← अध्यायः २०६ वराहपुराणम्
अध्यायः २०७
[[लेखकः :|]]
अध्यायः २०८ →

अथ संसारचक्रपुरुष विलोभनप्रकरणम् ।।
ऋषिपुत्र उवाच ।।
इदमन्यन्महाभागान्नारदात्कलहप्रियात् ।।
श्रुतं विप्रा यथा तत्र यमस्य सदसि स्वयम् ।। १ ।।
तथा च पृच्छतस्तस्य पुरावृत्तं महात्मनः ।।
आख्यानं कथयामास यदुक्तं चित्रभानुना ।। २ ।।
यथा च जनको राजा कामान्दिव्यानवाप्तवान् ।।
तत्सर्वं कथयिष्यामि श्रूयतां मुनिसत्तमाः ।।३।।
अयं तत्र महातेजा नारदो मुनिसत्तमः ।।
धर्मराजसभां प्राप्तस्तपसा द्योतितप्रभः ।।४ ।।
तत्र राजाऽथ वेगेन तं दृष्ट्वा स्वयमागतम् ।।
अर्चयित्वा यथान्यायं कृत्वा चैव प्रदक्षिणम् ।। ५ ।।
उवाच च महातेजाः सूर्यपुत्रः प्रतापवान् ।।
स्वागतं ते द्विजश्रेष्ठ दिष्ट्या प्राप्तोऽसि नारद ।। ६ ।।
सर्वज्ञः सर्वदशीं च सर्वधर्मविदां वरः ।।
गान्धर्वस्येतिहासस्य विज्ञाता त्वं महामुने ।। ७।।
वयं पूताश्च मेध्याश्च त्वां दृष्ट्वा ह्यागतं विभो ।।
अयं देशः पुनः पूतः सर्वतो मुनिसत्तम ।। ८ ।।
यत्कार्यं येन वा कार्यं यद्वै मनसि वर्त्तते ।।
प्रब्रूहि भगवन्नाशु यच्चान्यत्किंचिदुत्तमम् ।। ९ ।।
दुर्ल्लभं त्रिषु लोकेषु यच्च प्रियतरं तव ।।
तपोमयानां सर्वेषां द्विजातीनां च सुव्रत ।। 207.१० ।।
इति धर्मवचः श्रुत्वा नारदः प्राह धर्मवित् ।।
अहं ते कथयिष्यामि यत्पृष्टं संशयास्पदम् ।। ११ ।।
नारद उवाच।।
भवान् पाता च गोप्ता च नेता धर्मस्य नित्यशः ।।
सत्येन तपसा क्षान्त्या धैर्येण च न संशयः ।। १२ ।।
भावज्ञश्च कृतज्ञश्च त्वदन्यो न हि विद्यते ।।
संशयं सुमहत्प्राप्तस्तन्ममाचक्ष्व सुव्रत ।। १३ ।।
अमरत्वं कथं याति व्रतेन नियमेन च ।।
केन वा दानधर्मेण तपसा वा सुरोत्तम ।। १४ ।।
अतुलां च श्रियं लोके कीर्त्तिं च सुमहत्फलम् ।।
लभन्ते शाश्वतं स्थानं दुर्ल्लभं विगतज्वराः ।। १५ ।।
केन गच्छन्ति नरकं पापिष्ठं लोकगर्हणम् ।।
सर्वमाख्याहि तत्त्वेन परं कौतूहलं हि मे ।। १६ ।।
यम उवाच ।।
गच्छन्ति हि नरा घोरा बहवोऽधर्मनिर्मितम् ।।
बन्धांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन ।। १७ ।।
विस्तरेण तु तत्सर्वं ब्रवीमि मुनिसत्तम ।।
श्रूयतां तन्महाभाग श्रुत्वा चैवोपधारय ।। १८ ।।
नाग्निचिन्नरकं याति न पुत्री न च भूमिदः ।।
शूरश्च शतवर्षी च वेदानां चैव पारगः ।। १९ ।।
पतिव्रता न गच्छन्ति सत्यवाक्याश्च ये नराः ।।
अजिताश्चाशठाश्चैव स्वामिभक्ताश्च ये नराः ।। 207.२० ।।
अहिंसका न गच्छन्ति ब्रह्मचर्यव्यवस्थिताः ।।
पतिव्रता दानवन्तो द्विजभक्ताश्च ये नराः ।। २१ ।।
स्वदारनिरता दान्ताः परदारविवर्जकाः ।।
सर्वभूतात्मभूताश्च सर्वभूतानुकम्पकाः ।। २२ ।।
न गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम् ।।
यातनास्थानसंपूर्णं हाहाकारभयाकुलम् ।। २३ ।।
ज्ञानवन्तो द्विजा ये च ये च विद्यां पराङ्गताः ।।
उदासीना न गच्छन्ति स्वाम्यर्थे च हता नराः ।। २४ ।।
न गच्छन्त्यत्र दातारः सर्वभूतहिते रताः ।।
शुश्रूषका मातृपित्रोर्न गच्छन्ति च ये नराः ।। २५ ।।
तिलान् गां च हिरण्यं च पृथिवीं चापि शाश्वतीम् ।।
ब्राह्मणेभ्यः प्रयच्छन्ति न गच्छन्ति न संशयः ।। २६ ।।
यथोक्तं यजमानाश्च सत्रयाजिन एव च।।
चातुर्मास्यकरा ये च ये द्विजाः आहिताग्नयः ।।२७।।
गुरुचित्तानुपालाश्च कृतिनो मौनयन्त्रिताः ।।
नित्यस्वाध्यायिनो दान्ताः सदा सभ्याश्च ये नराः ।।२८।।
