← अध्यायः २१० वराहपुराणम्
अध्यायः २११
[[लेखकः :|]]
अध्यायः २१२ →

पुनः पापनाशोपायवर्णनम् ।।
ऋषिपुत्र उवाच।।
एतच्छ्रुत्वा शुभं वाक्यं धर्मराजस्य नारदः ।।
इदं भावेन भक्त्या च पुनर्वचनमब्रवीत् ।। १ ।।
नारद उवाच ।।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ।।
धर्मराज महाबाहो पितृतुल्यपराक्रम ।। २ ।।
ब्राह्मणानां हितार्थाय यदुक्तं मे प्रदक्षिणम् ।।
इदं श्रेयतमाख्यानं श्रुतं श्रुतपरं पदम् ।। ३ ।।
त्रयो वर्णा महाभाग यज्ञसामान्यभागिनः ।।
शूद्रा वेदपवित्रेभ्यो ब्राह्मणैस्तु बहिष्कृताः ।। ४ ।।
यथैव सर्वसमता तव भूतेषु मानद ।।
तथैव तेषामपि हि श्रेयो वाच्यं महामते ।। ५ ।।
यथा कर्म हितं वाक्यं शूद्राणामपि कथ्यताम् ।।
यम उवाच ।।
अहं ते कथयिष्यामि चातुर्वर्ण्यस्य नित्यशः ।। ६ ।।
यद्धितं धर्मयुक्तं च नित्यं भवति सुव्रत ।।
केवलं श्रुतिसंयोगाच्छ्रद्धया नियमेन च ।। ७ ।।
करोति पापनाशार्थमिदं वक्ष्यामि तच्छृणु ।।
गावः पवित्रा मङ्गल्या देवानामपि देवताः ।। ८ ।।
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ।।
सौम्ये मुहुर्ते संयुक्ते पंचगव्यं तु यः पिबेत् ।। ९ ।।
यावज्जीव कृतात्पापात्तत्क्षणादेव मुच्यते ।।
लांगूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः ।।211.१० ।।
सर्वतीर्थफलं प्राप्य स पापेभ्यः प्रमुच्यते ।।
प्रस्रवेण च यः स्नायाद्रोहिण्यां मानवे द्विज ।। ११ ।।
सर्वपापकृतान्दोषान्दहत्याशु न संशयः ।।
धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य यो नरः ।। १२ ।।
शिरसा प्रतिगृह्णाति स पापेभ्यः प्रमुच्यते ।।
ब्राह्मणस्तु सदा स्नातो भक्त्या परमया युतः ।।१३।।
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ।।
उदयान्निःसृतं सूर्यं भक्त्या परमया युतः ।। १४ ।।
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ।।
दध्यक्षताञ्जलीभिस्तु त्रिभिः पूजयते शुचिः ।।१५।।
तस्य भानुः प्रसन्नश्च ह्यशुभं यत्समर्जितम् ।।
तस्य भानुः स संदह्य दूरीकुर्यात्सदा द्विज ।।१६।।
तावकं दधिमिश्रं तु पात्रे औदुम्बरे स्थितम् ।।
सोमाय पौर्णमास्यां हि दत्वा पापैः प्रमुच्यते ।। १७।।
अरुन्धतीं बुधं चैव तथा सर्वान्महामुनीन् ।।
अभ्यर्च्य वेदविधिना तेभ्यो दत्त्वा च तावकम् ।। १८ ।।
एकाग्रमानसो भूत्वा यो नमस्येत्कृताञ्जलिः ।।
किल्बिषं तस्य वै सर्वं तत्क्षणादेव नश्यति ।। १९ ।।
द्विजं शुश्रूषते यस्तु तर्पयित्वातिभक्तितः ।।
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ।। 211.२० ।।
विषुवेषु च योगेषु शुचिर्दत्त्वा पयो नरः ।।
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ।। २१ ।।
प्राचीनीग्रान्कुशान् कृत्वा स्थापयित्वा वृषं नरः ।।
द्विजैः सह नमस्कृत्य सर्वपापैः प्रमुच्यते ।। २२ ।।
दक्षिणावर्त्तसव्येन कृत्वा प्राक्स्रोतसं नदीम् ।।
कृत्वाऽभिषेकं विधिवत्ततः पापात्प्रमुच्यते ।। २३ ।।
दक्षिणावर्त्तशङ्खेन कृत्वा चैव करे जलम् ।।
