← अध्यायः २०९ वराहपुराणम्
अध्यायः २१०
[[लेखकः :|]]
अध्यायः २११ →

पुनः पतिव्रतामाहात्म्यवर्णनम् ।।
नारद उवाच ।।
रहस्यं धर्ममाख्यानं त्वयोक्तं तु महायशः ।।
स्त्रीणां माहात्म्यमुद्दिश्य भास्करस्य मतं यथा ।। १ ।।
इदं हि सर्वभूतेषु परं कौतूहलं मम ।।
तदहं श्रोतुमिच्छामि कथयस्व महातपाः ।। २ ।।
ये नरा दुःखसन्तप्तास्तपस्तीव्रं समाश्रिताः ।।
नानाव्रतशतोपायैः सुखहेतोर्महाप्रभ ।। ३ ।।
मनसा निश्चितात्मानस्त्यक्त्वा सर्वप्रियाप्रियम् ।।।
कांक्षन्ते बहवः केचित्केनचिद्विनिहन्यते।।४।।
श्रुता लोके श्रुतिस्तात श्रेयोधर्मा हि नित्यशः।।
सम्यक्कृच्छ्राश्रितस्याथ कथं पापे मतिर्भवेत्।।५।।
कस्यैतच्चेष्टितं तात कर्त्ता कारयितापि वा ।।
कः कर्षति जगच्चैको भूतग्रामं चतुर्विधम् ।। ६ ।।
कं वा द्वेषं पुरस्कृत्य मतिस्तस्य प्रवर्त्तते ।।
सुखदुःखादि लोकेऽस्मिन्प्रकरोति सुदारुणम् ।। ७ ।।
यद्येवं तु मया गुह्यं दुर्विज्ञेयं सुरैरपि ।।
शक्यं श्रोतुं महाराज तदाख्याहि तपोधन ।। ८ ।।
नारदेनैवमुक्तस्तु धर्मराजो महामनाः ।।
विनयात्प्रश्रितं वाक्यमिदमाह महामुनिम् ।। ९ ।।
यम उवाच ।।
देवर्षे श्रूयतां पुण्यं यद्ब्रवीषि महामुने ।।
त्वदुक्त्या मे कथयतः शृणुष्वावहितोऽनघ ।। 210.१० ।।
न कश्चिद्दृश्यते लोके कर्त्ता कारयितापि वा ।।
यद्वै परमधर्मात्मन् यस्मिन्कर्म प्रतिष्ठितम् ।। ११ ।।
यस्य वै कीर्त्त्यते नाम येन चाज्ञाप्यते जगत् ।।
व्यवहरामि वचश्चाहं यः करोति स्वयं कृतम् ।। १२ ।।
दिव्येऽस्मिन् सदसि ब्रह्मन् ब्रह्मर्षिगणसंवृते ।।
यथाश्रुतं यथादृष्टं कथयिष्याम्यहं विभो ।।१३।।
स्वकर्म भुज्यते तात सम्भूतैर्यत्कृतं स्वयम् ।।
आत्मानं पातयत्यात्मा किञ्चित्कर्म च कारयेत् ।। १४।।
वायुना भाविता संज्ञा संसारे सा दृढीकृता ।।
तामेव भजते जन्तुः सुकृतं वाथ दुष्कृतम् ।। १५ ।।
अभिघाताभिभूतस्तु आत्मनात्मानमुद्धरेत् ।।
आत्मा शत्रुश्च बन्धुश्च न कश्चिद्बन्धुरात्मनः ।। १६ ।।
बन्धुं बन्धुपरिक्लेशं निर्मितं पूर्वकर्मभिः ।।
जगत्यामुपभुङ्क्ते वै जीवा योनिशतैरपि।।१७।।
मिथ्याप्रवृत्तः शब्दोऽयं जगद्भ्रमति सर्वशः ।।
यावत्तत्कुरुते कर्म तावत्कर्म स्वयंकृतम् ।। १८ ।।
यथा यथा क्षयं याति ह्यशुभं पुरुषस्य वै ।।
तथा तथा शुभा बुद्धिर्मनुजस्य प्रवर्त्तते ।। १९ ।।
संसारे प्राप्तदोषस्य जायमानस्य देहिनः ।।
पततां च गतो भावः पापकर्मक्षयेन तु ।। 210.२० ।।
शुभाशुभकरीं बुद्धिं लभते पौर्वदैहिकीम् ।।
दुष्कृतैः कर्मभिर्देही शुभैर्वा स्वयमर्जितैः।।
क्लेशक्षयं पापहरं शुभं कर्म करोत्यथ ।।२१।।
शुभाशुभं नरः प्राप्य कर्माकर्म तथैव च।।
