← अध्यायः २१२ वराहपुराणम्
अध्यायः २१३
[[लेखकः :|]]
अध्यायः २१४ →
अथ गोकर्णेश्वरमाहात्म्यम् ।।

सूत उवाच ।।
पुरा देवैर्विनिहते संग्रामे तारकामये ।।
अत्युच्छ्रिते प्रतिबले दानवानां बले तथा ।। १ ।।
सहस्राक्षे लब्धपदे क्षीणशत्रौ गतास्पदे ।।
सम्यक्प्रसूतिमापन्ने त्रैलोक्ये सचराचरे ।। २ ।।
शृङ्गे चैवाचलेन्द्रस्य मेरोः सर्वहिरण्यये ।।
मणिविद्रुमविद्धे च विपुले पंकजासने ।। ३ ।।
सुखोपविष्टमेकाग्रं स्थिरचित्तं कृतेक्षणम् ।।
निवृत्तकार्यं मुदितं सूर्यवैश्वानरद्युतिम् ।। ४ ।।
प्रणम्य मूर्ध्ना चरणावुपगृह्य समाहितः ।।
ब्रह्माणं परिपप्रच्छ कुमारो नतिपूर्वकः ।। ५ ।।
सनत्कुमार उवाच ।।
भगवञ्छ्रोतुमिच्छामि पुराणमृषिसंस्तुतम् ।।
पुराणं तु महाभाग त्वत्तस्तत्त्वविदां वर ।।६ ।।
कथमुत्तर गोकर्णं दक्षिणं च कथं विभो।।
शृङ्गेश्वरस्य परमं कथं सम्यक्प्रतिष्ठितम्।।७।।
क्षेत्रस्य कि प्रमाणं स्यात्किञ्च तीर्थफलं स्मृतम् ।।
कथं पशुपतिस्तत्र भगवान्मृगरूपधृक् ।। ८ ।।
सर्वैस्त्वत्प्रमुखैर्देवैः कथमासादितं पुनः ।।
मृगरूपं कथं चास्य शरीरं क्व प्रतिष्ठितम् ।। ९ ।।
यथा यत्र च यस्तत्र विधिः सम्यगनुष्ठितः ।।
तत्सर्वं निखिलेनाशु ब्रूहि मे वाग्विदां वर ।। 213.१० ।।
एवमुक्तः स भगवान्ब्रह्मा ब्रह्मविदां वरः ।।
उवाच तस्मै पुत्राय गुह्यमेतत्पुरातनम् ।। ११ ।।
ब्रह्मोवाच ।।
शृणु वत्स महाभाग यथातत्त्वं ब्रवीमि ते ।।
पुराणमेतद्ब्रह्मर्षे सरहस्यं यथाश्रुतम् ।। १२ ।।
अस्ति भूधरराजस्य मन्दरस्योत्तरे शुचौ ।।
मुञ्जवान्नाम शिखरो नन्दनोपवनद्युतिः ।। १३ ।।
वज्रस्फटिकपाषाणः प्रवालांकुरशर्क्करः ।।
नीलामलशिलावर्णो गुहानिर्झरकन्दरः ।। १४ ।।
विचित्रकुसुमोपेतैर्लतामञ्जीरधारिभिः ।।
रेजे यः प्रांशुभिः शृङ्गैरुल्लिखद्भिरिवाम्बरम् ।। १५ ।।
दर्यस्तत्राधिकं रेजुर्नानाधातुपरिस्रवैः ।।
शिलीन्ध्रकुसुमोपेताश्चित्रिता इव सर्वतः ।। १६ ।।
तेऽत्र केतकिखण्डाश्च कुंदखंडाश्च पुष्पिताः ।।
उन्मीलिता इवाभान्ति धातकीवनराजिभिः ।।१७।।
भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः ।।
चित्रैः कुसुमसंछन्नैः शिलाप्रस्तरविस्तरैः ।।१८।।
शक्रचापनिभै रम्यैः कुबेरभवनद्युतौ ।।
तस्मिन्नगवरे रम्ये महोरगनिषेविते ।। १९ ।।
क्रीडद्भिर्देवमिथुनेर्नृत्यद्भिश्चाप्सरोगणैः ।।
कूजद्भिः शिखिभिर्मत्तैः सेविते च नगोत्तमे ।। 213.२० ।।
कल्हारकुसुमोपेते हंससारससेविते।।
प्रसन्नसलिलाकीर्णे सरोभिः फुल्लपंकजैः ।।२१।।
गजयूथानुकीर्णाभिर्जुष्टाभिर्मृगपक्षिभिः ।।
सेविताभिर्मुनिगणैः सरिद्भिरुपशोभिते ।। २२ ।।
किन्नरोद्गीतकुहरे परपुष्टनिनादिते ।।
