प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २०७ वराहपुराणम्
अध्यायः २०८
[[लेखकः :|]]
अध्यायः २०९ →

अथ पतिव्रतोपाख्यानवर्णनम् ।।
ऋषिपुत्र उवाच ।।
मुहूर्त्तस्य तु कालस्य दिव्याभरणभूषितान् ।।
प्रयातान्दिवि संप्रेक्ष्य विमानैः सूर्यसन्निभैः ।। १ ।।
ब्राह्मणास्तपसा सिद्धाः सपत्नीकाः सबान्धवाः ।।
सानुरागा ह्युभयतो मन्युनाभिपरिप्लुताः ।। २ ।।
विवर्णवदनो राजा प्रभातेजोविवर्जितः ।।
अचिरादेव सञ्जातः क्रोधेन भृशदुःखितः ।। ३ ।।
तं तथा निष्प्रभं दृष्ट्वा धर्मराजं तपोधनः ।।
नारदश्चाब्रवीत्तत्र ज्ञात्वा तस्य मनोगतम् ।। ४ ।।
अपि त्वं भ्राजमानस्तु पशोः पतिरिवापरः ।।
कस्मात्ते शोभनं वक्त्रं क्षणाद्वैवर्ण्यमापतत् ।। ५ ।।
विनिःश्वसन्यथा नागः कस्मात्त्वं परितप्यसे ।।
राजन्कस्माद्बिभेषि त्वमेतदिच्छामि वेदितुम् ।। ६ ।।
यम उवाच ।।
विवर्णं जायते वक्त्रं शुष्यते न च संशयः ।।
यन्मया हीदृशं दृष्टं श्रूयतां तन्महामुने ।। ७ ।।
यायावरास्तु ये विप्रा उञ्छवृत्तिपरायणाः ।।
दृढस्वाध्यायतपसो ह्रीमन्तो ह्यनसूयकाः ।। ८ ।।
अतिथिप्रियकाश्चैव नित्ययुक्ता जितेन्द्रियाः ।।
ते त्वहंमानिनः सर्वे गच्छन्त्युपरि मे द्विज ।। ९ ।।
न च मामुपतिष्ठन्ति न चैव वशगा मम ।।
मस्तकं मम गच्छन्ति सपत्नीकाः सहानुगाः ।। 208.१० ।।
दिव्यगन्धैर्विलिप्ताङ्गा माल्यभूषितवाससः ।।
सृजन्तो मम माल्यानि तेन ताम्ये द्विजोत्तम ।। ११ ।।
मृत्यो तिष्ठसि कस्यार्थे को वा मृत्युः कथं भवेत् ।।
कि त्वं न भाषसे मृत्यो ब्रूहि लोके निरर्थकः ।। १२ ।।
लोभासक्तान्सदा हंसि पापिष्ठान्धर्मवर्जितान् ।।
एषां तपसि सिद्धानां नाहं विग्रहवानिह ।। १३ ।।
निग्रहानुग्रहौ नापि मया शक्यौ महात्मनाम् ।।
कर्त्तुं वा प्रतिषेद्धुं वा तेन तप्ये भृशं मुने .।। १४ ।।
एतस्मिन्नन्तरे तत्र विमानेन महाद्युतिः ।।
पतिव्रता समं भर्त्रा सानुगा सपरिच्छदा।।१५।।
महता तूर्यघोषेण सम्प्राप्ता प्रियदर्शना ।।
धर्मराजहितं सर्वं धर्मज्ञा धर्मवत्सला ।।१६।।
साब्रवीत्तु विमानस्था साधयन्ती शुभाङ्गना ।।
विचित्रं प्रसृतं वाक्यं सर्वसत्त्वसुखावहम् ।। १७।।
पतिव्रतोवाच।।
धर्मराज महाबाहो कृतज्ञः सर्वसम्मतः ।।
मैवमीर्षां कुरुष्व त्वं ब्राह्मणेषु तपस्विसु।।
एतेषां तपसां वीर माहात्म्यं बलमेव च ।।
अचिन्त्याः सर्वभूतानां ब्राह्मणा वेदपारगाः ।।१९ ।।
ब्राह्मणाः सततं पूज्या ब्राह्मणाः सर्वदेवताः ।।
मात्सर्यं क्रोधसंयुक्तं न कर्त्तव्यं द्विजातिषु ।।208.२०।।
त्वया शुभाशुभं कर्म नित्यं पूजा मनस्विनाम् ।।
रागो वा रोषमोहौ वा न कर्तव्यौ सदा सताम् ।। २१ ।।
प्रयाता गगने दृष्टा विद्युत्सौदामिनी यथा ।।
