प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०१ वराहपुराणम्
अध्यायः २०२
[[लेखकः :|]]
अध्यायः २०३ →

अथ नारकिदण्डनकर्मविपाकवर्णनम् ।।
ऋषिरुवाच ।।
विस्मयस्तु मया दृष्टस्तस्मिन्नद्भुतदर्शनः ।।
चित्रगुप्तस्य सन्देशो धर्मराजेन धीमतः।।१।।
प्राप्नुवन्ति फलं ते वै ये च क्षिप्ताः पुरा जनाः ।।
अग्निना वै प्रतप्तास्ते बद्धा बन्धैः सुदारुणैः ।। २ ।।
सन्तप्ता बहवो ये ते तैस्तैः कर्मभिरुल्बणैः ।।
श्यामाश्च दशनाभिर्ये त्विमं शीघ्रं प्रमापय ।। ३ ।।
दुराचारं पापरतं निर्घृणं पापचेतसम् ।।
श्वानस्तु हिंसका ये च भक्षयन्तु दुरात्मकम् ।। ४ ।।
पितृघ्नो मातृगोघ्नस्तु सर्वदोषसमन्वितः ।।
आरोप्य शाल्मलीं घोरां कण्टकैस्तैर्विपाटय ।। ५ ।।
एनं पाचय तैलस्य घृतक्षौद्रस्य वा पुनः ।।
तप्तद्रोण्यां ततो मुंच ताम्रतप्तखले पुनः ।। ६ !।
नराधममिमं क्षिप्त्वा प्रदीप्ते हव्यवाहने ।।
ततो मनुष्यतां प्राप्य ऋणैस्तत्र प्रदीप्यते ।। ७ ।।
शयनासनहर्त्तारमग्निदायी च यो नरः ।।
वैतरण्यामयं चैव क्षिप्यतामचिरं पुनः ।। ८ ।।
पापकर्मायमत्यर्थं सर्व तीर्थविनाशकः ।।
तस्य प्रदीप्तः कीलोऽयं वह्नितप्तोऽतिदुःस्पृशः ।।९।।
आदेश्य चोभयोरस्य कर्णयोः कूटसाक्षिकः ।।
यो नरः पिशुनः कूटसाक्षी चालीकजल्पकः।।202.१०।।
ग्रामयाजनकं विप्रमध्रुवं दांभिकं शठम्।।
बद्ध्वा तु बन्धने घोरे दीयतां तु न किंचन।।११।।
जिह्वाऽस्य छिद्यतां शीघ्रं वाचा दुष्टस्य पापिनः ।।
गम्यागम्यं पुरा येन विज्ञातं न दुरात्मना ।। १२ ।।
कृतं लोभाभिभूतेन कामसम्मोहितेन च ।।
तस्य च्छित्वा ततो लिंगं क्षारमग्निं च दीपय ।। १३ ।।
इमं तु खलकं कृत्वा दुरात्मा पापकारिणम् ।।
दायादा बहवो येन स्वार्थहेतोर्विनाशिताः ।। १४ ।।
इमं वार्धुषिकं विप्रं सर्वत्रांगेषु भेदय ।।
तथायं यातनां यातु पापं बहु समाचरन् ।। १५ ।।
सुवर्णस्तेयिनं पापं कृतघ्नं च तथा नरम् ।।
क्रूरं पितृहणं चैनं ब्रह्मघ्नेषु समीकुरु ।। १६ ।।
अस्थि च्छित्वा ततः क्षिप्रं क्षारमग्निं च दापय ।।
इमं तु विप्रं खादन्तु तीक्ष्णदंष्ट्राः सुदारुणाः ।। १७ ।।
पिशुनं हि महाव्याघ्राः पंच घोराः सुदारुणाः ।।
इमं पचत पाकेषु बहुधा मर्मभेदिनम् ।। १८ ।।
येनाग्निरुज्झितः पूर्वं गृहीत्वा च न पूजितः ।।
इमं पापसमाचारं वीरघ्नमतिपापिनम् ।। १९ ।।
कर्कटस्य तु घोरस्य नित्यक्रुद्धस्य मोचय ।।
