावतः ।। ४३ ।।
निरयात्तेऽपि मुच्यन्ते तृप्तिर्भवति चाक्षया ।।
गृह्य चौदुम्बरं पात्रं कृत्वा तत्र तिलोदकम् ।।४४।।
विप्राणां वचनं कृत्वा यथाशक्त्या च दक्षिणा ।।
देया तेषां तु विप्राणां पितॄणां मोक्षणाय च ।। ४५ ।।
देयो नीलो वृषस्तत्र नरकार्त्तिविनाशनः ।।
नीलषण्डस्य लांगूले तोयमप्युद्धरेद्यदि ।। ४६ ।।
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ।।
मुक्तमात्रेण शृङ्गेण नीलषण्डेन सुन्दरि ।। ४७ ।।
उद्धृतो यदि सुश्रोणि पंकः शृङ्गेण तेन च ।।
बान्धवाः पितरस्तस्य निरये पतितास्तु ये ।। ४८ ।।
तानुद्धृत्य वरारोहे सोमलोकं स गच्छति ।।
मुक्तेन नीलषण्डेन यत्पुण्यं जायते भुवि ।। ४९ ।।
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।।
सोमलोकेषु मोदन्ते क्षुत्तृड्भ्यां च विवर्जिताः ।। १९०.५० ।।
एष धर्मो गृहस्थानां पुत्र पौत्रसमन्विताः ।।
त्रातारश्च भविष्यन्ति वर्तयन्तो यथासुखम् ।। ५१ ।।
पिपीलिकादिभूतानि जङ्गमाश्च विहङ्गमाः ।।
उपजीवन्ति सुश्रोणि गृहस्थेषु न संशयः ।। ५२ ।।
एवं गृहाश्रमो मूलं धर्मस्तत्र प्रतिष्ठितः ।।
मासिमासि तु ये श्राद्धं प्रकुर्वन्ति गृहाश्रमे ।। ५३ ।।
तिथौ पर्वणि ये चैव स्वपितॄंस्तारयन्ति वै ।। ५४ ।।
न यज्ञदानाध्ययनोपवासैस्तीर्थाभिषेकैरपि चाग्निहोत्रैः ।।
दानैरनेकैर्विधिसम्प्रदत्तैर्न तत्फलं श्राद्धगृहस्य धर्मे ।। ५५ ।।
पितरो निर्गतास्तत्र ब्रह्मविष्णुशरीरगाः ।।
पिता पितामहश्चैव तथैव प्रपितामहः ।। ५६ ।।
एवं क्रमेण वै तत्र पितृदेवा वसुन्धरे ।।
देवताः कश्यपोत्पन्ना श्राद्धेषु विनियोजिताः ।। ५७ ।।
तत एते न जानन्ति देवाः शक्रपुरोगमाः ।।
ईश्वरश्च न जानाति आत्मदेहविनिःसृताः ।। ५८ ।।
न च ब्रह्मा विजानाति निःसृतो मम मायया ।।
एवं मायामयौ भूमौ ब्रह्मरुद्रौ बहिष्कृतौ ।।५९।।
पुनश्चान्यत्प्रवक्ष्यामि पितृयज्ञेषु सुन्दरि ।।
दद्याद्वै ब्राह्मणमुखे नाग्नौ तु जुहुयात्क्वचित् ।।१९०.६० ।।
कृत्वा वै पिण्डसङ्कल्पं दर्भानास्तीर्य भूतले ।।
तेन ते पितृपिण्डेन पितृदेवा वसुन्धरे ।।६१।।
अजीर्णेनाभिपीड्यन्ते भुज्यन्ते न च सुन्दरि ।।
ततो दुःखेन सन्तप्ता पद्यन्ते सोममेव च ।। ६२ ।।
दृष्टाः सोमेन सुश्रोणि देवताजीर्णपीडिताः ।।
स्वागतेनाथ वाक्येन पूजितास्तदनन्तरम् ।। ६३ ।।
सोम उवाच ।।
देवताः कस्य चोत्पन्ना दुखिःताः केन हेतुना ।।
एवं तु भाषमाणस्य सोमस्य तदनन्तरम् ।। ६४ ।।
ऊचुस्ते सोममेवापि वाक्यं नः श्रूयतामिति ।।
त्रयस्तु पितरो देवा ब्रह्मविष्णुहरोद्भवाः ।। ६९ ।।
श्राद्धे नियोजितास्तैस्तु पितृपिण्डेन तर्पिताः ।।
अजीर्णं जायते सोम तेन वै दुःखिता वयम् ।। ६६ ।।
सोम उवाच ।।
सखा चाहं भविष्यामि त्रयाणां च चतुर्थकः ।।
सहितास्तत्र गच्छामो यथा श्रेयो भविष्यति।।६७।।
एवमुक्तास्तु सोमेन पितृदेवास्तदन्तरे ।।