दृष्ट्वा पतिव्रतां नारीं धर्मराजेन पूजिताम् ।। २२ ।।
अब्रवीन्नारदस्तत्र धर्मराजं तथागतम् ।। २३ ।।
नारद उवाच ।।
का चैषा सुमहाभागा सुरूपा प्रमदोत्तमा ।।
या त्वया पूजिता राजन् हितमुक्त्वा गता पुनः ।।२४।।
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे ।।
एतन्मे सुमहाभाग कथयस्व समासतः ।।२५।।
यम उवाच ।।
अहं ते कथयिष्यामि कथां परमशोभनाम् ।।
एषा मया यथा तात पूजितापि च कृत्स्नशः ।। २६ ।।
पुरा कृतयुगे तात निमिर्नाम महायशाः ।।
आसीद्राजा महातेजाः सत्यसन्ध इति श्रुतः ।। २७ ।।
तस्य पुत्रो मिथिर्नाम जननाज्जनकोऽभवत् ।।
तस्य रूपवती नाम पत्नी प्रियहिते रता ।। २८ ।।
सा चाप शुभकर्माणि पतिभक्ता पतिव्रता ।।
प्रीत्या परमया युक्ता भर्त्तुर्वचनकारिणी ।। २९ ।।
सोऽपि राजा महाभागः सर्वभूतहिते रतः ।।
धर्मात्मा च महात्मा च सत्यसन्धो महातपाः ।। 208.३० ।।
य इमां पृथिवीं सर्वां धर्मेण परिपालयन् ।।
न व्याधिर्न जरा मृत्युस्तस्मिन्राजनि शासति ।। ३१ ।।
ववर्ष सततं देवस्तस्य राष्ट्रे महाद्युतेः ।।
एवं बहुगुणोपेतं तस्य राज्यं महात्मनः ।। ३२ ।।
न कश्चिद् दृश्यते मर्त्यो रुजार्त्तो दुःखितोऽपि वा ।।
अथात्र बहुकालस्य राजानं मिथिलाधिपम्।।३३।।
उवाच राज्ञी विप्रेन्द्र विनयात्प्रश्रितं वचः।।३४।।
राज्ञ्युवाच ।।
भृत्यानां च द्विजातीनां तथा परिजनस्य च ।।
यदस्ति द्रविणं किंचित्पृथिव्यां यद्गृहे च ते ।। ३५।।
विनियुक्तं तु तत्सर्वं सान्निध्यं तु तथा त्वया ।।
न च राजन्विजानासि भोजनस्य प्रशंससि ।। ३६ ।।
नास्ति तन्नियमः कश्चित्पुष्पमूल्यं च नास्ति नः ।।
न वा गवादिकं किंचिन्न च वस्त्राणि कर्हिचित् ।। ३७ ।।
न चैव वार्षिकः कश्चिद्विद्यते भाजनस्य च ।।
दृश्यते हि महाराज मम चैवाथ सुव्रत ।। ३८ ।।
यत्कर्तव्यं मया वापि तन्मे ब्रूहि नराधिप ।।
कर्त्र्यस्म्यहं विशेषेण यद्वाक्यमपि मन्यसे ।। ३९ ।।
राजोवाच ।।
न शक्यमुपरोधेन वक्तुं भामिनि विप्रियम् ।।
न च पश्याम्यहं देवि तव चैव जनस्य च ।। 208.४० ।।
तद्ब्रवीमि यथाशक्त्या यदि मे मन्यसे प्रिये ।।
हविष्ये वर्त्तमानानामिदं वर्षशतं गतम् ।। ४१ ।।
कुद्दालेन हि काष्ठेन क्षेत्रं वै कुर्महे प्रिये ।।
ततो धर्मविधिं तत्त्वात्प्राप्नुयां मे न संशयः ।।४२।।।
भक्ष्यं भोज्यं च ये ये च ततस्त्वं सुखमाप्स्यसि ।।
एवमुक्ता ततो राज्ञी राजानमिदमब्रवीत् ।। ४३ ।।
देव्युवाच ।।
भृत्यानां तु सहस्राणि तव राजन्निवेशने ।।
अश्वानां च गजानां च सैरिभानां तथैव च ।। ४४ ।।
उष्ट्राणां महिषाणां च खराणां च महायशाः ।।
एते सर्वे कथं राजन्न कुर्वन्ति तवेप्सितम् ।। ४५ ।।
राजोवाच ।।
नियुक्तानि हि कर्माणि वार्षिकाणीतराणि च ।।
