प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २१४ वराहपुराणम्
अध्यायः २१५
[[लेखकः :|]]
अध्यायः २१६ →
अथ गोकर्णेश्वरजलेश्वरमाहात्म्यवर्णनम् ।।

ब्रह्मोवाच ।।
ततः शक्रः सुरगणैः सह सर्वैः समेत्य च ।।
बुद्धिं चकार गमने मार्गितुं यत्र शङ्करः ।। १ ।।
तत उत्थाय ते देवाः सर्व एव शिलोच्चयात् ।।
विहायसा ययुः शीघ्रं तेनैव सह नन्दिना ।। २ ।।
स्वर्लोकं ब्रह्मलोकं च नागलोकं च सर्वशः ।।
बभ्रमुस्त्रिदशाः सर्वे रुद्रान्वेषणतत्पराः ।। ३ ।।
खिन्नाः क्लिष्टाश्च सुभृशं न पुनस्तत्पदं विदुः ।।
चतुःसमुद्रपर्यन्तसप्त द्वीपवतीं महीम् ।। ४ ।।
सशैलकाननोपेतां मार्गयद्भिर्हि तं सुरम् ।।
कन्दरेषु महाद्रीणां तुङ्गेषु शिखरेषु च ।। ५ ।।
विततेषु निकुञ्जेषु विहारेषु च सर्वतः ।।
विचिन्वद्भिः क्षितिमिमां तृणं द्विविदलीकृतम् ।।६।।
न प्रवृत्तिः क्वचिदपि शम्भोरासाद्यते सुरैः ।।
यदा निर्विण्णमनसो मार्गमाणाः सुरास्तदा ।। ७ ।।
न पश्यन्ति शिवं तत्र तदेषां भयमाविशत् ।।
भीतास्ते संविदं कृत्वा सञ्चिन्त्य गुरुलाघवम् ।। ८ ।।
सम्भूयान्योऽन्यममरा मामेव शरणं ययुः ।।
तमेकाग्रेण मनसा शङ्करं लोकशङ्करम् ।।९।।
उपायमात्रं दृष्टं मे ध्यायंस्तद्वेषभूषणैः ।।
यथा यत्र च सोऽस्माभिर्द्रष्टव्यो वृषभध्वजः ।। 215.१० ।।
सर्वं त्रैलोक्यमस्माभिर्विचितं वै निरन्तरम्।
श्लेश्मातकवनोद्देशं स्थानं मुक्त्वा महीतले ।। ११ ।।
आगच्छध्वं गमिष्यामस्तमुद्देशं सुरोत्तमाः ।।
इत्येवमुक्त्वा तैः सर्वैस्तामाशां प्रस्थिता वयम् ।।१२।।
तत्क्षणादेव सम्प्राप्ता विमानैः शीघ्रयायिभिः ।।
श्लेष्मातकवनं पुण्यं सिद्धचारणसेवितम् ।। १३ ।।
तस्मिन्सुरमणीयानि विविधानि शुचीनि च ।।
ध्यानस्थानानि रम्याणि बहूनि गुणवन्ति च ।। १४ ।।
आश्रमारण्यभागेषु दरीणां विवरेषु च ।।
विभ्राजद्वनराजाकी नद्यश्च विमलोदकाः ।। १५ ।।
सिंहशार्दूलमहिषगोलांगूलर्क्षवानरैः ।।
नादितं गजयूथैश्च मृगयूथैश्च तद्वनम् ।। १५ ।।
प्रमुखे वासवं कृत्वा विविशुस्ते सुरास्तदा ।।
विमुच्य रथयानानि पद्भिः सिद्धादिसङ्कटम् ।। १७ ।।
कन्दरोदरकूटेषु तरूणां गहनेषु च ।।
सर्वदेवमयं रुद्रं मार्गमाणाः शनैः शनैः ।। १८ ।।
प्रविशन्तश्च ते देवा वनोद्देशं क्वचिच्छुभे ।।
कदलीवनसंछन्ने फुल्लपादपशोभिते ।। १९ ।।
गिरिनद्यास्तु पुलिने हंसकुन्देंदुसन्निभे ।।
गन्धामोदेन पुष्पाणां वासितं मधुगन्धिमत् ।। 215.२० ।।
मुक्ताचूर्णनिकाशाभिर्वालुकाभिस्ततस्तत ।।