विद्याधरशताकीर्णे देवगन्धर्व सेविते ।। २३ ।।
धारापातैश्च तोयानां विस्फुलिङ्गैः सहस्रशः ।।
प्रज्वालितेऽतुले शृङ्गे रम्ये हरितशाद्वले ।। २४ ।।
सर्वर्तुकवनोद्याने पुष्पाकरसुशोभिते ।।
यज्ञकिम्पुरुषावासे गुह्यकानामथाश्रये ।। २५ ।।
तस्मिन्गिरिवरे रम्ये सेवितव्ये सुशोभने ।।
धर्मारण्ये तपःक्षेत्रे मुनिसिद्धनिषेविते ।। २६ ।।
वरदस्तत्र भगवान्स्थाणुर्नाम महेश्वरः ।।
सर्वामरगुरुर्देवो नित्यं सन्निहितः प्रभुः ।। २७ ।।
भक्तानुकम्पी स श्रीमान्गिरीन्द्रसुतया सह ।।
स ह्यध्यास्ते गिरिवरं पार्षदैश्च गुहेन च ।। २८ ।।
विमानयायिनः सर्वे तं देवमजमव्ययम् ।।
आजग्मुः सेवितुं देवा वरेण्यमजमव्ययम् ।। २९ ।।
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति तम् ।।
ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ।। 213.३० ।।
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम् ।।
ग्रीष्मे पंचतपास्तिष्ठेच्छिशिरे सलिलाश्रयः ।। ३१ ।।
ऊर्ध्वबाहुर्निरालम्बस्तोयाऽनिलहुताशनैः ।।
व्रतैश्च विविधैरुग्रै स्तपोभिर्नियमैस्तथा ।। ३२ ।।
जपपुष्पोपहारैश्च कालेकाले मुनिः सदा ।।
शङ्करं विधिवद्भक्त्या सोऽर्च्चयद्द्विजपुङ्गवः ।। ३३ ।।
उग्रेण तपसात्मानं योजयामास सुव्रतः ।।
काष्ठभूतो यदा विप्रः कृशो धर्मसुसन्ततः ।। ३४ ।।
क्षामोऽभूत्कृष्णवर्णश्च ततः प्रीतश्च शङ्करः ।।
सम्यगाराधितो भक्त्या नियमेन च तोषितः ।। ३५ ।।
तदात्मदर्शनं प्रादात्स मुनेर्वृषभध्वजः ।।
उक्तवांश्च मुनिं शर्वश्चक्षुर्दिव्यं ददामि ते ।। ३५ ।।
अदृश्यं पश्य मे रूपं वत्स प्रीतोऽस्मि ते मुने ।।
यत्पश्यन्तीह विद्वांसो रूपमप्रतिमौजसम् ।।३७।।
सहस्रसूर्यकिरणं ज्वालामालिनमूर्जितम् ।।
बालार्क मण्डलाकारं प्रभामण्डलमण्डितम्।।३८।।
जटाजूटतटाश्लिष्टं चन्द्रालंकृतशेखरम् ।।
जगदालोचनं श्रीमत्प्रदीप्तस्वत्रिलोचनम् ।।३९।।
प्रादेशमात्रं रुचिरं शतशीर्षं शतोदरम्।।
सहस्रबाहुचरणं सहस्राक्षिशिरोमुखम् ।।213.४०।।
अणीयसामणीयांसं बृहतां तु बृहत्तरम् ।।
अक्षमालापवित्राङ्गं कमण्डलु करोद्यतम्।।४१।।।।
सिंहचर्माम्बरधरं व्यालयज्ञोपवीतिनम् ।।
दृष्ट्वा देवं महादेवं हृष्टरोमा महातपाः ।।४२।।
प्राञ्जलिः प्रणतो भूत्वाऽगृणाद्ब्रह्म सनातनम् ।।
नमो धात्रे विधात्रे च संभवे वरदाय च ।। ४३ ।।
जगद्भोक्त्रे त्रिनेत्राय शंकराय शिवाय च ।।
भवाय भवगोप्त्रे च मुनये कृत्तिवाससे ।। ४४ ।।
नीलकण्ठाय भीमाय भूतभव्यभवाय च ।।
लम्बभ्रुवे करालाय हरिनेत्राय मीढुषे ।। ४५ ।।
कपर्दिने विशालाय मुञ्जकेशाय धीमते ।।
शूलिने पशुपतये विभवे स्थाणवे तथा ।। ४५ ।।
