← अध्यायः १९८ वराहपुराणम्
अध्यायः १९९
[[लेखकः :|]]
अध्यायः २०० →

पुनः संसारचक्रयातनास्वरूपवर्णनम् ।।
ऋषिपुत्र उवाच ।।
तस्मिन् क्षितितलं सर्वमायसैः कण्टकैश्चितम् ।।
प्रभवन्ति पुनः केचिद्विषमं तमसाश्रितम् ।।१ ।।
अथान्ये छिन्नपादास्तु छिन्नपाणिशिरोधराः ।।
पापाचारास्तथा देशादुपसर्पत मा चिरम् ।। २ ।।
ये तु धर्मरता दाता वपुष्मन्तो यथा गृहे ।।
परिपान्ति क्षितिं सर्वे पात्यन्ते पापकारिणः ।। ३ ।।
याचमानाः स्थिता नित्यं सुशीतैस्तोयभोजनैः ।।
स्त्रियः श्रीरूपसंकाशाः सुकुमाराः सुभोजनाः ।। ४ ।।
कृत्वा पूजां परां तत्र प्रतीक्षन्ते परं जनम्।।
अग्नितप्ते सुघोरे च निक्षिप्यन्ते शिलातले ।।५।।
आलोके च प्रदर्श्यन्ते वृक्षाश्च भुवनानि च।।
आयान्ति दह्यमानेषु पृष्ठपादोदरेषु च।।६।।
तत्र गत्वा तु ते दूताः प्रविशन्ति सुदारुणाः।।
क्लिश्यन्ति बहवस्तत्र त्रातारं नाप्नुवन्ति ते ।।७ ।।
अथान्ये तु श्वभिर्घोरैरापादतलमस्तकम् ।।
भक्ष्यमाणा रुदन्तश्च क्रोशन्तश्च पुनःपुनः ।।८।।
अथान्ये तु महारूपा महादंष्ट्रा भयानकाः ।।
सूचीमुखं कृताः पापाः क्षुधितास्तृषितास्तथा ।।९ ।।
अन्नानि दीयमानानि भक्ष्याणि विविधानि च।।
भोज्यानि लेह्यचोष्याणि यैर्निषिद्धं दुरात्मभिः ।।199.१० ।।
अयःशरमयी नारी वह्नितप्ता सुदारुणा ।।
आलिङ्गति नरं तत्र धावन्तं चानुधावति ।।११ ।।
धावन्तं चानुधावंती त्विदं वचनमब्रवीत्।।
अहं ते भगिनी पाप ह्यहं भार्या सुतस्य ते ।। १२।।
मातृष्वसा ते दुर्बुद्धे मातुलानी पितृष्वसा ।।
गुरुभार्या मित्रभार्या भ्रातृभार्या नृपस्य च ।।१३।।
श्रोत्रियाणां द्विजातीनां जाया वै धर्षितास्त्वया।।
मोक्ष्यसे न हि पापात्त्वं रसातलगतो यथा।। १४।।
किं प्रधावसि निर्लज्ज व्यसनैश्चोपपादितः।।
हनिष्येऽहं ध्रुवं पाप यथा कर्म त्वया कृतम्।।१५।।
एवं वै बोधयन्तीह श्रावयन्ति पुनःपुनः।।
अभिद्रवन्ति तं पापं घोररूपा भयानकाः।।।१६।।
ज्ञानिनां च सहस्रेषु जातं जातं तथा स्त्रियः ।।
अनुपीड्य दुरात्मानं धर्षयंति सुदारुणम् ।। १७ ।।
वृषलीर्बहुलैर्दुःखैः किं क्रन्दसि पुनः पुनः ।।
किं क्रन्दसि सुदुर्बुद्धे परिष्वक्तः स्वयं मया ।। १८ ।।
दशधा त्वं मया पाप नीयमानः पुनःपुनः ।।
अञ्जलिं वापि कुर्वाणो याचमानो न लज्जसे ।।१९।।
न मोक्ष्यसे मया पाप कुतो गच्छसि मूढ वै ।।
यत्र यत्र प्रयासि त्वमिति गत्वा यमालये ।। 199.२० ।।
तत्र तत्रैव पाप त्वां न त्यक्ष्ये पारदारिकम् ।।