सोमं सोमेन गच्छन्ति श्रेयस्कामा वसुन्धरे ।। ६८ ।।
शरण्यं शरणं देवं ब्रह्माणं पद्मसंभवम् ।।
मेरुशृङ्गे सुखासीनं ब्रह्मर्षिगणसेवितम् ।। ६९ ।।
दृष्ट्वा पितामहं देवं प्रणम्य सहसा क्षितौ ।।
अत्रिपुत्रेण सोमेन भाषितो वै पितामहः ।। १९०.७० ।।
य एते पितरो देव दुःखिताजीर्णपीडिताः ।।
आगताः शरणं चात्र सोमं सोमेन सत्तम ।।७१ ।।
यथा नश्यंति जीर्णानि तथा कुरु पितामह।।
मुहूर्तं ध्यानमास्थाय ईश्वरं च ददर्श ह ।। ७२ ।।
उवाच वचनं तत्र ब्रह्मा योगीश्वरं प्रति ।।
एते ते पितरो देव दुःखिताजीर्णपीडिताः ।। ७३ ।।
आगताः शरणं चात्र सोमेन सहिता मम ।।
आचक्ष्व निर्मिता येन यथा श्रेयो भवेत्तव ।।७४।।
ब्रह्मणा चैवमुक्तस्तु ईश्वरः परमेश्वरः।।
मुहूर्तं ध्यानमास्थाय दिव्यं योगं च माधवि।।७५।।
पश्यते ईश्वरं तत्र योगवेदाङ्गनिर्मितम् ।।
विस्मयं परमं गत्वा ब्रह्माणं वाक्यमब्रवीत् ।।७६।।
निर्मिता विष्णुना ब्रह्मन् वैष्णव्या मायया च ते ।।
प्रथमं पितरौ देवा ये च श्रेष्ठा भवंति ते ।। ७७ ।।
पिता तु ब्रह्मदैवत्यो मम गात्राद्विनिर्मितः ।।
पितामहो विष्णुदेवो विष्णुगात्राद्विनिर्मितः ।। ७८ ।।
प्रपितामहो रुद्रदेवो मम गात्राद्विनिर्मितः ।।
श्राद्धे नियोजितास्तेऽत्र मर्त्त्येषु पितृदेवताः ।। ७९ ।।
ब्राह्मणानां हितार्थाय निर्मिता विष्णुमायया ।।
तर्पिताः पितृयज्ञेषु पितरोऽजीर्णपीडिताः ।। १९०.८० ।।
आगताः शरणं ब्रह्मन्सोमेन सहिता यदि ।।
येन नश्यत्यजीर्णं च पितॄणां च सुखं भवेत् ।।८१।।
शृणु तत्ते प्रवक्ष्यामि ब्रह्मन्लोकपितामह ।।
शाण्डिल्यपुत्रस्तेजस्वी धूम्रकेतुर्विभावसुः ।।८२।।
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा ।।
सह तेनैव भोक्तव्यं पितृपिण्डविसर्जितम् ।। ८३ ।।
ईश्वरेणेवमुक्तस्तु ब्रह्मा कमलसंभवः ।।
आहूय मनसा चैव ह्यागतो हव्यवाहनः ।। ८४ ।।
प्रदीप्तस्तेजसा वह्निः सर्वभक्षो हुताशनः ।।
योजितः पंचयज्ञेषु ब्रह्मणा मम मायया ।।८५।।
ब्रह्माग्निं भाषते तत्र शृणुष्व च हुताशन ।।
भोक्तव्यं प्रथमं ब्रह्मन्पितृपिण्डविसर्जितम् ।।८६।।
त्वया भुक्तेति भोक्ष्यन्ति देवताः समरुद्गणाः ।।
भोक्तव्यं मध्यमं श्राद्धं पथ्यमन्नं च वै सह ।।८७।।
पश्चाद्दत्तं तु तं पिण्डं सह सोमेन भुञ्जते ।।
ब्रह्मणा ह्येवमुक्तास्तु पितृदेवहुताशनाः।।८८।।
प्रस्थिताः सह सोमेन देवतास्ता वसुन्धरे।।
पितृयज्ञं वरारोहे भोक्ष्यन्ति सहिताः सदा।। ८९ ।।
एवं तु प्रथमं श्राद्धं दद्यादग्नेर्वसुन्धरे।।
उद्दिश्य च पितॄन्देवि तर्पयित्वा द्विजातयः।।१९०.९०।।
पश्चात्पिण्डान्प्रदद्याच्च दर्भानास्तीर्य भूतले ।।
प्रथमं ब्रह्मणोंशाय दद्यात्पिण्डं विधानतः।।९१।।
पितामहाय रुद्रांशसंभूताय तु मध्यमम् ।।
प्रपितामहाय विष्णोस्तु दद्यात्पिण्डं महीतले ।। ९२ ।।
विधिना मन्त्रपूर्वेण श्राद्धं कुर्वन्ति ये नराः ।।
