प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २७ वराहपुराणम्
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →



प्रजापाल उवाच ।
कथं माया समुत्पन्ना दुर्गा कात्यायनी शुभा ।
आदिक्षेत्रे स्थिता सूक्ष्मा पृथग्मूर्त्ता व्यजायत ।। २८.१ ।।
महातपा उवाच ।
आसीद् राजा पुरा राजन् सिन्धुद्वीपः प्रतापवान् ।
वरुणांशो महाराज सोऽरण्ये तपसि स्थितः ।। २८.२ ।।
पुत्रो मे शक्रनाशाय भवेदिति नारधिपः ।
एवं कृतमतिः सोऽथ महता तपसा स्वकम् ।
कलेवरं स्थितो भूत्वा शोषयामास सुव्रत ।। २८.३ ।।
प्रजापाल उवाच ।
कथं तस्य द्विजश्रेष्ठ शक्रेणापकृतं भवेत् ।
येनासौ तद्विनाशाय पुत्रमिच्छन् व्रते स्थितः ।। २८.४ ।।
महातपा उवाच ।
सोऽन्यजन्मनि पुत्रोऽभूत् त्वष्टुर्बलभृतां वरः ।
अवध्यः सर्वशस्त्रेषु अपां फेनेन नाशितः ।। २८.५ ।।
जलफेनेन निहतस्तस्मिँल्लयमवाप्नुयात् ।
पुनर्ब्रह्मान्वयाज्जातः सिन्धुद्वीपेति संज्ञितः ।
स तेपे परमं तीव्रं शक्रवैरमनुस्मरन् ।। २८.६ ।।
ततः कालेन महता नदी वेत्रवती शुभा ।
मानुषं रूपमास्थाय सालंकारं मनोरमम् ।
आजगाम यतो राजा तेपे परमकं तपः ।। २८.७ ।।
तां दृष्ट्वा रूपसंपन्नां स राजा क्रुद्धमानसः ।
उवाच काऽसि सुश्रोणि सत्यं कथय भामिनि ।। २८.८ ।।
नद्युवाच ।
अहं जलपतेः पत्नी वरुणस्य महात्मनः ।
नाम्ना वेत्रवती पुण्या त्वामिच्छन्तीहमागता ।। २८.९ ।।
साभिलाषां परस्त्रीं च भजमानां विसर्ज्जयेत् ।
स पापः पुरुषो ज्ञेयो ब्रह्महत्यां च विन्दति ।
एवं ज्ञात्वा महाराज भजमानां भजस्व माम् ।। २८.१० ।।
एवमुक्तस्तया राजा साभिलाषोपभुक्तवान् ।
तस्य सद्योऽभवत् पुत्रो द्वादशार्कसमप्रभः ।। २८.११ ।।
वेत्रवत्युदरे जातो नाम्ना वैत्रासुरोऽभवत् ।
बलवानतितेजस्वी प्राग्ज्योतिषपतिर्भवत् ।। २८.१२ ।।
स कालेन युवा जातो बलवान् दृढविक्रमः ।
महायोगेन संयुक्तो जिगायेमां वसुंधराम् ।। २८.१३ ।।
सप्तद्वीपवतीं पश्चान्मेरुपर्वतमारुहत् ।
तत्रेन्द्रं प्रथमं जिग्ये पश्चादग्निं यमं ततः ।
निर्ऋतिं वरुणं वायुं धनदश्चेश्वरं ततः ।। २८.१४ ।।
इन्द्रो भग्नो गतः सोग्निं अग्निर्भग्नो यमं ययौ ।
यमो निर्ऋतिमागच्छन्निर्ऋतिर्वरुणं ययौ ।। २८.१५ ।।
इन्द्रादिभिरुपेतस्तु वरुणो वायुमन्वगात् ।
वायुर्धनपतिं त्वागात् सर्वैरिन्द्रादिभिः सह ।। २८.१६ ।।
धनदोऽपि स्वकं मित्रमीशं देवसमन्वितः ।
इयाय गदया सोऽपि दानवो बलदर्पितः ।
गदामादाय दुद्राव शिवलोकं प्रति प्रभो ।। २८.१७ ।।
शिवोऽप्यवध्यं तं मत्वा देवान् गुह्य ययौ पुरीम् ।
ब्रह्मणः सुरसिद्धाद्यैर्वन्दितां पुण्यकारिभिः ।। २८.१८ ।।
तत्र ब्रह्मा जगत्स्त्रष्टा विष्णुपादोद्भवे जले ।
नियामिताकाशगतो जपत्यन्तर्जले शुभे ।
क्षेत्रज्ञमायां गायत्रीं ततो देवा विचुक्रुशुः ।। २८.१९ ।।
त्राहि प्रजापते सर्वान् देवानृषिवरानपि ।
असुराद्भयमापन्नान् त्राहि त्राहीत्यचोदयन् ।। २८.२० ।।
एवमुक्तस्तदा ब्रह्मा दृष्ट्वा देवांस्तदागतान् ।
चिन्तयामास देवस्य मायेयं विततं जगत् ।
नासुरा न सुराश्चात्र मायेयं कीदृशी मता ।। २८.२१ ।।
एवं चिन्तयतस्तस्य प्रादुरासीदयोनिजा ।