मां न पश्यन्ति ते चैव स्वात्मभावेन भाविताः।।
अपर्वमैथुना ये च न गच्छन्ति जितेन्द्रियाः ।।२९।।
ब्राह्मणा अमरत्वं च प्राप्नुवन्ति न संशयः ।।
निवृत्ताः सर्वकामेभ्यो निराशाः सुजितेन्द्रियाः ।। 207.३० ।।
न गच्छन्ति हि तद्धोरं यत्र ते पापकर्मिणः ।। ३१ ।।
नारद उवाच ।।
किं दानं श्रेय आहोस्वित्पात्रेण फलमुच्यते ।।
किं वा कर्म महत्कृत्वा स्वर्गलोके महीयते ।। ३२ ।।
रूपं वा धनधान्यं वा ह्यायुश्च कुलमेव वा ।।
प्राप्यते येन दानेन तन्ममाचक्ष्व सुव्रत ।। ३३ ।।
यम उवाच ।।
न शक्यं विस्तरेणेह वक्तुं वर्षशतैरपि ।।
शुभाशुभानां गतयो द्रष्टुं वा प्रष्टुमेव वा ।। ३४ ।।
किंचिन्मात्रं प्रवक्ष्यामि येन यत्प्राप्यते नरैः ।।
विविधानि च सौख्यानि प्रायशस्तु गुणागुणैः ।। ३५ ।।
रहस्यमिदमाख्यानं श्रूयतां मुनिसत्तम ।।
या गतिः प्राप्यते येन प्रेत्यभावे न संशयः ।। ३६ ।।
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।।
आयुःप्रकर्षो भोगाश्च भवति तपसैव तु ।। ३७ ।।
ज्ञानविज्ञानमारोग्यं रूपसौभाग्यसम्पदः।।
तपसा प्राप्यते भोगो मनसा नोपदिश्यते ।।३८।।
एवं प्राप्नोति पुण्येन मौनेनाज्ञां महामुने ।।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ।। ३९ ।।
अहिंसया परं रूपं दीक्षया कुलजन्म च ।।
फल मूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ।।207.४० ।।
पयोभक्ष्या दिवं यान्ति जायते द्रविणाढ्यता ।।
गुरुशुश्रूषया नित्यं श्राद्धदानेन सन्ततिः।।४१ ।।
गवाद्याः कालदीक्षाभिर्ये तु वा तृणशायिनः ।।
स्वयं त्रिषवणाद्ब्रह्म त्वपः पीत्वेष्टलोकभाक् ।। ४२ ।।
क्रतुयष्टा दिवं याति चोपहारं च सुव्रत ।।
कृत्वा तु दशवर्षाणि नीरपानाद्विशिष्यते ।। ४३ ।।
रसानां प्रतिसंहारात् सौभाग्यमनुजायते ।।
आमिषस्य प्रतीहाराद्भवत्यायुष्मती प्रजा ।।४४।।
गन्धमाल्यनिवृत्त्या तु मूर्त्तिर्भवति पुष्कला।।
अन्नदानेन च नरः स्मृतिं मेधां च विन्दति।।४५।।
छत्रप्रदानेन गृहं वरिष्ठं रथं ह्युपानद्युग सम्प्रदानात् ।।
वस्त्रप्रदानेन सुरूपता च धनैश्च पुत्रैश्च भृता भवन्ति ।। ४६ ।।
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ।।
अन्नपानप्रदानेन कामभोगैस्तु तृप्यते ।।४७।।
पुष्पोपगन्धं च फलोपगंधं यः पादपं स्पर्शयते द्विजाय ।।
स स्त्रीसमृद्धं हि सुरत्नपूर्णं गृहं हि सर्वोपचितं लभेत ।।४८ ।।
वस्त्रान्नपानीयरसप्रदानात् प्राप्नोति तानेव रसप्रदानात् ।।
स्रग्धूपगन्धान्यनुलेपनानि पुष्पाणि गृह्याणि मनोरमाणि ।। ४९ ।।
दत्त्वा द्विजेभ्यः स भवेत्सुरूपो रोगांश्च कांश्चिल्लभते न जातु ।।
बीजैरशून्यैः शयनाभिरामं दद्याद्गृहं यः पुरुषो द्विजाय ।। 207.५० ।।
स स्त्रीसमृद्धं गजवाजिपूर्णं लभेदधिष्ठानवरं वरिष्ठम् ।।
धूपप्रदानेन तथा गवां च लोकानाप्नोति नरो वसूनाम् ।। ५१ ।।
गजं तथा गोवृषभप्रदानैः स्वर्गे सुखं शाश्वतमामनन्ति ।।
घृतेन तेजः सुकुमारतां च प्राणद्युतीः स्निग्धता चापि तैलैः ।। ५२ ।।
क्षौद्रेण नानारसतृप्ततां च दीपप्रदानाद्द्युतिमाप्नुवन्ति ।। ५३ ।।
पायसेन वपुःपुष्टिं कृसरात्स्निग्धसौम्यताम् ।।
फलैस्तु लभते पुत्रं पुष्पैः सौभाग्यमेव च ।। ५४ ।।
रथैर्दिव्यं विमानं तु शिबिकां चैव मानवः ।।
प्रेक्षणैरपि सौभाग्यं प्राप्नोतीह न संशयः ।। ५५ ।।
अभयस्य प्रदानेन सर्वकामानवाप्नुयात् ।। ५६ ।।
इति श्रीवराहपुराणे संसारचक्रे पुरुषविलोभनं नाम सप्ताधिकद्विशततमोऽध्यायः ।। २०७ ।।