← वाचस्पत्यम्/ख वाचस्पत्यम्/ग
तारानाथ भट्टाचार्य
वाचस्पत्यम्/घ →
पृष्ठ २४८२

गकारः व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं जिह्वामूलरू-

पकण्ठदेशः, आभ्यन्तरप्रयत्नः जिह्वामूलस्पर्शः, बाह्यप्रयत्नाः
संवारनादघोषाः अल्पप्राणश्च । मातृकान्यासेऽस्य दक्षिणम-
णिबन्धे न्यासः । अस्य ध्येयरूपदेवतादिकं कामधेनुतन्त्रे
उक्तं यथा “गकारं परमेशानि! पञ्चदेवात्मकं सदा ।
निर्गुणं त्रिगुणातीतं निरीहं निर्मलं सदा । पञ्चप्राणमयं
वर्णं सर्वशक्त्यात्मकं प्रिये! । अरुणादित्यसङ्काशं कुण्डलीं
प्रणमाम्यहम्” । हृदयस्थद्वादशदलकमलस्य कादिठान्तद्वाद-
शवर्णयुततया अस्य तन्मध्यगत्वम् । अस्य वाचकशब्दा वर्णा-
भिधाने उक्ता यथा “गो गौरी गौरवं गङ्गा गणेशो
गोकुलेश्वरः । शार्ङ्गी पञ्चात्मको गाथा गन्धर्वः सर्वगः स्मृतिः ।
सर्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः । विश्वात्मा
गौः पृथग्रूपा भणिबन्धस्त्रिलोचनः । गीतं सरस्वती
विद्या भोगिनी नकुलोधरा । तेजस्वती च हृदयं
ज्ञान जालन्घरो लयः” । काव्यादिरचनायामस्यासंयुक्त-
तया प्रथमविन्यासे लक्ष्मीः फलम् । “कः खोगोघश्च
लक्ष्मीम्” संयुक्तं चेह न स्यात् मुखभरणपटुर्वर्गवि-
न्यासयोमः । पद्यादौ गद्यवक्त्रे वचसि च सकले प्रा-
कृतादौ समोऽयमिति” वृ० र० टी० सर्वशेषतयोक्तेः ।

न० गै--क । १ गीते २ गणेशे ३ गन्धर्वे पु० एकाक्षरको० ४ गुरु-

वर्णे “म्यरस्तजभ्रगैर्लान्तैरेभिर्दशभिरक्षरैः” वृत्तर० ।
“गुरुरेको गकारस्तु लकारो लघुरेककः” छन्दोम० ।
“यरामन्तगलौ सतौ” “गौ स्त्री” वृत्तर० । “सुप्युपपदे गमे
र्ड । हृद्ग हृदयगामिनि कण्ठग कण्ठगामिनि इत्या-
द्यर्थे त्रि० “हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः”
मनुः । सृप्युपपदे गै--क । सामग सामगातरि छन्दोग
छन्देगातरि त्रि० ।

गकार पु० ग + स्वरूपे कार । गस्वरूपे वर्णे “गुरुरेको

गकास्तु लकारो लघुरेककः” छन्दो० ।

गगन न० गम--युच् गोऽन्तादेशः । णत्वं प्रामादिकम्

“फाल्गुने गगने फेने णत्वमिच्छन्ति वर्वराः” इत्युक्तेः ।
१ आकाशे २ शून्याङ्को । ३ लग्नापेक्षया दशमराशौ तस्य
उदितराश्यपेक्षया स्वस्वस्तिकस्थितत्वात् तथात्वं तथा
हि पूर्वस्यामेव राशीनामुदयेन ततः मप्तमराश्युदये तस्य
अस्तम् दशमराशिस्तु तदा स्वस्वस्तिकस्थितः इति तस्य
मूर्द्धस्थाकाशस्थितत्वात् तथात्वम् । तद्गुणादेः आकाश-
शब्दे ५९२ पृ० विवृतिः । सुश्रुते देहस्य पाञ्चभौति-
कत्वाङ्गीकारेण “आन्तरीक्षास्तु शब्दः शब्देन्द्रियं
सर्वच्छिद्रसमूहो विविक्तता चेति” देहस्थाकाशधर्म्मा उक्ताः
“पृथिव्यप्तेजो वाय्वाकाशानां समुदायात् द्रव्याभिनि-
र्वृत्तिः” इत्युपक्रम्य द्रव्यगता गगनजधर्म्मास्तत्रोक्ता यथा
“श्लक्ष्णसूक्ष्ममृदुव्यवायिविविक्तमव्यक्तरसं शब्दबहुलमा-
काशीयम् तन्मार्द्दवशौषिर्य्यलाघवकरम्” । तथाकाशगुण-
भूमिष्ठंसंशमनम्” इत्युपक्रम्य भूतविशेषसाचिव्येन घातु-
विशेषसंशमनकारित्वं तस्य दर्शितं सुश्रुतेन यथा “खते
जोऽनिलजैः श्मेष्मा शममेति शरीरिणाम् । वियत्पब-
नजाताभ्यां वृद्धिमाप्नोति मारुतः” “तस्याकाशगुण-
भूयिष्ठं मृदुत्वम्” इति च । तस्य धर्म्मविशेषाः भा०
शा० उक्ता यथा “आकाशस्य गुणः शब्दोव्यापित्वम्
छिद्रमेव च । अनाश्रयमनालम्बमव्यक्तमविकारिता ।
अप्रतीघातिता चैव भूतत्वं विकृतानि च” । “गगबं
गणाधिपतिमूर्त्तिरिति” माघः । “अवोचदेनं गगनस्पृशा
(स्वरेण) रघुः । “प्रेक्षिष्यन्ते गगनगतयो नूनमाव र्ज्य-
दृष्टीः” मेघ० ।

गगनगति पु० गगने गतिर्यस्य । १ देवे २ सूय्यांदिग्रहे

३ आकाशगामिनि त्रि० । ७ त० । ४ आकाशे गतौ स्त्री ।

गगनचर त्रि० गगने चरति चर--टच् । आकाशगामिनि

देवसूर्य्यादिग्रहविहगादौ । तत्र विहगे “निसूदयन्
बहुबिधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरः (गरुड़ः)
तदा” भा० आ० २८ अ० ।

गगनध्वज पु० गगनस्य ध्वज इव । १ मेघे, हारा० २ सूर्य्ये हेमच०

गगनप्रिय पु० दैत्थभेदे । “प्रह्णादोऽश्वशिराः कुम्भः संह्लादो

गगनप्रियः” हरि० ४२ अ० ।

गगनमूर्द्धन् पु० दानवभेदे । “तथा गगनमूर्द्धा च वेगवान्

केतुमांश्च यः” भा० आ० ६५ अ० । दनुवंशकथने । “तथा
गगनमूर्द्धा च कुम्भनाभो महासुरः” हरि० ३ अ० ।

गगनसद् त्रि० गगने सीदति गच्छति सद--क्विप् ।

गगनगामिनि देवग्रहविहगादौ । “बालत्वं वृद्धता वा यदि
गगनसदां जन्मकाले नराणाम् प्रज्ञामान्द्यम्” जातका-
ङ्कारः । “विस्मेरान् गगनसदः करोत्यमुष्मिन्” माघः ।
गगनविहारिन्प्रभृतयोऽप्यत्र स्त्रियां ङीप् ।

गगनसिन्ध, स्त्री ६ त० । मन्दाकिन्याम् “गगनसिन्धुफेन-

पटलजालान्तरस्य” काद० । गगननद्यादयोऽप्यत्र ।
पृष्ठ २४८३

गगनाङ्गना स्त्री गगनगताङ्गना । अप्सरःसु ।

गगनाध्वग पु० गगनाध्वना आकाशमार्गेण गच्छति

गम--ड । सूर्य्ये हेम० ।

गगनाम्बु न० ६ त० । दिव्योदके तड़ागादावपतिते पात्रादौ

धृते मेघनिःसृतजले । “गगनाम्बु त्रिदोषघ्नं गृहीतं यत्
सुभाजने । बल्यं रसायनं मेध्यं पात्रापेक्षि ततःपरम्
रक्षोघ्नं शीतलं ह्वादि जड़दाहविषापहम्” सुश्रुतः ।

गगनेचर पु० गगने चरति चर--ट अलुक् स० । १ देवे

२ सूर्थ्यादिग्रहे ३ राशिचक्रे च । ४ विहगादौ त्रि०
स्त्रियां टाप् । “तस्मिंस्तु कथिते माता कारणे गगने-
चरः” भा० आ० २७ अ०