गणानां पतये स्रष्ट्रे संक्षेप्त्रे भीषणाय च ।।
सौम्याय सौम्यतपसे भीमाय त्र्यम्बकाय च ।। ४७ ।।
प्रेतावासनिवासाय रुद्राय वरदाय च ।।
कपालमालिने तस्मै हरिश्मश्रुधराय च ।। ४८ ।।
भक्तप्रियाय सततं नमोऽस्तु परमात्मने ।।
एवं नन्दी भवं स्तुत्वा नमस्कृत्य च सर्वशः ।। ४९ ।।
प्रणम्य शिरसा देवं पुनः पुनरवन्दत ।।
ततस्तु भगवान्प्रीतस्तस्मै विप्राय शंकरः। ।। 213.५० ।।
उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः ।।
वरान्वृणीष्व विप्रेन्द्र यानिच्छसि महामुने ।। ५१ ।।
तांस्ते सर्वान्प्रयच्छामि दुर्ल्लभानपि मारिष ।।
प्रभुत्वममरत्वं वा शक्रत्वमपि वा प्रभो ।। ५२ ।।
ब्रह्मत्वं लोकपालत्वमपवर्गमथापि वा ।।
अथाष्टगुणमैश्वर्यं गाणपत्यमथापि वा ।। ५३ ।।
यदिच्छसि मुने शीघ्रं तद्ब्रूहि द्विजपुङ्गव ।।
इत्युक्तोऽसौ भगवता शर्वेण मुनिपुङ्गवः ।। ५४ ।।
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना ।।
न प्रभुत्वं न देवत्वं नेन्द्रत्वमपि वा प्रभो ।। ५५ ।।
ब्रह्मत्वं लोकपालत्वं नापवर्गं वरप्रद ।।
नैवाष्टगुणमैश्वर्यं गाणपत्यं न च प्रभो ।। ५६ ।।
स्पृहये देवदेवेश प्रसन्ने त्वयि शंकर ।।
यदि प्रीतोऽसि भगवन्ननुक्रोशतया मम ।।५७।।
अनुग्राह्यो ह्ययं देव त्वयावश्यं सुराधिप ।।
यथान्ये न भवेद्भक्तिस्त्वत्तो नित्यं महेश्वर ।। ५८ ।।
तथाहं भक्तिमिच्छामि सर्वभूताशये त्वयि ।।
यथा च न भवेद्विघ्नं तपस्यानिरतस्य मे ।। ५९ ।।
कोटिजप्येन रुद्राणामाराधनपरस्य च ।।
एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः ।। 213.६० ।।
प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा ।।
प्रीतोऽस्म्युत्तिष्ठ विप्रर्षे तप्यमानेन सुव्रत ।। ६१ ।।
आराधितश्च भक्त्याहं त्वया शुद्धेन चेतसा ।।
पर्याप्तं ते महाभाग तपः कर्तुं तपोधन ।। ६२ ।।
निवर्त्तयति मां वत्स मत्पादाराधने रतः ।।
जप्ता ते त्रिगुणा कोटी रुद्राणां पुरतो मम ।। ६३ ।।
पूर्णं वर्षसहस्रं च तपस्तीव्रं महामुने ।।
न कृतं यत्पुरा देवैर्नासुरैर्ऋषिभिर्न च ।। ६४ ।।
कृतं सुमहदाश्चर्यं त्वया कर्म सुदुष्करम् ।।
संक्षोभितमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ६५ ।।
आगमिष्यन्ति ते द्रष्टुं देवाः सर्वे सवासवाः ।।
अक्षयश्चाव्ययश्च त्वमतर्क्यः ससुरासुरैः ।। ६६ ।।
दिव्यतेजोवपूः श्रीमान्दिव्याभरणभूषितः ।।
मत्तुल्यो मत्प्रभावश्च त्वमेकः ससुरासुरैः ।।६७ ।।
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्वगुणोत्तमः ।।
भविष्यसि न सन्देहो देवदानवपूजितः ।। ६८ ।।
अनेनैव शरीरेण जरामरणवर्जितः ।।
