प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १९७ वराहपुराणम्
अध्यायः १९८
[[लेखकः :|]]
अध्यायः १९९ →

अथ संसारचक्रयातनास्वरूपवर्णनम् ।।
वर्त्तमानः सभामध्ये राजा प्रेतपुराधिपः ।।
मामेकमृषभं तत्र दर्शनं च ददौ यमः ।। १ ।।
याथातथ्येन मे पूजा कार्येण विधिनाऽकरोत् ।।
आसनं पाद्यमर्घ्यं च वेददृष्टेन कर्मणा ।। २ ।।
अब्रवीच्च पुनर्हृष्टो ह्यास्यतां च वरासने ।।
कांचने कुशसंच्छन्ने दिव्यपुष्पोपशोभिते ।। ३ ।।
तस्य वक्त्रं महारौद्रं नित्यमेव भयानकम् ।।
पश्यतस्तस्य मां विप्रास्ततः सौम्यतरं बभौ ।। ४ ।।
लोहिते तस्य वै नेत्रे जल्पतश्च पुनःपुनः ।।
पद्मपत्रनिभे चैव जज्ञाते मम सौहृदात् ।। ५ ।।
ततोऽहं तस्य भावेन भावितश्च पुनःपुनः ।।
प्रहृष्टमानसो जातो विश्वासं च परं गतः ।।६ ।।
तस्य प्रीतिकरं सद्यः सर्वदोषविनाशनम् ।।
कामदं च यशोदं च दैवतैश्चापि पूजितम् ।। ७ ।।
कालवृद्धिकरं स्तोत्रं क्षिप्रं तत्र उदीरयन् ।।
येन प्रीतो महातेजा यमः परमधार्मिकः ।। ८।।
ऋषिपुत्र उवाच ।।
त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे ।।
पितॄणां परमो देवश्चतुष्पाद नमोऽस्तु ते ।।९।।
कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः ।।
प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते ।। 198.१० ।।
कर्म कारयिता चैव भूतभव्य भवत्प्रभो ।।
पावको मोहनश्चैव संक्षेपो विस्तरस्तथा ।। ११ ।।
दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते ।।
आदित्यसदृशाकार सर्वजीवहर प्रभो ।।१२।।
कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते ।।
मार्तण्डसदृश श्रीमन्मार्तण्डसदृशद्युतिः ।।१३।।
हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते ।।
पापहन्ता व्रती श्राद्धा नित्ययुक्तो महातपाः ।।१४।।
एकदृग्बहुदृग्भूत्वा काल मृत्यो नमोऽस्तु ते।।
क्वचिद्दण्डी क्वचिन्मुण्डी क्वचित् कालो दुरासदः ।।१५।।
क्वचिद्बालः क्वचिद्वृद्धः क्वचिद्रौद्रो नमोऽस्तु ते ।।
त्वया विराजितो लोकः शासितो धर्महेतुना ।।१६।।
प्रत्यक्ष्यं दृश्यते देव त्वां विना न च सिध्यति ।।
देवानां परमो देवस्तपसां परमं तपः ।।१७।।
जपानां परमं जप्यं त्वत्तश्चान्यो न दृश्यते ।।
ऋषयो वा तथा क्रुद्धा हतबन्धुसुहृज्जनाः ।।१८।।
पतिव्रतास्तु या नार्यो दुःखितास्तपसि स्थिताः ।।
न त्वं शक्त इह स्थानात्पातनाय कदाचन ।। १९ ।।
तस्मात्त्वं सर्वदेवेषु चैको धर्मभृतां वरः ।।