विवृते विमले कर्मण्यमरेषु महीयते।।२२।।
स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः ।।
नैव कश्चित्प्रदाता च नापहर्ता प्रदृश्यते ।। २३ ।।
नारद उवाच ।।
यद्येवं स्वकृतं कर्म समन्वेति शुभाशुभम् ।।
शुभस्येह भवेदवृद्धिरशुभस्य क्षयोऽपि वा ।। २४ ।।
मनसा कर्मणा वापि तपसा चरितेन वा ।।
यथा न रोहते जन्तुस्तथा त्वं वक्तुमर्हसि ।। २५ ।।
यम उवाच ।।
इदं पुण्यं पवित्रं च ह्यशुभानां शुभप्रदम् ।।
कीर्त्तयिष्यामि ते सम्यक्पापदोषक्षयं सदा ।। २६ ।।
प्रणम्य शिरसा सम्यक्पापपुण्यकराय च ।।
कर्तृणे जगतो नित्यं विश्वस्य जगतो ह्यहम् ।।२७।।
येन सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।।
अनादिमध्यनिधनं दुर्विज्ञेयं सुरासुरैः ।। २८ ।।
यः समः सर्वभूतेषु जितात्मा शान्तमानसः ।।
स पापेभ्यो विमुच्येत ज्ञानवान्सर्ववेदवित् ।।२९ ।।
तत्त्वार्थं वेत्ति यः सम्यक्पुरुषं प्रकृतिं तथा ।।
ज्ञात्वा वा यो न मुह्येत पदं प्राप्नोति शाश्वतम् ।।210.३०।।
गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च ।।
ध्याने नैव ह्यसंमूढः स पापेभ्यः प्रमुच्यते ।।३१।।
स्वदेहे परदेहे च सुखदुःखेन नित्यशः ।।
विचारज्ञो भवद्येस्तु स मुच्येतैनसा ध्रुवम् ।।३२।।
अहिंस्रः सर्वभूतेषु तृष्णाक्रोधविवर्जितः ।।
शुभन्यायः सदा यश्च स पापेभ्यः प्रमुच्यते ।। ३३ ।।
प्राणायामैश्च निर्गृह्य त्वधः सन्धारणानि च ।।
व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ।। ३४ ।।
निराशः सर्वतस्तिष्ठेदिष्टार्थेषु न लोलुपः।।
परीतात्मा त्यजेत्प्राणान्सर्वपापात्प्रमुच्यते ।।३५।।
श्रद्दधानो जितक्रोधः परद्रव्यविवर्जकः ।।
अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ।। ३६ ।।
गुरुशुश्रूषया युक्तस्त्वहिंसानिरतश्च यः ।।
अक्षुद्रशीलस्तु नरः स पापेभ्यः प्रमुच्यते ।।३७।।
प्रशस्तानि च यः कुर्यादप्रशस्तानि वर्जयेत् ।।
मङ्गले परमो यश्च स पापेभ्यः प्रमुच्यते ।।३८।।
योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना ।।
पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ।। ३९ ।।
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः ।।
अभिगम्य प्रदानेन स पापेभ्यः प्रमुच्यते ।। 210.४० ।।
नारद उवाच ।।
एतच्छ्रेयोहितं चैव सर्वेषां वै परन्तप ।।
उपपन्नं च युक्तं च तत्त्वया समुदाहृतम् ।। ४१ ।।
विविधैः कारणोपायैः सम्यक्तत्त्वार्थदर्शितैः ।।
संशयोऽभून्मम पुरा स त्वया नाशितः प्रभो ।। ४२ ।।
ततोऽप्यल्पतरश्चेत्स्यादुपायो योगवित्तम ।।
कथ्यतां मे महाभाग येन पापं प्रणश्यति ।।४३।।
दुष्करं पूर्वमुक्तं हि योगधर्मस्य साधनम् ।।