गगनोल्मुक पु० गनने उल्मुक इव । मङ्गलग्रहे हारा० ।

तस्य गगनगत्वात् लोहिताङ्गत्वाच्च तथात्वम् ।

गग्घ हासे भ्वा० पर० अक० सेट् । गग्घति अगग्षीत् जगग्ध ।

गग्नु स्त्री वाचि निषण्टौ “वग्नु इत्यत्र पाठान्तरम् ।

गङ्गा स्त्री गम--गन् । विष्णुपादं नदीभेदे २ हिमवत्

कन्याभेदे च । “इमं मे गङ्गे! यमुने! सरखति ।
शुतुद्रि! स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे!
वितस्तयार्जोकीये शृणुह्यासुषोमया” ऋ० १०, ७५, ५ ।
इमामृचमधिकृत्य दशप्रधाननदीनां निरुक्तिर्यास्केन ९,
२६ दर्शितम् यथा “अथककपदनिरुक्तम् गङ्गा १
गमगात् । यमुना २ प्रयुवती गच्छतीति वा विप्रयुतं गच्छ-
तीति वा । सरस्वती ३ सर इत्युदकनाम सर्त्तेः तद्वती ।
शुतुद्री ४ शुद्राविणी क्षिप्रद्राविणी आशुतुन्नेव द्रवतीति वा ।
इरावतीं परुष्णी ५ त्याहुः पर्ववती भास्वती कुटिलगामिनी ।
असिक्नी ६ अशुक्लाऽसिता सितमिति वर्णनाम तत्प्रतिषेधो-
ऽसितम् । मरुद्वृधा ७ सर्वा नद्यः, मरुत एना बर्द्धयन्ति ।
वितस्ता ८ विदग्धा विवृद्धा महाकूला । आर्जीकीया ९
विपाडित्याहुः ऋजुकप्रभवा वा ऋजुगामिनी । विपाट् विपा-
टनाद्वा विपाशनाद्वा विप्रापणात् वा पाशा अस्यां व्यपा-
स्यन्त वसिष्ठस्य मुमूर्षतस्तस्माद्विपाडुच्यते पूर्वमासीदुरु-
ञ्जिरा । सुषोमा १० सिन्धुर्यदेनामभिषुवन्ति सिन्धुः स्वन्द-
नात्” । “अष्टाबिंशतिं” (हयान्) भरतो दौष्मन्तिर्यमना-
मगु । गङ्गायां वृत्रघ्नेऽबघ्नात् पञ्चपञ्चाशतं हयान्” शत०
ब्रा० १३, ५, ४, ११ । “न वै गावोमन्दीरस्य गङ्गाया उदकं
षपुः” कात्या० श्रौ० १३, ३, २० । “तेन चेदविवादस्ते मा गङ्गां
मा कुरून् गमः” मनुः । “गङ्गायाहिमवत्कन्यारूपत्वे-
ऽपि नदीरूपतया पृथिव्यवतरणकथा रामा० आदि० यथा
“भगीरथस्तु राजर्मिर्धार्म्मिको रघुनन्दनः! । अनपत्थो
महाराजः प्रजाकामः स च प्रजाः । सन्त्रिष्वाघाय
तद्राज्यं गङ्गावतरणे रतः । तपो दीर्षं समातिष्ठद्गो-
कर्णे रघुनन्दन! । ऊर्द्ध्ववाहुः पञ्चतपा मासाहारो
जितेन्द्रियः! । तस्य वर्षहस्राणि घोरे तपसि तिष्ठतः ।
अतीतानि महावाहो! तस्य राज्ञो महात्मनः । सुप्रीतो
भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः । ततः सुरगणैः
सार्द्धमुपागम्य पितामहः । भगीरथं महात्मानं
तपसालमथाब्रवीत् । भगीरथ! महाराज! प्रीतस्तेऽहं
जनाधिप! । तपसा च सुतप्तेन, वरं वरय सुव्रत! ।
गमुवाच महातेजाः सर्व्वलोकपितामहम् । भगीरथो
महाबाहुः कृताञ्जलिपुटः स्थितः । यदि मे भगवान्
प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे
मत्तः सलिममाप्नुयुः । गङ्गायाः सलिलक्लिन्ने भस्म-
न्येषां महात्मनाम् । खर्गं गच्छेयुरत्यन्तं सर्व्वे च
प्रपितामहाः । देव! याचे ह सन्तत्यै गावसीदेत् कुलञ्च
नः । इक्ष्वाकूणां कुले देव! एष मेऽस्तु वरः परः ।
उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच
शुभां वाणीं मधुरां मधुराक्षराम् । मनोरथो महानेष
भगीरथ! महारथ! । एवम्भवतु भद्रन्ते इक्ष्वाकुकुलव-
र्द्धन! । इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता ।
तां वै धारयितुं राजन्! हरस्तत्र नियुज्यताम् ।
गङ्गायाः पतनं राजन्! पृथिवी न सहिष्यते । तां
वै धारयितुं राजन्नान्यं पश्यामि शूलिनः । तमेव-
मुक्त्वा राजानं गङ्गां चामाष्य लोककृत् । जगाम
त्रिदिवं देवैः सर्व्वैः सह मरुद्गणै ।” ४२ स० ।
“देवदेवे गते तस्मिन् सोऽङ्गुष्टाग्रनिपीड़िताम् । कृत्वा
वसुमतीं राम! वत्सरं समुपासत । अवसंवत्सरे पूर्णे सर्व्व-
लोकनमस्कृतः । उमापतिः पशुपतीराजानमिदमब्रवी-
त् । प्रीतस्तेऽहं नरश्रेष्ठ! करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजगुतामहम् । ततो हैमवती
ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूप कृत्वा
वेगञ्च दुःसहम् । आकाशादपतद्राम! शिवे शिवशिर-
स्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ।
विशाम्यहं हि पातालं स्रोतसागृह्य शङ्करम् । तस्या-
वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः । तिरोभावयितुं
वुद्धिञ्चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या
पुण्ये रुद्रस्य मूर्द्धनि । हिमवत्प्रतिमे राम! जटाम-
पृष्ठ २४८४
ण्डलगह्वरे । सा कथञ्चिन्महा गन्तुं नाशक्नोद्थत्नमा-
स्थिता । नैव सा निर्गमं लेभे जटामण्डलमध्यतः ।
तत्रैवाबभ्रमद्देवी संवत्सरगणान् बहून् । तामपश्यन्
पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं
रधुनन्दन! । विससर्ज ततो गङ्गां हरो विन्दुसरः
प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे
ह्वादिनी पावनी चैव नलिनी च तथैव च । तिस्रः
प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः । सवङ्क्षु-
श्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं
जग्मुः प्रतीचीन्तु शुभोदकाः । सप्तमी चान्वगात्तासां
भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यस्यन्दन-
मास्थितः । प्रायादग्रे महातेजा गङ्गा तं चाप्यनु-
व्रजत् ।” ४३ स० ।
“स गत्वा सागरं राजा गङ्गयानुगतस्तदा । प्रविवेश
तलं भूमेर्यत्र ते भस्मसात्कृताः । भस्मन्यथाप्लुते राम!
गङ्गायाः सलिलेन वै । सर्व्वलोकप्रभुर्ब्रह्मा राजानमि-
दमब्रवीत् । तारिता नरशाद्र्दूल! दिवं याताश्च
देववत् । षष्टिः पुत्राः सहस्राणि सगरस्य महात्मनः ।
सागरस्य जलं लोके याबत् स्थास्यति पार्थिव! । सगरस्या-
त्मजाः सर्व्वे दिवि स्थास्यन्ति देववत् । इयञ्च दुहिता
ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ
लोके स्थास्यति विश्रुता । गङ्गा त्रिपथना नाम दिव्या
भागीरथीति च । त्रीन् पथो भावथन्तीति तस्मात्त्रि
पथगा स्मृता ।” ४४ स० ।
पुराणसर्वस्वे तु तस्या अवतरणप्रकारोऽन्यथा उक्तः
कल्पभेदादविरोधः । यथा
महाभारते “महापुण्यां गगनतः पतन्तीं वै
महेश्वरः! दधार शिरसा गङ्गां तामेव दिवि सेवते” ।
ब्रह्माण्डे “महादेवस्य या शम्भोरुत्तमाङ्गोत्तमाच्छुमात् ।
विनिर्गता महानन्दा दक्षिणेक्षणतः शुभा” स्कान्दे-
“त्रिविक्रमपदोद्भिन्नब्रह्माण्डशुषिरोद्भवा । परा विष्णु-
पदीगङ्गा समुद्रापूर्त्तिकारिणी ।” वैष्णवे “ततः प्रभ-
बति ब्रह्मन्! सर्वपापहरा सरित् । गङ्गा देवाङ्गनाङ्गाना
मनुलेपनपिञ्जरा । विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दु
मण्डलम् । समन्ताद्ब्रह्मणः पुर्य्यागङ्गा पतति वै दिवः ।
सा तत्र पतिता दिक्षु चतुद्धो प्रत्यपद्यत । सीता चालक-
