प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १९२ वराहपुराणम्
अध्यायः १९३
[[लेखकः :|]]
अध्यायः १९४ →

अथ नचिकेतः प्रयाणवर्णनम् ।।
लोमहर्षण उवाच ।।
व्यासशिष्यं महाप्राज्ञं वेदवेदाङ्गपारगम् ।।
द्वारदेशे समासीनं कृतपूर्वाह्णिकक्रियम् ।। १ ।।
अश्वमेधे तथा वृत्ते राजा वै जनमेजयः ।।
ब्रह्मवध्याभिभूतस्य दीक्षां द्वादशवार्षिकीम् ।। २ ।।
प्रायश्चित्तं चरित्वैवमागतो गजसाह्वयम् ।।
उपगम्य महात्मानं जाह्नवीतीरसंश्रयम् ।। ३ ।।
ऋषिं परमसम्पन्नं वैशम्पायनमञ्जसा ।।
कर्मणा प्रेरितस्तेन चिन्ताव्याकुललोचनः ।। ४ ।।
कुरूणां पश्चिमो राजा पश्चात्तापेन पीडितः ।।
व्यासशिष्यमुपागम्य प्रश्नमेनमपृच्छत ।। ५ ।।
जनमेजय उवाच ।।
भगवञ्जायते तीव्रं चिन्तयानस्य सुव्रत ।।
कर्मपाकफलं यस्मिन्मानुषैरुप भुज्यते।।६।।
एतदिच्छाम्यहं श्रोतुं कीदृशं तु यमालयम्।।
किं प्रमाणं च किं रूपं कथं गत्वा स पश्यति ।।७।।
न गच्छेयं कथं विप्र प्रेतराज्ञो निवेशनम् ।।
धर्मराजस्य धीरस्य सर्वलोकानुशासिनः ।। ८ ।।
सूत उवाच ।।
एवं पृष्टो महातेजास्तेन राज्ञा द्विजोत्तमः ।।
उवाच मधुरं वाक्यं राजानं जनमेजयम् ।। ९ ।।
वैशम्पायन उवाच ।।
शृणु राजन्पुरावृत्तां कथां परमशोभनाम् ।
धर्मवृद्धिकरीं नित्यां यशस्यां कीर्तिवर्द्धिनीम् ।। 193.१० ।।
पावनीं सर्वपापानां प्रवृत्तौ शुभकारिणीम् ।।
इतिहासपुराणानां कथां वै विदुषां प्रियाम् ।। ११ ।।
कश्चिदासीत्पुरा राजनृषिः परमधार्मिकः ।।
उद्दालक इति ख्यातः सर्ववेदाङ्गतत्त्ववित् ।। १२ ।।
तस्य पुत्रो महातेजा योगमास्थाय बुद्धिमान् ।।
नाचिकेत इति ख्यातः सर्ववेदाङ्गतत्त्ववित् ।। १३ ।।
तेन रुष्टेन शप्तोऽभूत्पुत्रः परमधार्मिकः ।।
गच्छ शीघ्रं यमं पश्य मम क्रोधेन दुर्मते ।। १४ ।।
तथेत्युक्त्वा महातेजाः पुत्रः परमधार्मिकः ।।
चिन्तयित्वा मुहुर्तं तु योगमास्थाय बुद्धिमान् ।। १९ ।।
क्षणेनान्तर्हितो जातः पितरं प्रत्युवाच ह ।।
विनयात्पृष्ठतो वाक्यं भावेन च समन्वितम् ।। १६ ।।
मा भूद्वाक्यं च ते मिथ्या धार्मिकस्य कदाचन ।।
गमिष्यामि पुरं रम्यं धर्मराजस्य धीमतः ।। १७ ।।
इह चैव पुनस्तावदागमिष्ये न संशयः ।। १८ ।।
पितोवाच ।।
एकस्त्वमसि वत्सश्च नान्यो बन्धुर्विधीयते ।।
अधर्मं चानृतं चास्तु त्वकीर्त्तिर्वापि पुत्रक ।। १९ ।।
मिथ्याभिशंसिनं तात यथेष्टं तारयिष्यति ।।
रोषेण हि मृषावादी निर्दयः कुलपांसनः ।। 193.२०।।
अप्रवृत्तस्त्वसम्भाष्यो योऽहं मिथ्या प्रयुक्तवान् ।।
त्वां वै धर्मसमाचारमभिधानेन शप्तवान् ।। २१ ।।
अहं पुत्र न सद्वादी न क्षमे धर्मदूषितम् ।।
मम त्वं हि महाभाग नित्यं चित्तानुपालकः।।२२।।
धर्मज्ञश्च यशस्वी च नित्यं क्षान्तो जितेन्द्रियः।।
शु्श्रूषुरनहंवादी शक्तस्तारयितुं मम ।।२३।।
याचितस्त्वं मया पुत्र गन्तुं वै तत्र नार्हसि ।।२४।।
यदि वैवस्वतो राजा तत्र प्राप्तं यदृच्छया ।।
रोषेण त्वां महातेजा विसृजेन्न कदाचन ।। २५ ।।
विनश्येयमहं पश्य कुलसेतुविनाशनः।।
धिक्कृतः सर्वलोकेन पापकर्त्ता नराधमः ।। २६।।