शिरसा तद्गृहीत्वा तु विप्रो हृष्टमनाः शुचिः ।। २४ ।।
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ।।
प्राक्स्रोतसं नदीं गत्वा नाभिमात्रजले स्थितः।।२५।।
स्नात्वा कृष्णतिलैर्मिश्रा दद्यात्सप्ताञ्जलीर्नरः ।।
प्राणायामत्रयं कृत्वा ब्रह्मचारी जितेन्द्रियः ।। २६ ।।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।।
अच्छिद्रपद्मपत्रेण सर्वरत्नोदकेन तु ।। २७ ।।
त्रिधा यस्तु नरः स्नायात्सर्वपापैः प्रमुच्यते ।।
अन्यच्च ते प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ।। २८ ।।
कार्त्तिकेऽमलपक्षे तु स्मृता ह्येकादशी तिथिः ।।
भुक्तिमुक्तिप्रदा या तु नाम्ना ख्याता प्रबोधिनी ।। २९ ।।
या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी ।।
सा क्षिप्ता मानुषे लोके द्वादशी मुनिपुङ्गव ।। 211.३० ।।
ये उपोष्यन्ति विधिवन्नारायणपरायणाः ।।
न तेषामशुभं किञ्चिज्जन्मकोटिकृतं मुने ।। ३१ ।।
एकादशीं समाश्रित्य पुरा पृष्टो महेश्वरः ।।
वाराहरूपी धरया सर्वलोकहिताय वै ।। ३२ ।।
धरण्युवाच ।।
अस्मिन्कलियुगे घोरे नराः पापरताः प्रभो ।।
ब्रह्मस्वहरणे युक्ता तथा ब्राह्मणघातकाः ।। ३३ ।।
गुरुद्रोहरता देव मित्रद्रोहरतास्तथा ।।
स्वामिद्रोहरताश्चैव परदाराभिमर्शकाः ।। ३४ ।।
परद्रव्यापहरणे संसक्ताश्च सुरेश्वर ।।
अभक्ष्यभक्षणरता वेदब्राह्मणनिन्दकाः ।। ३५ ।।
दाम्भिका भिन्नमर्यादा नायमस्तीति वादिनः ।।
असत्प्रतिग्रहे सक्ता अगम्यागमने रताः ।। ३६ ।।
एतैश्चान्यैश्च पापैश्च संसक्ता ये नरा विभो ।।
किमासाद्य गतिर्देव तेषां वद सुरेश्वर ।। ३७ ।।
श्रीवराह उवाच ।।
साधु देवि महाभागे यत्पृष्टोऽहं वरानने ।।
रहस्यं ते प्रवक्ष्यामि लोकानां हितकाम्यया ।।३८ ।।
महापातकयुक्ता ये नराः सुकृतवर्जिताः ।।
तेषां मया हितार्थाय निर्मितं तच्छृणुष्व मे ।। ३९ ।।
या सा विष्णोः परा शक्तिरव्यक्तानेकरूपिणी ।।
सा मर्त्ये निर्मिता भूमे द्वादशीरूपधारिणी ।। 211.४० ।।
तामुपोष्य नरा भद्रे महापापरताश्च ये ।।
पुण्यपापविनिर्मुक्ता गच्छन्ति पदमव्ययम्।।४१।।
उपायोऽतःपरो नान्यो विद्यते हि वसुन्धरे ।।
एकादशीं विना येन सर्वपापक्षयो भवेत् ।।४२।।
यथा शुक्ला तथा कृष्णा ह्युपोष्या सा प्रयत्नतः ।।
शुक्ला भक्तिप्रदा नित्यं कृष्णा मुक्तिं प्रयच्छति।।४३।।
तस्मात्सर्वप्रयत्नेन कर्त्तव्या द्वादशी सदा।।
यदीच्छेद्वैष्णवं लोकं गन्तुं वै भूतधारिणि।।४४।।
मनसा वचसा चैव कर्मणा समुपार्जितम् ।।
पापं मासकृतं पुंसां दहत्येकादशी कृता ।। ४५ ।।
दहन्तीह पुराणानि भूयोभूयो वरानने ।।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ।। ४६ ।।
यदीच्छथ नरा गन्तुं तद्विष्णोः परमं पदम् ।।
न भोक्तव्यं न भोक्तव्यं तदा केशववासरे।।४७।।
ऊर्ध्वबाहुर्विरौम्येष प्रलापं मे शृणुष्व तम् ।।
आराधयस्व विश्वेशमेकादश्यामतन्द्रितः ।। ४८ ।।
न शंखेन पिबेत्तोयं न हन्यान्मत्स्यसूकरौ ।।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।। ४९ ।।
