वाक्यपदीयम्/प्रथमः खण्डः

(वाक्यपदीयं/प्रथमोखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← वाक्यपदीयं वाक्यपदीयम्
प्रथमोखण्डः
भर्तृहरिः
द्वितीयोखण्डः →
  1. वाक्यपदीयं/प्रथमोखण्डः
  2. वाक्यपदीयं/द्वितीयोखण्डः
  3. वाक्यपदीयं/तृतीयोखण्डः


अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥

एकमेव यदाम्नातं भिन्नं शक्तिव्यपाश्रयात् ।
अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ १.२ ॥

अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः ।
जन्मादयो विकाराः षड्भावभेदस्य योनयः ॥ १.३ ॥

एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ १.४ ॥

प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक् ॥ १.५ ॥

भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥ १.६ ॥

स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः ।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ १.७ ॥

तस्यार्थवादरूपाणि निश्चित्य स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ॥ १.८ ॥

सत्या विसुद्धिस्तत्रोक्ता विद्यैवेकपदागमा ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ १.९ ॥

विधातुस्तस्य लोकानां अङ्गोपाङ्गनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ १.१० ॥

आसन्नं ब्रह्मणस्तस्य तपसां उत्तमं तपः ।
प्रथमं छन्दसां अङ्गं आहुर्व्याकरणं बुधाः ॥ १.११ ॥

प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयं आन्जससः ॥ १.१२ ॥

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणादृते ॥ १.१३ ॥

तद्द्वारं अपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानां अधिविद्यं प्रकासते ॥ १.१४ ॥

यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः ।
तथैव लोके विद्यानां एसा विद्या परायनम् ॥ १.१५ ॥

इदं आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानां अजिह्मा राजपद्धतिः ॥ १.१६ ॥

अत्रातीतविपर्यासः केवलां अनुपस्यति ।
छन्दस्यस्छन्दसां योनिं आत्मा छन्दोमयीं तनुम् ॥ १.१७ ॥

प्रत्यस्थमितभेदाया यद्वाचो रूपं उत्तमम् ।
यदस्मिन्नेव तमसि ज्योतिः सुद्धं विवर्तते ॥ १.१८ ॥

वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यं उपासते ॥ १.१९ ॥

यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ १.२० ॥

अथर्वणां अङ्गिरसां सांनां ऋग्यजुषस्य च ।
यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ १.२१ ॥

यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते ।
तद्व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥ १.२२ ॥

नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ १.२३ ॥

अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥ १.२४ ॥

कार्यकारणभावेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ १.२५ ॥

ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः ।
स्मृत्यर्थं अनुगम्यन्ते के चिदेव यथागमम् ॥ १.२६ ॥

शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥ १.२७ ॥

नित्यत्वे कृतकत्वे वा तेषां आदिर्न विद्यते ।
प्राणिनां इव सा चैषा व्यवस्थानित्यतोच्यते ॥ १.२८ ॥

नानर्थिकां इमां कश्चिद्व्यवस्थां कर्तुं अर्हति ।
तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.२९ ॥

न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणां अपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥ १.३० ॥

धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते ॥ १.३१ ॥

अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानां अनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १.३२ ॥

निर्ज्ञातशक्तेर्द्रव्यस्य तां तानर्थक्रियां प्रति ।
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ १.३३ ॥

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १.३४ ॥

परेषां असमाख्येयं अभ्यासादेव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ १.३५ ॥

प्रत्यक्षं अनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ १.३६ ॥

आविर्भूतप्रकाशानां अनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ १.३७ ॥

अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा ।
ये भावान्वचनं तेषां नानुमानेन बाधते ॥ १.३८ ॥

यो यस्य स्वं इव ज्ञानं दर्शनं नातिशङ्कते ।
स्थितं प्रत्यक्षपक्षे तं कथं अन्यो निवर्तयेत् ॥ १.३९ ॥

इदं पुण्यं इदं पापं इत्येतस्मिन्पदद्वये ।
आचण्डालमनुष्याणां अल्पं शास्त्रप्रयोजनम् ॥ १.४० ॥

चैतन्यं इव यश्चायं अविच्छेदेन वर्तते ।
आगमस्तं उपासीनो हेतुवादैर्न बाध्यते ॥ १.४१ ॥

हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ १.४२ ॥

तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.४३ ॥

द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानां अपरोऽर्थे प्रयुज्यते ॥ १.४४ ॥

अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः ।
शब्दस्तत्रार्थरूपात्मा संबन्धं उपगच्छति ॥ १.४५ ॥

आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः ।
बुद्धिभेदादभिन्नस्य भेदं एके प्रचक्षते ॥ १.४६ ॥

अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ १.४७ ॥

वितर्कितः पुरा बुद्ध्या क्व चिदर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ १.४८ ॥

नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः ।
अक्रमः क्रमरूपेण भेदवानिव जायते ॥ १.४९ ॥

प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिं इवान्वेति स धर्मः स्फोटनादयोः ॥ १.५० ॥

आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ १.५१ ॥

आण्डभावं इवापन्नो यः क्रतुः शब्दसंज्ञकः ।
वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ॥ १.५२ ॥

यथैकबुद्धिविषया मूर्तिराक्रियते पटे ।
मूर्त्यन्तरस्य त्रितयं एवं शब्देऽपि दृश्यते ॥ १.५३ ॥

यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते ।
व्यवसायो ग्रहीतॄणां एवं तेष्वेव जायते ॥ १.५४ ॥

अर्थोपसर्जनीभूतानभिधेयेषु केषु चित् ।
चरितार्थान्परार्थत्वान्न लोकः प्रतिपद्यते ॥ १.५५ ॥

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानां एते पृथगवस्थिते ॥ १.५६ ॥

विषयत्वं अनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानां अगृहीताः प्रकाशकाः ॥ १.५७ ॥

अतोऽनिर्ज्ञातरूपत्वात्किं आहेत्यभिधीयते ।
नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ॥ १.५८ ॥

भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।
भेदकारेषु हेतुत्वं अविरोधेन गच्छतः ॥ १.५९ ॥

वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ १.६० ॥

अग्निशब्दस्तथैवायं अग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति संबन्धं अग्निशब्दाभिधेयया ॥ १.६१ ॥

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥ १.६२ ॥

उच्चरन्परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते ।
तस्मात्तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ १.६३ ॥

सामान्यं आश्रितं यद्यदुपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥ १.६४ ॥

गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते ॥ १.६५ ॥

तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तसाप्युच्चारणे रूपं अन्यत्तस्माद्विविच्यते ॥ १.६६ ॥

प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका ।
षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ॥ १.६७ ॥

तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते ।
अस्येते व्यतिरेकश्च तदर्थादेव जायते ॥ १.६८ ॥

स्वं रूपं इति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते ।
जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥ १.६९ ॥

संज्ञिनीं व्यक्तिं इच्छन्ति सूत्रे ग्राह्यां अथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ १.७० ॥

कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः ।
कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः ॥ १.७१ ॥

पदभेदेऽपि वर्णानां एकत्वं न निवर्तते ।
वाक्येषु पदं एकं च भिन्नेष्वप्युपलभ्यते ॥ १.७२ ॥

न वर्णव्यतिरेकेण पदं अन्यच्च विद्यते ।
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन ॥ १.७३ ॥

पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानां अत्यन्तं प्रविभागो न कश्चन ॥ १.७४ ॥

भिन्नदर्शनं आश्रित्य व्यवहारोऽनुगम्यते ।
तत्र यन्मुख्यं एकेषां तत्रान्येषां विपर्ययः ॥ १.७५ ॥

स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ १.७६ ॥

स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १.७७ ॥

शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ १.७८ ॥

शब्दस्योर्ध्वं अभिव्यक्तेर्वृत्तिभेदं तु वैकृतः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥ १.७९ ॥

इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा ।
क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥ १.८० ॥

इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ १.८१ ॥

चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि ।
विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः ॥ १.८२ ॥

स्फोटरूपाविभागेन ध्वनेर्ग्रहणं इष्यते ।
कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ॥ १.८३ ॥

यथानुवाकः श्लोको वा सोढत्वं उपगच्छते ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ १.८४ ॥