सर्वकर्माणि कुर्वन्ति ये भृत्या मे वरानने ।। ४६ ।।
बलीवर्दाः खरा अश्वा गजा उष्ट्रा ह्यनेकशः ।।
सर्वे नियुक्ता मे देवि सर्वकर्मसु शोभने ।। ४७ ।।
आयसं त्रापुषं ताम्रं राजतं कांचनं तथा ।।
नियुक्तानि तु सर्वाणि सर्व कर्मस्वनिन्दिते ।। ४८ ।।
ननु पश्याम्यहं देवि किंचिद्धैमं न चायसम् ।।
येन कुर्यामहं देवि कुद्दालं सुसमाहितः ।।४९।।
एवमुक्ता महादेवी तेन राज्ञा सुशोभना ।।
हृष्टपुष्टमना देवी राजानमिदमब्रवीत् ।। 208.५० ।।
गच्छ राजन्यथाकाममनुयास्यामि पृष्ठतः ।।
एवमुक्तः सुनिष्क्रान्तः सभार्यः स नरेश्वरः ।। ५१ ।।
ततो राजा च देवी च क्षेत्रं मृगयतस्तदा ।।
गतौ च परमाध्वानं ततो राजाब्रवीदिदम् ।। ५२ ।।
इदं भद्रं मम क्षेत्रमास्स्वात्र वरवर्णिनि ।।
यावद्गुल्मानिमान् भद्रे कण्टकांश्च वरानने ।। ५३ ।।
अहं छिनद्मि वै देवि त्वमेताञ्छोधय प्रिये ।।
एष ते कर्म योगस्तु ततः प्राप्स्यामि चेप्सितम् ।। ५४ ।।
एवमुक्ता महादेवी तेन राज्ञा तपोधन ।।
उवाच मधुरं वाक्यं प्रहसन्ती नृपाङ्गना ।। ५५ ।।
वृक्षोऽत्र दृश्यते पार्श्वे सौवर्णो गुल्म एव च ।।
पानीयस्य तु सान्निध्यं न किंचिदिह दृश्यते ।। ५६ ।।
कथं क्षेत्रं करिष्यावो हृद्रोगस्य तु कारकम् ।।
इयं नदी ह्ययं वृक्ष इयं भूमिः समांसला ।। ५७ ।।
अस्मिन्वापि कृतं कर्म कथं गुणकरं भवेत् ।।
तस्यास्तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ।। ५८ ।।
शुभं सानुनयं वाक्यं भूतानां गुणवत्सलः ।।
पूर्वगृहे भवेत्पूर्वं विनियुक्तं तथा प्रिये ।। ५९ ।।
पानीयस्य तु पार्श्वेन सन्निकृष्टेन सुन्दरि ।।
चतुर्थं जनपर्यन्तं न किंचिदिह दृश्यते ।। 208.६० ।।
अयं गृहो महादेवि न च बाधाऽत्र कस्यचित् ।।
ततस्तच्छोधयामास तत्क्षेत्रं भार्यया सह ।। ६१ ।।
वियन्मध्ये तथोग्रश्च सविता तपते सदा ।।
समृद्धश्च तदा तत्र निदाघः काल आगतः ।। ६२ ।।
प्रवृद्धो दारुणो घर्मः कालश्चैवातिदारुणः ।।
ततः सा तृषिता देवी क्षुधिता च तपस्विनी ।। ६३ ।।
स्निग्धौ ताम्रतलौ पादौ तस्यां सन्तापमागतौ ।।
गुणप्रवाहरक्तौ तु तस्याः पादौ च सुव्रत ।। ६४ ।।
सूर्यस्य पादा मध्याह्ने तापयन्त्यग्निसन्निभाः ।।
ततः सा व्यथिता देवी भर्त्तारमिदमब्रवीत् ।। ६५ ।।
तृषितास्मि महाराज भृशमुष्णेन पीडिता ।।
पानीयं दीयतां राजन्मम शीघ्रं प्रसादतः ।। ६६ ।।
इत्युक्त्वा पतिता देवी विह्वला दुःखपीडिता ।।
पतन्त्या च तया सूर्यो दृष्टो विह्वलया तथा ।। ६७ ।।
यदृच्छया पतन्त्या तु सूर्यः कोपेन वीक्षितः ।।
ततो विवस्वान् भगवान् सन्त्रस्तो गगने तदा ।। ६८।।
दिवं मुक्त्वा महातेजाः पतितो धरणीतले ।।
ततो दृष्ट्वा तु राजाऽसौ स्वभावेन च वर्जितम् ।। ६९ ।।