नन्दा च वङ्क्षुर्भद्रा च वै क्रमात् ।” पाद्मे “क्षितौ
तारयत मत्यान्नागांस्तारयतेऽप्यषः । ढिवि तारयते देवां
स्तेन त्रिपथगा स्मृता ।” भविष्यं “महेश्वरस्य या
शम्भोर्मूर्त्तिरेषा सनातनी । त्रैलक्यपावनार्थाय दयया-
धरणीङ्गता ।” तत्स्वभावप्रकरणं व्रह्माण्डे “पापिष्ठानां
पापहन्त्री स्वर्गमोक्षाप्तिहेतुका । स्वभाव एष गङ्गायाः
शैत्यं शीतरुचो यथा” भविष्ये “पापखण्डनशीला
हि सद्योगङ्गा स्वभावतः । उपपातकराशीनां सा हि
हन्त्री यतः स्मृता” स्कान्दमात्स्ययोः “क्रोधलोभैक
वृत्तीनां विपरीतक्रियावताम् । कामिनाञ्च तथान्यत्र
तपोयज्ञादि निष्फलम् । गङ्गायान्तु कृतं सर्वं
सफलं स्यान्न संशयः । परब्रह्मस्वरूपाया गङ्गायास्तु
स्वभावतः” । सर्वदेवादिमयप्रकरणम् भविष्ये “शिव-
वाक्यं “त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
पर्वतादीनि रम्याणि पुण्यक्षेत्राणि यानि च । धर्माश्च
सर्वदेवाश्च सर्वयज्ञतपांसि च । अहं ब्रह्मा च विष्णुश्च
सर्वशक्तिसमन्वितः । अष्टाविंशतिकोट्यस्तु देवता व्याप्य
वै सदा । गङ्गायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः ।
तिस्रः कोट्यर्द्धकोटी च तीर्थानां वायुरब्रवीत् । सर्वदा
कलिकाले च गङ्गायां नात्र संशयः” भविष्ये “सर्वदेव-
मयी गङ्गा सर्ववेदस्वरूपिणी” भगवद्गीतायां “स्रोत-
सामस्मि जाह्नवीति” अथ तस्या विशिष्टताप्रकरणम् “देवानान्तु
महादेवो यथा श्रेष्ठतमः स्मृतः । सर्वेषामेव तीर्थान ।
तथा गङ्गा विशिष्यते” महाभारते “सर्वतीर्थमर्या गङ्गा
सर्वधर्ममयो मनुः । सर्वशास्त्रमयी गीता सर्वदेवमयो-
हरिः” स्कान्दे “भूतेश्वरादिह परोऽस्ति न पूजनीयो
नैवाश्वमेधसदृशः क्रतुरस्ति लोके । गङ्गासमं त्रिभुवने
न हि तीर्थमस्ति नान्यद्व्रतं च शिवरात्रिसम तथास्ति”
महाभारते “न गङ्गासदृशं तीर्थं न देवः केशवात् परः ।
ब्राह्मणेभ्यः परं नास्तीयेवमाह पितामहः” ब्रह्माण्डे
“कलौ तु सर्वतीर्थानि स्यमहात्म्यप्रभावतः । गङ्गामभि-
मुखं यान्ति सा तु देवी न कुत्रचित्” नारदीये
“कोटिष्वष्टासु दशसु तीर्थानां यत् फलं भवेद् । तत्सन-
स्तमिहैकत्र गङ्गायां लभते नरः” भविष्ये “अभिभूति
प्रयाणेन भक्तिग्राह्या महेश्वरी । भावानुरूपफलदा
गङ्गा सर्वजगद्धिता” ब्रह्माण्डे “प्रभासे गोसहस्रेण
राहुग्रस्ते दिवाकरे । यत्फलं पाण्डवश्रेष्ठ! गङ्गायां
तद्दिने दिने । महापुण्या महावेगा सद्यः शुद्ध्विकरी
परा । महापुण्यप्रदा सद्यः स्वर्गमोक्षप्रदैव सा” दानधर्मे
“स्वायम्भुवं यथा स्थानं सर्बेषामुत्तमं स्मृतम् । तीर्थानां
पृष्ठ २४८५
सरितां श्वेष्ठा तथा गङ्गा इहोच्यते” मात्स्ये “तीर्थानां
परमं तीर्थं नदीनामुत्तमा नदी । मोक्षदा मर्वभूतानां
मह्यं प्राह दिवामणिः” भविष्ये “ध्यानं कृते
मोक्षहेतुस्त्रेतायां तच्च वै तपः । द्वापरे यज्ञमेवाहुः
कङ्गौ षङ्गैव केवलम् । चिन्तामणिगणाच्चापि गङ्गाया-
स्तोयविन्दवः । विशिष्टा यत् प्रयच्छन्ति भक्तेभ्यश्चिन्तितं
फलम्” शैवे “नास्ति गङ्गासमं तीर्थं नास्ति वेद
समा श्रुतिः । नास्ति मृत्युसमः शास्ता नास्ति भूति
समं तपः” कौर्ममात्स्ययोः “कृते च सर्वतीर्थानि त्रेतायां
पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव
केवलम्” दानधर्मे “ते देशास्ते जनपदास्ते शैलास्तेऽपि
चाश्चमाः । येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा”
स्मरणप्रकरणम् हरिवंशे “दिव्या त्रिधारा दृष्टा यैः
घुण्या त्रिपथगा नदी । स्मरणादेव सर्वेषामहंसां या
विभेदिनी” ब्रह्माण्डे “मनसा संस्मरेद्यस्तु गङ्गां
दूरस्थितो नरः । चान्द्रायणसहस्रन्तु लभते नात्र संशयः”
भविष्ये “स्मरणादेव गङ्गायाः पापसंघातपिञ्जरम् ।
भेदं सहस्रधा याति गिरिर्वज्रहतो यथा” ब्रह्माण्डे
“यत्र तत्र स्थितोवापि मरणे समुपस्थिते । “भक्त्या
गङ्गां स्मरन् याति नरः शिवपुरं परम्” भविष्ये
“गच्छन् तिष्ठन् स्वपन् ध्यावन् जाग्रद्भुञ्जन् वसन् वदन् ।
यः स्मरेत् सततं गङ्गां स च मुच्येत संकटात्” कीर्त्तन
प्रकरणम् वैष्णवे “गङ्गा गङ्गेति यैर्नाम योजनानां
शतैरपि । स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जि-
तम्” । “गङ्गा गङ्गेति यो व्रूयात् योजनानां
शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति”
यात्राप्रकरणम् ब्रह्माण्डे “येषां बुद्धिं शुभां देवाः
प्रयच्छन्ति महात्मनाम् । तेऽपि गच्छन्ति नियता गङ्गा-
अभिगतां सुरैः” तत्रैव “स्नानञ्च भक्त्या गङ्गायां कर्त्तु-
कामस्य गच्छतः । पदेपदेऽश्वमेधस्य फलं प्राप्नोति
मानवः” । भविष्ये “वृथा कुलं वृथा विद्या वृथा यज्ञा
वृथा तपः । वृथा दानानि तस्येह कलौ गङ्गां न याति
यः” । वाराहव्रह्माण्डयोः “अर्घ्यादिकं गृहीत्वा तु
सेन्द्रा देवाः समासते । आगच्छन्ति कदा मर्त्यागङ्गामभि-
गता नराः” । भविष्ये “अनुषङ्गेण सङ्गेन वाणिज्ये-
नापि सेवया । कामासक्तोऽपि च नरो गङ्गां प्राप्य दिवं
व्रजेत् । दानधर्मे “गङ्गाङ्गता ये त्रिदिवं गतास्ते”
अथ क्षेत्रप्रकरणम् “सार्द्धहस्तशतं यावत् गर्भतस्तीर-
मुच्यते । न मन्त्रो न विधिः कालो न मृदो न च
गोमयम्” । अत्र ऋषयः पठन्ति “अत्र न पतिगृह्णीयात्
प्राणैः कण्ठगतैरपि” । स्कान्दे “तीराद्गव्यूतिमात्रन्तु
परितः क्षेत्रमुच्यते । अत्र दानं जपोहोमो गङ्गायां नात्र-
संशयः” । दानधर्मे “भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते-
जलम् । तावद्गर्भं विजानीयात तदूर्द्धं तीरमुच्यते”
ब्रह्माण्डे “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । अत्र-
नारायणः स्वामी नान्यः स्वामी कदाचन” । स्पर्शादि-
प्रकरणम् वैष्णवे “श्रुताभिलषिता दृष्टा स्पृष्टा गीताऽ-
वगाहिता । या पावयति भूतानि कीर्त्तिता सा दिनेदिने”
गतिप्रकरणम् भविष्ये “परदारपरद्रव्यवाञ्छा द्रोहः
परस्य च । गतिमन्विष्यमाणस्य गङ्गेव परमा गतिः ।
प्लवनप्रकरणम्” महाभारते “गङ्गोर्मिभिरथोदिग्धः
पुरुषः पवनो यथा । स्पृशते सोऽस्य पाप्मानं सद्य
एवापकर्षति” दर्शनप्रकरणम् दानघर्मे । “जात्यन्धै-
रिह तुल्यास्ते स्युर्वै प्रङ्गुभिरेव वा । समर्था ये न
पश्यन्ति गङ्गां पुण्यजलां शुभाम्” ब्रह्माण्डे “ज्ञानमै-
श्वर्य्यमायुश्च प्रतिष्ठा सर्वमान्यता । शुभानामाश्रयत्वञ्च
गङ्गादर्शनजं फलम्” अथ नमस्कारप्रकरणम् भवैष्ये
“सर्वतीर्थमयीं गङ्गां परमात्मस्वरूपिणीम् । त्रैलो-
क्यपावनार्थाय गाङ्गतां प्रणमेत् सदा” । स्पर्शनपकरणम्
ब्रह्माण्डे “सुभक्त्या हि महापापी गङ्गां स्पृष्ट्वा शुचि-