विक्रीडमानां ददृशुः कन्यां काश्चिन्मनोरमाम् ।। २१ ।।
तत्र ते विबुधा दृष्ट्वा सर्वे मां समचोदयन् ।।
आद्योऽहं सर्वदेवानां कथमेतद्भवेदिति ।। २२।।
मुहूर्त्तं ध्यानमास्थाय विज्ञाता सा मया तदा ।।
ध्रुवं शैलेन्द्रपुत्रीयमुमा विश्वेश्वरेश्वरी ।। २३ ।।
ततस्तदुच्चशिखरमारुह्य विबुधेश्वराः ।।
अधो विलोक्य ते सर्वे ददृशुस्तं सुरोत्तमम् ।। २४ ।।
मध्ये मृगसमूहस्य गोप्तारमिव संस्थितम् ।।
एकशृंगैकचरणं तप्तहाटकवर्चसम् ।। २५ ।।
चारुवक्त्राक्षिदशनं पृष्ठतः शुक्लबिन्दुभिः ।।
शुक्लेनोदरभागेन राजतैरुपशोभितम् ।। २६ ।।।
पीनोन्नतकटिस्कन्धं निमग्नांसशिरोधरम्।।
बिम्बोष्ठं ताम्रजिह्वास्यं दंष्ट्रांकुरविराजितम् ।। २७ ।।
तं दृष्ट्वा विबुधाः सर्वे शिखरात्प्रतिधाविताः ।।
सर्वोंद्यमेन तरसा तं मृगेन्द्रजिघृक्षवः ।।२८।।
शृङ्गाग्रं प्रथमं धृत्वा गृहीत्वा वज्रपाणिना ।।
मध्यं मया तस्य तदा गृहीतं प्रणतात्मना ।।२९ ।।
जग्राह केशवश्चापि मूलं तस्य महात्मनः ।।
त्रिभिरेवं गृहीतं तु त्रिधा भूतमभज्यत ।।215.३०।।
शक्रस्याग्रं स्थितं हस्ते मध्यं हस्ते मम स्थितम् ।।
विष्णोर्मूलं स्थितं हस्ते प्रविभक्तं त्रिधागतम् ।।३१।।
शृङ्गस्यैव गृहीतस्य त्रिधास्माकं मृगाधिपः।।
विषाणरहितस्तस्य प्रनष्टः पुनरत्र वै ।।३२।।
अन्तर्हितोऽन्तरिक्षस्थः प्रोवाचास्मानुपालभन् ।।
भो भो देवा मया यूयं वच्यमानानवाप्स्यथ ।। ३३ ।।
सशरीरोऽहं युष्माभिर्वशाप्तः प्रगतस्त्वितः ।।
शृङ्गमात्रेण सन्तुष्टा भवन्तस्तेन वञ्चिताः ।। ३४ ।।
यद्यहं सशरीरः स्यां गृहीत्वा स्थापितोऽभवम् ।।
तदा चतुष्पात्सकलो धर्मः स्यात्प्रतिपादितः ।।३५।।
कामं शृंगाणि मेऽत्रैव श्लेष्मात्मकवनेऽमराः ।।
न्यायतः स्थापयिष्यध्वं लोकानुग्रहकाम्यया ।।३६।।
अत्रापि महती व्युष्टिर्भविष्यति न संशयः।।
पुण्यक्षेत्रे सुमहति मत्प्रभावानुभाविते।।३७।।
यावन्ति भुवि तीर्थानि ह्यासमुद्र सरांसि च।।
क्षेत्रेऽस्मिंस्तानि तीर्थानि चागमिष्यन्ति मत्कृते।।३८।।
अहं पुनः शैलपतेः पादे हिमवतः शुभे ।।
नेपालाख्ये समुत्पत्स्ये स्वयमेव महीतलात् ।।३९।।
दीप्ततेजोमयशिराः शरीरं च चतुर्मुखम् ।।
शरीरेश इति ख्यातः सर्वत्र भुवनत्रये ।। 215.४० ।।
तत्र नागह्रदे घोरे स्थास्याम्यन्तर्जले ह्यहम् ।।
त्रिंशद्वर्षसहस्राणि सर्वभूतहिते रतः ।। ४१ ।।
यदा वृष्णिकुलोत्पन्नः कृष्णचक्रेण पर्वतान् ।।
पाटयित्वेन्द्रवचनाद्दानवान्निहनिष्यति ।। ४२ ।।