कृतज्ञः सत्यवादी च सर्वभूतहिते रतः ।। 198.२० ।।
वैशम्पायन उवाच ।।
एवं श्रुत्वा स्तवं दिव्यमृषिपुत्रेण भाषितम् ।।
परितुष्टस्तदा धर्मो ह्यौद्दालकसुतं प्रति ।। २१ ।।
यम उवाच ।।
परितुष्टोऽस्मि भद्रं ते माधुर्येण तवानघ ।।
याथातथ्येन वाक्येन ब्रूहि किं करवाणि ते ।। २२।।
वरं वरय भद्रं ते यं वरं काङ्क्षसे द्विज ।।
शुभं वा श्रेयसा युक्तं जीवितं वाप्यनामयम् ।। २३ ।।
ऋषिपुत्र उवाच।।
नेच्छाम्यहं महाभाग मृत्युं वा जीवितं प्रभो ।।
यदि त्वं वरदो राजन्सर्वभूतहिते रतः ।। २४ ।।
द्रष्टुमिच्छाम्यहं देव तव देशं यथातथम् ।।
पापानां च शुभानां च या गतिस्त्विह दृश्यते ।। २५ ।।
सर्वं दर्शय मे राजन्यदि त्वं वरदो मम ।।
चित्रगुप्तं च तं राजन्कार्यार्थं तव चिन्तकम् ।। २६ ।।
दर्शयस्व महाभाग सर्वलोकस्य चिन्तक ।।
यथा कर्मविशेषाणां दर्शनार्थं करोति सः ।।२७ ।।
एवमुक्तो महातेजा द्वारस्थं संदिदेश ह ।।
चित्रगुप्तसकाशं तु नय विप्रं सुयन्त्रितम् ।। २८ ।।
वक्तव्यश्च महाबाहुरस्मिन्विप्रे यथातथम् ।।
प्राप्तकालं च युक्तं च तत्सर्वं वक्तुमर्हसि ।। २९ ।।
ततोऽहं त्वरितं नीतस्तेन दूतेन दर्शितः ।।
प्राप्तश्च परया प्रीत्या चित्रगुप्तनिवेशनम् ।। 198.३० ।।
प्रत्युत्थितश्च मां दृष्ट्वा चिन्तयित्वा तु तत्त्वतः ।।
स्वागतं मुनिशार्दूल यथेष्टं परिगम्यताम् ।। ३१ ।।
एवं सम्भाष्य मां वीरः स्वान्भृत्यान्सन्दिदेश ह ।।
कृताञ्जलिपुटान्सर्वान्घोररूपान्भयानकान् ।। ३२ ।।
चित्रगुप्त उवाच ।।
भो भो शृणुत मे दूता मम चित्तानुवर्त्तकाः ।।
भक्तिमन्तो दुराधर्षा नित्यं व्रतपरायणाः ।। ३३ ।।
अयं विप्रो मयादिष्टः प्रेतावासं गमिष्यति ।।
अस्य रक्षा च गुप्तिश्च भवद्भिः क्रियतामिति ।। ३४ ।।
नैव दुःखेन खेदः स्यान्न चोष्णेन च शीततः ।।
भुक्षापि तृषा वापि एष आज्ञापयामि वः ।। ३५ ।।
एवं दत्तवरो विप्रो गुरुचित्तानुचिन्तकः ।।
सर्वभूतदयावांश्च द्रव्यवांश्च स वै द्विजः ।। ३६ ।।
यथाकाममयं पश्येद्धर्म्मराजपुरोत्तमम् ।।
एवमुक्त्वा महातेजा गच्छ गच्छेति चाब्रवीत् ।। ३७ ।।
ऋषिपुत्र उवाच ।।
सन्दिष्टाश्च ततो दूताश्चित्रगुप्तेन धीमता ।।
धावन्तस्त्वरमाणास्तु गृह्णन्तो घ्नन्त एव च ।। ३८ ।।
बन्धयन्ति महाकाया निर्दहन्ति महाबलाः ।।
पाटयन्ति प्रहारैश्च ताडयन्ति पुनः पुनः ।। ३९ ।।
वेणुयष्टिप्रहारैश्च प्रहरन्ति ततोऽधिकैः ।।
भग्ना भिन्ना विभिन्नाश्च तथा भग्नशिरोधराः ।। 198.४० ।।
