← अध्यायः १९१ वराहपुराणम्
अध्यायः १९२
[[लेखकः :|]]
अध्यायः १९३ →

अथ सर्वशान्तिवर्णनम् ।।
सूत उवाच ।।
श्रुत्वा तु मधुपर्क्कस्य ह्युत्पत्तिं दानमेव च ।।
पुण्यं चैव फलं चैव कारणं ग्रहणं तथा ।। १ ।।
विस्मयं परमं गत्वा सा मही संशितव्रता ।।
पादौ गृह्य यथान्यायं प्रत्युवाच जनार्दनम् ।। २ ।।
देव वृत्तोपचारेण तव यन्मनसि प्रियम् ।।
किं च तत्रैव दातव्यं तव कर्मपरायणैः ।। ३ ।।
एतदाचक्ष्व तत्त्वेन तत्र यत्परमं महत् ।।
श्रीवराह उवाच ।।
साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि ।। ४ ।।
कथयिष्यामि तत्सर्वं दुःखसंसारमोक्षणम् ।।
कृत्वा तु मम कर्माणि यत्त्वया पूर्वभाषितम् ।। ५ ।।
पश्चाच्छान्तिं च मे कुर्याद्भूमे राष्ट्रसुखावहम् ।।
सर्वकर्म ततः कृत्वा भूम्यां जानु निपात्य च ।। ६ ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।।
मन्त्रः-
ॐ नमो नमो वासुदेव त्वं गतिस्त्वं परायणम् ।। ७ ।।
शरणं त्वां गतो नाथ संसारार्णवतारक ।।
आगतस्त्वं च सुमुख पुनः समुचितेन वै ।। ८ ।।
दिशः पश्य अधः पश्य व्याधिभ्यो रक्ष नित्यशः ।।
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च ।।९ ।।
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ।।
ब्राह्मणानां च सततं शान्तिं कुरु शुभं कुरु ।। 192.१० ।।
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं तथा ।।
राष्ट्रं प्रवर्द्धतु विभो शान्तिर्भवतु नित्यशः ।। ११ ।।
देवानां ब्राह्मणानां च भक्तानां कन्यकासु च ।।
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः ।। १२ ।।
एवं शान्तिं पठित्वा तु मम कर्मपरायणः।।
पुनर्जलाञ्जलिं दत्त्वा त्विमं मन्त्रमुदाहरेत्।।१३।।
मन्त्रः-
योऽसौ भवान्सर्वजगत्प्रसूतो यज्ञेषु देवेषु च कर्मसाक्षी ।।
शान्तिं कुरु त्वं मम वासुदेव संसारमोक्षं च कुरुष्व देव ।।१४।।
एषा सिद्धिश्च कीर्तिश्च ओजसा तु महौजसम् ।।
लाभानां परमो लाभो गतीनां परमा गतिः ।। १५ ।।
एवं पठति तत्त्वेन मम शान्तिं सुखावहाम् ।।
ते तु मल्लयतां यान्ति पुनरावृत्तिवर्जिताः ।। १६ ।।
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ।।
नमो नारायणायेति चोक्त्वा मन्त्रमुदाहरेत् ।।१७।।
मन्त्रः-
योऽसौ भवान्देववरप्रसूतो यो वै समर्च्यो मधुपर्क्कनामा ।।
आगच्छ सन्तिष्ठ इमे च पात्रे ममापि संसारविमोक्षणाय।।१८।।
सर्पिर्दधिमधून्येव समं पात्रे ह्युदुम्बरे ।।
अलाभे मधुनश्चापि गुडेन सह मिश्रयेत् ।।१९ ।।