इमं घोरे ह्रदे क्षिप्तं सर्वयाजनयाजकम् ।। 202.२० ।।
सर्वेषां तु पशूनां यो नित्यं धारयते जलम् ।।
न त्राता न च दाता च पापस्यास्य दुरात्मनः ।। २१ ।।
अदानव्रतिनो विप्रा वेदविक्रयिणस्तथा ।।
सर्वकर्माणि कुर्युर्ये दीयते न च किंचन ।। २२ ।।
तोयभाजनहर्त्तारं भोजनं योऽनिवारयन् ।।
हन्यतां सुदृढैर्दण्डैर्यमदूतैर्महाबलैः ।। २३ ।।
वेणुदण्डकशाभिश्च लोहदण्डैस्तथैव च ।।
जलमस्मै न दातव्यं भोजनं च कथंचन ।। २४।।
तस्मा अन्नं च पानं च न दातव्यं कदाचन ।।
हत विश्वास्य हन्तारं वह्नौ शीघ्रं प्रपाचय ।। २५ ।।
ब्रह्मदेयं हृतं येन तं वै शीघ्रं विपाचय ।।
बहुवर्षसहस्राणि पातये कर्म विस्तरे ।। २६ ।।
समुत्तीर्णं ततः पश्चात्तिर्यग्योनौ प्रपातये ।।
सूक्ष्मदेहविपाकेषु कीटपक्षिविजातिषु ।। २७ ।।
क्लिष्टो जातिसहस्रैस्तु जायते मानुषस्ततः ।।
तत्र जातो दुरात्मा च कुलेषु विविधेषु च ।।२८।।
हिंसारूपेण घोरेण ब्रह्मवध्यां प्रदापयेत् ।।
राज्ञस्तु मारकं घोरं ब्रह्मघ्नं दुष्कृतं तथा।।२९।।
सुवर्णस्तेयिनं चैव सुरापं चैव कारयेत् ।।
अनुभूय ततः काले ततो यक्ष्म प्रयोजयेत् ।।202.३०।।
गोघातको ह्ययं पापः कूटशाल्मलिमारुहेत् ।।
कृष्यते विविधैर्घोरै राक्षसैर्घोरदर्शनैः ।। ३१ ।।
पूतिपाकेषु पच्येत जन्तुभिः संप्रयोजितः ।।
ब्रह्मवध्याच्चतुर्भागैर्मृगत्वं पशुतां गतः ।। ३२ ।।
उद्विग्नवासं पतितं यत्र यत्रोपपद्यते ।।
पापकर्मसमुद्विग्नो जातो जातः पुनःपुनः ।। ३३ ।।
अयं तिष्ठति किं पापः पितृघाती दुरात्मवान् ।।
ते तु वर्षशतं साग्रं भक्षयन्तु विचेतसः ।। ३४ ।।
ततः पाकेषु घोरेषु पच्यतां च नराधमः ।।
ततो मानुषतां प्राप्य गर्भस्थो प्रियतां पुनः ।। ३५ ।।
व्यापन्नो दशगर्भेषु ततः पश्चाद्विमुच्यताम् ।।
तत्रापि लब्ध्वा मानुष्यं क्लेशभागी च जायताम् ।। ३६ ।।
बुभुक्षारुग्विकारैश्च सततं तत्र पीड्यताम् ।।
पापाचारमिमं घोरं मित्रविश्वासघातकम् ।। ३७ ।।
यन्त्रेण पीड्यतां क्षिप्रं ततः पश्चाद्विमुच्यताम् ।।
दीप्यतां ज्वलने घोरे वर्षाणां च शतद्वयम् ।। ३८ ।।
जायतां च ततः पश्चाच्छूनां योनौ दुरात्मवान् ।।
भ्रष्टोऽपि जायतां तस्मान्मानुषः क्लेश भाजनः ।। ३९ ।।
प्राप्तवान्विविधान्रोगान्संसारे चैव दारुणान् ।।
ब्रह्मस्वहारी पापोऽयं नरो लवणतस्करः ।। 202.४० ।।
वर्षाणां तु शतं पंच तत्र क्लिष्टो दुरात्मवान् ।।