तदा स देशो भविता सर्वम्लेच्छैरधिष्ठितः ।।
ततोऽन्ये सूर्यवंशीयाः क्षत्रियास्तान्निहत्य च ।। ४३ ।।
वसिष्यंति च तं देशं ब्राह्मणैः संप्रवर्त्तितान् ।।
धर्मान्संस्थापयिष्यंति राज्यं प्राप्स्यंति शाश्वतम् ।।४४।।
ततो लिङ्गार्च्चनं तत्र प्रतिष्ठास्यंति पार्थिवाः।।
क्षत्रियाः सूर्यवंशीयाः शून्ये लप्स्यंति मां नृपाः ।।४५।।
ततो जनपदस्तत्र भविष्यति महांस्तदा ।।
स्फीतो ब्राह्मणभूयिष्ठसर्ववर्णाश्रमैर्युतः ।। ४३ ।।
सम्यक्प्रवृत्ता राजानो भविष्यन्त्यायतौ स्थिताः ।।
एवं सम्यक्स्थिते तस्मिन्देशे पौरजने तथा ।। ४७ ।।
तत्र मामर्च्चयिष्यंति सर्वभूतानि सर्वदा ।।
तत्राहं यैः सकृद्दृष्टो विधिवद्वंदितस्तु यैः ।।४८।।
गत्वा शिवपुरं ते मां द्रक्ष्यंते दग्धकिल्बिषाः ।।
उत्तरेण तु गंगाया दक्षिणे चाश्विनीमुखात् ।। ४९ ।।
क्षेत्रं हि मम तज्ज्ञेयं योजनानि चतुर्दश ।।
हिमाद्रेस्तुङ्गशिखरात्प्रोद्भूता वाग्म ( ङ्म) ती नदी ।। 215.५० ।।
भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम् ।।
तत्र स्नात्वा हरेर्लोकानुपस्पृश्य दिवस्पतेः ।।५१ ।।
मुक्त्वा देहं नरा यांति मम लोकं न संशयः ।।
अपि दुष्कृतकर्माणः क्षेत्रेऽस्मिन्निवसंति ये ।। ५२ ।।
नियतं पुरुहूतस्य श्रिताः स्थाने वसंति ते ।।
देवदानवगन्धर्वाः सिद्धविद्याधरोरगाः ।।५३।।
मुनयोऽप्सरसो यक्षा मोहिता मम मायया ।।
तद्वै गुह्यं न जानंति यत्र सन्निहितो ह्यहम् ।। ५४ ।।
तपस्तपोधनानां च सिद्धक्षेत्रं हि तत्कृतम् ।।
प्रभासाच्च प्रयागाच्च नैमिषात्पुष्करादपि ।। ५५ ।।
कुरुक्षेत्रादपि बुधाः क्षेत्रमेतद्विशिष्यते ।।
श्वशुरो मे स्थितो यत्र हिमवान् भूधरेश्वरः ।। ५६ ।।
प्रभवन्ति यतः सर्वा गंगाद्याः सरितां वराः ।।
तस्मिन्क्षेत्रवरे पुण्ये पुण्याः सर्वाः सरिद्वराः ।। ५७ ।।
सर्वे प्रस्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः ।।
आश्रमस्तत्र भविता सिद्धचारणसेवितः ।।५८।।
शैलेश्वर इति ख्यातः शरीरं यत्र मे स्थितम् ।।
स्रवन्तीनां वरा पुण्या वाग्मती पर्वतोत्तमात् ।। ५९ ।।
भागीरथी वेगवती कलुषं दहते नृणाम् ।।
कीर्त्तनादेव संशुद्धे दर्शनाद्भूतिमाप्स्यति ।। 215.६० ।।
पानावगाहनात्तस्यास्तारयेत्सप्त वै कुलान् ।।
लोकपालस्तु चरति तीर्थख्यातिं च तत्स्वयम् ।। ६१ ।।
तत्र स्नात्वा दिवं यान्ति मृतास्ते त्वपुनर्भवाः ।।
स्नात्वा स्नात्वा तु ये तत्र नित्यमभ्यर्चयन्ति माम् ।। ६२ ।।