दुष्प्राप्येयमवाप्ता ते देवैर्गाणेश्वरी गतिः ।। ६९ ।।
पार्षदानां वरिष्ठस्त्वं मामकानां द्विजोत्तम ।।
नन्दीश्वर इति ख्यातो भविष्यसि न संशयः ।। 213.७० ।।
प्राप्तमष्टगुणं सत्यमैश्वर्यं ते तपोधन ।।
द्वितीयां मे तनुं त्वां तु नमस्यन्ति च देवताः ।। ७१ ।।
अद्यप्रभृति देवाग्र्य देवकार्येषु सर्वतः ।।
प्रभुस्त्वं भविता लोके मत्प्रसादान्मुनीश्वर ।। ७२ ।।
त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः ।।
मत्तः समभिवाञ्छन्ति प्रसादं पार्षदाधिप ।। ७३ ।।
वरान्वरार्थिनां दाता विधाता जगतः सदा ।।
भविष्यसि च धर्मज्ञ भीतानामभयप्रदः ।। ७४ ।।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।
नावयोरन्तरं किंचिदम्बरानिलयोरिव ।। ७५ ।।
द्वारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ।।
वामे तु विभुना चापि महाकालेन सर्वदा ।। ७६।।
प्रतीहारो भवानद्य सर्वदा त्रिदशोत्तमः ।।
शिरो मे रक्षतु भवान्महाकालेऽपि मे गणः ।। ७७ ।।
न वज्रेण न दण्डेन न चक्रेण न चाग्निना ।।
कांचिच्छक्नोति वै बाधां कर्त्तुं वै भुवनत्रये ।। ७८ ।।
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।।
त्वामेव संश्रयिष्यन्ति मद्भक्ताः पुरुषाश्च ये ।। ७९ ।।
त्वयि तुष्टे ह्यहं तुष्टः कुपिते कुपितस्त्वहम् ।।
त्वत्तः प्रियतरो नास्ति ममान्यो द्विजपुंगव ।। 213.८० ।।
एवं तस्मै वरान्दत्त्वा प्रीतः स्वयमुमापतिः ।।
उवाच भूयः स्पष्टेन स्वरेणाम्बरचारिणा ।। ८१ ।।
आगतान्विद्धि सर्वान्वै त्रिदशान्समरुद्गणान् ।।
दिदृक्षया च भद्रं ते कृतकृत्यश्च साम्प्रतम् ।। ८२ ।।
यदीरितं मया वत्स वरं प्रतिवचस्त्वयि ।।
प्रविष्टं न श्रुतिपथं दिवि सर्वदिवौकसाम् ।। ८३ ।।
नारायणं पुरस्कृत्य सेन्द्रास्ते समरुद्गणाः ।।
प्रेमार्थे चागमिष्यन्ति वरार्थं तपसाऽमराः ।। ८४ ।।
यक्षविद्याधरगणाः सिद्धगन्धर्वपन्नगाः ।।
मुनयश्च महात्मानस्तपोलब्धाः सहस्रशः ।।८५।।
ते बुद्ध्वा त्वद्गतामृद्धि प्रतप्ताः परमेर्ष्यया ।।
तपांसि विविधान्यत्र विविधान्नियमांस्तथा ।। ८६ ।।
चर्तुं समभिवाञ्छन्ति सदाभ्यासे वरार्थिनः ।।
वरदं यामभिज्ञाय गिरौ मौञ्जवति स्थितम् ।। ८७ ।।
अत्रैते यावदागम्य न मां पश्यन्ति मानवाः ।।
तावदेव त्वितः शीघ्रं गमिष्यामि महामुने ।। ८८ ।।
अद्य ते तु मया सर्वे देवा ब्रह्मपुरोगमाः ।।
द्रष्टव्याश्चानुमन्तव्या मत्तोऽनुग्रहकांक्षिणः ।। ८९ ।।
अभिप्रायं च सर्वेषां जानामि द्विजसत्तम ।।
अनुगुह्य वरैस्तैश्च तत्रैवान्तरधीयत ।। 213.९० ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे गोकर्णेश्वरमाहात्म्ये त्रयोदशाधिकद्विशततमोऽ ध्यायः ।। २१३ ।।