रुदन्ति करुणं घोरं त्रातारं नाप्नुवन्ति ते ।।
नरकेऽपि तथा पूर्णे ह्यगाधे तमसावृते ।। ४१ ।।
केचिच्च तेषु पच्यन्ते दह्यन्ते पावकेन्धनम् ।।
तैलपाके तथा केचित्केचित्क्षारेण सर्पिषा ।। ४२ ।।
पतन्ति ते दुरात्मानस्तत्र तत्र च कर्मभिः ।।
यातनाभिर्दह्यमाना घोराभिश्च ततस्ततः ।। ४३ ।।
केचिद्यन्त्रमुपारोप्य संपीड्यन्ते तिला इव ।।
तेषां संपीड्यमानानां शोणितं स्रवते बहु ।। ४४ ।।
ततो वैतरणी घोरा संभूता निम्नगा तथा ।।
सफेनसलिलावर्त्ता दुस्तरा पापकर्मिणाम् ।। ४५ ।।
अथान्ये शूल आरोप्य दूताः पादेषु गृह्य वै ।।
वैतरण्यां सुघोरायां प्रक्षिपन्ति सहस्रशः ।। ४६ ।।
नानुष्णे रुधिरे तत्र फेनमालासमाकुलाः ।।
दशन्ति सर्पास्तांस्तत्र प्राणिनस्तु सहस्रशः ।।४७ ।।
अनुत्तार्य तदा तस्या उच्छ्रिता विकृतावशाः ।।
आवर्त्तादूर्मयश्चैव ह्युत्तिष्ठन्ति सहस्रशः ।। ४८ ।।
तत्र शुष्यन्ति ते पापाः सर्वदोषसमन्विताः ।।
मज्जन्तश्च वमन्तश्च त्रातारं नाप्नुवन्ति ते ।।४९।।
अथान्ये बहवस्तत्र बहुभिश्चापि दूतकैः ।।
कूटशाल्मलिमारोप्य लोहकण्टकसंवृताम् ।।198.५० ।।
असिशक्तिप्रहारैश्च ताडयन्ति पुनःपुनः ।।
तत्र शाखासु घोरासु मया दृष्टाः सहस्रशः ।।५१ ।।
कूष्माण्डा यातुधानाश्च लंबमाना भयानकाः ।।
अतिक्रम्य च ते स्कन्धास्तीक्ष्णकण्टकसङ्कुलाः ।। ५२ ।।
वेदनार्त्तास्तु वेगेन शीघ्रं शाखा उपारुहन् ।।
तत्र ते निहता घोरा राक्षसाः पिशिताशनाः। ५३ ।।
घ्नन्ति चारूढगात्राणि निःशङ्कं तमसा वृतम् ।।
संक्रमाच्चैव खादन्ति शालायां कपिवद्भृशम् ।। ५४ ।।
यथा च कुक्कुटं खादेत् कश्चिन्म्लेच्छो निराकृतः ।।
तथा कटकटाशब्दस्तस्मिन्वृक्षे मया श्रुतः ।। ५५।।
पक्वमाम्रफलं यद्वन्नरः खादेद्यथा वने ।।
एवं ते मुखतः कृत्वा महावक्त्रा दुरासदाः ।। ५६ ।।
चूषयित्वा तु तान्सर्वांस्ते च तस्मिन्नगोत्तमे ।।
विसृजन्ति क्षितिं यावदास्थिभूतान्नरांस्तथा ।। ९७ ।।
ततो जवेन संयुक्ता वनस्थाश्चूषिताः पुनः ।।
आविष्टानि च कर्माणि पुनः शीघ्रमकामयन् ।। ५८ ।।
अधस्तात्तु पुनस्तत्र पश्यन्तः पापकर्मिणः ।।
बहुसंख्येषु पापेषु दारुणेषु सुदुःखिताः ।। ५९ ।।
भो देव पाहि मुञ्चेति वदन्तः पुरुषं वचः ।।
यमदूता निरामर्षाः सूदयन्ति पुनः पुनः ।।198.६० ।।
पाषाणवर्षैः केचित्तु पांसुवर्षैश्च विद्रुताः ।।
प्रविशन्ति नगच्छायां ततस्ते प्रज्वलन्ति तु ।। ६१ ।।
द्रवन्ति च पुनस्तत्र दूतैश्चापि दृढं हताः ।।
भुवनेषु च घोरेषु पच्यन्ते ते दृढाग्निना ।। ६२।।
