प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २१५ वराहपुराणम्
अध्यायः २१६
[[लेखकः :|]]
अध्यायः २१७ →
अथ गोकर्णशृंगेश्वरादिमाहात्म्यम् ।।

ब्रह्मोवाच ।।
तस्मात्स्थानादपक्रान्ते त्र्यम्बके मृगरूपिणि ।।
अन्योऽन्यं मन्त्रयित्वा तु मया सह सुरोत्तमाः ।। १ ।।
त्रिधाविभक्तं तच्छृङ्गं पृथक्पृथगवस्थितम् ।।
सम्यक्स्थापयितुं देवा विधिदृष्टेन कर्मणा ।। २ ।।
स्थापितं देवि नीत्वा वै शृंगाग्रं वज्रपाणिना ।।
मया तत्रैव तन्मध्यं स्थापितं विधिवत्प्रभोः ।। ३ ।।
देवैर्देवर्षिभिश्चैव सिद्धैर्ब्रह्मर्षिभिस्तथा ।।
गोकर्ण इति विख्यातिः कृता वैशेषिकी वरा ।। ४ ।।
विष्णुना देवतीर्थेन तन्मूलं स्थापितं ततः ।।

तस्य शृङ्गेश्वर इति नाम तत्राभवन्महत् ।। ५ ।।
Gokarna Atmalinga

तत्र तत्रैव भगवांस्तस्मिन्शृंगे त्रिधा स्थिते ।।
सान्निध्यं कल्पयामास भागेनैकेन चोन्मना ।। ६ ।।
शतं तेन तु भागानामात्मनो निहितं मृगे ।।
तस्माद्द्विकं तु भागानां शृंगाणां त्रितये न्यधात् ।।७।।
मार्गेण तच्छरीरेण निर्ययौ भगवान्विभुः ।।
शैशिरस्य गिरेः पादं प्रपेदे स्वयमात्मनः।।८।।
शतसंख्या स्मृता व्युष्टिस्तस्मिञ्छैलेश्वरे विभोः ।।
त्रिधा विभक्ते शृंगेऽस्मिन्नेकाग्रगतिनिप्रभोः ।। ९ ।।
ततः सुरासुरगुरुर्देवं भूतमहेश्वरम् ।।
तपसोऽग्रेण संसेव्य वव्रिरे विविधान्वरान् ।। 216.१० ।।
देवदानवगन्धर्वाः सिद्धयक्षमहोरगाः ।।
श्लेष्मातकवनं कृत्स्नं सर्वतः परिमण्डलम् ।। ११ ।।
तीर्थयात्रां पुरस्कृत्य प्रादक्षिण्यं च चक्रतुः ।।
फलान्निर्द्दिश्य तीर्थानां तथा क्षेत्रफलं महत् ।। १२ ।।
यथास्थानानि ते तस्मान्निवृत्ताश्च सुरादयः ।।
एवं तस्मान्निवृत्तेषु दैवतेषु तदा ततः ।। १३ ।।
पौलस्त्यो रावणो नाम भ्रातृभिः सह राक्षसैः ।।
आगम्योग्रेण तपसा देवमाराधयद्विभुम् ।। १४ ।।
शुश्रूषया च परया गोकर्णेश्वरमव्ययम् ।।
यदा तु तस्य तुष्टो वै वरदः शंकरः स्वयम् ।। १५ ।।
तदा त्रैलोक्यविजयं वरं वव्रे स राक्षसः ।।
प्रसादात्तस्य तत्सर्वं वाञ्छितं मनसा हि यत् ।। १६ ।।
अवाप्य च दशग्रीवस्तदिष्टं परमेश्वरात् ।।
त्रैलोक्यविजयायाशु तत्क्षणादेव निर्ययौ ।। १७ ।।
त्रैलोक्यं स विनिर्जित्य शक्रं च त्रिदशाधिपम् ।।
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह ।। १८ ।।
शृंगाग्रं यत्पुरा नीत्वा स्थापितं वज्रपाणिना ।।
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह ।। १९ ।।
तद्यावद्रावणः स्थाप्य मुहूर्त्तमुदधेस्तटे ।।
सन्ध्यामुपासते तत्र लग्नस्तावदसौ भुवि ।। 216.२० ।।
न शशाक यदा रक्षस्तदुत्पाटयितुं बलात् ।।
वज्रकल्पं समुत्सृज्य तदा लंकां विनिर्ययौ ।। २१ ।।
स तु दक्षिणगोकर्णो विज्ञेयस्ते महामते ।।
स्वयं प्रतिष्ठितस्तत्र स्वयं भूतपतिः शिवः ।। २२ ।।
एतत्ते कथितं सर्वं मया विस्तरतो मुने ।।
यथावदुत्तरस्तस्य गोकर्णस्य महात्मनः।।२३।।
दक्षिणस्य च विप्रर्षे तथा शृंगेश्वरस्य च।।
शैलेश्वरस्य च विभो स्थित्युत्पत्तिर्यथाक्रमम्।।२४।।
व्युष्टिः क्षेत्रस्य महती तीर्थानां च समुद्भवः ।।
प्रोक्तं सर्वं मया वत्स किमन्यच्छ्रोतुमिच्छसि ।। २५ ।।
इति श्रीवराहपुराणे गोकर्णशृंगेश्वरादीनां माहात्म्यं नाम षोडशाधिकद्विशततमोऽध्यायः ।। २१६ ।।

सम्पाद्यताम्