प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०५ वराहपुराणम्
अध्यायः २०६
[[लेखकः :|]]
अध्यायः २०७ →

अथ शुभकर्मफलोदय प्रकरणम् ।।
ऋषिरुवाच ।।
चित्रगुप्तस्य सन्देशो वदतो यो मया श्रुतः ।।
श्रूयतां वै महाभागास्तपःसिद्धा द्विजोत्तमाः ।। १ ।।
इमं सर्वातिथिं दान्तं सर्वभूतानुकम्पकम् ।।
समान्नदानदातारं शेषभोजनभोजिनम् ।। २ ।।
मुञ्च मुञ्च महाभृत्य चैष धर्मस्य निर्णयः ।।
अहं कालेन सार्द्धं हि मृत्युना प्रकृतस्तथा ।। ३ ।।
मम स्थास्यन्ति पार्श्वेषु पापा वै विकृतास्तथा ।।
एनं गास्यन्ति गन्धर्वा गगनेऽप्सरसस्तथा ।।४ ।।
दीयतामासनं दिव्यं तथान्यद्यानमेव च ।
अन्यान्यान्कामयेत्कामान्मनसा यानि चेच्छति ।। ५ ।।
तत्तु शीघ्रं प्रदातव्यं धर्मराजस्य शासनात् ।।
अक्रियाणि तु दानानि पूर्वं दत्तानि धीमता ।। ६ ।।
प्रेक्षतां च महाभागो भोक्तुं चैव सहानुगः ।।
तिष्ठत्येषोऽत्र वै वीरो ममादेशान्महायशाः ।। ७ ।।।
यावत्स्वर्गाद्विमानानि समागच्छन्ति कृत्स्नशः ।।
ततः स प्रवरैर्यानैः सानुगः सपरिच्छदः ।। ८ ।।
देवानां भवनं यातु दैवतैरभिपूजितः ।।
तत्रैव रमतां वीरो यावल्लोको हि धार्यते ।। ९ ।।
स कृतार्थः सदा लोके यत्रैषोऽभिप्रयास्यति ।।
तत्र मेध्यं पवित्रं च यत्र स्थास्यत्ययं शुचिः ।। 206.१० ।।
नैककन्याप्रदातारं नैकयज्ञकृतं तथा ।।
पूज्यतां सर्वकामैस्तु पदं गच्छतु वैष्णवम् ।। ११ ।।
तत्रैष रमतां धीरः सहस्रमयुतं समाः ।।
ततो वै मानुषे लोके आद्ये वै जायतां कुले ।। १२ ।।
भूतानुकम्पको ह्येष क्रियतामस्य चार्च्चनम् ।।
वर्षाणामयुतं चायं तत्र तिष्ठतु देववत् ।। १३ ।।
जायते तु ततः पश्चात्सर्वमानुषपूजितः ।।
उपानहौ च छत्रं च जलभाजनमेव च ।। १४ ।।
असकृद्येन दत्तानि तस्मै पूजां प्रयच्छथ ।।
सभा यत्र प्रवर्त्तन्ते यस्मिन्देशे सहस्रशः ।। १५ ।।
हस्तेन संस्पृशत्येष मृदुना शीतलेन च ।।
विद्याधरस्तथा ह्येष नित्यं मुदितमानसः ।। १६ ।।
महापद्मानि चत्वारि तस्मिंस्तिष्ठन्तु नित्यशः ।।
ततश्च्युतश्च कालेन मानुषं लोकमास्थितः ।। १७ ।।
बहुसुन्दरनारीके कुले जन्म समाप्नुयात् ।।
दधि क्षीरं घृतं चैव येन दत्तं द्विजातिषु ।।१८।।
एष वा यातु नः पार्श्वमस्मै पूजां प्रयच्छथ ।।
नीयतां नीयतां शीघ्रं यत्रयत्र न चालयेत् ।। १९ ।।
गोरसस्य तु पूर्णानि भाजनानि सहस्रशः ।।
यत्र दत्त्वा च पीत्वा च बान्धवेभ्यो विभागशः ।। 206.२० ।।
ततः पश्चादयं यातु यत्र लोकोऽनसूयकः ।।
तत्रैव रमतां धीरो बहुवर्षशतान्ययम् ।। २१ ।।
बहुसुन्दरनारीभिः सेव्यमानो महातपाः ।।
अमराख्यो भवेत्तत्र गोलोकेषु समाहितः ।। २२ ।।