वारिपूर्णं ततः कुम्भं शीतलं च जलं पुनः ।।
दीयतां दीयतां चेति ब्रुवते नः प्रसीदथ ।।६३।।
ततः पानीयरूपेण जलं तप्तं तु दीयते ।।
तेन दग्धाश्च आर्त्ताश्च क्रोशन्तश्च परस्परम् ।। ६४ ।।
आलिङ्ग्यालिङ्ग्य दुःखार्त्ताः केचित्तत्र पतन्ति वै ।।
तथान्ये क्षुधितास्तत्र हाहाभूतमचेतसः ।। ६५ ।।
अन्नानां च सुमिष्टानां भक्ष्याणां च विशेषतः ।।
पश्यन्ति राशिं तत्रस्थां सुगन्धां पर्वतोपमाम् ।। ६६ ।।
दधिक्षीररसांश्चैव कृसरान्पायसं तथा ।।
मधुमाधवपूर्णानि सुरामैरेयकस्य च ।। ६७ ।।
माध्वीकस्य च पानस्य सीधोर्जातीरसस्य च ।।
पानानि दिव्यानि सुगन्धीनि वै शीतलानिच ।। ६८ ।।
गोरसस्य च पानानि भाजनानि च नित्यशः ।।
तपोऽर्जितानि दिव्यानि तिष्ठन्ति सुकृतात्मनाम् ।। ६९ ।।
माल्यानि धूपं गन्धाश्च नानारससमायुताः ।।
मनोहराश्च कान्ताश्च भूयिष्ठाश्च सहस्रशः ।। 198.७० ।।
भोजनेषु च सर्वेषु स्त्रियः कान्ता मनोहराः ।।
गृहीतकुम्भमणिकाः सर्वाभरणभूषिताः ।। ७१ ।।
फलानि कुण्डहस्ताश्च पात्रहस्तास्तथापराः ।।
सुमनःपाद्य हस्ताश्च अदीना परमाङ्गनाः ।।७२।।
अन्नदानरताश्चैव भोजयन्ति सहस्रशः ।।
नूपुरोज्वलपादाश्च तिष्ठन्ति च मनोहराः ।।७३।।
उपस्थाप्य महायोग्यमत्र काले च योषितः ।।
ब्रुवन्ति सर्वास्ताश्चैव तस्यां तस्य च दक्षिणाः ।। ७४ ।।
निघ्नन्तश्च हसन्तश्च दूता निष्ठुरवादिनः ।।
भोभो कृतघ्ना लुब्धाश्च परदाराभिमर्शकाः ।। ७९ ।।
पापाशया निष्कृतिकाः सर्वदानविवर्जिताः ।।
परापवादनिरताः पापैर्बद्धकथानकाः ।। ७५ ।।
निर्लज्जा गृहका देया याचितुं मनसा हिताः ।।
सुलभानि न दत्तानि विभवे सति लौकिके ।। ७७ ।।
पानीयमथ काष्ठानि यद्यन्नं सुखमागतम् ।।
तेन वध्या भवन्तो वै यातनाभिरनेकशः ।।७८।।
कर्मणां च क्षयो जातः संसारे यदि पच्यते ।।
विमुक्ताश्चेह लोकात्तु जनिष्यथ सुदुर्गताः ।।७९।।
कुलेषु सुदरिद्रेषु सञ्जाताः पापकर्मिणः।।
पापैरनुगता घोरैर्मानुषं लोकमाश्रिताः।।198.८० ।।
वृत्तस्था भुञ्जते हेमांश्चातुर्वर्ण्यान्विशेषतः ।।
ततः सत्यरता शान्ता दयावन्तः सुधार्मिकाः ।।८१ ।।
इह विश्राम्य ते धीराः किंचित्कालं सहानुगाः ।।
गच्छन्ति परमं स्थानं पृथिव्यां वा महत्कुले ।। ८२ ।।
बहुसुन्दरनारीके समृद्धे सुसमाहिताः ।।
अजायन्त तथा क्षान्ताः प्राप्स्यन्ति परमां गतिम् ।। ८३ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्र यातनानां स्वरूपवर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ।।