स ब्रह्महा सुरापश्च स स्तेयी गुरुतल्पगः ।।
एकादश्यां तु यो भुंक्ते पक्षयोरुभयोरपि ।।211.५०।।
किं तेन न कृतं पापं दुर्वृत्तेनात्मघातिना ।।
एकादश्यां विशालाक्षि भुक्तं येन विजानता ।।५१।।
एकादशीं च यः शुक्लामसमर्थं उपोषितुम् ।।
तदा नक्तं प्रकर्त्तव्यं तथाऽयाचितमेव वा ।। ५२ ।।
एकभक्तेन दानेन कर्त्तव्यं द्वादशीव्रतम् ।।
न करोति यदा भूमे व्रतं वा दानमेव वा ।। ५३।।
महापातकभागी स्यात्सुगतिं नाप्नुयात्क्वचित् ।।
उपवासासमर्थानां तथैव पृथुलोचने ।। ९४ ।।
एका सा द्वादशी पुण्या उपोष्या सा प्रबोधिनी ।।
तस्यामाराध्य विश्वेषं जगतामीश्वरेश्वरम् ।। ५५ ।।
प्राप्नोति सकलं चैतद्द्वादशद्वादशीफलम् ।।
पूर्वाभाद्रपदायोगे सैव या द्वादशी भवेत ।। ५६ ।।
अतीव महती तस्यां सर्वं कृतमिहाक्षयम् ।।
उत्तराभाद्रसहिता यदि सैकादशी भवेत् ।। ५७ ।।
तदा कोटिगुणं पुण्यं केशवाल्लभते फलम् ।।
सकृद्देवेऽर्च्चिते तस्यां लभते भूतधारिणि ।। ५८ ।।
यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः ।।
उपोष्या हि महाभागे त्वनन्तफलदा हि सा ।। ५९ ।।
शयने बोधने चैव हरेस्तु परिवर्त्तने ।।
उपोष्यैव विधानेन नरो निर्मलतां व्रजेत् ।। 211.६० ।।
तस्मात्सर्वप्रयत्नेन द्वादशीं समुपोषयेत् ।।
यदीच्छेत्तु विशालाक्षि शाश्वतीं गतिमात्मनः ।। ६१ ।।
एकादशी सोमयुता कार्त्तिके मासि भामिनि ।।
उत्तराभाद्रसंयोगे अनन्तफलदा हि सा ।। ६२ ।।
तस्यां यत्क्रियते भद्रे तदनन्तगुणं स्मृतम् ।।
एकादशी भौमयुता यदा स्याद्भूतधारिणि ।। ६३ ।।
स्नात्वा देवे समभ्यर्च्य प्राप्नोति परमं फलम् ।।
प्राप्नोति सकलं चैव द्वादशद्वादशीफलम् ।। ६४ ।।
जलपूर्णं तथा कुंभं स्थापयित्वा विचक्षणः ।।
पञ्चरत्नसमोपेतं घृतपात्रयुतं तथा ।। ६५ ।।
तस्योपरि न्यसेन्मत्स्यस्वरूपं तु जनार्दनम् ।।
निष्कमात्रसुवर्णेन घटितं तु वरानने ।। ६६ ।।
पंचामृतेन संस्नाप्य कुंकुमेन विलेपितम् ।।
पीतवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।। ६७ ।।
पूजयेत् कमलैर्देवि मद्भक्तः संयतेन्द्रियः ।।
मत्स्यं कूर्मं वराहं च नरसिंहं च वामनम् ।।६८।।
रामं रामं च कृष्णं च बुद्धं चैव च कल्किनम् ।।
एवं दशावतारांश्च पूजयेद्भक्तिसंयुतः ।। ६९ ।।
पुष्पैर्धूपैस्तथा दीपनैवद्यैर्विविधैरपि ।।
संपूज्यैवमलङ्कारैर्विविधैरुपशोभितम् ।। 211.७० ।।
रात्रौ चोत्थापनं कार्यं देवदेवस्य सुव्रते।।
प्रभाते विमले स्नात्वा भक्त्या संपूज्य केशवम्।।७१।।
पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः।।
ततस्तु पूजयेद्विद्वानाचार्यं भक्तिसंयुतः ।।७२।।
अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः ।।
पूजयित्वा विधानेन तं देवं प्रतिपादयेत् ।। ७३ ।।
जगदादिर्जगद्रूपो जगदादिरनादिमान् ।।
जगदादिर्जगद्योनिः प्रीयतां मे जनार्दनः ।। ७४ ।।
अनेनैव विधानेन कुर्यादेकादशीव्रतम् ।।
तस्य पुण्यं भवेद्यत्तु तच्छृणुष्व वसुन्धरे ।। ७१ ।।