र्भवेत् अनिच्छयापि संस्पृष्टोदहत्येव हि पावकः”
नारदीये “तथेह गङ्गां संस्पृश्य ब्रह्मरूपां सुपुण्यदाम् ।
शुद्धा भवन्तीह सर्वे सद्य एव न संशयः” वाराहे
“ब्रह्महा गुरुहा गोघ्नः स्पृष्टो वा सर्वपातकैः । तस्या-
स्तोयं नरः स्पृष्ट्वा सर्वपापैः प्रमुच्यते” । अथावगाहन-
प्रकरणम् वनपर्वणि “यद्यकार्य्यशतं कृत्वा कृतं गङ्गा-
वगाहनम् । सर्वं दहति गङ्गाम्भस्तूलराशिमिवानलः”
स्नानप्रकरणम् वैष्णवे “स्नातस्य सलिले यस्याः सद्यः
पापं प्रणश्यति । अखर्वपुण्यप्राप्तिश्च सदा मैत्रेय! जायते”
भविष्ये “शक्तस्य पण्डितस्यापि गुणिनः सत्यशालिनः ।
गङ्गास्नानविहोनस्य तस्य जन्म निरर्थकम्” तत्रैव “पितरो
योगिनश्चैव गाथां गायन्ति सादराः । अपि नः स्वकुले
कश्चित् गङ्गास्नायी भविष्यति । देवेभ्यश्च पितृभ्यश्च
दास्यते सलिलाञ्जलिम् । गङ्गास्नानरतं मर्त्यं दृष्ट्वैव
यमकिङ्कराः । दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ।
यमो भीतस्त तं दृष्ट्वा प्रणिपत्य प्रपूज्य च । न शक्नोति
पृष्ठ २४८६
तथा स्थातुं तस्याग्रे पुण्यकर्मणः । मेरुमन्दरमात्रोऽपि
राशिः पापस्य कर्म्मणः । गङ्गास्नानेन दग्धः स्यात्तूल-
राशिरिवानलैः” ब्रह्माण्डे “स्पृष्ट्वा स्वर्गमवाप्नोति
पीत्वा ज्ञानमवाप्नुयात् । गङ्गास्नाने तु भक्त्या वै प्राप्तोति
परमं पदम्” ब्रह्मवैवर्त्ते “गङ्गायां मौसलं स्नानं
महापातकनाशनम् । अज्ञानात् स्वर्गसंप्राप्तिर्ज्ञानान्मुक्तिर्न
संशयः” । पुण्यकालविशेषस्नानप्रकरणम् भविष्ये “द्वादश्यां
श्रवणर्क्षेण अष्टम्यां पुष्ययोगतः । आर्द्रायाञ्च
चतुर्दश्यां गङ्गास्नानं विशेषतः । वैशाखे पूर्णिमा या स्या-
न्माघे वै कार्त्तिके तथा । तथा माघी त्वमावास्या गङ्गा-
स्नाने सुदुर्लभा । कृष्णाष्टम्यां सहस्रन्तु शतं स्यात्
सर्वपर्वसु । अमावास्यादिने चैव सहस्रन्तु दिनक्षये ।
चन्द्रसूर्य्यग्रहे लक्षं व्यतीपाते त्वनन्तकम्” ब्राह्मे
“चन्द्रसूर्य्यग्रहे चैव योऽवगाहति जाह्नवीम् । स स्नातः
सर्वतीर्थेषु किमर्थमटते महीम्” स्मृतिः “इन्दोर्लक्षगुणं
प्रोक्तं रवेर्दशगुणं तथा । गङ्गातोये तु संप्राप्ते इन्दोः
कोटीरवेर्दश” (नन्दामहाज्येष्ठीवारुणीदशहरार्द्धोदय-
स्नानफलं तत्तच्छव्दे दृश्यम्) । मृद्धारणप्रकरणम्
दानधर्मव्रह्माण्डाग्नेयेषु ।
“जाह्नवीतीरसंभूतां मृदं मूर्द्भा विभर्त्तियः । विभर्त्ति रूपं
सोऽर्कस्य तमोनाशाय केवलम्” तर्पणप्रकरणम् ब्रह्मा-
ण्डाग्नेयदानधर्मेषु “य इच्छेत् सफलं जन्म जीवनं
श्रुतमेव च । सपितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा”
अथ दानप्रकरणम् भविष्ये “वासो हिरण्यरत्नानि पत्र-
पुष्पफलानि च । अन्नदानादिकञ्चापि आत्मनो
यदभीप्सितम् । तत्तु भक्त्या तु गङ्गायां यः प्रयच्छति
मानवः । तत्तत्सुखमनन्तञ्च सम्प्राप्य चेह जन्मनि ।
प्रेत्थ चाप्नोति निर्वाणं परमं यन्निरञ्जनम् । यज्ञोदानं
तपो ज्ञान श्राद्धञ्च सुरपूजनम् । गङ्गायान्तु कृतं सर्वं
कोटिकोटिगुणं भवेत्” व्रतप्रकरणम् ब्रह्माण्डे “शाखि-
तण्डलप्रस्थेन द्विप्रस्थपयसा तथा । पायसं पाचयित्वा
तु मधुखण्डं घृतं तथा । प्रत्येकं पलमात्रन्तु तत्र
निक्षिप्य भक्तितः । तत् पायसमपूपञ्च लड्डुकान् यावका-
नपि । तथा गुञ्जार्द्धमात्रन्तु सुवर्णं रूप्यमेव च । चन्द-
नागुरुकर्पूरकुङ्कुमानि च गुग्गुलुम् । विल्वपत्राणि
दूर्वाश्च रोचनां सितसर्षपम् । नीलोत्पलस्य पत्राणि
पत्राभावे फलानि च । यथा शक्त्या महाभक्त्या
नङ्गायां यो विनिक्षिपेत् । मासि मासि पौर्णमास्यां
दर्श वा प्रहरद्वये । श्रद्धयानेन मन्त्रेण यावत् संवत्सरं
तथा । (ॐ गङ्गायै नारायण्य ते नमो नमः) । इति
मन्त्रेण सततं शतमष्टोत्तरं जपेत् । गङ्गाजलान्तर्भूत्वा
तु तन्मनास्त्यक्तसंशयः । हविष्याशी मिताहारी
यमी तेषु दिनेषु च । संवत्सरान्ते तस्यैषा गङ्गा दिव्य
वपुर्धरा । दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपना ।
चारुरूपधरा देवी दिव्यरत्नविभूषिता । प्रत्यक्षरूपा
पुरतस्तिष्ठत्येव वरप्रदा । एवं प्रत्यक्षतः साक्षात् गङ्गां
दिव्यवपुर्धराम् । दृष्ट्वा स्वचक्षुषा मर्त्यो वरदानससुद्य-
ताम् । यान् यान् कामयते कामांस्तांस्तान् सर्वानवाप्नु-
यात् । निष्कामस्तु परं मोक्षं लभते नात्र संशयः”
श्राद्धप्रकरणम् भविष्ये “गयाश्राद्धं कृतं तेन उत्सृ-
ष्टश्च वृषस्तथा । येन गङ्गाम्भसा सिक्ते तीरे श्राद्धमका-
रि च । पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम् ।
गुड़सर्पिःसमायुक्तं गङ्गाम्भसि विनिक्षिपेत् । तृप्ताः
पिबन्ति पितरस्तस्य वर्षशतत्रयम्” देवीपुराणे “अकाले-
ऽप्यथ वा काले तीरे श्राद्धं तथा नरैः । प्राप्तैरेव सदा
कार्य्यं कर्त्तव्यं पितृतर्पणम्” अथ पिण्डप्रकरणम्
देवीपुराणे “सकृद्गङ्गाभिगमनं कृत्वा पिण्डं ददाति
यः । तारिताः पितरस्तेन भवाम्भोधेस्तिलोदकैः ।”
तत्रैव “गङ्गायाञ्च गयायाञ्च पिण्डदानं समं स्मृतम् ।
विशेषतः कलियुगे गङ्गापिण्डं प्रशस्यते । गङ्गायां
पिण्डदानेन पितरस्तु तिलोदकैः । नरकस्था दिवं
यान्ति स्वर्गस्था मोक्षमाप्नुयुः । माहेन्द्रे विरजे चैव
गयायां जाह्नवीतटे । अत्र पिण्डप्रदो याति ब्रह्म-
लोकमनामयम्” जलप्रकरणम् ब्राह्मे “योऽसौ निरञ्जनो
देवश्चित्स्वरूपी जनार्द्दनः । स एव द्रवरूपेण गङ्गाम्भो
नात्र संशयः” । लैङ्गे “ब्रह्महा गुरुहा गोघ्नस्तेयी च
गुरुतल्पगः । नङ्गाम्भसा च पूयन्ते नात्र कार्य्या विचा-
रणा” । ब्राह्मे “तिष्ठद्युगसहस्रन्तु पादेनैकेन यः पुमान् ।
मासमेकन्तु गङ्गाम्भः सेवते स विशिष्यते । मेरोः
समुद्रस्य च रत्नरागेः संख्योपलानामुदकस्य वाचा । शक्यं
वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमाणं तथैव”
तोयदानप्रकरणम् भविष्ये “अन्नदानैश्च गोदानैश्च
स्वर्णदानादिमिस्तथा । रथाश्वगजदानैश्च यत्फलं
परिकीर्त्तितम् । ततः शतगुणं गङ्गातोयदानादवाप्नुयात्”
महाभारते “चान्द्रायणसहस्रेण यश्चरेत् कायशोधनम् ।
यः पिवेद्वै यथेष्टञ्च गङ्गाम्भः सविशिष्यते गङ्गा-
पृष्ठ २४८७
तीरे वसेन्नित्यं गङ्गातोयं पिवेत् सदा । दीक्षितः सर्व
यज्ञेषु सोमपानं दिने दिने । गङ्गातोयाभिसंसिक्तां
भिक्षामश्राति यो नरः । सर्पवत् कञ्चुकं मुक्त्वा पापानीह
नरोत्तमः । स्वार्गापवर्गिकीं सिद्धिं प्राप्नोत्येव न संशयः
स्कान्दे “गण्डूषमात्रपानैन अश्वमेधफलं लभेत् ।
स्वच्छन्दं यः पिबेदपस्तस्य मुक्तिः करे स्थिता” पाद्मे
“त्रिभिः सारस्वतं तोयं सप्तभिश्चैव यामुनम् । नार्मदं
दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति” अथ वासरूपसेवाप्रक-
रणम् । ब्राह्मे “तपसा ब्रह्मचर्य्येण यज्ञैस्त्यागेन वा
गतिम् । न तां संलभते जन्तुर्गङ्गां संसेव्य यां लभेत्”
नारदीये “किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः ।
वास एव हि गङ्गायां ब्रह्मज्ञानस्य कारणम्” महाभारते
“पूर्वे वयस्यधर्मांश्च कृत्वा पापानि ये नराः । पश्चाद्-
गङ्गां समाश्रित्य तेऽपि यान्ति परां गतिम्” ब्रह्माण्डे
“महापातकिनो ये च सेवन्ते यदि जाह्नवीम् ।
पातकेभ्योऽपि पञ्चभ्यः का कथाऽन्यस्य पाप्मनः” भविष्ये
“त्रिरात्रं सप्तरात्रं वा स्थितिमात्रेण भक्तितः ।
गङ्गातीरे नरो यस्तु नरकं स न पश्यति” । विघ्नप्रकर-
णम् भविष्ये “षष्टिर्विघ्नसहस्राणि गङ्गां रक्षन्ति
यत्नतः । निरासयन्त्यभक्तांश्च पापकर्मरतांस्तथा ।
कामक्रोधमदोत्साहलोभादिनिशितैः शरैः । प्रहरन्ति
मनस्तेषां स्थितिं वै नाशयन्ति च” प्रतिग्रहप्रकरणम्
मात्स्ये “यस्तत्र प्रतिगृह्णाति तीर्थेष्वायतनेषु च ।
हिरण्यं रजतं ताम्रं यच्चान्यद्वस्तु किञ्चन । निःफलं
तस्य तत् तीर्थं यावत्तद्वस्तु चाश्नुते । वरं विक्रयणं
मातुर्वरं विक्रयणं पितुः । अपि गङ्गाजलस्थन्तु न
गृह्णीयात् कदाचन” स्मृतिः । “गङ्गाविक्रयणाद्राजन्
विष्णोर्विक्रयणं भवेत् । जनार्दने तु विक्रीते विक्रीतं
स्याज्जगत्त्रयम्” अभक्तिप्रकरणम् भविष्ये “गङ्गां प्रा-
प्याथ ये मर्त्याः श्रद्धां भक्तिं न कुर्वते । तीर्थान्तरे रातं
कुर्य्युस्ते वै निरयगामिणः” । कृतकृत्यप्रकरणम् ब्रह्माण्डे
“गङ्गां संश्रित्य यस्तिष्ठेत्तस्याकार्य्यं न विद्यते ।
कृतकृत्यः स वै मुक्तो जीवन्मुक्तो भवेन्नरः” । मृत्युफलप्रकर-
णम् ब्राह्मे “ज्ञानतोऽज्ञानतो वापि कामतोऽकामतोऽपि
वा । गङ्गायान्तु मृतो मर्त्यो मोक्षं स्वर्गञ्च विन्दति”
भविष्ये “कृमिकीटपतङ्गाद्या ये मृता जाह्नवीजले ।
कूलान्निष्पतिता वृक्षास्तेऽपि यान्ति परां गतिम्” तथा
“अपि योजनपर्य्यन्ते गङ्गां स्मृत्वा तनुं त्यजेत् । वैवस्व-
तोऽपि तस्यार्घ्यं दत्त्वा स्वर्गं प्रयच्छति” स्कान्दे “अर्द्धोदके
तु जाह्नव्या म्रियतेऽनशनेन यः । स याति न
पुनर्जन्म ब्रह्मसायुज्यमेव च” अस्थिप्रक्षेपप्रकरणम् वनपर्वणि
कौर्मे च “यावन्त्यस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य च ।
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते । यावदस्थि
मनुष्यस्य गङ्गायाः स्पृशते जलम् । तावद्वर्षसहस्राणि स्वर्ग-
लोके महीयते” ब्रह्माण्डे “गङ्गातोये तु यस्यास्थि नीत्वा
संक्षिप्यते नरैः । तत्कालमादितः कृत्वा स्वर्गे तस्य
भवेत् स्थितिः । गङ्गाटोयेषु यस्यास्थि प्लाव्यते पुण्यक-
र्मणः । न तस्य पुनरावृत्तिर्ब्रह्मलोकात् कदाचन”
केशादिप्रकरणम् ब्रह्माण्डे “केशलोमनखादीनि येषां
पुंसान्तु वायुना । निक्षिप्यन्ते च गङ्गायां तेषां स्याद्वि-
यति स्थितिः” अथ प्रकीर्णकम् ब्रह्माण्डे “दृष्ट्वा
शतकृतं पापं स्पृष्ट्वा जन्मशतानि च । स्नात्वा जन्म-
सहस्राणि हन्ति गङ्गा कलौ युगे” । गङ्गाद्वारवाराणसी-
प्रयागादिप्रकरणम् मात्स्ये “सर्वत्र सुलभा गङ्गा त्रिषु
स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे”
वनपर्वणि “स्वर्गद्बारेण तत्तुल्यं गङ्गाद्वारं न संशयः ।
तत्राभिषेकं यः कुर्य्यात् सोऽश्वमेघमवाप्नुयात्” ब्रह्माण्डे
वाराणस्यां विशेषेण गङ्गा नित्यं विमुक्तिदा । अनन्त-
कोटिकल्पोत्थं पापं पुंसां प्रणाशयेत् । वाराणस्यां
विशेषेण सद्यः पापविनाशिनी । गङ्गायान्तु जले मोक्षो
वाराणस्यां जले स्थले । जले स्थले चान्तरीक्षे गङ्गासागर-
सङ्गमे” । मोक्षप्रकरणम् स्कान्दे “ब्रह्मादिदेवलोकानां
मुक्तेश्च प्राप्तये नृणाम् । गङ्गा च परमा हेतुः
कलिकाले विशेषतः” ।
गङ्गामाहात्म्यं काशीख० विष्णुं प्रति शिवेनोक्तम् यथा
“ममैव सा परा मूर्त्तिस्तोयरूपा शिवात्मिका ।
ब्रह्माण्डानामनेकेषामाधारः प्रकृतिः परा । सिद्ध-
विढ्यास्वरूपा च त्रिशक्तिः करणात्मिका । आनन्दाऽ-
मृतरूपा च शुद्धधर्मखरूपिणी । तामेनां । जगतां
धात्रीन्धारयामि खलीलया । विश्वस्य रक्षणार्थाय पर
ब्रह्मस्यरूपिणीम् । त्रैलोक्ये यानि तीर्थानि पुण्य-
क्षेत्राणि यानि च । सर्वत्र सर्वे ये धर्म्माः सर्वे यज्ञाः
सदक्षिणाः । तपांसि विष्णो! सर्वाणि श्रुतिः साङ्गा
चतुर्मिता । अहञ्च त्वञ्च ब्रह्माच देवतानां गणाश्च ये ।
पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः । गङ्गायां
सर्व एवैते सूक्ष्मरूपेण संस्थिताः । स स्नातः सर्व-
पृष्ठ २४८८
तीर्थेषु सर्वक्रतुषु दीक्षितः । चीर्ण्णसर्वव्रतः सोऽपि
यस्तु गङ्गां निषेवते । तपांसि तेन तप्तानि सर्वदान-
प्रदः स च । स प्राप्तयोगनियमो यस्तु गङ्गां निषेवते ।
सर्ववर्ण्णाश्रमिभ्यश्च वेदविद्भ्यश्च वै तथा । शास्त्रार्थ
पारगेभ्यश्च गङ्गास्नायी विशिष्यते । मनोवाक्कायजै
र्दोषैर्दुष्टो बहुविधैरपि । वीक्ष्य गङ्गां भवेत् पूतः
पुरुषो नात्र संशयः । कृते सर्वाणि तीर्थानि त्रेतायां
पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव
केवलम् । ध्यानं कृते मीक्षहेतुस्त्रेतायां तच्च वै तपः ।
द्वापरं तद्द्वयं यज्ञः कलौ गङ्गैव केवलम् । पूर्वजन्मा-
न्तराभ्यासवासनावशतो हरे! । गङ्गातीरे निवासः
स्यान्मदनुग्रहतः परम् । यो देहपातनाद्यावद्गङ्गा-
तीरं न मुञ्चति । स हि वेदान्तविद्योगी व्रह्मचर्य्यव्रती
सदा । कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् ।
विधिहीनक्रियाणाञ्च गतिर्गङ्गां विना नहि । अलक्ष्मीः
कालकर्णी च दुःस्वप्नो दुर्विचिन्तितम् । गङ्गागङ्गेति
जपनात्तानि नोपविशन्ति हि । गङ्गा हि सर्वभूताना-
मिहामुत्र फलप्रदा । भावानुरूपतो विष्णो । सदा सर्व-
जगद्धिता । यज्ञदानतपोयोगजपाः सनियमा यमाः ।
गङ्गासेवासहस्रांशं न लभन्ते कलौ हरे! । किमष्टाङ्गेन
योगेन किं तपोभिः किमध्वरैः । वासएव हि गङ्गायां
ब्रह्मज्ञानस्य कारणम् । अपि दूरस्थितस्यापि गङ्गा-
माहात्म्यवेदिनः । अयोगस्यापि गोविन्द! । भक्त्या गङ्गा
प्रसीदति । श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं
परन्तपः । श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति ।
अज्ञानरागलोभाद्यैः पुंसां संमूढ़चेतसाम् । श्रद्धा न
जायते धर्मे गङ्गायाञ्च विशेषतः । बहिःस्थितं जलं
यद्वन्नारिकेलान्तरस्थितम् । तथा ब्रह्माण्डबाह्यस्थं परं