घृतालाभे तु सुश्रोणि लाजैः सह विमिश्रयेत् ।।
अलाभे वापि दध्नश्च क्षीरेण सह मिश्रयेत्।।192.२०।।
दधि क्षौद्रं घृतं चैव कारयेत समं तथा ।।
समर्पयामि देवेश रुद्र सर्पिर्घृतं मधु ।।२१।।
सर्वेषामप्यलाभे तु मम कर्मपरायणाः ।।
अप एव ततो गृह्य इमं मन्त्रमुदाहारेत् ।। २२ ।।
मन्त्रः—
योऽसौ भवान्नाभिमात्रप्रसूतो यज्ञैश्च मन्त्रैः सरहस्यजप्यैः ।।
सोऽयं मया ते परिकल्पितश्च गृहाण दिव्यो मधुपर्क्कनामा ।। २३ ।।
यो ददाति महाभागे मयोक्तं विधिपूर्वकम् ।।
सर्वयज्ञफलं प्राप्य मम लोकं प्रपद्यते ।। २४ ।।
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ।।
यो वै प्राणान्प्रमुंचेत मम कर्मपरायणः ।। २५ ।।
तस्य चैवेह दातव्यं मन्त्रेण विधिपूर्वकम् ।।
यावत्प्राणान्प्रमुंचेत कृत्वा कर्म सुपुष्कलम् ।।२६।।
मद्भक्तेन तु दातव्यं सर्वसंसारमोक्षणम् ।।
दृष्ट्वा तु विह्वलं ह्येनं मम कर्मपरायणः ।।२७।।
मधुपर्क्कं परं गृह्य चेमं मन्त्रमुदाहरेत् ।।२८ ।।
मन्त्रः-
योऽसौ भवांस्तिष्ठति सर्वदेहे नारायणः सर्वजगत्प्रधानः ।।
गृहाण चैवं सुरलोकनाथ भक्तोपनीतं मधुपर्क्कसंज्ञम् ।। २९ ।।
अनेनैव तु मन्त्रेण दद्याच्च मधुपर्क्ककम् ।।
नरस्य मृत्युकाले तु दद्यात्संसार मोक्षणम् ।। 192.३० ।।
एषा गतिर्महाभागे मधुपर्क्कस्य कीर्त्तिता ।।
एवं कश्चिन्न जानाति मधुपर्कं वसुन्धरे।।३१ ।।
एवं हि मधुपर्क्कश्च देयः सिद्धिमभीप्सुभिः ।।
अर्चित्वा देवदेवेशं सर्वसंसारनाशनम् ।। ३२ ।।
ददाति मधुपर्कं यः स याति परमां गतिम् ।।
अयं पवित्रो विमलः सर्वकाम विशोधनः ।। ३३ ।।
दीक्षिताय च दातव्यो यश्च शिष्यो गुरुप्रियः ।।
न मूर्खाय प्रदातव्यमविनीताय कर्हिचित् ।।३४।।
शृणोति मधुपर्क्कस्य चाख्यानं पापनाशनम् ।।
याति दिव्यां परां सिद्धिं मधुपर्क्कस्य कारणात् ।। ३५ ।।
एतत्ते कथितं भद्रे मधुपर्क्कविभावनम् ।।
सर्वसंसारमोक्षार्थं यदीच्छेत्सिद्धिमुत्तमाम् ।। ३६ ।।
राजद्वारे श्मशाने वा भये च व्यसने तथा ।।
ये पठन्ति त्विमां शान्तिं शीघ्रं कार्यं भविष्यति ।। ३७ ।।
अपुत्रो लभते पुत्रमभार्यश्च प्रियां लभेत् ।।
अपतिर्लभते कान्तं बद्धो मुच्येत बन्धनात् ।।३८ ।।
एतत्ते कथितं भूमे महाशान्तिं सुखावहाम् ।।
सर्वसंसारमोक्षार्थं रहस्यं परमं महत्।।३९।।
यस्त्वनेन विधानेन कुर्याच्छान्तिमनुत्तमाम्।।
सर्वसङ्गान्परित्यज्य मम लोकं च गच्छति ।। 192.४० ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे सर्वशान्तिकरणं नाम द्विनवत्यधिकशततमोऽध्यायः ।। १९२ ।।