तेषां वरं प्रयच्छन्ति पितरः श्राद्धतर्पिताः ।। ९३ ।।
मम मायाबलेनैव कृतं श्राद्धं द्विजातिभिः ।।
अपांक्तेयांस्तथा विप्रान्प्रवक्ष्यामि वसुन्धरे ।। ९४ ।।
नपुंसकाश्चित्रकारा वसुपालविनिन्दकाः ।।
कुनखाः श्यावदन्ताश्च काणाश्च विकटोदराः ।। ९५ ।।
नर्त्तका गायनाश्चैव तथा रङ्गोपजीविनः ।।
वेदविक्रयिणश्चैव सर्वे याजकयाजकाः ।। ९६।।
राजोपसेवकाश्चैव वाणिज्यक्रयविक्रयाः ।।
ब्रह्मयोन्यां समुत्पन्नाः सङ्कीर्णा पतिताश्च ये ।। ९७ ।।
असंस्कारप्रवृत्ताश्च शूद्रकर्मोपजीविनः ।।
शूद्रकर्मकरा ये च गणका ग्रामयाजकाः ।। ९८ ।।
दीक्षितः क्रोडपृष्ठश्च यश्च वार्धुषिको द्विजः ।।
विक्रेतारो रसानां च ये च वैश्योपजीविनः ।। ९९ ।।
तस्करा लेखकाराश्च याजका रङ्गकारकाः ।।
शौलिका गिरिका ये च दाम्भिका ये च माधवि ।। १९०.१०० ।।
सर्वकर्मकरा ये च सर्वविक्रयिणस्तथा ।।
एतान्न भोजयेच्छ्राद्धे पित्रर्थे च वसुन्धरे ।। १०१ ।।
दूराध्वानं गता ये च तत्र कर्मोपजीविनः ।।
रस विक्रयिणश्चैव शैलूषस्तिलविक्रयी ।। १०२ ।।
श्राद्धकालमनुप्राप्तं राजसं तं विदुर्बुधाः ।।
अन्ये ये दूषिता देवि द्विजरूपेण राक्षसाः ।।१०३।।
एतान्न पश्येच्छ्राद्धेषु पितृपिण्डेषु माधवि ।।
अपांक्तेयांस्तथा विप्रान्भुञ्जतः पश्यतो द्विजान् ।। १०४ ।।
पितरस्तस्य षण्मासं दुःखमृच्छन्ति दारुणम् ।।
न्यस्तपात्रं द्रुतं कुर्यात्प्रायश्चित्तमुभौ धरे ।। १०५।।
धृतं तु जुहुयादग्नावादित्यं चावलोकयेत् ।।
पुनरावपनं कृत्वा पितरं च पितामहान् ।।१०६।।
गंधपुष्पं च धूपं च दद्यादर्घ्यं तिलोदकम् ।।
यथाविधिं च विप्राय भोजयेच्च पुनः शुचिः ।। १०७।।
पुनश्चान्यत्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।।
ज्ञानशुद्धेन विप्रेण मन्त्रशुद्धिं यथाविधि ।।१०८।।
मृतान्नं ये न भुञ्जंति कदाचिदपि माधवि ।।
वैश्वदेवेषु दातव्यं श्राद्धेषु च न योजयेत् ।। १०९ ।।
प्रेतान्नं भुञ्जमानास्तु श्राद्धमर्हन्ति ये द्विजाः ।।
तेषां दोषं प्रवक्ष्यामि भुक्तं भोजयते तु सः ।। १९०.११० ।।
दम्भकार कृतोच्छिष्टं कृत्वा तु नरकं व्रजेत् ।।
प्रायश्चित्तं प्रवक्ष्यामि यथा शुध्यन्ति ते नराः ।।१११।।
माघमासे तु द्वादश्यां सर्पिर्युक्तं तु पायसम् ।।
स लिहेन्मधुमांसेन तर्पयित्वा द्विजातयः ।। ११२ ।।
सवत्सां कपिलां दद्यादात्मनः शुद्धिकामुकः ।।
पुनः श्राद्धं प्रकुर्वीत चात्मनः शुभ कामुकः ।। ११३।।
स्नानोपलेपनं भूमे कृत्वा विप्रान्प्रमन्त्रयेत् ।।
दन्तकाष्ठं विसृज्यैव ब्रह्मचारी शुचिर्भवेत् ।।११४।।
यत्नेन मिथुनं श्राद्धे भोजयित्वा विसर्ज्जयेत् ।।
अमायां च विशालाक्षि दन्तकाष्ठं न खादयेत् ।। ११५ ।।
अमायां तु च यो मूर्खो दन्तकाष्ठं हि खादति ।।
हिंसितो हि भवेत्सोमो देवताः पितरस्तथा ।। ११६ ।।