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति तैः ।।
संख्यातुं नैव शक्यन्ते प्रबोधिन्यास्तथा गुणाः ।। ७६ ।।
तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु ।।
चन्द्रतारार्कसङ्काशमधिष्ठायानुजीविभिः ।। ७७ ।।
सहैव यानमागच्छेन्मम लोकं वसुन्धरे ।।
ततः कल्पसहस्रांते सप्तद्वीपेश्वरो भवेत् ।। ७८ ।।
आयुरारोग्यसंपन्नो जन्मातीतो भवेत्ततः ।।
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।। ७९ ।।
पापान्येतानि सर्वाणि श्रवणेनैव नाशयेत्।।211.८०।।
पश्ये च धीमानधनोऽपि भक्त्या स्पृशेन्मनुष्यं इह चिन्त्यमानः।।
शृणोति भक्तस्य मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ।। ८१ ।।
दुःस्वप्नः प्रशममुपैति पठ्यमाने माहात्म्ये भवभयहारके नरस्य ।।
यः कुर्याद्व्रतवरमेतदव्ययाया बोधिन्याः किमुत फलं तु तस्य वाच्यम् ।। ८२ ।।
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम्।।
तैरात्मजन्म सफलं कृतं ये व्रतकारकाः ।। ८३ ।।
नारायणाच्युतानन्त वासुदेवेति यो नरः ।।
सततं कीर्त्तयेद्भूमे याति मल्लयतां प्रिये ।। ८४ ।।
किं पुनः श्रद्धया युक्तः पूजयेन्मामनन्यधीः ।।
गुरूपदिष्टमार्गेण याति मल्लयतां नरः ।। ८५ ।।
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।।
प्रयाणं ये च कुर्वति ते पूज्याः सततं सुरैः ।।८६।।
तस्मात् सुनियतैर्भाव्यं वैष्णवं मार्गमास्पदम्।।
दुर्ल्लभं वैष्णवत्वं हि त्रिषु लोकेषु सुन्दरि।।८७।।
जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् ।।
वैष्णवत्वं लभेत् कश्चित्सर्वपापक्षये सति ।। ८८।।
पापक्षयमवाप्नोति चेश्वराराधने कृते ।।
ज्ञानमन्विच्छता रुद्रं पूजयेत्परमेश्वरम् ।।८९।।
मामाराध्य तथा याति तद्विष्णोः परमं पदम् ।।
वैष्णवा हि महाभागाः पुनन्ति सकलं जगत्।।211.९०।।
संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये ।।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया।।९१।।
एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः।।
वेदोक्तविधिना भद्रे आगमोक्तेन वा सुधीः।।९२।।
यम उवाच ।।
एतच्छ्रुत्वा महाभागा धरणी संशितव्रता ।।
समाराध्य जगन्नाथं विधिना तल्लयङ्गता ।। ९३ ।।
अतो यत्नेन वै साध्यं वैष्णवत्वं विपश्चिता ।।
ये वैष्णवा महात्मानो विष्णुपूजनतत्पराः ।। ९४।।
तेषां नैवास्त्ययं लोको यान्ति तत्परमं पदम्।।
ये सकृद्द्वादशीमेतामुपोष्यंति विधानतः ।।९५।।
प्रबोधनाख्यां सुधियस्ते यांति परमं पदम् ।।
न यमं यातनादण्डान्नरकं न च किङ्करान् ।।९६ ।।
पश्यंति द्विजशार्दूल इति सत्यं मयोदितम् ।।
एतत्ते सर्वमाख्यातं यथादृष्टं यथाश्रुतम् ।।९७।।
कथितं मे महाभाग यत्त्वया परिपृच्छितम्।।
स्वयंभुवा यथा प्रोक्तं गुह्याख्यानं महामुने ।।९८।।
तत्ते सर्वं समासेन व्याख्यातं धर्मवत्सल ।। ९९ ।।
इति श्रीवराहपुराणे पापनाशोपायवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ।। २११ ।।