प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपं अवधार्यते ॥ १.८५ ॥

नादैराहितबीजायां अन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ १.८६ ॥

असतश्चान्तराले याञ् छब्दानस्तीति मन्यते ।
प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥ १.८७ ॥

भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपाश्रयम् ॥ १.८८ ॥

  • ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते ।

नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते ॥ १.८९ * ॥

यथाद्यसंख्याग्रहणं उपायः प्रतिपत्तये ।
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥ १.९० ॥

प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये ।
तेषां अत्यन्तभेदेऽपि संकीर्णा इव शक्तयः ॥ १.९१ ॥

यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा ।
अन्यथाकृत्य विषयं अन्यथैवाध्यवस्यति ॥ १.९२ ॥

व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ १.९३ ॥

यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ १.९४ ॥

भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् ॥ १.९५ ॥

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश्चित्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥ १.९६ ॥

अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वं उपयाति प्रकाशवत् ॥ १.९७ ॥

न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता ।
आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते ॥ १.९८ ॥

देशादिभिश्च संबन्धो दृष्टः कायवतां अपि ।
देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ १.९९ ॥

ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादयोः ॥ १.१०० ॥

सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यं अवस्थितम् ॥ १.१०१ ॥

प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते ।
तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥ १.१०२ ॥

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ १.१०३ ॥

तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते ॥ १.१०४ ॥

यः संयोगविभागाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ १.१०५ ॥

अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस्तु शब्दसंतानः प्रचयापचयात्मकः ॥ १.१०६ ॥

दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ १.१०७ ॥

द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि ।
कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ॥ १.१०८ ॥

अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥ १.१०९ ॥

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः ॥ १.११० ॥

  • लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना ।

स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ १.१११ * ॥

  • तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः ।

संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः ॥ १.११२ * ॥

  • अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः ।

छायातपतमःशब्द- भावेन परिणामिनः ॥ १.११३ * ॥

  • स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।

अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ १.११४ * ॥

  • अथायं आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।

व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ १.११५ * ॥

  • स मनोभावं आपद्य तेजसा पाकं आगतः ।

वायुं आविशति प्राणं अथासौ समुदीर्यते ॥ १.११६ * ॥

  • अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ।

तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ॥ १.११७ * ॥

  • विभजन्स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः ।

प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ॥ १.११८ * ॥

  • आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया ।

मनः कायाग्निं आहन्ति स प्रेरयति मारुतम् ॥ १.११९ * ॥

अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते ।
व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते ॥ १.१२० ॥

तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥ १.१२१ ॥

शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ १.१२२ ॥

शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ १.१२३ ॥

(षड्गादिभेदः अ)
शब्दस्यपरिणामोऽयं इत्याम्नायविदो विदुः ।
छन्दोभ्य एव प्रथमं एतद्विश्वं प्रवर्तते ॥ १.१२४ ॥

विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम् ॥ १.१२५ ॥

साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ १.१२६ ॥

प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम् ।
शरीरभेदे विदुषां स्वां योनिं उपधावति ॥ १.१२७ ॥

यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः ।
तद्भावं अभिसंभूय विद्यायां प्रविलीयते ॥ १.१२८ ॥

इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥ १.१२९ ॥

आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानां अभिघातश्च न विना शब्दभावनाम् ॥ १.१३० ॥

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धं इव ज्ञानं सर्वं शब्देन भासते ॥ १.१३१ ॥

वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १.१३२ ॥

सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १.१३३ ॥

सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
तन्मात्रां अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ १.१३४ ॥

अर्थक्रियासु वाक्सर्वान्समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् ॥ १.१३५ ॥

  • भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा ।

आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ॥ १.१३६ * ॥

  • एकत्वं अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।

पृथक्प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ १.१३७ * ॥

  • षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् ।

ते मृत्युं अतिवर्तन्ते ये वै वाचं उपासते ॥ १.१३८ * ॥

प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १.१३९ ॥

  • प्रविभज्यात्मनात्मानं सृष्ट्वा भावान्पृथग्विधान् ।

सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ १.१४० * ॥

स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढतां एति तया ह्यर्थो विधीयते ॥ १.१४१ ॥