किमर्थमिह तेजस्विंस्त्यक्त्वा मण्डलमागतः ।।
किं करोमि महातेजाः सर्वलोकनमस्कृतः ।। 208.७० ।।
एवं ब्रुवन्तं राजानं सूर्यः सानुनयोऽब्रवीत् ।।
पतिव्रता शुभाक्षी च ममैषा रुषिता भृशम् ।। ७१ ।।
ततोऽहं पतितो राजंस्तव कार्यानुशासनः ।।
अनया सदृशी नारी त्रैलोक्ये नैव विद्यते ।। ७२ ।।
पृथिव्यां स्वर्गलोके वा न काचिदिह दृश्यते ।।
अहोऽस्याः परमं सत्त्वमहोऽस्याः परमं तपः ।। ७३।।
अहो धैर्यं च शक्तिश्च तवैवं शंसिता गुणाः।।
तथेयं ते महाभाग तव चित्तानुसारिणी।।७४।।
अनुरूपा विशुद्धा च तपसा च वराङ्गना।।
पतिव्रता च साध्वी च नित्यं तव हिते रता।।७९।।
सदृशी ते महाभाग शक्रस्येव यथा शची ।।
पात्रं पात्रवता प्राप्तं सुकृतस्य महत्फलम् ।।७६।।
अनुरूपः सुरूपो वा यतो जातः सुयन्त्रितः ।।
मा च ते वितथः कामो भवेच्चैव नराधिपः ।।७७ ।।
कुरुष्व दयितं क्षेत्रं यथा मनसि वर्त्तते ।।
भोजनार्थं महाराज त्वदन्यो न हि विद्यते।।७८।।
फलदं च यशस्यं च भविष्यति हि कामदम्।।
एवमुक्त्वा ततः सूर्यः ससर्ज जलभाजनम्।।७९।।
उपानहौ च छत्रं च दिव्यालंकार भूषितम् ।।
ददौ च राज्ञे सविता प्रीत्या परमया युतः ।।208.८० ।।
उपभोक्तुं सुखस्यार्थं सुपुण्यस्य विशेषतः ।।
दत्त्वा तत्पुण्यकर्माणं ततः प्राह दिवाकरः ।। ८१ ।।
एवमुक्त्वा तु भगवांस्तथा तत्कृतवान् क्वचित् ।।
राज्ञा च जनकेनैव प्रियाया हितकाम्यया ।। ८२ ।।
ततः साप्यायिता देवी तोयेन शुभलक्षणा ।।
लब्धसंज्ञा गतभया राजानमिदमब्रवीत् ।। ८३ ।।
देवी दृष्ट्वा तदाश्चर्यं विस्मयोत्फुल्ललोचना ।।
केन दत्तं शुभं तोयं दिव्यं छत्रमुपानहौ ।। ८४ ।।
एतन्मे संशयं राजन्कथयस्व तपोधन ।।
राजोवाच ।।
एष देवो महादेवि विवस्वान्नाम नामतः ।। ८५ ।।
तवानुकम्पया देवि मुक्त्वाकाशमिहागतः ।।
एवमुक्ता तु सा देवी भर्त्तारमिदमब्रवीत् ।। ८६ ।।
करवाण्यस्य कां प्रीतिं ज्ञायतामस्य वाच्छितम् ।।
ततो राजा महातेजाः प्रणिपत्य कृताञ्जलिः ।। ८७ ।।
विज्ञापयामास तदा भगवन् किं करोमि ते ।।
एवमुक्तो नरेन्द्रेण सूर्यो वचनमब्रवीत् ।। ८८ ।।
अभयं मे महाराज स्त्रीभ्यो भवतु मानद ।।
तच्छ्रुत्वा वचनं तस्य भास्करस्य तु मानदः ।। ८९ ।।
तां प्रियां प्रीतहृदयां श्रावयंस्तस्य भाषितम् ।।
राज्ञस्तु वचनं श्रुत्वा देवी वचनमब्रवीत् ।। 208.९० ।।
प्रीत्या परमया युक्ता तस्य राज्ञो मनःप्रिया ।।
रश्मीनां तारणार्थाय छत्रं दत्त्वा तु कुण्डिकाम् ।। ९१ ।।
इमौ चोपानहौ दत्त्वा चौभौ पादस्य शङ्करौ ।।
अभयं ते महाभाग यथा त्वं वृतवानसि ।। ९२ ।।
एवं पतिव्रतां विप्र पूजयामि नमामि च ।। ९३ ।।
इति श्रीवराहपुराणे संसारचक्रे पतिव्रतोपाख्यानं नाम अष्टाधिकद्विशततमोऽध्यायः ।। २०८ ।।