उद्धराम्यहमेतान्वै प्रीतः संसारसागरात् ।।
यस्तस्य वारिणा पूर्णमेकं च घटमुद्धरेत् ।। ६३ ।।
स्नापनार्थे मम शुचिः श्रद्दधानोऽनसूयकः ।।
वेदवेदांगविदुषा श्रोत्रियेण विशेषतः ।। ६४ ।।
आहृतस्याग्निहोत्रस्य यत्फलं तस्य तद्भवेत् ।।
तस्यास्तीरे जलोद्भेदं मन्मूलादभिनिःसृतम् ।। ६५ ।।
मृगशृङ्गोदकं नाम नित्यं मुनिजनप्रियम् ।।
तत्राभिषेकं कुर्वीत उपस्पृश्य समाहितः ।।६६ ।।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति।।
तीर्थं पंचनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम् ।। ६७ ।।
अग्निष्टोमफलं तत्र स्नातमात्रः प्रपद्यते ।।
षष्टिं धेनुसहस्राणि यानि रक्षन्ति वाग्मतीम् ।। ६८ ।।
न तां पापाः कृतघ्नो वा कदाचित्प्राप्नुयान्नरः।।
शुचयः श्रद्दधानाश्च सत्यसंधाश्च ये नराः ।।६९ ।।
वाग्मत्यां ते नराः स्नान्ति लभन्ते चोत्तमां गतिम् ।।
आर्त्ता भीताश्च सन्तप्ता व्याधितोऽव्याधितोऽपि वा।।215.७० ।।
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः।।
तेषां शान्तिर्भवेन्नित्यं पुरुषाणां न संशयः ।।७१ ।।
मत्प्रभावात्तु स्नातस्य सर्वं नश्यति किल्बिषम् ।।
ईतयः समुदीर्णाश्च प्रशमं यान्ति सर्वशः।।७२।।
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः ।।
वाग्मती सरितां श्रेष्ठा यत्र यत्राऽवगाह्यते ।।७७३।।
तत्र तत्र फलं दद्याद्राजसूयाश्वमेधयोः ।।
योजनाभ्यन्तरं क्षेत्रं समन्तात्सर्वतोदिशम् ।। ७४ ।।
मूलक्षेत्रं तु विज्ञेयं रुद्रेणाधिष्ठितं स्वयम् ।।
तत्र पूर्वोत्तरे पार्श्वे वासुकिर्नाम नागराट् ।। ७५ ।।
वृतो नागसहस्रैस्तु द्वारि तिष्ठति मे सदा ।।
स विघ्नं कुरुते नृणां तत्क्षेत्रं विशतां सदा ।। ७६ ।।
प्रथमं स नमस्कार्यस्ततोऽहं तदनन्तरम् ।।
अनेन विधिना पुंसामविघ्नं विशतां भवेत् ।। ७७ ।।
वन्दते परया भक्त्या यो मां तत्र नरः सदा ।।
पृथिव्यां स भवेद्राजा सर्वलोकनमस्कृतः ।। ७८ ।।
गन्धैर्माल्यैश्च मे मूर्त्तिमभ्यर्च्चयति यो नरः ।।
उत्पत्स्यते स देवेषु तुषितेषु न संशयः ।। ७९ ।।
यस्तु दद्यात्प्रदीपं मे पर्वते श्रद्धयान्वितः ।।
सूर्यप्रभेषु देवेषु तस्योत्पत्तिर्विधीयते ।। 215.८० ।।
गीतवादित्रनृत्यैस्तु स्तुतिभिर्जागरेण वा ।।
ये मे कुर्वन्ति सेवां वै मत्संस्थास्ते भवन्ति हि ।। ८१ ।।
दध्ना क्षीरेण मधुना सर्पिषा सलिलेन वा ।।
स्नापनं ये प्रयच्छन्ति ते तरन्ति जरान्तकौ ।।८२ ।।
