प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०२ वराहपुराणम्
अध्यायः २०३
[[लेखकः :|]]
अध्यायः २०४ →

अथ पापसमूहानुक्रमवर्णनम् ।।
ऋषिपुत्र उवाच ।।
अन्यान्यपि च पापानि चित्रगुप्तो दिदेश ह ।।
व्यामिश्रान्कथ्यमानांश्च शृणुध्वं तान्महौजसः ।। १ ।।
शीलसंयमहीनानां कृष्णपक्षानुगामिनाम् ।।
महापापैरुपेतानां कथ्यतां तत्पराभवम् ।। २ ।।
राजद्विष्टा गुरुद्विष्टाः सर्वे ते वै विगर्हिताः ।।
अविश्वास्या ह्यसम्भाष्याः कुक्षिमात्रपरायणाः ।। ३ ।।
हिंसाविहारिणः क्रूराः सूचकाः कार्यदूषकाः ।।
गवेडकस्य वधकाः महिषाजादिकस्य च ।। ४ ।।
दावाग्निं ये च मुंचन्ति ये च सौकरिकास्तथा ।।
तत्र कालमसंख्येयं पच्यन्ते पापकारिणः ।। ५ ।।
कर्मक्षयाद्यदा भूयो मानुष्यं प्राप्नुवन्ति ते ।।
अल्पायुषो भवन्तीह व्याधिग्रस्ताश्च नित्यशः ।। ६।।
गर्भ एव विपद्यन्ते म्रियन्ते बालकास्तथा ।।
परिरिंगरताः केचिन्म्रियन्ते पुरुषाधमाः ।। ७ ।।
काष्ठवंशे च शस्त्रे च वायुना ज्वलनेन च ।।
तोयेन वा पाशबन्धैः पतनेन विषेण वा ।।८।।
मातापितृवधं कष्टं मित्रसम्बन्धिबन्धुजम् ।।
बहुशः प्राप्नुवन्त्येते विद्रवं चाप्यभीक्ष्णशः।।९।।
प्राणातिपातनं ते वै प्राप्नुवन्ति यथा तथा ।।
लोहकाः कारुकाश्चैव गर्भाणां विनिहिंसकाः ।। 203.१० ।।
मूलकर्मकरा ये च गरदाः पुरदाहकाः ।।
ये च पञ्जरकर्त्तारो ये च शूलोपघातकाः ।। ११ ।।
पिशुनाः कलहाश्चैव ये च मिथ्याविदूषकाः ।।
गोकुञ्जरखरोष्ट्राणां चर्मका मांसभेदकाः ।। १२ ।।
उद्वेजनकराश्चण्डाः पच्यन्ते नरकेषु ते ।।
तत्र कालं तु सम्प्राप्य यातनाश्च सुदुःसहाः ।। १३ ।।
कर्मक्षयो यदा भूयो मानुष्यं प्राप्नुवन्ति ते ।।
हीनाङ्गाः सुदरिद्राश्च भवंति पुरुषाधमाः ।। १४ ।।
श्रवणच्छेदनं चैव नासाच्छेदनमेव च ।।
छेदनं हस्तपादानां प्राप्नुवंति स्वकर्मणा ।। १५ ।।
शारीरं मानसं दुःखं प्राप्नुवन्ति पुनःपुनः ।।
गलवेदनास्तथोग्राश्च तथा मस्तकवेदनाः ।। १६ ।।
कुक्ष्यामयं तथा तीव्रं प्राप्नुवंति नराधमाः ।।
जडान्ध बधिरा मूकाः पंगवः पादसर्पिणः ।। १७ ।।
एकपक्षहताः काणाः कुनखाश्चामयाविनः ।।
कुब्जाः खञ्जास्तथा हीना विकलाश्च घटोदराः ।। १८ ।।
गलत्कुष्ठाः श्वित्रकुष्ठा भवन्ति स्वैश्च कर्मभिः ।।
वाताण्डाश्चाण्डहीनाश्च प्रमेहमधुमेहिनः ।। १९ ।।
योनिशूलाक्षिशूलाश्च श्वास हृद्गुह्यशूलिनः ।।
पिण्डकावर्त्तभेदैश्च प्लीहगुल्मादिरोगिणः ।। 203.२० ।।
बहुभिर्दारुणैर्घोरैर्व्याधिभिः समनुद्गताः ।।
इत्येतान्हिंसकान्क्रूरान्घातयन्तु सुदारुणान् ।। २१ ।।
मिथ्याप्रलापिनो दूतान्पाचयन्तु यथाक्रमम् ।।
कर्कशाः पुरुषाः सत्या ये च योषानिरर्थकाः ।। २२ ।।
एषां चतुर्विधा भाषा या मिथ्याप्यभिधीयते ।।
