← अध्यायः २१६ वराहपुराणम्
अध्यायः २१७
[[लेखकः :|]]
अध्यायः २१८ →
अथ धरणीवराहसंवादफलश्रुतिवर्णनम् ।।

सनत्कुमार उवाच ।।
उक्तं भगवता सर्वं यथावत्परमेष्ठिना ।।
पृष्टेन संशयं सम्यक्परं कृत्वार्थनिश्चयम् ।। १ ।।
भगवद्विश्वरूपस्य स्थाणोरप्रतिमौजसः ।।
क्रीडतो लोकनाथस्य कानने मृगरूपिणः ।। २ ।।
यथा शरीरं शृङ्गं च पुण्यक्षेत्रे प्रतिष्ठितम् ।।
हिताय जगतस्तत्र तीर्थानि च यथाभवन् ।। ३ ।।
तन्मे ब्रूहि महाभाग यथातत्त्वं जगत्पते ।।
ब्रह्मोवाच ।।
पुलस्त्यो वक्ष्यते शेषं यदतोऽन्यन्महामुने ।। ४ ।।
सर्वेषामेव तीर्थानामेषां फलविनिश्चयम् ।।
कुरु राज्यं पुरस्कृत्य मुनीनां पुरतो वने ।। ५ ।।
पुत्रो मे मत्समः सम्यग्वेदवेदांगतत्त्ववित् ।।
यच्छ्रुत्वा पुरुषस्तात विमुक्तः सर्वकिल्बिषैः ।। ६ ।।
यशस्वी कीर्त्तिमान्भूत्वा वन्द्यते प्रेत्य चेह च ।।
श्रोतव्यमेतत्सततं चातुर्वर्ण्यैः सुसंयुतैः ।। ७।।
मंगल्यं च शिवं चैव धर्मकामार्थसाधकम् ।।
श्रीभूतिजननं पुण्यमायुष्यं विजयावहम् ।। ८ ।।
धन्यं यशस्यं पापघ्नं स्वस्तिकृच्छान्तिकारकम् ।।
श्रुत्वैवं पुरुषः सम्यङ्न दुर्गतिमवाप्नुयात् ।। ९ ।।
कीर्तयित्वा व्रजेत्स्वर्गं कल्यमुत्थाय मानवः ।।
सूत उवाच ।।
इत्युक्त्वा भगवान्देवः परमेष्ठी प्रजापतिः ।। 217.१० ।।
सनत्कुमारं सन्दिश्य विरराम महायशाः ।।
एतद्वः कथितं सर्वं मया तत्त्वेन सत्तमाः ।। ११ ।।
वराहभूमिसंवादं सारमुद्धृत्य सत्तमाः ।।
यश्चैव कीर्त्तयेन्नित्यं शृणुयाद्वापि भक्तितः ।। १२ ।।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।।
प्रभासे नैमिषारण्ये गंगाद्वारेऽथ पुष्करे ।।१३ ।।
प्रयागे ब्रह्मतीर्थे च तीर्थे चामरकण्टके ।।
यत्पुण्यफलमाप्नोति तत्कोटिगुणितं भवेत् ।। १४ ।।
कपिलां द्विजमुख्याय सम्यग्दत्त्वा तु यत्फलम् ।।
प्राप्नोति सकलं श्रुत्वा चाध्यायं तु न संशयः ।। १५ ।।
श्रुत्वाऽस्यैव दशाध्यायं शुचिर्भूत्वा समाहितः ।।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ।।१६ ।।
यः पुनः सततं शृण्वन्नैरन्तर्येण बुद्धिमान् ।।
पारयेत्परया भक्त्या तस्यापि शृणु यत्फलम् ।। १७ ।।
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम् ।।
सर्वतीर्थाभिषेकेन यत्फलं मुनिभिः स्मृतम् ।। १८ ।।
तत्प्राप्नोति न सन्देहो वराहवचनं यथा ।।
यदेतत्पारयेद्भक्त्या मम माहात्म्यमुत्तमम् ।। १९ ।।
अपुत्रस्य भवेत्पुत्रः सपौत्रस्य सुपौत्रकः ।।
यस्येदं लिखितं गेहे तिष्ठेत्संपूज्यते सदा ।। 217.२० ।।
तस्य नारायणो देवः सन्तुष्टः स्याद्धि सर्वदा ।।
यश्चैतच्छृणुयाद्भक्त्या नैरन्तर्येण मानवः ।। २१ ।।
श्रुत्वा तु पूजयेच्छास्त्रं यथा विष्णुं सनातनम् ।।
गन्धपुष्पैस्तथा वस्त्रैर्ब्राह्मणानां च तर्पणैः ।। २२ ।।
यथाशक्ति नृपो ग्रामैः पूजयेच्च वसुन्धरे।।
श्रुत्वा तु पूजयेद्यः पौराणिकं नियतः शुचिः ।।२३ ।।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् २४।।ॐ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे धरणीवराहसंवादे फलश्रुतिर्नाम सप्तदशाधिकद्विशततमोऽध्यायः।।२१७।।

समाप्तमिदं वराहमहापुराणम् ।।