यः श्राद्धे भोजनं दद्याद्विप्रेभ्यः श्रद्धयान्वितः ।।
सोऽमृताशी भवेन्नूनं त्रिदिवे सुरपूजितः ।। ८३ ।।
व्रतोपवासैर्होमैर्वा नैवेद्यैश्चारुभिस्तथा ।।
यजन्ते ब्राह्मणा ये मां परया श्रद्धयान्विताः ।। ८४ ।।
षष्टिवर्षसहस्राणि चोषित्वा दिवि ते ततः ।।
ऐश्वर्यं प्रतिपद्यन्ते मर्त्यलोके पुनः पुनः।।८५।।
ब्राह्मणाः क्षत्रियो वैश्यः शूद्रः स्त्री वापि सङ्गताः ।।
शैलेश्वरं तु तत्स्थानं भक्तितः समुपासते ।। ८६ ।।
मत्पार्षदास्ते जायन्ते सततं सहिताः सुरैः ।।
शैलेश्वरं परं गुह्यं गतिः शैलेश्वरः परा ।।
शैलेश्वरात्परं क्षेत्रं न क्वचिद्भुवि विद्यते ।। ८७ ।।
ब्रह्महा गुरुहा गोघ्नः स्पृष्टो वै सर्वपातकैः ।।
क्षेत्रमेतदनुप्राप्य निर्मलो जायते नरः ।। ८८ ।।
विविधान्यत्र तीर्थानि सन्ति पुण्यानि देवताः ।।
येषान्तोयैर्नरः स्पृष्टः सर्वपापैः प्रमुच्यते ।।८९।।
क्रोशं क्रोशं सुरै रूपं तच्च संहृत्य निर्मितम् ।।
तीर्थं क्रोशोदकं नाम पुण्यं मुनिजनप्रियम्।।215.९०।।
तत्र स्नात्वा शुचिर्दान्तः सत्यसन्धो जितेन्द्रियः।।
विमुक्तः किल्बिषैः सर्वैः सर्वमेव फलं लभेत्।।९१।।
अनाशकं व्रजेद्यस्तु दक्षिणेन महात्मनः ।।
शैलेश्वरस्य पुरुषः स गच्छेत्परमां गतिम् ।।९२।।
भृगुप्रपतनं कृत्वा कामक्रोधविवर्जितः।।
विमानेन दिवं गच्छेद्धृतः सोऽप्सरसाङ्गणैः।।९३।।
भृगुमूले परं तीर्थं ब्रह्मणा निर्मितं स्वयम् ।।
ब्रह्मोद्भेदेति विख्यातं तस्यापि शृणु यत्फलं।।९४।।
संवत्सरं तु यस्तत्र स्नास्यंस्तु नियतेन्द्रियः।।
स ब्रह्मलोके विरजे गच्छेन्नास्त्यत्र संशयः।।९५।।
तत्र गोरक्षकं नाम गोवृषः पदविक्षतम् ।।
दृष्ट्वा च तानि हि पुमान् गोसहस्रफलं लभेत् ।।९६।।
गौर्यास्तु शिखरं तत्र गच्छेत्सिद्धनिषेवितम् ।।
यत्र सन्निहिता नित्यं पार्वती शिखरप्रिया ।।९७।।
लोकमाता भगवती लोकरक्षार्थमुद्यता ।।
तस्याः सालोक्यमायाति दृष्ट्वा स्पृष्ट्वाभिवाद्य च ।। ९८ ।।
त्यजते पतितुं तस्या अधस्ताद्वाग्मतीतटे ।।
उमालोकं व्रजेदाशु विमानेन विहायसा ।। ९९ ।।
स्तनकुण्डे उमायास्तु यः स्नायात्खलु मानवः ।।
स्कन्दलोकमवाप्नोति भूत्वा वैश्वानर द्युतिः ।। 215.१०० ।।
तीर्थं पंचनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम् ।।
अग्निहोत्रफलं तत्र स्नानमात्रेण लभ्यते ।। १०१ ।।
नकुलोहेन मतिमान्स्नापयेत्प्रयतात्मवान् ।।
जातिस्मरः स तु भवेत्सिध्यते चास्य मानसम् ।। १०२ ।।
तस्यैवोत्तरतस्तीर्थमपरं सिद्धसेवितम् ।।
