प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २१७ वराहपुराणम्
अध्यायः २१८
[[लेखकः :|]]

अथ पुराणपठनादिविषयानुक्रमणिकाध्यायः ।।

त्रिःसप्तषट्क्षितिमिते नृपविक्रमस्य काले गते भगवतो हरिबोधनस्य ।।
वीरेश्वरेण सह माधवभद्रनाम्ना काश्यां वराहकथितं लिखितं पुराणम् ।। १ ।।
वराहस्य पुराणस्य वृत्तान्तान्प्रब्रवीम्यहम् ।।
आदौ सम्बन्धकथनं वृत्तान्तश्चादिकल्पकः।। २ ।।
आदिसृष्टिस्ततः प्रोक्ता चरितं दुर्जनस्य च ।।
वृत्तान्तोद्देशभागश्च श्राद्धकल्पस्ततः परम् ।। ३ ।।
आदिवृत्तान्तकथने सरमाख्यानमेव च ।।
महातपोपाख्यानं च अग्न्युत्पत्तिस्ततः परम् ।। ४ ।।
अश्विनोरपि चोत्पत्ति गौर्युत्पत्तिस्तथैव च ।।
विनायकस्य चोत्पत्तिर्नागोत्पत्तिस्तथैव च ।। ५ ।।
स्कन्दोत्पत्तिश्च भानोश्च उत्पत्तिः समुदाहृता ।।
कामादीनां तथोत्पत्तिः देव्युत्पत्तिस्तथैव च ।। ६ ।।
धनदस्य तथोत्पत्तिः परापरविनिर्णयः ।।
धर्मोत्पत्तिस्तथोत्पत्ती रुद्रस्य च ततः स्मृता ।। ७ ।।
सोमोत्पत्तिरहस्यं च क्षितेश्चापि समासतः ।।
उक्तः प्रागितिहासश्च व्याधोपाख्यानमेव च ।। ८ ।।
ततः सत्यतपोपाख्या मत्स्यद्वादशिका तथा ।।
कूर्मद्वादशिका चापि वराहद्वादशी तथा ।। ९ ।।
नृसिंहद्वादशी चापि वामनद्वादशी तथा ।।
भार्गवद्वादशी चापि श्रीरामद्वादशी तथा ।। 218.१० ।।
कृष्णद्वादशिका चापि बुद्धद्वादशिका तथा ।।
कल्कि द्वादशिका चापि पद्मनाभस्य द्वादशी ।। ११ ।।
ततो व्रतं धरण्याश्च गीतागस्त्यस्य चोत्तमा ।।
पशुपालस्य चाख्यानं भर्तृप्राप्तिव्रतं तथा ।। १२ ।।
शुभव्रतं धन्यव्रतं कान्तिव्रतमतः स्मृतम् ।।
सौभाग्यव्रतमाख्यातमविघ्नव्रतमेव च ।। १३ ।।
शान्तिव्रतं कामव्रतमारोग्यव्रतमेव च ।।
पुत्रप्राप्तिव्रतं शौर्यव्रतं वै सार्वभौमिकम् ।।१४।।
पुराणस्तवनं चैव नारायणेश्वरेण च ।।
रुद्रगीता ततः पुंसां प्रकृतेश्चापि निर्णयः ।।१५।।
ततो भुवनकोशस्य वर्णनं समुदाहृतम् ।।
जम्बूद्वीपस्य मर्यादावर्णनं परिकार्तितम् ।।१६।।
भारतादिसमुद्देशः सृष्टिसम्भाग एव च ।।
नारदस्य च संवादो महिषेण प्रकीर्त्तितः ।। १७ ।।
शक्तिमाहात्म्यकथनं महिषासुरघातनम् ।।
रुद्रमाहात्म्यकथनं पर्वाध्यायस्ततः परम् ।। १८ ।।
श्वेतोपाख्यानमत्रोक्तं तिलधेनुविधिस्ततः ।।
जलधेनोरसधेनोर्गुडधेनोर्विधिः परम् ।। १९ ।।
ततश्च शर्क्कराधेनोर्मधुधेनोस्ततः परम् ।।
दधिधेनोश्च लवणधेनोः कार्पासधेनुका ।। 218.२० ।।
धान्यधेनुश्च भगवच्छास्त्रलक्षणमेव च ।।
विष्णोस्तोत्रं ततो नाना प्रश्नाः प्रोक्ता हरिं प्रति ।। २१ ।।
ततो भागवतानां च लक्षणं परिकीर्त्तितम् ।।
लक्षणं सुखदुःखानां द्वात्रिंशदपराधकाः ।। २२ ।।
नानामन्त्रास्ततः प्रोक्ता देवोपकरणे विधिः ।।
भोज्याभोज्यस्य कथनं संध्योपस्थानकारणम् ।। २३ ।।
वियोनिगर्भमोक्षश्च कोकामुखप्रशंसनम् ।।
भगवच्छास्त्रकथने माहात्म्यं पुष्पगन्धयोः ।। २४ ।।
रूपकारणमत्रोक्तं मायाचक्रं ततः परम् ।।