कृमिको जायते पश्चाद्विष्ठायां कृमिकोऽपरः ।। ४१।।
शकुन्तो जायते घोरस्तत्र पश्चाद्वृको भवेत् ।।
इममग्निप्रदं घोरं काष्ठाग्नौ सम्प्रतापय ।। ४२ ।।
स्वकर्मसु विहीनेषु पश्चाल्लब्धगतिस्तथा ।।
ततश्चाथ मृगो वापि ततो मानुषतां व्रजेत् ।। ४३ ।।
तत्रापि दारुणं दुःखमुपभुंक्ते दुरात्मवान् ।।
सर्वदुष्कृतकार्येषु सह संघातचिन्तकैः ।। ४४ ।।
एवं कर्मसमायुक्तास्ते भवन्तु सहस्रशः ।।
परद्रव्यापहाराश्च रौरवे पतितास्तथा ।। ४५ ।।
कुम्भीपाकेषु निर्दग्धः पश्चाद्गर्दभतां गतः ।।
ततो जातस्त्वसौ पापः शूकरो मलभुक्तथा ।। ४६ ।।
प्राप्नोतु विविधांस्तापान्यथा हृतधनश्च सन् ।।
क्षुधातृष्णापराक्रान्तो गर्दभो दशजन्मसु ।। ४७ ।।
मानुष्यं समनुप्राप्य चौरो भवति पापकृत् ।।
परोपघाती निर्लज्जः सर्वेदोषसमन्वितः ।। ४८ ।।
वृक्षशाखावलम्बोऽत्र ह्यधःशीर्षः प्रजायते ।।
अग्निना पच्यतां पश्चाल्लुब्धो वै पुरुषाधमः ।। ४९ ।।
ततो वर्षशते पूर्णे मुच्यते स पुनः पुनः ।।
अजितात्मा तथा पापः पिशुनश्च दुरात्मवान् ।। 202.५० ।।
पूर्वैश्च सूकरो भूत्वा नकुलो जायते पुनः ।।
विमुक्तश्च ततः पश्चान्मानुष्यं लभते चिरात् ।। ५१ ।।
धिक्कृतः सर्वलोकेन कूटसाक्ष्यनृतव्रतः ।।
न शर्म लभते क्वापि कर्मणा स्वेन गर्हितः ।। ५२ ।।
इमं ह्यानृतिकं दुष्टं क्षेत्रहारकमेव च ।।
स्वकर्म दुष्कृतं यावत्तावदुःखं भुनक्त्वसौ ।। ५३ ।।
कर्मण्येकैकशश्चायं स तु तिष्ठत्वयं पुनः ।।
वर्षलक्षं न सन्देहस्ततस्तिष्ठत्वयं पुनः ।। ५४ ।।
ततो जातीः स्मरेत्सर्वास्तिर्यग्योनिं समाश्रितः ।।
जायतां मानुषः पश्चात्क्षुधया परिपीडितः ।। ५५ ।।
सर्वकामविमुक्तस्तु सर्वदोषसमन्वितः ।।
क्वचिज्जात्यां भवेदन्धः क्वचिद्बधिर एव च ।। ५६ ।।
क्वचिन्मूकश्च काणश्च क्वचिद्व्याधिसमन्वितः ।।
एवं हि प्राप्नुयाद्दुःखं न च सौख्यमवाप्नुयात् ।। ५७ ।।
जात्यन्तरसहस्राणि प्रयुतान्यर्बुदानि च ।।
शान्तिं न लभते चैव भूमे क्षेत्रहरो नरः ।। ९८ ।।
तीव्रैरन्तर्गतैर्दुःखैर्भूमिहर्त्ता नराधमः ।।
इमं बन्धैर्दृढैर्बद्ध्वा विपाचय तथाचिरम् ।। ५९ ।।
प्रबद्धः सुचिरं कालं मम लोकं गतो नरः ।।
जायतां स चिरं पापो मार्जारस्तेन कर्मणा ।। 202.६० ।।
तीव्रक्षुधापरिक्लिष्टो बद्धो बन्धनयन्त्रितः ।।
दुःखान्यनुभवंस्तत्र पापकर्मा नराधमः ।। ६१ ।।
सप्तधा सप्त चैकां च जातिं गत्वा स पच्यते ।।
इमं शाकुनिकं पापं श्वभिर्गृध्रैश्च घातय ।। ६२ ।।