ब्रह्माम्बु जाह्नवम् । गङ्गालाभात् परो लाभः क्वचिदन्यो
न बिद्यते । तस्माद्गङ्गामुपासीत गङ्गैव परमः पुमान् ।
शक्तस्य पण्डितस्यापि गुणिनो दानशालिनः । गङ्गास्नान-
विहीनस्य हरे! जन्मनिरर्थकम् । वृथा कुलं वृथा विद्या
वृथा यज्ञो वृथा तपः । वृथा दानानि तस्येह गङ्गाभक्तो न
यो भवेत् । गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ।
यथा गङ्गाजले स्नातः पूजने विधिना फलम् । मम तेजो-
ऽग्निगर्भेयं मम वीर्य्यातिसम्भृता । दाहिका सर्वदोषाणां
सर्वपापविनाशिनी । स्मरणादव गङ्गायाः पापसङ्घात-
पञ्जरम् । शतधा भेदमायाति गिरिर्वज्रहतो यथा ।
गङ्गां गच्छति यस्त्वेको यस्तं भक्त्यानुमोदयेत् ।
तयोस्तुल्यं फलं प्राहुर्मक्तिरेवात्र कारणम् । गच्छंस्तिष्ठन्
स्वपन् भुञ्जन् ध्यायन् जाग्रत् श्वसन् वदन् । यः स्मरेत्
सततं गङ्गां स हि मुच्येत बन्धनात् । पितॄनुद्दिश्य यो
भक्त्या पायसं मधुसंयुतम् । गुड़सर्पिंस्तिलैः सार्द्धं
गङ्गाम्भसि विनिःक्षिपेत् । तृप्ता भवन्ति पितरस्तस्य
वर्षशतं हरे! । यच्छन्ति विविधान् कामान् भूरिभूतान्
पितामहाः । लिङ्गेशे पूजिते सर्वमर्चितं स्याज्जग-
द्यथा । गङ्गास्नानेन लभते सर्वतीर्थफलं तथा । गङ्गा-
यान्तु नरः स्नात्वा यो लिङ्गं नित्यमर्च्चति । एकेन
जन्मना मुक्तिं परां प्राप्नोति स घ्रुवम् । अग्निहो-
होत्राणि यज्ञाश्च तथा दानतपांसि च । गङ्गायां
लिङ्गपूजायाः कोट्यंशेनापि नो समाः । गङ्गां गन्तुं
विनिश्चित्य कृत्वा श्राद्धादिवं गृहे । स्थितस्य सम्यक्
सङ्कल्पात् तस्यानन्दन्ति पूर्वजाः । पापानि च
रुदन्त्याशु हा क्व यास्याम इत्यलम् । लोभमोहादिभिः सार्द्धं
मन्त्रयन्ति पुनः पुनः । यथा गङ्गां न यात्येष तथा विघ्नं
प्रकुर्महे । गङ्गां गतो यदा चैव न उच्छित्तिं विधा-
स्यति । गृहाद्गङ्गावगाहार्थं गच्छतस्तु पदे पदे ।
निराशानि व्रज्रन्त्येव पापान्यस्य शरीरतः । पूर्वजन्मकृतैः
पुण्यैस्त्यक्त्वा लोभादिकं हरे! । व्युदस्य सर्वविघ्नाघान्
गङ्गां प्राप्नोति पुण्यवान् । अनुषङ्गेण शुल्केन बाणि-
ज्येनापि सेवया । कामासक्तोऽपि वा मर्त्योर्गङ्गास्नायी
दिवं व्रजेत् । अनिच्छयापि संस्पृष्टो दहनोऽपि यथा
दहेत् । अनिच्छयापि संस्नाता गङ्गा पापं तथा दहेत् ।
तावद्भ्रमति संसारे यावदगङ्गां न सेवते । संसेव्य
गङ्गां नो जन्तुर्भवक्लेशं प्रपश्यति । यो गङ्गाम्भसि
संस्नातो भक्त्या संत्यक्तसंशयः । मनुष्यचर्मणा नद्धः
स देवो नात्र संशयः । गङ्गास्नानार्थमुद्युक्तो मध्येमार्गं
मृतो यदि । गङ्गास्नानफलं सोऽपि तदाप्नोति न
संशयः । महात्म्यं ये च गङ्गायाः शृण्वन्ति च पठन्तिं
च । तेऽप्यशेषैर्महापापैर्मुच्यते नात्र संशयः । दुर्बुद्धयो
दुराचारा हैतुका बहुसंशयाः । पश्यन्ति मोहिता
विष्णी! गङ्गामन्यां नदीमिव । जन्मान्तरकृतैर्दानैस्तपो-
भिर्नियमैर्ब्रतैः । इह जन्मनि गङ्गायां नृणां भक्तिः
प्रजायते । गङ्गाभक्तिमतामर्थे महेन्द्रादिपुरेषु च ।
हर्म्याणि रस्यभोगाणि निर्मितानि स्वयम्भुवा । सिद्धयः
सिद्धलिङ्गानि स्पर्शलिङ्गान्यनेकशः । प्रासादा रत्न-
पृष्ठ २४८९
रचिताश्चिन्तामणिगणा अपि । गङ्गाजले न तिष्ठन्ति
कलिपापानि भीतितः । अतएव हि संसेव्या कलौ
गङ्गेष्टसिद्धिदा । सूर्य्योदये तमांसीव वज्रिवज्रमया-
न्नगाः । तार्क्ष्येक्षणाद्यथा सर्पाः मेघा वाताहता यथा ।
तत्त्वज्ञानाद्यथा मोहाः सिंहं दृष्ट्वा यथा मृगाः ।
तथा सर्बाणि पापानि यान्ति गङ्गेक्षणात् क्षयम् ।
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः । यथा
ग्रीष्मोष्मसन्तप्तिरगाधह्रदमज्जनात् । तूलशैलाः स्फुलि-
ङ्गेन यथा नश्यन्ति तत्क्षणोत् । तथा दोषाः प्रणश्यन्ति
गङ्गाम्भःस्पर्शनाद्ध्रुवम् । क्रोधेन च तपोयद्वत् कामेन च
यथा मतिः । अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ।
दम्भकौटिल्यमायाभिर्यथा धर्मो विनश्यति । तथा नश्यन्ति
पापानि गङ्गायादर्शनेन तु । मानुष्यं दुर्लभं प्राप्य
विद्युत्सम्पातचञ्चलम् । गङ्गां यः सेवते सोऽत्र बुद्धेः
पारं परं गतः । विधूतपापाये मर्त्याः परज्योतिः-
स्वरूपिणीम् । सहस्रसूर्य्यप्रतिमां गङ्गां पश्यन्ति ते
भुवि । साधारणाम्भसा पूर्णां साधारणनदीमिव ।
पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः । संसारमो-
चकश्चाहं जनानामनुकम्पया । गङ्गातरङ्गरूपेण
सोपानं निर्ममे दिवः । सर्व एव शुभः कालः सर्वो
देशस्तथा शुभः । सर्वे जना दानपात्रं श्रीमति जाह्नवी-
तटे । यथाश्वमेधो यज्ञानां नगानां हिमवान् यथा ।
व्रतानान्तु यथा सत्यं दानानामभयं यथा । प्राणाया-
मश्च तपसां मन्त्राणां प्रणवो यथा । धर्माणामप्यहिंसा च
कन्यानां श्रीर्यथा वरा । यथात्मविद्या विद्यानां स्त्रीणां
गौरी यथोत्तमा । सर्वदेवगणानाञ्च यथाहं परमेश्वरः ।
सर्वेषामेव भक्तानां शिवमक्तो यथा वरः । तथा सर्वेषु
तीर्थेषु गङ्गातीर्थं विशिश्यते । हरे! यस्त्वावयोर्भेदं
न करोति महामतिः । शिवभक्तः स विज्ञेयो
महापाशुपतश्च सः । पापपांशुमहावात्या पापद्रुमकुठारिका ।
यापेन्धनदवाग्निश्च गङ्गेयं पुण्यवाहिनी । नानारूपाश्च
पितरो गाथां गायन्ति सर्वदा । अपि कश्चित् कुलेऽ-
स्माकं गङ्गास्नायी भविष्यति । देवर्षीन् परिसन्तर्प्य
दीनानाथांश्च दुःखितान् । श्रद्धया विधिना स्नात्वा दास्यते
सलिलाञ्जलिम् । अपि नः स कुले भूयाच्छिवे विष्णौ च
साम्यदृक् । तदालयकरो भक्त्या तत्र सम्मार्ज्जनादि-
कृत् । अकामो वा सकामो वा तिर्थ्यग्योनिगतोऽपि
वा । गङ्गायां यो मृतो मर्त्यो नरकं न स पश्यति ।
तीर्थमन्यत् प्रशंसन्ति गङ्गातीरे स्थिताश्च ये । गङ्गां न
बहु मन्यन्ते ते स्युर्निरयगामिणः । माञ्च त्वाञ्चैव गङ्गाञ्च
यो द्वेष्टि पुरुषाधमः । स्वकीयैः पितृभिः सार्द्धं स घोरं
नरकं व्रजेत् । षष्टिर्गणसहस्राणि गङ्गां रक्षन्ति
सर्वदा । अभक्तानाञ्च पापानां वासे विघ्नं प्रकुर्बते ।
कामक्रोधमहामोहलोभादिनिशितैः शरैः । घ्नन्ति तेषां
मनस्तत्र स्थितिञ्चापनयन्ति च । गङ्गां समाश्रयेत् यस्तु
स मुनिः स च पण्डितः । कृतकृत्यः स विज्ञेयः पुरु-
षार्थचतुष्टये । गङ्गायाञ्च सकृत्स्नातो हयमेधफलं
लभेत् । तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात्
नैरन्तर्य्येण गङ्गायां मासं यः स्नाति पुण्यभाक् । स
शक्रलोके वसति यावच्छक्रः सपूवैजः । अव्दं स्नाति
च गङ्गायां नैरन्तर्य्येण पुण्यवान् । विष्णुलोकं
समागत्य समुखं संवसेन्नरः! । गङ्गायां स्नाति यो
मर्त्यो यावज्जीवं दिने दिने । जीवन्मुक्तः स विज्ञेयो