लोहयष्टिप्रहारैश्च ताडयन्ति पुनःपुनः ।।२१ ।।
गोपाला इव दण्डेन कालयन्तो मुहुर्मुहुः ।।
व्याघ्रसिंहसृगालैश्च तथा गर्दभराक्षसैः ।।२२।।
भक्ष्यन्ते श्वापदैरन्यैः श्वभिः काकैस्तथाऽपरे ।।
असिं तालवनं तत्र धूमज्वालासमाकुलम् ।। २३ ।।
दावाग्निसदृशाकारं प्रदीप्तं सर्वतोऽर्चिषा ।।
तत्र क्षिप्त्वा ततः पापं यमदूतैः सुदारुणैः ।। २४ ।।
दह्यमानान्सुतप्तांश्च संश्रयन्ते द्रुमान्पुनः ।।
असिपत्रैस्ततो वृक्षाच्छिन्दन्ति बहुशो नरान् ।।२९।।
तत्र छिन्नाश्च दग्धाश्च हन्यमानाश्च सर्वशः ।।
विधृष्टा विकृताश्चैव दह्यमाना नदन्ति ते ।।२६।।
असितालवनद्वारि ये तिष्ठन्ति महारथाः ।।
पापकर्मसमायुक्तास्तर्जयन्ति सुदारुणाः ।। २७ ।।
भो भो पापसमाचारा धर्मसेतुविनाशकाः ।।
अतो निमित्तं पापिष्ठा यातनाभिः सहस्रशः ।। २८ ।।
अनुभूयेह तत्सर्वं मानुष्यं यदि यास्यथ ।।
कुलेषु सुदरिद्राणां गर्भवासेन पीडिताः।।२९।।
भोगैश्च पीडिता नित्यं उत्पत्स्यथ सुदुर्गताः।।
अग्निज्वालानिभास्तत्र अग्निस्पर्शा महारवाः।।199.३०।।
पक्षिणश्चायसैस्तुण्डैर्व्याघ्राश्चैव सुदारुणाः ।।
तत्र घोरा बहुविधाः क्रव्यादाः श्वादयस्तथा ।।३१।।
खादंति रुषितास्तत्र बहवो हिंसका नरान् ।।
ऋक्षद्वीपिसमाकीर्णे बहुकीटपिपीलिके ।।३२।।
असितालवने विप्रा बहुदुःखसमाकुले ।।
तत्र क्षिप्ता मया दृष्टा यमदूतैर्महाबलैः ।।३३।।
असिपत्र सुभग्नाङ्गाः शूललग्नास्तथाऽपरे ।।
तथाऽपरो महादेशो नानारूपो भयानकः ।।३४।।
पुष्करिण्यश्च वाप्यश्च ह्रदा नद्यस्तथैव च ।।
तडागानि च कूपाश्च रुधिरस्य सहस्रशः।।३५।।
पूतिमांसकृमीणां च अमेध्यस्य तथैव च।।
अन्यानि च मया तत्र दृष्टानि मुनिसत्तमाः ।।३६।।
तत्र क्लिश्यन्ति ते पापास्तस्मिन्मध्ये सहस्रशः ।।
जिघ्रन्तश्च तथा गन्धं मज्जन्तश्च सहस्रशः ।।३७ ।।
अस्थिपाषाणवर्षाणि रुधिरस्य बलाहकाः ।।
अश्मवर्षाणि ते घोराः पातयन्ति सहस्रशः ।।३८ ।।
धावतां प्लवतां चैव हा हतोऽस्मीति भाषिणाम् ।।
प्राहतानां पुनः शब्दो वध्यतां च सुदारुणः ।।३९ ।।
क्रन्दतां करुणोन्मिश्रं दिशोऽपूर्यन्त सर्वशः।।
क्वचिद्बद्धः क्वचिद्रुद्धः क्वचिद्विद्धः सुदारुणैः।।199.४०।।
क्वचित्स्थूलैस्तथा बद्धः उद्बद्धश्च क्वचित्तथा ।।
हाहाभयानकोन्मिश्रः शब्दोऽश्रूयत दारुणः।।४१।।
अपश्यं पुनरन्यत्र यत्स्मृत्वा चोद्विजेन्नरः ।।४२।।
इति श्रीवराहपुराणे संसारचक्रे यातनास्वरूप वर्णनं नाम नवनवत्यधिकशततमोऽध्यायः ।।१९९।।