नाम्ना प्रान्तकपानीयं गुह्यं गुह्यकरक्षितम् ।। १०३ ।।
संवत्सरं यस्तु पूर्णं तत्र स्नायान्नरः सदा ।।
गुह्यकः स भवेदाशु रुद्रस्यानुचरः सुधीः ।। १०४ ।।
देव्याः शिखरवासिन्या ज्ञेयं पूर्वोत्तरेण वै ।।
दक्षिणेन तु वाग्मत्याः प्रसृतं कन्दरोदरात् ।। १०५ ।।
तीर्थं ब्रह्मोदयं नाम पुण्यं पापप्रणाशनम् ।।
तत्र गत्वा जलं स्पृष्ट्वा स्नात्वा चाभ्युक्ष्य मानवः ।। १०६ ।।
मृत्युलोकं न पश्येत्स कृच्छ्रेषु च न सीदति ।।
गत्वा सुन्दरिकातीर्थं विधिना तीर्थमादिमम् ।। १०७ ।।
तत्र स्नात्वा भवेत्तोये रूपवानुत्तमद्युतिः ।।
त्रिसन्ध्यं तत्र गच्छेत्तु पूर्वेण विधिवन्नरः ।। १०८ ।।
तत्र सन्ध्यामुपास्याथ द्विजो मुच्येत किल्विषात् ।।
वाग्मत्या मणिवत्याश्च सम्भेदे पापनाशने ।। १०९ ।।
अहोरात्रं वसेद्यस्तु रुद्रजापो द्विजः शुचिः ।।
स भवेद्वेदविद्विद्वान्यज्वा पार्थिवपूजितः ।। 215.११० ।।
तारितं च कुलं तेन सर्वं भवति साधुना ।।
वर्णावरोऽपि यः कश्चित्स्नात्वा दद्यात्तिलोदकम् ।। १११ ।।।
तर्पिताः पितरस्तेन भवेयुर्नात्र संशयः ।।
यत्र यत्र च वाग्मत्यां स्नाति वै मानवोत्तमः ।। ११२ ।।
तिर्यग्योनिं न गच्छेत्तु समृद्धे जायते कुले ।।
वाग्मतीमणिवत्योश्च संभेदश्चर्षिसेवितः ।। ११३ ।।
धीमान्गच्छेत्तु विधिना कामक्रोधविवर्जितः ।।
गङ्गाद्वारे तु यत्प्रोक्तं स्नानपुण्यफलं महत् ।। ११४ ।।
स्नानस्य तद्दशगुणं भवेदत्र न संशयः ।।
अत्र विद्याधराः सिद्धा गन्धर्वा मुनयः सुराः ।।११५ ।।
स्नानमेतदुपासन्ते यक्षाश्च भुजगैः सह ।।
स्वल्पमप्यत्र यत्किंचिद्द्विजेभ्यो दीयते धनम् ।। ११५ ।।
तदक्षयं भवेद्दातुर्दानपुण्यफलं महत् ।।
तस्मात्सर्वप्रयत्नेन करणीयं च देवताः ।। ११७ ।।
वरिष्ठं क्षेत्रमेतस्मान्नान्यदेव हि विद्यते ।।
तस्मिन् श्लेष्मातकवने पुण्ये त्रिदशसेविते ।। ११८ ।।
यत्र यत्र मया देवाश्चरता मृगरूपिणा ।।
आसितं स्वपितं यातं विहृतं वा समन्ततः ।।११९।।
तत्र तत्राभवत्सर्वं पुण्यक्षेत्रं च सर्वशः ।।
शृंगमेतत्त्रिधाभूतं सम्यक्संश्रूयतां सुराः ।। 215.१२० ।।
गोकर्णेश्वर इत्येतत्पृथिव्यां ख्यातिमेष्यति ।।
एवं सन्दिश्य विबुधान्देवदेवः सनातनः ।। १२१ ।।
अदृश्य एव विबुधैः प्रययावुत्तरां दिशम् ।। १२२ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे भगवद्गोकर्णेश्वरमाहात्म्ये जलेश्वरमाहात्म्यवर्णनं नाम पंचदशाधिकद्विशततमोऽध्यायः ।।२१५।।