हास्यरूपेण या भाषा चित्ररूपेण वा पुनः ।। २३ ।।
अरहस्यं रहस्यं वा पैशुन्येन तु निन्दनात् ।।
उद्वेगजनना वापि कटुका लोकगर्हिताः ।।२४।।
स्नेहक्षयकरां रूक्षां भिन्नवृत्तविभूषिताम् ।।
कदलीगर्भनिस्सारां मर्मस्पृक्कटुकाक्षराम् ।। २५ ।।
स्वरहीनामसंख्येयां भाषंते च निरर्थकम् ।।
अयंत्रितमुखा ये च ये निबद्धाः प्रलापिनः ।। २६ ।।
दूषयन्ति हि जल्पन्तोऽनृजवो निष्ठुराः शठाः ।।
निर्दया गतलज्जाश्च मूर्खा मर्मविभेदिनः ।। २७ ।।
न मर्षयंति येऽन्येषां कीर्त्यमानाञ्छुभान्गुणान् ।।
दुर्वाचः परुषांश्चण्डान्बन्धयध्वं नराधमान् ।। २८ ।।
ततस्तिर्यक्प्रजायन्ते बहुधा कीट पक्षिणः ।।
लोके दोषकराश्चैव लोकद्विष्टास्तथा परे।। ।। २९ ।।
तत्र कालं चिरं घोरं पच्यन्ते पापकारिणः।।
कर्मक्षयो यदा भूयो मानुष्यं प्राप्नुवन्ति ते ।। 203.३० ।।
परिभूता अविज्ञाता नष्टचित्ता अकीर्त्तयः ।।
अनर्च्याश्चाप्यनर्हाश्च स्वपक्षे ह्यवमानिताः ।।३१।।
त्यक्त्वा मित्राणि मित्रेषु ज्ञातिभिश्च निराकृताः ।।
लोकदोषकराश्चैव लोकद्वेष्याश्च ये नराः ।। ३२ ।।
अन्यैरपि कृतं पापं तेषां पतति मस्तके ।।
वज्रं शस्त्रं विषं वापि देहाद्देहनिपातनम् ।। ३३ ।।
मिथ्याप्रलापिनामेषामुक्ता क्लेशपरम्परा ।।
स्तेयहारं प्रहारं च नीतिहारं तथैव च ।। ३४ ।।
स्तेयकर्माणि कुर्वन्ति प्रसह्य हरणानि च ।।
करचण्डाशिनो ये च राजशब्दोपजीविनः ।। ३५ ।।
पीडयन्ति जनान् सर्वान्कृपणान्ग्रामकूटकान् ।।
सुवर्णमणिमुक्तानां कूटकर्मानुकारकाः ।। ३६ ।।
समये कृतहर्त्तारो लोकपीडाकरा नराः ।।
अनादिबुद्धयश्चान्ये स्वार्थातिशयकारिणः ।। ३७ ।।
भूतनिष्ठाभियोगज्ञा व्यवहारेष्वनर्थकाः ।।
भेदकाराश्च धातूनां रजतस्य च कारकाः ।। ३८ ।।
न्यासार्थहारका ये च सम्मोहनकराश्च ये ।।
ये तथोपाधिकाः क्षुद्राः पच्यन्ते तेषु तेष्वथ ।। ३९ ।।
निरयेष्व प्रतिष्ठेषु दारुणेषु ततस्ततः।।
तत्र कालं तु सुचिरं पच्यन्तां पापकारिणः।।203.४०।।
कर्मक्षयो यदा तेषां मानुष्यं प्राप्नुवन्ति ते ।।
तत्र तत्रोपपद्यन्ते यत्र यत्र महद्भयम् ।। ४१ ।।
यस्मिंश्चौरभयं देशे क्षुद्भयं राजतो भयम् ।।
आपद्भ्योऽपि भयं यत्र व्याधिमृत्युभयं तथा ।। ४२।।
ईतयो यत्र देशेषु लुब्धेषु नगरेषु च ।।
क्षयाः कालोपसर्गा वा जायन्ते तत्र ते नराः।।४३।।
बहुदुःखपरिक्लिष्टा गर्भवासेन पीडिताः ।।
एकहस्ता द्विहस्ता वा कूटाश्च विकृतोदराः ।। ४४ ।।
शिराविवृतगात्राश्च हीनाङ्गा वातरोगिणः ।।
अश्रुपातितनेत्राश्च भार्या न प्राप्नुवन्ति ते ।।४९।।
तेषामपत्यं न भवेत्तद्रूपं च सुलक्षणम् ।।
अतिह्रस्वं विवर्णं च विकृतं भ्रान्तलोचनम् ।। ४६ ।।
संसारे च यथा पक्वं कृपणं भैरवस्वनम् ।।