देहान्ते मुक्त एव सः । तिथिनक्षत्रपर्वादि
नापेक्ष्यं जाह्नवीजले । स्नानमात्रेण गङ्गायां
सञ्चिताघं विनश्यति । पण्डितोऽपि स मूर्खः स्याच्छा-
क्तियुक्तोऽप्यशक्तिकः । यस्तु भागीरथीतीरं
सुखसेव्यं न संश्रयेत् । किमायुषाप्यरोगेण विकाशिन्याथ
किं श्रिया । किंवा बुद्ध्या विमलया यदि गङ्गां न
सेवते । यः कारयेदायतनं गङ्गाप्रतिकृतेर्नरः । भुक्त्वा
स भोगान् प्रेत्यापि याति गङ्गासलोकताम् । शृण्वन्ति
महिमानं ये गङ्गाया नित्यमादरात् । गङ्गास्नानफलं
तेषां वाचकप्रीणनाद्धनैः । पितॄनुद्दिश्य यो लिङ्गं
स्नपयेद्गाङ्गवारिणा । तृप्ताः स्युस्तस्य पितरो
महानिरयगा अपि । अष्टकृत्वो मन्त्रजप्तैर्वस्त्रपूतैः
सुगन्धिभिः । प्रोचुर्गाङ्गैर्जलैः स्नानं घृतस्नानादिकं
बुधाः । आपः क्षीरकुशाग्राणि घृतं दधि गवां मघु ।
रक्तानि करवीराणि रक्तचन्दनमित्यपि । अष्टद्रव्य-
विमिश्रेण गङ्गातोयेन यः सकृत् । माघव! प्रस्थमात्रेण
ताम्रपात्रस्थितेन च । भानवेऽर्घं प्रदद्याच्च स्वकीय-
पितृभिः सह । सोऽतितेजोविमानेन सूर्य्यलोके
महीयते । अष्टाङ्गोऽर्घोऽयमुद्दिष्टस्त्वतीव रवितोषणः ।
गाङ्गैर्वाभिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः ।
नङ्गातीरेषु शक्त्या यः कुर्य्याद्देवालयं सुधीः । अन्यतीर्थ-
प्रतिष्ठातो लभेत् कोटिगुणं फलम् । कूपवापीतडा-
गादिप्रपादानादिभिस्तथा । अन्यत्र यद्भवेत् पुण्यं तदगङ्गा-
पृष्ठ २४९०
दर्शनाद्भवेत् । अश्वत्थवटवृक्षादिवृक्षारोपेण यत् फलम् ।
पुष्पवाट्यादिभिश्चापि गङ्गास्पर्शस्ततोऽधिकः । कन्या-
दानेन यत् पुण्यं यत् पुण्यं गोप्रदानतः । तत् पुण्यं
स्याच्छतगुणं गङ्गागण्डूषपानतः । चान्द्रायणसहस्रेण
यत् फलं स्याज्जनार्दन! । ततोऽधिकं फलं गङ्गाऽमृत-
पानादवाप्नुयात् । भक्त्या गङ्गावगाहस्य किमन्यत्
फलमुच्यते । अक्षयः स्वर्गवासोऽपि निर्वाणमथ वा
हरे! । गङ्गायाः पादुकायुग्मं नित्यमर्च्चति यो
नरः । आयुः पुण्यं धनं पुत्रान् स्वर्गमोक्षौ च
विन्दति । नास्ति गङ्गासमं तीर्थं कलिकल्मष-
नाशनम् । नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे! ।
गङ्गास्नानरतं मर्त्यं दृष्ट्वैव यमकिङ्करा । दिशो दश
पलायन्ते सिंहं दृष्ट्वा यथा मृगाः । गङ्गाव्रजनशींलस्य
गङ्गातटनिवासिनः । अर्च्चां कृत्वा यथान्यायमश्वमेध-
फलं लभेत् । गोभूहिरण्यदानेन भक्त्या गङ्गातटे
शुभे । नरो न जायते भूयः संसारे दुःखसङ्कटे ।
दीर्घायुष्यञ्च वासोभिर्ज्ञानं पुस्तकदानतः । अन्नदानेन
सम्पत्तिः कीर्त्तिः कन्याप्रदानतः । अन्यत्र यत् कृतं
कर्म व्रतं दानं जपस्तपः । गङ्गातटे तु तत् सर्वं हरे!
कोटिगुणं भवेत् । धेनुं पयस्विनीं दद्यात् गङ्गातीरे
विधानतः । गोरोमसंख्यया विष्णोर्युगान् सर्वं
समृद्धिदान् । गोलोके मम लोके वा कामधेनु-
व्रजावृतः । भुञ्जानः सर्वकामांस्तु दिव्यान् नानाविधान्
बहून् । देवानामप्यलभ्यांश्च भुक्त्वा तु सह बान्धवैः ।
पिवृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः । जायते सुकुले
पश्चाद्धनधान्यसमाकुले । रत्नकाञ्चनसम्पूर्णे
शीलविद्यासमन्विते । भुक्त्वा च विपुलान् भोगान् पुत्रपौत्र-
सप्तन्वितः । पुनर्गङ्गां समासाद्य काश्यामुत्तरवाहिनीम् ।
विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् । काला-
द्देहान्तमासाद्य ब्रह्म सम्पद्यते ततः । निर्वर्त्तनद्वय-
मपि भूमेर्भागीरथीतटे । नरो ददाति योभक्त्या तस्य
पुण्यफलं शृणु । तद्भूमित्रसरेणूनां संख्यया युगमानया ।
महेन्द्रचन्द्रलोकेषु भुक्त्वा भोगान् मनःप्रियान् । सप्त-
द्वीपपतिर्भूत्वा महाधर्मपरायणः । नरकस्थानपि
पितॄन् । प्रापय्य त्रिदिवं व्रजेत् । स्वर्गस्थांश्च पितॄन्
सर्वान् मोचयित्वा महाद्युतिः । अन्तेज्ञानासिना छित्त्वा
हाविद्यां पाञ्चभौतिकीम् । परं वैराग्यमापन्नो युञ्जानो
योगमुत्तमम् । प्राप्याथ वाऽविमुक्तञ्च परं ब्रह्माधि-
गच्छति । सुवर्णमात्रमपि यः सुवर्णं वा प्रयच्छति ।
सुवर्णञ्च सुविप्राय हरे! भागीरथीतटे । स हेमरत्नखचिते
विमाने सर्वगे शुभे । सर्वैश्वर्य्यसमायुक्तः सर्वलोकेषु
पूजितः । ब्रह्माण्डान्तरसंस्थेषु भुक्त्वा भोगान्
मनोरमान् । तर्वैः संपूजितो विष्णो! यावदाहूतसंप्लवम् ।
एकराट् च ततोभूत्वा जम्बुद्वीपे प्रतापवान् । ततोऽवि-
मुक्तमासाद्यपरं निर्वाणमृच्छति । जन्मर्क्षे तु कृते स्नाने
गङ्गायां भक्तिपूर्वकम् । जन्मप्रभृतिपापौघात् संचितात्
मुच्यते क्षणात् । वैशाखे कार्त्तिके माघे गङ्गास्नानं
सुदुर्लभम् । दर्शे शतगुणं पुण्यं संक्रान्तौ च सहस्र-
कम् । चन्द्रसूर्य्यग्रहे लक्षं व्यतीपाते त्वनन्तकम् । अयुतं
विषुवे चैब नियुतन्त्वयनद्वये । सोमग्रहः सोमदिने,
रविवारे रवेर्ग्रहः । तच्चूडामणिपूर्वाख्यं तत्र स्नानमसं-
ख्यकम् । स्नानं दानं जपोहोमो यच्च चूड़ामणौ
कृतम् । तदक्षयमिदं सर्वं विष्णो! भागीरथीतटे ।
श्रद्धया भक्तियुक्तस्तु गङ्गां स्नात्वा विधानतः । ब्रह्म-
हापि विशुद्ध्येत किं पुनस्त्वन्यपातकी । कृमिकीट-
पतङ्गाद्या ये मृता जाह्नवीजले । कूलात् पतन्ति ये वृक्षा
स्तेऽपि यान्ति परां गतिम्” । अन्यान्यपि तत्रत्य
फलानि प्रा० त० उक्तानि तत्र दृश्यानि ।
व्रह्माण्डे “गङ्गां पुण्यजलां प्राप्य त्रयोदश विवर्जयेत् ।
शौचमाचमनं सेकं निर्माल्यं मलघर्षणम् । गात्रसंवाहनं
क्रीड़ां प्रतिग्रहमथोऽरतिम् । अन्यतीर्थरतिञ्चैव अन्यती-
र्थप्रशंसनम् । विण्मूत्रादिमलोत्सर्गं सन्तारञ्च विशेषतः” ।
तस्याश्च वैशाखशुक्लतृतीयायां ब्रह्मलोकात् हिमवति
पतनं ततो भूमौ पतनञ्च दशहरायां यथा “वैशाखशुक्ल-
पक्षे तु तृतीयायां जनार्दनः । यवानुत्पादयामास युगं
चारब्धवान् कृतम् । ब्रह्मलोकात्त्रिपथगां पृथिव्यामवातार-
यत्” ब्रह्मपुराणम् । “ज्येष्ठे मासि क्षितिसुतदिने शुक्लपक्षे
दशम्यां हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम्”
ति० त० धृतवाक्यम् । एतयोरविरोधाय तथा व्यवस्था ।
३ तज्जलाधिष्ठातृदेवीभेदे । गङ्गाया इदम् नदीपरत्वे
अवृद्धत्वात् अण् । गाङ्ग तत्सम्बन्धिनि । “गाङ्गमम्बु-
सितमम्बुयामुनम्” काव्यप्र० । “गाङ्गं जलं निर्मलम्” गङ्गा
स्तीत्रम् । “गाङ्गं वर्षेण जीर्य्यति” पद्मपु० । नदीपरत्वाभावे
गङ्गाया अपत्यं ढक् । गाङ्गेय गङ्गादेव्यपत्ये भीष्मे कार्त्ति-
केये च । “गङ्गाप्रवाहोक्षितदेवदारु” कुमा० “गङ्गास्रोतो-
ऽन्तरेषु सः” रघुः । ४ नदीमात्रे च । सप्तनङ्गम् सि० कौ० ।
पृष्ठ २४९१