ततः कुक्कुटतां यातु विड्भक्षश्च दुरात्मवान् ।।
दंशश्च मशकश्चैव ततः पश्चाद्भवेत्तु सः ।। ६३ ।।
जातिकर्म सहस्रं तु ततो मानुषतां व्रजेत् ।।
इमं सौकरिकं पापं महिषा घातयन्तु तम् ।।६४ ।।
वर्षाणां च सहस्रं तु धावमानं ततस्ततः।।
विभिन्नं च प्रभिन्नं च शृंगाभ्यां पद्भिरेव च ।। ६५ ।।
तस्माद्देशात्ततो मुक्तस्ततः सूकरतां व्रजेत् ।।
महिषः कुक्कुटश्चैव शशो जम्बूक एव च ।। ६६ ।।
यां यां याति पुनर्जातिं तत्र भक्ष्यो भवेत्तु सः ।।
कर्मक्षयोऽन्यथा नास्ति मया पूर्वं विनिर्मितम् ।। ६७ ।।
प्राप्य मानुषतां पश्चात्पुनर्व्याधो भविष्यति ।।
अन्यथा निष्कृतिर्नास्ति जातिजन्मशतैरपि ।। ६८ ।।
उच्छिष्टान्नप्रदातारं पापाचारमधार्मिकम् ।।
अङ्गारैः पचतां चैनं त्रीणि वर्षशतानि च ।। ६९ ।।
भिन्नचारित्रदुःशीला भर्त्तुर्व्यलीककारिणी ।।
आयसान्पुरुषान्सप्त ह्यालिङ्गतु समन्ततः ।। 202.७० ।।
ततः शुनी भवेत्पश्चात्सूकरी च ततः परम् ।।
कर्मक्षये ततः पश्चान्मानुषी दुःखिता भवेत् ।। ७१ ।।
न च सौख्यमवाप्नोति तेन दुःखेन दुखिता ।।
अनेन भृत्या बहवः श्रांताः शांताः प्रवाहिताः ।। ७२ ।।
भक्ष्यं भोज्यं च पानं च न तेषामुपपादितम् ।।
अनुमोदे प्रजा दृष्ट्वा लिप्समानो दुरात्मवान् ।। ७३ ।।
एवं कुरुत भद्रं वो मम पार्श्वे तु दुर्मतिः ।।
रौरवे नरके घोरे सर्वदोषसमन्विते ।। ७४ ।।
सर्वकर्माणि कुर्वाणं क्षपयध्वं दुरासदम् ।।
वर्षाणां तु सहस्राणि तैस्तैः कर्मभिरावृतम् ।। ७५ ।।
प्रक्षिप्यतामयं पश्चाद्दस्युजातौ दुरात्मवान् ।।
जायतामुरगः पश्चात्ततः कर्म समाश्रयेत् ।। ७६ ।।
ततः पश्चाद्भवेत्पापश्चेतरः सर्वपापकृत् ।।
सूकरस्तु भवेत्पश्चान्मेषः संजायते पुनः ।। ७७ ।।
हस्त्यश्वश्च शृगालश्च सूकरो बक एव च ।।
ततो जातस्तु सर्वेषु संसारेषु पुनः पुनः ।। ७८ ।।
वर्षाणामयुतं साग्रं ततो मानुषतां व्रजेत् ।।
पंचगर्भेषु सापत्सु पंच जातो म्रियेत सः ।। ७९ ।।
अपौगण्डो म्रियेत्पंच कर्मशेषक्षये तु सः ।।
ततो मानुषतां याति चैष कर्माविनिर्णयः ।। 202.८०।।
पापस्य सुकृतस्याथ प्रजानां विनिपातने ।।
भूतानां चाप्यसंमानं दुष्प्रहारश्च सर्वशः।।८१।।
अतः स्वयम्भुवा पूर्वं कर्मपाको यथार्थवत् ।।८२।।
इति श्रीवराहपुराणे संसारचक्रे नारकिदण्डकर्मविपाक वर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ।। २०२ ।।