महतः परिवारस्य तुष्टश्चोच्छिष्टभोजकः ।। ४७ ।।
रूपतो गुणतो हीनो बलतः शीलतस्तथा ।।
राजभृत्या भवन्त्येते पृथिवीपरिचारकाः ।। ४८ ।।
अनालया निरामर्षा वेद नाभिः सुसंवृताः ।।
समकार्यसजात्यानां मित्रसम्बन्धिनां तथा ।। ४९ ।।
कर्मान्तकारका ह्येते तृणीभूता भवन्ति ते ।।
अनर्थो राजदण्डो वा नित्यमुत्पाद्यते वधः ।। 203.५० ।।
कर्मकल्याणकृच्छ्रेषु भृशं चापि विमुह्यति ।।
कर्षकाः पशुपालाश्च वाणिज्यस्योपजीवकाः ।।५१।।
यद्यत्कुर्वन्ति ते कर्म सर्वत्र क्षयभागिनः ।।
सत्यमन्विष्यमाणाश्च नैव ते कीर्त्तिभागिनः ।। ५२ ।।
यत्किञ्चिदशुभं कर्म तस्मिन्देशे समुच्छ्रितम् ।।
तस्य देशस्य नैवास्ति वर्जयित्वातुरान्नरान् ।। ५३ ।।
सुवृष्ट्यामपि तेषां वै क्षेत्रं तं तु विवर्जयेत् ।।
अशनिर्वा पतेत्तत्र क्षेत्रं वापि विनश्यति ।।५४ ।।
न सुखं नापि निर्वाणं तेषां मानुषता भवेत् ।।
उत्पद्यते नृशंसानां तीव्रः क्लेशः सुदारुणः ।।५५।।
स्तेयकर्मप्रयुक्तानां मुक्त्वा क्लेशपरम्पराम् ।।
परदारप्रसक्तानामिमां शृणुत यातनाम् ।। ५६ ।।
तिर्यङ्मानुषदेहेषु यान्ति विक्षिप्तमानसाः ।।
विहरन्ति ह्यधर्मेषु धर्मचारित्रदूषकाः ।। ५७ ।।
तांस्तेनैव प्रदानेन संग्रहेत्तु ग्रहेण वा ।।
मूलकर्मप्रयोगेण राष्ट्रस्यातिक्रमेण वा ।। ५८ ।।
प्रसह्य वा प्रकृत्या वै ये चरन्ति कुलाङ्गनाः ।।
वर्णसङ्करकर्त्तारः कुलधर्मादिदूषकाः ।। ५९ ।।
शीलशौचादिसम्पन्नं ये जनं धर्मलक्षणम् ।।
धर्षयन्ति च ये पापाः श्रूयतां तत्पराभवः ।। 203.६० ।।
निरयं पापभूयिष्ठा अनुभूय महाभयम् ।।
बहुवर्षसहस्राणि कमर्णा तेन दुष्कृताः ।। ६१ ।।
कर्मक्षये यदा भूयो मानुष्यं यान्ति दारुणम् ।।
सङ्कीर्णयोनिजाः क्षुद्रा भवन्ति पुरुषाधमाः ।। ६२ ।।
वेश्यालङ्घककूटानां शौण्डिकानां तथैव च ।।
दुष्टपाषण्डनारीणां नैकमैथुनगामिनाम् ।। ६३ ।।
निर्ल्लज्जपुण्ड्रकाः केचिद्बद्धपौरुषगण्डकाः ।।
स्त्रीबन्धकाः स्त्रीविनाशाः स्त्रीवेषाः स्त्रीविहारिणः ।। ६४ ।।
स्त्रीणां चानुप्रवृद्धा ये स्त्रीभोगपरिभोगिनः ।।
तद्दैवतास्तन्नियमास्तद्वेषास्तत्प्रभाषिताः ।।६५ ।।
तद्भावास्तत्कथालापास्तद्भोगाः परिभोगिनः ।।
विप्रलोभं च दानेषु प्राप्नुवन्ति नराधमाः ।। ६६ ।।
सौभाग्यपरमासक्ता नरा बीभत्सदर्शनाः ।।
अबुद्धैः सह संवासं प्रियं चाविप्रियं तथा ।। ६७ ।।
शारीरं मानसं दुःखं प्राप्नुवन्ति नराधमाः ।।
कृमिभिर्भक्षणं चैव तप्ततैलोपसेचनम् ।। ६८ ।।
अग्निक्षारनदीभ्यां तु प्राप्नुवन्ति न संशयः ।।
 परदारप्रसक्तानां भयं भवति निग्रहः ।। ६९ ।।
सर्वं च निखिलं कार्यं यन्मया समुदाहृतम् ।। 203.७० ।।
इति श्रीवराहपुराणे पापसमूहानुक्रमो नाम त्र्यधिकद्विशततमोऽध्याय ।। २०३ ।।