कुब्जाम्रकस्य माहात्म्यं वर्णदीक्षा ततः परम् ।। २५ ।।
कंकृताञ्जनदर्पाणां मन्त्राः प्रोक्तास्ततः परम् ।।
राजान्नभक्षणे प्रायश्चित्तं प्रोक्तं ततः परम् ।। २६ ।।
दन्तकाष्ठाद्यकरणे प्रायश्चित्तं ततः परम् ।।
शवादिस्पर्शने मन्त्र त्यागे चोक्तं ततः परम् ।। २७ ।।
नीलवस्त्रपरिधाने क्रोधयुक्तस्य चार्चने ।।
रक्तवस्त्रपरिधाने अन्धकारे प्रपूजने ।। २८ ।।
कृष्णवस्त्रपरिधाने धौतवस्त्रस्य धारणे ।।
क्रोडादिमांसभक्षे च प्रायश्चित्तं प्रकीर्त्तितम्।।२९।।
दीपोच्छिष्टस्य तैलस्य करलेपेन पूजने।।
श्मशानगमने स्पृष्टपूजने चैव शोधने ।। 218.३० ।।
पिण्याकभक्षणे चैव उपानद्गूढपादके ।।
भगवच्छास्त्रविहिताकरणे शोधने ततः।।३१।।
सूकरक्षेत्रमहिमा ततो जम्बूकगृध्रयोः ।।
खञ्जरीटस्य चाख्यानं पुनः कोकामुखस्य च।।३२।।
बदरीषण्डमाहात्म्यं गुह्यधर्मप्रकीर्तनम् ।।
मन्दारगुह्यमहिमा शालग्रामप्रसंशनम् ।।३३।।
सोमेश्वरस्य महिमा मुक्तिक्षेत्रस्य चापि हि।।
त्रिवेण्याश्चैव माहात्म्यं माहात्म्यं गण्डकीभवम् ।३४।।
चक्रतीर्थस्य महिमा हरिक्षेत्रसमुद्भवः ।।
देवह्रदस्य चाख्यानं रुरुक्षेत्रस्य चापि हि ।। ३५ ।।
गोनिष्क्रमस्य महिमा द्वारवत्यास्ततः परम् ।।
तत्रत्य तीर्थमहिमा लौहार्गलमतः परम् ।। ३६ ।।
मथुरातीर्थमाहात्म्यं प्रादुर्भावस्तथैव च ।।
यमुनातीर्थमाहात्म्यमक्रूरस्य च तीर्थकम् ।। ३७ ।।
देवारण्यस्य माहात्म्यं चक्रतीर्थस्य चोत्तमम् ।।
कपिलस्यापि महिमा तथा गोवर्धनस्य च ।। ३८ ।।
तथा आख्यायिकायुक्तं विश्रान्तेश्च ततः परम् ।।
गोकर्णस्य च माहात्म्यं सरस्वत्यास्तथैव च ।। ३९ ।।
यमुनोद्भेदमहिमा कालिञ्जरसमुद्भवाः।।
गंगोद्भेदस्य महिमा शापः स्यम्बस्य वै तथा ।। 218.४०।।
मधुकप्रतिमायाश्च स्थापनं संप्रकीर्तितम् ।।
शैलार्च्चा स्थापनं चापि मृन्मयार्च्चास्थितिस्तथा ।। ४१ ।।
ताम्रार्चास्थापनं चापि कांस्यार्चास्थापनं तथा ।।
रौप्यर्चास्थापनं चाथ सौवर्णप्रतिमास्थितिः ।।४२।।
श्राद्धोत्पत्ति स्ततः प्रोक्तं पिण्डं संकल्प एव च ।।
पिण्डोत्पत्तिस्ततः प्रोक्ता पितृयज्ञविनिर्णयः ।। ४३ ।।
मधुपर्क्कफलं दाने संसारचक्रवर्णनम् ।।
दुष्कृत्यकरणं चैव सुखवर्णनमेव च ।। ४४ ।।
कृतान्तदूतकथनं यातनारूपमेव च ।।
वर्णनं नरकाणां च किंकराणां च वर्णनम् ।। ४५ ।।
तथा कर्मविपाकं च यादृशं कर्म तादृशम् ।।
पापकृत्यस्य कथनं दूतप्रेषणकर्म च ।। ४६ ।।
शुभाशुभस्य कथनं शुभकर्मफलोदयम् ।।
लोभनं पुरुषस्यापि निमेराख्यानमद्भुतम् ।। ४७ ।।
पापनाशकथां दिव्यां गोकर्णेशसमुद्भवम्।।
नन्दिना वरदानं च जलशैलेशयोस्तथा ।। ४८ ।।
शृंगेश्वरस्य महिमा चैवं वृत्तान्तसंग्रहः ।।
एतच्छ्रुत्वाप्नुयान्मर्त्त्यो वाराहश्रुतिजं फलम् ।। ४९ ।।
इत्यनुक्रमणिका नाम अष्टादशाधिकद्विशततमोऽध्यायः ।। २१८ ।।
समाप्तं वाराहं महापुराणं शुभम् ।।
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया ।।
यदि शुद्धमशुद्धं वा मम दोषो न विद्यते ।। १ ।।