इदमेवापरं चैव चित्रगुप्तस्य भाषितम् ।।
सर्वदेवमया देव्यः सर्ववेदमयास्तथा ।। २३ ।।
अमृतं धारयन्त्यश्च प्रचरन्ति महीतले ।।
तीर्थानां परमं तीर्थमतस्तीर्थं न विद्यते ।। २४ ।।
पवित्रं च पवित्राणां पुष्टीनां पुष्टिरेव च ।।
तस्मात्पुरस्तु दातव्यं गवां वै मेध्यकारणात् ।। २५ ।।
दघ्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः ।।
घृतेन पावको नित्यं पायसेन पितामहः ।। २६ ।।
सकृद्दत्तेन प्रीयन्ते वर्षाणां हि त्रयोदश ।।
तां दत्त्वा चैव पीत्वा च प्रीतो मेध्यस्तु जायते ।। २७ ।।
पंचगव्येन पीतेन वाजिमेधफलं लभेत् ।।
गव्यं तु परमं मेध्यं गव्यादन्यन्न विद्यते ।। २८ ।।
दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती ।।
खुरमध्ये तु गन्धर्वाः खुराग्रेषु तु पन्नगाः ।। २९ ।।
सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ।।
ककुदे सर्वक्षत्राणि लांगूले धर्म आश्रितः ।। 206.३० ।।
अपाने सर्वतीर्थानि प्रस्रावे जाह्नवी नदी ।।
नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा ।। ३१ ।।
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।।
रोमे वसन्ति विद्याश्च त्वक्केशेष्वयनद्वयम् ।। ३२ ।।
धैर्यं धृतिश्च शान्तिश्च पुष्टिर्वृद्धिस्तथैव च ।।
स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव च ।। ३३ ।।
विद्या शान्तिर्मतिश्चैव सन्ततिः परमा तथा ।।
गच्छन्तमनुगच्छन्ति ह्येता गावो न संशयः ।। ३४।।
यत्र गावो जगत्तत्र देवदेवपुरोगमाः ।।
यत्र गावस्तत्र लक्ष्मीः सांख्यधर्मश्च शाश्वतः ।। ३५ ।।
सर्वरूपेषु ता गावस्तिष्ठन्त्यभिमतास्तथा ।।
भवनेषु विशालेषु सर्वप्रासादपङ्क्तिषु ।। ३६ ।।
स्त्रियश्च पुरुषाश्चैव रक्षन्तश्च सुयन्त्रिताः ।।
शयनासनपानेषु ह्युपविष्टाः सहस्रशः ।। ३७ ।।
क्रीडन्ति विविधैर्भोगैर्भोगेषु च सहस्रशः ।।
तत्र पानगृहेष्वन्ये पुष्पमालाविभूषिताः ।। ३८ ।।
भक्ष्याणां विविधानां च भोजनानां च संचयात् ।।
शयनासनपानानि वाजिनो वारणांस्तथा ।। ३९ ।।
अपश्यन्विविधास्तत्र स्त्रियश्च शुभलोचना ।।
शोभयन्ति स्त्रियः काश्चिज्जलक्रीडा गतास्तथा ।। 206.४० ।।
उद्यानेषु तथा चान्या भवनेषु च पुण्यतः ।।
अनेन सदृशं नास्ति ह्यस्मादन्यन्न विद्यते ।। ४१ ।।
अहो सूत्रकृतं शिल्पमहोरत्नैरलंकृतम् ।।
एवं गृहाद्गृहं गच्छन्नहं तत्र ततस्तमः ।। ४२ ।।
ततस्तु निखिलं सम्यग्दृष्ट्वा कर्म महोदयम् ।।
पुनरेवागतः पार्श्वं यमस्य द्विजसत्तमाः ।। ४३ ।।
इति श्रीवराहपुराणे संसारचक्रे शुभकर्मफलोदयो नाम षडधिकद्विशततमोऽध्यायः ।। २०६ ।।