← अध्यायः १९३ वराहपुराणम्
अध्यायः १९४
[[लेखकः :|]]
अध्यायः १९५ →

अथ नचिकेतसो आगमनवर्णनम् ।।
वैशम्पायन उवाच ।।
गतश्च परमं स्थानं यत्र राजा दुरासदः ।।
अर्चितस्तु यथान्यायं दृष्ट्वैव तु विसर्जितः ।। १ ।।
ततो हृष्टमना राजन्पुत्रं दृष्ट्वा तपोनिधिः ।।
परिष्वज्य च बाहुभ्यां मूर्द्धन्याघ्राय यत्नतः ।। २ ।।
दिवं च पृथिवीं चैव नादयामास हृष्टवत् ।।
स संहृष्टमनाः प्रीतस्तानुवाच तपोधनान् ।। ३ ।।
पश्यन्तु मम पुत्रस्य प्रभावं दिव्यतेजसः ।।
यमस्य भवनं गत्वा पुनः शीघ्रमिहागतः ।। ४ ।।
पितृस्नेहानुभावेन गुरुशुश्रूषयापि च ।।
दैवेन हेतुना चायं जीवन्दृष्टो मया सुतः ।। ५ ।।
लोके मत्सदृशो नास्ति पुमान्भाग्यसमन्वितः ।।
एष मृत्युमुखं गत्वा मम पुत्र इहागतः ।। ६ ।।
कच्चित्त्वं न हतो वत्स नैव बद्धो यमालये ।।
कच्चित्ते स शिवः पन्था गच्छतस्तव पुत्रक ।।७ ।।
कच्चित्ते व्याधयो घोरा नान्वगच्छन्यमालये ।।
किमपूर्वं त्वया दृष्टं कच्चित्तुष्टो महातपाः ।। ८ ।।
कच्चिद्राजा त्वया दृष्टः प्रेतानामधिपो बली ।।
परुषेण न कच्चित्त्वां यमः पश्यति चक्षुषा ।। ९ ।।
कच्चिन्न तुष्टो भगवांस्त्वां दृष्ट्वा स्वयमागतम् ।।
कच्चिच्छीघ्रं विसृष्टोऽसि धर्मराजेन पुत्रक ।। 194.१० ।।
कच्चिद्दौवारिकास्तत्र न रौद्रास्त्वां यमालये ।।
कच्चिद्राज्ञा विसृष्टं तु ना बाधन्तेतरे जनाः ।। ११ ।।
कच्चित्पन्थास्त्वया लब्धो निर्गमो वा यमालये ।।
अयं मम सुतः प्राप्तः प्रसन्ना मम देवताः ।। १२ ।।
ऋषयश्च महाभागा द्विजाश्च सुमहाव्रताः ।।
यन्मे वत्स पुनः प्राप्तो यमलोकाद्दुरासदात् ।। १३ ।।
एवमाभाषमाणं तु श्रुत्वा सर्वे वनौकसः ।।
त्यक्त्वा व्रतानि सर्वाणि नियमांश्च तथैव च ।। १४ ।।
जपन्तश्चैव जाप्यानि पूजयन्तश्च देवताः ।।
उदूर्द्ध्वबाहवः केचित्तिष्ठन्तोऽन्ये सुदारुणम् ।। १५।।
एकपादेन तिष्ठन्तः पश्यन्तोऽन्ये दिवाकरम् ।।
एवमेव परित्यज्य नियमान्पूर्वसंचितान् ।। १६ ।।
वैश्वानरा महाभागास्तपसा संशितव्रताः ।।
आगतास्त्वरितं द्रष्टुं नाचिकेतं सुतं तदा ।। १७ ।।
दिग्वाससश्च ऋषयो दन्तोलूखलिनस्तथा ।।
अश्मकूटाश्च मौनाश्च शीर्णपर्णांबुभोजनाः।।१८।।
धूमदाश्च तथा चान्ये तप्यमानाश्च पावके ।।
परिवार्य तथा दृष्ट्वा तस्य पुत्रं तपोनिधिम्।। १९ ।।
उपविष्टास्तथा चान्ये स्थिताश्चान्ये सुयन्त्रिताः ।।
ते सर्वे तं तु पृच्छन्ति ऋषयो वेदपारगाः ।। 194.२० ।।
तं नाचिकेतसं दृष्ट्वा यमलोकादिहागतम् ।।
भीतास्तत्र स्थिता हृष्टा केचित्कौतूहलान्विताः ।।२१ ।।
केचिद्विमनसश्चैव केचित्संशयवादिनः ।।
तमूचुः सहिताः सर्वे ऋषिपुत्रं तपोधनम् ।। २२ ।।
ऋषय ऊचुः ।।
भो भो सत्यव्रताचार गुरुशुश्रूषणे रत ।।
नाचिकेतः सुत प्राज्ञ स्वधर्मपरिपालक ।। २३ ।।
ब्रूहि सत्यं त्वया दृष्टं श्रुतं च सविशेषकम् ।।
ऋषीणां श्रोतुकामानां पितुश्चैव विशेषतः।।२४।।
अपि गुह्यं च वक्तव्यं पृष्टे सति विशेषतः ।।
सर्वस्यापि भयं तीव्रं यद्द्वारा प्रतिदृश्यते।।२५।।
मृतं नैव परं तात दृश्यते कालमायया ।।
स्वकर्म भुज्यते तात प्रयत्नेन च मानवैः।।२६।।
इह चैव कृतं यत्तु तत्परत्रोपभुज्यते।।
करोति यदि तत्कर्म शुभं वा यदि वाऽशुभम् ।।२७।।
तथाऽत्र दृश्यते काले कालस्यैव तु मायया ।।
म्रियते च यथा जन्तुर्यथा गर्भे च तिष्ठति।।२८।।
तस्य पारं न गच्छन्ति बहवः पारचिन्तकाः ।।
तत्र स्थिते जगत्सर्वं लोभमोहतमोवृतम्।।२९।
चिन्तयेत न चिन्ताऽत्र मृगयन्ति च यद्धितम् ।।
करोति चित्रगुप्तः किं किं च जल्पत्यसौ पुनः।।194.३०।।
धर्मराजस्य किं रूपं कालो वा कीदृशो मुने।।
किंरूपा व्याधयश्चैव विपाको वापि कीदृशः।।३१।।
किंच कुर्वन्प्रमुच्येत किं वा कर्म समाचरेत्।।
आस्पदं सर्वलोकस्य तत्कर्म दुरतिक्रमम्।।३२।।
क्रोधबन्धनजं क्लेशं कर्षणं छेदनं तथा ।।
येन गच्छन्ति विप्रेन्द्र लोके कर्मविदो जनाः।।३३।।
जितात्मानः कथं यान्ति कथं गच्छति पापकृत् ।।
यथाश्रुतं यथादृष्टं यथा चैवावधारितम् ।।३४।। प्
रणयात्सौहृदात्स्नेहादस्माभिरभिपृच्छितम् ।।
वद सर्वं महाभाग याथातथ्येन विस्तरम्।।३९।।
वैशम्पायन उवाच।।
ऋषिभिस्त्वेवमुक्तस्तु नाचिकेतो महामनाः ।।
यदुवाच महाराज शृणु तज्जनमेजय ।।३६ ।।
इति श्रीवराहपुराणे संसारचक्रे नचिकेतागमनं नाम चतुर्नवत्यधिकशततमोऽध्यायः ।।१९४।।