शुक्लाम्बरधरा कन्या स्त्रक्किरीटोज्ज्वलानना ।
अष्टभिर्बाहुभिर्युक्ता दिव्यप्रहरणोद्यता ।। २८.२२ ।।
चक्रं शङ्खं गदां पाशं खङ्गं घण्टां तथा धनुः ।
धारयन्ती तथा चान्यान् बद्धतूणा जलाद् बहिः ।। २८.२३ ।।
निश्चक्राम महादेवी सिंहवाहनवेगिता ।
युयुधे चासुरान् सर्वानेकैव बहुधा स्थिता ।। २८.२४ ।।
दिव्यं वर्षसहस्त्रं तु दिव्यैरस्त्रैर्महाबलम् ।
युद्ध्वा कालात्यये देव्या हतो वैत्रासुरो रणे ।
ततः किलकिलाशब्दो देवसैन्येऽभवन्महान् ।। २८.२५ ।।
हते वैत्रासुरे भीमे तदा सर्वे दिवौकसः ।
प्रणेमुर्जय युद्धेति स्वयमीशः स्तुतिं जगौ ।। २८.२६ ।।
महेश्वर उवाच ।
जयस्व देवि गायत्रे महामाये महाप्रभे ।
महादेवि महाभागे महासत्त्वे महोत्सवे ।। २८.२७ ।।
दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते ।
वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ।। २८.२८ ।।
त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि ।
त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ।
कमलासनजे देवि सरस्वति नमोऽस्तु ते ।। २८.२९ ।।
नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे ।
सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके ।। २८.३० ।।
संपूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ।
महाविद्ये महावेद्ये महादैत्यविनाशिनि ।
महाबुद्ध्युद्भवे देवि वीतशोके किरातिनि ।। २८.३१ ।।
त्वं नीतिस्त्वं महाभागे त्वं गीस्त्वं गौस्त्वमक्षरम् ।
त्वं धीस्त्वं श्रीस्त्वमोङ्कारस्तत्त्वे चापि परिस्थिता ।
सर्वसत्त्वाहिते देवि नमस्ते परमेश्वरि ।। २८.३२ ।।
इत्येवं संस्तुता देवी भवेन परमेष्ठिना ।
देवैरपि जयेत्युच्चैरित्युक्ता परमेश्वरी ।। २८.३३ ।।
यावदास्ते चतुर्वक्त्रस्तावदन्तर्जलाद् बहिः ।
निश्चक्राम ततो देवीं कृतकृत्यां ददर्श सः ।। २८.३४ ।।
तां दृष्ट्वा देवकार्यं च सिद्धं मत्वा पितामहः ।
भविष्यं कार्यमुद्दिश्य ततो वचनमब्रवीत् ।। २८.३५ ।।
ब्रह्मोवाच ।
इयं देवी वरारोहा यातु शैलं हिमोद्भवम् ।
तत्र यूयं सुराः सर्वे गत्वा नन्दत माचिरम् ।। २८.३६ ।।
नवम्यां च सदा पूज्या इयं देवी समाधिना ।
वरदा सर्वलोकानां भविष्यति न संशयः ।। २८.३७ ।।
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः ।
नारी वा तस्य संपन्नं भविष्यति मनोगतम् ।। २८.३८ ।।
यश्च सायं तथा प्रातरिदं स्तोत्रं पठिष्यति ।
त्वयेरितं महादेव तस्य देव्या समं भवान् ।। २८.३९ ।।
वरदो देव सर्वासु आपत्स्वप्युद्धरस्व तम् ।
एवमुक्त्वा भवं ब्रह्मा पुनर्देवीं स चाब्रवीत् ।। २८.४० ।।
त्वया देवि महत्कार्यं कर्तव्यं चान्यदस्ति नः ।
भविष्यं महिषाख्यस्य असुरस्य विनाशनम् ।। २८.४१ ।।
एवमुक्त्वा ततो ब्रह्मा सर्वे देवाश्च पार्थिव ।
यथागतं ततो जग्मुर्द्देवीं स्थाप्य हिमे गिरौ ।
संस्थाप्य नन्दिता यस्मात् तस्मान्नन्दाऽभवत् तु सा ।। २८.४२ ।।
यश्चेदं श्रृणुयाज्जन्म देव्या यश्च स्वयं पठेत् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।। २८.४३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाविंशोऽध्यायः ।। २८ ।।