अत्यन्तं अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ १.१४२ ॥

अपि प्रयोक्तुरात्मानं शब्दं अन्तरवस्थितम् ।
प्राहुर्महान्तं ऋषभं येन सायुज्यं इष्यते ॥ १.१४३ ॥

तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतं अश्नुते ॥ १.१४४ ॥

  • प्राणवृत्तिं अतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः ।

क्रमसंहारयोगेन संहृत्यात्मानं आत्मनि ॥ १.१४५ * ॥

  • वाचः संस्कारं आधाय वाचं ज्ञाने निवेश्य च ।

विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम् ॥ १.१४६ * ॥

  • ज्योतिरान्तरं आसाद्य च्छिन्नग्रन्थिपरिग्रहः ।

कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन्प्रवर्तते ॥ १.१४७ * ॥

न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥ १.१४८ ॥

अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ १.१४९ ॥

ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।
धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् ॥ १.१५० ॥

वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलं नातितिष्ठति ॥ १.१५१ ॥

सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस्तर्केण प्रविभज्यते ॥ १.१५२ ॥

शब्दानां एव सा शक्तिस्तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः ॥ १.१५३ ॥

  • यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ।

पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥ १.१५४ * ॥

रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः ।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥ १.१५५ ॥

यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् ।
साधूनां साधुभिस्तस्माद्वाच्यं अभ्युदयार्थिनाम् ॥ १.१५६ ॥

सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुं आगमे ॥ १.१५७ ॥

साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानां इदं स्मृतिनिबन्धनम् ॥ १.१५८ ॥

वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।
अनेकतीर्थभेदायास्त्रय्या चाचः परं परम् ॥ १.१५९ ॥

  • गौरिव प्रक्षरत्येका रसं उत्तमशालिनी ।

दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ १.१६० * ॥

  • एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।

प्राणापानान्तरे नित्यं एका सर्वस्य तिष्ठति ॥ १.१६१ * ॥

  • अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते ।

जायते हि ततः प्राणो वाचं आप्याययन्पुनः ॥ १.१६२ * ॥

  • प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।

सर्वस्योच्छ्वासं आसाद्य न वाग्वदति कर्हि चित् ॥ १.१६३ * ॥

  • घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।

तयोरपि च घोषिण्या निर्घोषैव गरीयसी ॥ १.१६४ * ॥

  • स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।

वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ १.१६५ * ॥

  • केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।

प्राणवृत्तिं अतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ १.१६६ * ॥

  • अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।

स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ १.१६७ * ॥

  • पीयूषापूर्यमाणापि नित्यं आगन्तुभिर्मलैः ।

अन्त्या कलेव सोमस्य नात्यन्तं अभिधीयते ॥ १.१६८ * ॥

  • यस्यां दृष्टस्वरूपायां अधिकारो निवर्तते ।

पुरुषे षोडशकले तां आहुरमृतां कलाम् ॥ १.१६९ * ॥

  • प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः ।

वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते ॥ १.१७० * ॥

तद्विभागाविभागाभ्यां क्रियमाणां अवस्थितम् ।
स्वभावज्ञैस्तु भावानां दृश्यन्ते शब्दशक्तयः ॥ १.१७१ ॥

अनादिं अव्यवच्छिन्नां श्रुतिं आहुरकर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ १.१७२ ॥

अविभागाद्विवृत्तानां अभिख्या स्वप्नवच्छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ १.१७३ ॥

कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस्तेषां विशुद्धयः ॥ १.१७४ ॥

शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते ।
तं अपभ्रंशं इच्छन्ति विशिष्टार्थनिवेशिनम् ॥ १.१७५ ॥

अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम् ॥ १.१७६ ॥

ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यं उपगम्येव शब्दार्थस्य प्रकाशकाः ॥ १.१७७ ॥

न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ॥ १.१७८ ॥

अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ १.१७९ ॥

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ १.१८० ॥

पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु ।
प्रसिद्धिं आगता येन तेषां साधुरवाचकः ॥ १.१८१ ॥

दैवी वाग्व्यतिकीर्णेयं अशक्तैरभिधातृभिः ।
अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर्ययः ॥ १.१८२ ॥

उभयेषां अविच्छेदादन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥ १.१८३ ॥