प्रभातायां तु शर्वर्यामुदिते च दिवाकरे ।।
दिवाकृत्यं ततो गृह्य विप्रस्य विधिपूर्वंकम् ।। ११७ ।।
श्मश्रुकर्म च कर्त्तव्यं नखानां छेदनानि च ।।
स्नापनाऽभ्यञ्जने दद्यात्पितृभक्तेन सुन्दरि ।। ११८ ।।
पक्वान्नं तत्र वै कार्यं सुविमृष्टं च शुद्धितः ।।
वृत्ते तु तत्र मध्याह्ने श्राद्धारम्भं तु कारयेत् ।। ११९ ।।
स्वागतं च तथा कृत्वा पाद्यार्थं सलिलं शुचि ।।
पाद्यं दत्त्वा तु विप्राय गृहस्याभ्यन्तरं नयेत् ।। १९०.१२०।।
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम्।।
अर्घ्यं दत्त्वा विधानेन गन्धमाल्यैः प्रपूज्य च ।। १२१ ।।
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा ।।
पात्रं च भोजनस्यार्थे विप्राग्रे धारयेत्तथा ।।१२२ ।।
भस्मना मण्डलं कार्यं पङ्क्ति दोषनिवारकम् ।।
अग्निकार्यं ततः कृत्वा अन्नं च परिवेषयेत् ।। १२३ ।।
तत्र कार्यो न संकल्पः पितॄनुद्दिश्य सुन्दरि ।।
यथासुखेन भोक्तव्यमिति ब्रूयाद्द्विजं प्रति ।। १२४ ।।
रक्षोघ्नमन्त्रपाठांश्च श्रावयीत विचक्षणः ।।
तृप्तं तु ब्राह्मणं दत्त्वा दद्याद्वै विकिरं ततः ।।१२५ ।।
उत्तरीयासनं दत्त्वा पिण्डप्रश्नं तु कारयेत् ।।
दक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य भूतले ।। १२६ ।।
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा ।।
पिण्डानां पूजनं कार्यं तन्तुवृद्ध्यै यथाविधि ।। १२७ ।।
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान् ।।
दक्षिणाभिः प्रतोष्यापि स्वस्ति वाच्यं विसर्जयेत् ।। १२८ ।।
पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले ।।
अप्यायमानाः पितरस्तावत्तिष्ठन्ति वै गृहे ।। १२९ ।।
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च ।।
प्रणम्य शिरसा भूमौ निवापस्य च धारिणीः ।।१९०.१३० ।।
वैष्णवी काश्यपी चेति अक्षया चेति नामतः ।।
भक्षयेत्प्रथमं पिण्डं पत्न्यै देयं तु मध्यमम् ।।१३१ ।।
तृतीयमुदके दद्याच्छ्राद्धे एवं विधिः स्मृतः ।।
पितृदेवांश्च विसृजेत्ततश्च प्रणमेत्तु तान् ।। १३२ ।।
एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः।।
दीर्घायुष्यं प्रयच्छन्ति पुत्रपौत्रधनानि च ।।१३३।।
ज्ञानोत्तमेषु विप्रेषु दद्याच्छ्राद्धं विधानतः।।
अन्यथा तत्तु वै श्राद्धं निष्फलं नास्ति संशयः ।।१३४।।
मन्त्रहीनं क्रियाहीनं यः श्राद्धं कुरुते द्विजः ।।
मद्भक्तस्यासुरेन्द्रस्य फलं भवति भागतः ।।१३५ ।।
उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः।।
राक्षसैर्ह्रियते तच्च भुञ्जतस्तस्य सुन्दरि ।। १३६ ।।
एतत्ते कथितं भद्रे पितृकार्यमनुत्तमम् ।।
उत्पतिश्चैव दानं च यत्पुण्यं कथितं तव ।।१३७।।
अपरं चापि वसुधे किमन्यच्छ्रोतुमिच्छसि ।।१३८।।
इति श्रीवराहपुराणे श्राद्धपितृयज्ञनिश्चयो नाम नवत्यधिकशततमोऽध्यायः ।।१९०।।