वराहपुराणम्/अध्यायः १९५
← अध्यायः १९४ | वराहपुराणम् अध्यायः १९५ [[लेखकः :|]] |
अध्यायः १९६ → |
अथ यमलोकस्थपापिवर्णनम् ।।
नाचिकेत उवाच ।।
कथ्यमानं मया विप्राः शृण्वन्तु तपसि स्थिताः ।।
नमश्च तस्मै देवाय धर्मराजाय धीमते ।।१।।
संसारं तु यथाशक्ति कथ्यमानं निबोधत ।।
असत्यवादिनो ये च जन्तुस्त्रीबालघातकाः।।२।।
तथा ब्रह्महणः पापा ये च विश्वासघातकाः ।।
ये ये शठाः कृतघ्नाश्च लोलुपाः पारदारिकाः ।।३।।
कन्यानां दूषका ये च ये च पापरता नराः ।।
वेदानां दूषकाश्चैव वेदमार्गविहिंसकाः ।।४।।
शूद्राणां याजकाश्चैव हाहाभूता द्विजातयः ।।
अयाज्ययाजकाश्चैव ये ये कुष्ठयुता नराः ।।५।।
सुरापो ब्रह्महा चैव यो द्विजो वीरघातकः ।।
तथा वार्धुषिका ये च जिह्मप्रेक्षाश्च ये नराः ।। ६ ।।
मातृत्यागी पितृत्यागी यः स्वसाध्वीं परित्यजेत् ।।
गुरुद्वेषी दुराचारो दूताश्चाव्यक्तभाषिणः ।।७ ।।
गृहक्षेत्रहरा ये च सेतुबन्धविनाशकाः।।
अपुत्राश्चाप्यदाराश्च श्रद्धया च विवर्जिताः।।८।।
अशौचा निर्दयाः पापा हिंसका व्रतभञ्जकाः ।।
सोमविक्रयिणश्चैव स्त्रीजितः सर्वविक्रयी ।। ९ ।।
भूम्यामनृतवादी च वेदजीवी च यो द्विजः ।।
नक्षत्री च निमित्ती च चाण्डालाध्यापकस्तथा ।।195.१ ० ।।
सर्वमैथुनकर्ता च अगम्यागमने रतः ।।
मायिका रतिकाश्चैव तुलाधाराश्च ये नराः ।।१ १ ।।
सर्वपापसुसङ्गाश्च चिन्तका येऽतिवैरिणः ।।
स्वाम्यर्थे न हता ये च ये च युद्धपराङ्मुखाः।।१२।।
परवित्तापहारी च राजघाती च यो नरः ।।
अशक्तः पापघोषश्च तथा ये ह्यग्निजीविनः ।। १३ ।।
शुश्रूषया च मुक्ता ये लिङ्गिनः पापकर्मिणः ।।
पात्रकारी चक्रिणश्च नरा ये चाप्यधार्मिकाः ।।१४।।
देवागारांश्च सत्राणि तीर्थविक्रयिणस्तथा ।।
व्रतविद्वेषिणो ये च तथाऽसद्वादिनो नराः ।। १५ ।।
मिथ्या च नखरोमाणि धारयन्ति च ये नराः ।।
कूटा वक्रस्वभावाश्च कूटशासनकारिणः ।।१६।।
अज्ञानादव्रती यश्च यश्चाश्रमबहिष्कृतः ।।
विप्रकीर्णप्रतिग्राही सूचकस्तीर्थनाशकः ।।१७।।
कलही च प्रतर्क्यश्च निष्ठुरश्च नराधमः।।
एते चान्ये च बहवो ह्यनिर्दिष्टाः सहस्रशः।।१८।।
स्त्रियो नराश्च गच्छन्ति यत्र तच्छृणुतामलाः ।।
कुर्वन्तीह यथा सर्वे तत्र गत्वा यमालये ।।१९।।
तानि वै कथयिष्यामि श्रूयतां द्विजसत्तमाः ।।
वैशम्पायन उवाच ।।
एवं तस्य वचः श्रुत्वा सर्व एव तपोधनाः।।195.२०।।
पप्रच्छुर्विस्मयाविष्टा नाचिकेतमृषिं तदा ।।
ऋषय ऊचुः ।।
त्वया सर्वं यथा दृष्टं ब्रूहि तत्र विदां वर ।। २१ ।।
यथास्वरूपः कालोऽसौ येन सर्वं प्रवर्त्तते ।।
इह कर्माणि यः कृत्वा पुरुषो ह्यल्पचेतनः ।।२२।।
वारयेत्स तदा तं तु ब्रह्मलोके च स प्रभुः ।।
कल्पान्तं पच्यमानोऽपि दह्यमानोपि वा पुनः ।।२३।।
न नाशो हि शरीरस्य तस्मिन्देशे तपोधनाः ।।
यस्य यस्य हि यत्कर्म पच्यमानः पुनः पुनः ।।२४ ।।
अवश्यं चैव गन्तव्यं तस्य पार्श्वं पुनःपुनः ।।
न तु त्रासाद्द्विजः शक्तस्तत्र गन्तुं हि कश्चन ।।२५।।
न गच्छन्ति च ये तत्र दानेन निगमेन च ।।
वैतरण्याश्च यद्रूपं किंतोयं च वहत्यसौ ।।२६।।
रौरवो वा कथं विप्र किंरूपं कूटशाल्मलेः ।।
कीदृशा वा हि ते दूताः किं कार्याः किं पराक्रमाः ।। २७ ।।
किं च किंच तु कुर्वाणाः किंच किंच समाचरन् ।।
न चेतो लभते जन्तुच्छादितं पूर्वतेजसा ।।२८।।
धृतिं न लभते किंचित्तैस्तैर्दोषैः सुवासिताः ।।
दोषं सत्यमजानन्तस्तथा मोहेन मोहिताः ।।२९।।
बोद्धव्यं नावबुध्यन्ते गुणानां तु गुणोत्तरम् ।।
हाहाभूताश्च चिंतार्त्ताः सर्वदोषसमन्विताः ।।195.३०।।
परं परमजानन्तो रमन्ते कस्य मायया ।।
क्लिश्यन्ते बहवस्तत्र कृत्वा पापमचेतसः ।।३१ ।।
एतत्कथय वत्स त्वं यतः प्रत्यक्षदर्शिवान् ।। ३२।।
इति श्रीवराहपुराणे संसारचक्रे यमलोकस्थपापिवर्णनं नाम पञ्चनवत्यधिकशततमोऽध्यायः ।। १९५ ।।