प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०४ वराहपुराणम्
अध्यायः २०५
[[लेखकः :|]]
अध्यायः २०६ →

अथ शुभाशुभ फलानुकीर्तनवर्णनम् ।।
ऋषिपुत्र उवाच ।।
इदमन्यत्पुरा विप्राः श्रूयतां तस्य भाषितम् ।।
यमस्य चित्रगुप्तस्य यच्च तत्र मया श्रुतम् ।। १ ।।
अयं तु भवतां यातु यातु स्वर्गं महीक्षिताम् ।।
अयं वृक्षस्त्वयं तिर्यगयं मोक्षं व्रजेन्नरः ।। २ ।।
अयं नागो भवेच्छीघ्रमयं तु परमां गतिम् ।।
स्वपूर्वकान्पश्यतेऽयमात्मनस्तु पितामहान् ।। ३ ।।
क्लिश्यतो रुदतश्चैव वदतश्च पुनःपुनः ।।
स्वेन दोषेण सर्वे वा अक्षयं नरकङ्गताः ।। ४ ।।
दारत्यागी त्वधर्मिष्ठः पुत्रपौत्रविवर्जितः ।।
क्षिप्तं वै रौरवे ह्येनं क्षपयन्तु महौजसः ।। ५ ।।
मुच्यतां त इमे सर्वे ह्यतीतानागतास्तथा ।।
मुच्यन्तामाशु मुच्यन्तां त एते पापवर्जिताः ।। ६।।
आगमे च विपत्तौ च सर्वधर्मानुपालकाः ।।
ते तु कल्पान्बहून्स्वर्ग उषित्वा ह्यनसूयकाः ।।७।।
बहुसुन्दरनार्यङ्के ह्याद्ये परमधार्मिकम् ।।
कलौ मानुषतां यातु धर्मस्येह निदर्शनम् ।। ८ ।।
त्रिविष्टपे परिक्लेशो वासो ह्यस्याक्षयो भवेत् ।।
अयमायोधने शत्रुं हत्वा तु निधनङ्गतः ।। ९ ।।
ब्राह्मणार्थे गवार्थे वा राष्ट्रार्थे निधनङ्गतः ।।
शक्रस्य ह्यमरावत्यां निवेदयत मा चिरम् ।।205.१०।।
तत्र वैमानिको भूत्वा कल्पमेकं निवत्स्यति ।।
तथैवायं महाभागो धर्मात्मा धर्मवत्सलः ।। ११ ।।
बहुदानरतो नित्यं सर्वभूतानुकम्पकः ।।
एनं गन्धैश्च माल्यैश्च शीघ्रमेव प्रपूजय ।। १२ ।।
अस्मै पूजा भवेद्देया मयादिष्टा महात्मने ।।
वीज्यतां चामरैरेष रथमस्मै प्रदीयताम् ।।१३।।
प्रेतवासं समुत्सृज्य हीतो यातु त्रिविष्टपम् ।।
इन्द्रस्यार्द्धं भवेच्चैव देवदेवस्य धीमतः ।। १४ ।।
शङ्खतूर्यनिनादेन तत्र वै विजयेन च ।।
तत्र वै पूजयित्वा च प्रायशो लभतां सुखम् ।। १५ ।।
अयं गच्छतु भद्रं चापीन्द्रदेशं दुरासदम् ।।
अनेन वै कीर्तिमता लोकः सर्वो ह्यलंकृतः ।। १६।।
गुणैश्च शतसंख्याकैः शक्र एनं प्रतीक्षते ।।
तावत्स्थास्यति धर्मात्मा यावच्छक्रस्त्रिविष्टपे ।। १७ ।।
तावत्स मोदते स्वर्गे यावद्धर्मोऽनुमीयते ।।
ततच्युतश्च कालेन मानुष्ये सुखमश्नुते ।। १८ ।।
रत्नवेणुप्रदश्चैव सर्वधर्मैरलंकृतः ।।
अश्विनोर्नय लोकं तु सर्वसौख्यसमन्वितम् ।। १९ ।।
अयं यातु महाभागो देवदेवं सनातनम् ।।
अतिसृष्टः पुरा येन यथोक्ताः सुखदोहनाः ।। 205.२० ।।
सर्वशक्त्या समेतेन द्विजेभ्य उपपादिताः ।।
शुचीनां ब्राह्मणानाम्बह्वन्नदानं विशेषतः ।। २१ ।।
तेन कल्पं वसिष्यन्ति रुद्रकल्पा मनोरमाः ।।
तत्र कल्पं वसेद्गत्वा रुद्रलोकं न संशयः ।। २२ ।।
तेन दत्तं द्विजातिभ्यो मधुखण्डपुरःसरम् ।।
रसैश्च विविधैर्युक्तं सर्वगन्धमनोरमम् ।। २३ ।।
तरुणी क्षीरसम्पन्ना गौः सुवर्णयुता शुभा ।।
सवत्सा हेमवासाश्च दत्ताऽनेन महात्मना ।। २४ ।।
अस्य लेख्यं मया दृष्टं तिस्रः कोट्यस्त्रिविष्टपे ।।
स्वर्गात्परिच्युतश्चापि ऋषीणां जायते कुले ।।२५।।
सुवर्णस्य प्रदाता च त्रिदशेभ्यो निवेद्यताम् ।।
त्रिदशानभ्यनुज्ञाप्य यातु देवमुमापतिम् ।। २६ ।।
तत्रैष वै महातेजा यथेष्टं काममाप्नुयात् ।।
तत्रैवायमपि प्रेतगणभक्तो महातपाः ।। २७ ।।
प्रयातु पितृभिः सार्द्धं तर्पिता येन पूर्वजाः ।।
दानव्रता दिवं यान्तु नानालोकनमस्कृताः ।।२८ ।।
अयं भद्रो महाकामं सर्वभूतहिते रतः ।।
सर्वकामैरयं पूज्यः सर्वकामप्रदो नरः ।। २९ ।।
क्षितिप्रदो द्विजातिभ्यो ह्ययं यातु त्रिविष्टपम् ।।
तत्रैव तिष्ठताद्वीरो ब्रह्मलोके सहानुगः ।। 205.३० ।।
विविधैः कामभोगैस्तु सेव्यमानो नरोत्तमः ।।
अक्षयं चाजरं स्थानं पूज्यमानो महर्षिभिः ।।३१ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे शुभाशुभफलानुकीर्त्तनं नाम पञ्चाधिकद्विशततमोऽध्यायः ।। २०५ ।।