नरकस्य पुदित्याख्या दुःखेन नरकं विदुः।।
पुतित्राणं भवेत्पुत्रादिहेष्यति परत्र च ।।२७।।।
हुतं दत्तं तपस्तप्तं पितरश्चापि पोषिताः ।।
अपुत्रस्य हि तत्सर्वं मोघं भवति निश्चयः ।। २८ ।।
शुश्रूषावान्भवेच्छूद्रो वैश्यो वा कृषिजीवनः ।।।
सस्यगोप्ता तु राजन्यो ब्राह्मणो वा स्वकर्मकृत् ।। २९ ।।
तपो वा विपुलं तप्त्वा दत्त्वा दानमनुत्तमम् ।।
अपुत्रो नाप्नुयात्स्वर्गं यथा तात मया श्रुतम् ।। 193.३० ।।
पुत्रेण लभते जन्म पौत्रेण तु पितामहः ।।
पुत्रस्य च प्रपौत्रेण मोदते प्रपितामहः ।। ३१ ।।
न हास्यामीति वत्स त्वां मम वंशविवर्द्धनम् ।।
याच्यमानः प्रयत्नेन तत्र गन्तुं न चार्हति ।। ३२ ।।
वैशम्पायन उवाच ।।
एवं विलपमानं तं पितरं प्रत्युवाच ह ।।
हृष्टपुष्ट वपुर्भूत्वा पुत्रः परमधार्मिकः ।। ३३ ।।
पुत्र उवाच ।।
न विषादस्त्वया कार्यो द्रक्ष्यसे मामिहागतम् ।।
दृष्ट्वा च तमहं देवं सर्वलोकनमस्कृतम् ।। ३४ ।।
आगच्छामि पुनश्चात्र न भयं मेऽस्ति मृत्युतः ।।
पूजयिष्यति मां तात राजा त्वदनुकंपया ।। ३५ ।।
सत्ये तिष्ठ महाभाग सत्यं च परिपालय ।।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।। ३६।।
सूर्यस्तपति सत्येन वातः सत्येन वाति च ।।
अग्निर्दहति सत्येन सत्येन पृथिवी स्थिता ।।३७।।
उदधिर्ल्लङ्घयेन्नैव मर्यादां सत्यपालितः ।।
मन्त्रः प्रयुक्तः सत्येन सर्वलोकहितायते ।।३८।।
सत्येन यज्ञा वर्त्तन्ते मन्त्रपूताः सुपूजिताः ।।
सत्येन वेदा गायन्ति सत्ये लोकाः प्रतिष्ठिताः ।। ३९ ।।
सत्यं गाति तथा साम सर्वं सत्ये प्रतिष्ठितम् ।।
सत्यं स्वर्गश्च धर्मश्च सत्यादन्यन्न विद्यते ।। 193.४० ।।
सत्येन सर्वं लभते यथा तात मया श्रुतम् ।।
न हि सत्यमतिक्रम्य विद्यते किंचिदुत्तमम् ।।४१।।
देवदेवेन रुद्रेण वेदगर्भः पुरा किल ।।
सत्यस्थितेन देवानां परित्यक्तो महात्मना ।। ४२ ।।
दीक्षां धारयते ब्रह्मा स तेनैव सुयन्त्रितः ।।
और्वेणाग्निस्तथा क्षिप्तः सत्येन वडवामुखे ।। ४३ ।।
संवर्तेन पुरा तात सर्वे लोकाः सदैवताः ।।
देवानामनुकंपार्थं धृता वीर्यवता तदा ।।४४।।
पाताले पालयन् सत्यं बद्धो वैरोचनो वसन् ।।
वर्द्धमानो महाशृङ्गैः शतशृङ्गो महागिरिः ।। ४५ ।।
स्थितः सत्ये महाविन्ध्यो वर्द्धमानो न वर्द्धते ।।
सर्वं चराचरमिदं सत्येन श्रीयते जगत् ।। ४६ ।।
गृहधर्माश्च ये दृष्टा वानप्रस्थाश्च शोभिताः ।।
यतीनां च गतिः शुद्धा ये चान्ये व्रतसंस्थिताः ।।४७।।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ।। ४८ ।।
सत्येन पाल्यते धर्मो धर्मो रक्षति रक्षितः ।।
तस्मात् सत्यं कुरुष्वाद्य रक्ष आत्मानमात्मना ।। ४९ ।।
एवमुक्त्वा हृष्टपुष्टः स्वेन देहेन सुव्रत ।।
तपसा प्राप्तयोगस्तु जितात्मा कृतसंयमः ।।193.५०।।
ऋषिपुत्रो महातेजा सत्यवागनसूयकः ।।
प्राप्तश्च परमं स्थानं यत्र राज्ञो यमस्य तु ।। ५१ ।।
इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रे नचिकेतप्रयाणं नाम त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।।