पापापहरणं लोके यदन्यत्सुखसाधनम् ।। ४४ ।।
अल्पोपायकरं चैव सुखोपायं च सर्वशः ।।
येन पापकृतान्दोषानपोहति सुदारुणान्।।४५।।
आत्मायत्ताश्च ये नित्यं न च विस्तारविस्तरः ।।
गुणैश्च विविधैर्युक्ता इहलोके परत्र च ।। ४६ ।।
कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम् ।।
यः समर्थः स्फोटयितुं तन्मे ब्रूहि महातपाः ।। ४७ ।।
यम उवाच ।।
यथा स भगवानाह धर्ममेतं प्रजापतिः ।।
तदहं भावयिष्यामि नमस्कृत्य स्वयम्भुवम् ।। ४८ ।।
लोकानां श्रेयसोऽर्थं तु पापानां तु विनाशनम् ।।
क्रियाकारनियोगं च प्रोच्यमानं निबोध मे ।। ४९ ।।
कैवल्यमभिसम्पन्ने श्रद्दधानो भवेन्नरः ।।
अनन्यमानसः कुर्याद्यथा धर्मानुशासनम् ।। 210.५० ।।
प्राप्नुयादीप्सितान्कामान्पापैर्मुक्तो यथासुखम् ।।
यः कुर्याद्धर्मसंयुक्तं विशुद्धेनान्तरात्मना ।। ५१ ।।
यस्तु कारयते रूपं शिशुमारं प्रजापतिम् ।।
दृष्ट्वा नमस्येत्प्रयतः स पापेभ्यः प्रमुच्यते ।। ५२ ।।
यदा तस्य शरीरस्थं सोमं पश्येत्समाहितः ।।
महापातकनाशस्तु तदा तस्य विधीयते ।। ५३ ।।
ललाटे तूत्थितं दृष्ट्वा मुच्यते च स पातकैः ।।
कण्ठस्थं पातकैः सर्वैर्ह्रदिस्थं च कृताकृतैः ।। ५४।।
मनसा कर्मणा वाचा यत्किंचित्कलुषं कृतम् ।।
उदरस्थं तु तं दृष्ट्वा मुच्यते नात्र संशयः ।। ५५ ।।
वाङ्मनोभिः कृतानां तु पापानां विप्रमोक्षणम् ।।
यदा लांगलकण्ठे तु स्थितं पश्येद्दिवाकरम् ।। ५६ ।।
तदा स दुष्कृतान्सर्वान्विनाशयति मानवः ।।
यदा सोमं गुरुं सर्वं यः कुर्यात्तु प्रदक्षिणम् ।।५७।।
ध्यायेत ह्यक्षयं यस्तु स पापेभ्यः प्रमुच्यते ।।
भृगुर्बुधः शनैश्चारो लोहिताङ्गश्च वीर्यवान् ।।५८।।
सौम्यरूपो यदा चन्द्रः कुरुते च प्रदक्षिणाम् ।।
हृदि कृत्वा तु तत्पापं यो ध्यायेदक्षरं शुचिः ।।५९।।
तदा निर्मलतां याति चन्द्रमाः शारदो यथा ।।
प्राणायामशतं कृत्वा सर्वपापैः प्रमुच्यते ।। 210.६० ।।
जघनस्थं शुचिर्दृष्ट्वा नरश्चन्द्रमसं मुने ।।
नमस्येत्प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ।। ६१ ।।
आर्द्रस्थमार्द्रकर्मा तु ध्यात्वा चाष्टशताक्षरम् ।।
यदा चन्द्रश्च सूर्यश्च द्वावन्योऽन्यं प्रपश्यतः ।। ६२ ।।
सम्पूर्णौ विमलौ सम्यग्भ्राजमानौ स्वतेजसा ।।
कृत्वा हृदि तथा पापं यो ध्यायेत्परमव्ययम् ।। ६३ ।।
वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम् ।।
धरणी चोद्धृता येन सिंहं चापि महामुने ।। ६४ ।।
नमस्येद्वै पयोभक्षः स पापेभ्यः प्रमुच्यते ।।
प्राणायामं च यः कुर्यात्सोऽपि पापात्प्रमुच्यते ।। ६९ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे पापनाशोपायनिरूपणं नाम दशाधिकद्विशततमोऽध्यायः ।।२१० ।।