गङ्गाक्षेत्र न० ६ त० । “तीराद्गव्यूतिमात्रन्तु परितः

क्षेत्रमुच्यते” इत्युक्ते गङ्गातीरादुभयपार्श्वस्थक्रोशद्वयमित-
स्थाने ।

गङ्गाचिल्ली स्त्री गङ्गास्था नदीस्था चिल्ली । चिल्लभेदे (गाँगचिल) हारा० ।

गङ्गाज पु० गङ्गातो जायते जन--ड । १ भीष्मे २ कार्त्तिकेये

च तत्र भीष्मस्य गङ्गातो जन्मकथा ।
“स राजा शान्तनुर्धीमान् देवराजसमद्युतिः । बभूव
मृगयाशीलः सततं वनगोचरः । स मृगान महिषां-
श्चैव विनिघ्नन्राजसत्तमः । गङ्गामनुचचारैकः सिद्ध-
चारणसेविताम् । स कदाचिन्महाराज! ददर्श परमां
स्त्रियम् । जाज्वल्यमानां वपुषा साक्षाच्छियमिवा-
पराम् । सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ।
सूक्ष्माम्बरधरामेकां पद्मोदरसभप्रभाम् । तां दृष्ट्वा
हृष्टरोमाऽभूद्विस्मितो रूपसम्पदा । पिबन्निव च नेत्राभ्यां
नातृप्यत नराधिपः । सा च दृष्ट्वैव राजानं विचरन्तं
महाद्युतिम् । स्नेहादागतसौहार्द्दा नातृप्यत विला-
सिनी । तामुवाच ततो राजा सान्त्वयन् श्लक्ष्णया
गिरा । देवी वा दानवी वा त्वं गन्धर्वी वाथ
वाप्सराः । यक्षी वा पन्नगी वापि मानुषी वा
सुमध्यमे! । याचे त्वां सुरगर्भाभे! भार्य्या मे भव
शोभने ।” भा० आ० ९७ अ० ।
“एतत् श्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।
वसूनां समयं स्मृत्वाऽथाभ्यागच्छदनिन्दिता । उवाच
चैवं राज्ञः सा ह्लादयन्ती मनो गिरा । भविष्यामि
महीपाल! महिषी ते वशानुगा । यत्तु कुर्य्यामहं
राजन्! शुभं वा यदि वाऽशुभम् । न तद्वारयितव्यास्मि
न वक्तव्या तथाऽप्रियम् । एवं हि वर्त्तमानेऽहं त्वयि
वत्स्यामि पार्थिव! । वारिता विप्रियञ्चोक्ता त्यजेयं
त्वामसंशयम् । तथेति राज्ञा सा तूक्ता तदा
भरतसत्तम! । प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ।
आसाद्य शान्तनुस्ताञ्च बुभुजे कामतो वशी । न प्रष्ट-
व्येति मन्वानो न स तां किञ्चिदुक्तवान् । स तस्याः
शीलवृत्तेन रूपौदार्य्यगुणेन च । उपचारेण च रह
स्तुतोष जगतीपतिः । दिव्यरूपा हि सा देवी गङ्गा
त्रिपथगामिनी । मानुषं विग्रहं कृत्वा श्रीमन्तं
वरवर्णिनी । भाग्योपनतकामस्य भार्य्योवोपस्थिताऽभवत् ।
शान्तनोराजसिंहस्य देवराजसमद्युतेः । सम्भोग-
म्नेहचातुर्य्यैर्हावलास्यमनोहरैः । राजानं रमयामास
तथा रेमे तयैव सः । स राजा रतिसक्तत्वादुत्तमस्त्री-
गुणैर्हृतः । संवत्सरानृतून् मासान् बुबुधे न बहून्
गतान् । रममाणस्तया सार्द्धं यथाकामं नरेश्वरः
अष्टावजनयत् पुत्रांस्तस्याममरसन्निभान् । जातं जातं
च सा पुत्रं क्षिपत्यम्भसि भारत! । प्रीणामि च त्वामि-
त्युक्त्वा गङ्गास्रोतस्यमज्जयत् । तस्य तन्न प्रियं राज्ञः
शान्तनोरभवत्तदा । न च तां किञ्चनोवाच त्यागा-
द्भीतो महीपतिः । अथैनामष्टमे पुत्रे जाते प्रहसती-
मिव । उवाच राजा दुःखार्त्तः परीप्सन् सुतमा-
त्मनः । मा वधीः कासि कस्यासि किञ्च हंसि सुता-
निति । पुत्रघ्नि! सुमहत् पापं संप्राप्तं ते विगर्हिते! ।
स्त्र्युवाच । पुत्रकाम! न ते हन्मि पुत्रं पुत्रवतां वर! ।
जीर्णोऽस्तु मम वासोऽयं यथा स समयः कृतः । अर्ह
गङ्गा जह्नुसुता महर्षिगणसेविता । देवकार्य्यार्थसि-
द्ध्यर्थमुषिताहं त्वया सह । इमेऽष्टौ वसवो देवा
महाभागा महौजसः । वशिष्ठशापदोषेण मानुषत्व-
मुपागताः । तेषां जनयिता नान्यस्त्वदृते भुवि
विद्यते । मद्विधा मानुषी धात्री लोके नास्तीह
काचन । तेषाञ्च जननीहेतोर्मानुषत्वमुपागता ।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः । देवानां
समयस्त्वेष वसूनां संश्रितो मया । जातं जातं
मोक्षयिष्ये जन्मतो नानुषादिति । तत्ते शापाष्ठि-
निर्मुक्ता आपवस्य महात्मनः । स्वस्ति तेऽस्तु
गमिष्यामि पुत्रं पाहि महाव्रतम् । एष पर्य्यायवासो
मे वसूनां सन्निधौ कृतः । मत्प्रसूतं विजानीहि
गङ्गादत्तमिमं सुतम्” ९८ अ० ।
“स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् । भागी-
रथीमल्पजलां शान्तनुर्दृष्टवान्नृपः । तां दृष्ट्वा चिन्तया-
भास शान्तनुः पुरुषर्षभः । स्यन्दते किं त्वियं नाद्य
सरिच्छ्रेष्ठा यथा पुरा । ततो निमित्तमन्विच्छन्ददर्श
स महामनाः । कुमारं रूपसम्पन्नं वृहन्तञ्चारु-
दर्शनम् । दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम् ।
कृत्स्नां गङ्गा समावृत्य शरैस्तीक्ष्णैरवस्थितम् । तां
शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके । अभवद्विस्मितो
राजा दृष्ट्वा कर्मातिमानुषम् । जातमात्रं पुरा दृष्ट्वा
तं पुत्रं शान्तनुस्तदा । नोपलेमे स्मृतिं धीमानभि-
ज्ञातुं तमात्मजम् । स तु तं पितरं दृष्ट्वा मोहया-
मास मायया । संमोह्य तु ततः क्षिप्रं तत्रैवान्तर-
पृष्ठ २४९२
घीयत । तदद्भुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः ।
शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह । दर्शयामास
तं गङ्गा बिभ्रती रूपमुत्तमम् । गृहीत्वा दक्षिणे
पाणौ तं कुमारमलङ्कृतम् । अलङ्कृतामाभरणैर्विर-
जोऽम्बरघारिणीम् । दृष्टपूर्वामपि स तां नाभ्यजानात्
स शान्तनुः । गङ्गोवाच । यं पुत्रमष्टमं राजंस्त्वं
पुरा मय्यविन्दथाः । स चायं पुरुषव्याघ्र! सर्वास्त्र-
विदनुत्तमः । गृहाणेमं महाराज! मया संवर्द्धितं
सुतम् । आदाय पुरुषव्याघ्र! नयस्वैनं गृहं विभो!”
भा० आ० १०० अ० “गङ्गाज । लङ्केशवनारिकेतुः” भा० वि०
३९ अ० । गङ्गाजेत्यत्र मुद्रितपुस्तके नदीजेति पाठः ।
कार्त्तियेस्य गङ्गातो जन्मकथा अग्निगर्भशब्दे ५५ पृ०
उक्ता । गङ्गाजातगङ्गातनयादयोऽप्युभयत्र ।

गङ्गाटेय पु० गङ्गाया नद्यास्तटे याति या--क पृषो० तलोपः

अलुक् स० । (चिङ्गिड़ी) मत्स्यभेदे त्रिका० ।

गङ्गादत्त पु० गङ्गया दत्तः । भीष्मे गङ्गाजशब्दे दृश्यम् ।

गङ्गादित्य पु० काशीस्थे विश्वेशाद्दक्षिणस्थिते आदित्यभेदे

“गङ्गादित्योऽस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै । तस्य
दर्शनमात्रेण नरः शुद्धिमियादिह । यदा गङ्गा समा
याता भगीरथपुरस्कृता । तदा गङ्गां परिष्टोतुं
रविस्तत्रैव संस्थितः । तस्याप्यहर्न्निशं गङ्गां संमुखीकृत्य-
भास्करः । परिष्टौति प्रसन्नात्मा गङ्गाभक्तवरप्रदः ।
गङ्गादित्यं समाराध्य वाराणस्यां नरोत्तमः । न जातु
दुर्गतिं क्वापि लभते च न रोगभाक्” काशीख० ५१ अ० ।

गङ्गाद्वार न० गङ्गाया भूम्यवतरणद्वारम् । मायापुर्यां

हरिद्वारे “ततो मायापुरीं प्राप्तः दुष्प्रापां पापकारिभिः ।
यत्र सा वैष्णवी माया जन्तून् पाशैर्न पाशयेत् । केचिदूवु-
र्हरिद्वारं मोक्षद्वारं जगुः परे । गङ्गाद्वारञ्च केऽप्याहुः
केचिन्मायापुरीं पुनः । यतोविनिर्गता गङ्गा ख्याता
भागीरथी भुवि । यन्नामोच्चारणात् पुंसां पापं याति
सहस्रधा । वैकुण्ठस्यैकसोपानं हरिद्वारं जगुर्जनाः । तत्रा-
प्लुता नरा यान्ति तद्विष्णोः परमं पदम्” काशीख० ७ अ० ।

गङ्गाधर पु० गङ्गां धरति मूर्द्ध्रा धृ--अच् ६ त० । १ महादेवे

अमरः । गङ्गाशब्दे तद्धारणकथा दृश्या गङ्गामृदादवो-
ऽप्यत्र । २ समुद्रे त्रिका० । लोलम्बराजोक्ते जीर्ण्णातिसार-
नाशके चूर्णभेदे यथा “धातक्यामलकीपयोधरवृकीकट्वङ्ग-
यष्टीमधुश्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः ।
तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह-
च्चूर्णंतूर्णमपाकरोति सकलं जीर्ण्णातिसारं परम्” ।

गङ्गाधररस पु० वैद्यकप्रसिद्धे औषधभेदे!

गङ्गापत्री स्त्री गङ्गेव शुभ्रं पत्रमस्याः ङीप । सुगन्धि-

कायां वृक्षभेदे राजनि० ।

गङ्गापुत्र पु० ६ त० । गङ्गातनये १ भीष्मे २ कार्त्तिकेये च

“लेटात् तीवरकन्यायां गङ्गापुत्र इति स्मृतः” ब्रह्मवै० पु०
उक्ते सङ्कीर्णजातिभेदे (मुरदाफरास) ।

गङ्गायात्रा स्त्री० गङ्गामुद्दिश्य यात्रा । गङ्गामरणार्थं यात्रायाम्

गङ्गालहरी स्त्री ६ त० । १ गङ्गायास्तरङ्गसन्ततौ २ जगन्नाथ-

पण्डितरचिते गङ्गास्तोत्रभेदे च ।

गङ्गावतार पु० गङ्गाया अवतारः ब्रह्मलोकात् भूमौ

पतनमत्र । गङ्गाद्वाररूपे तीर्थभेदे ६ त० । तस्या भूर्मा २
अवतरणे च । “भगीरथ इव दृष्टगङ्गावतारः” काद०

गङ्गावाक्यावली गङ्गामाहात्म्यादिप्रतिपादकानां वाक्या-

नामाबली । स्मृतिनिबन्धभेदे ।

गङ्गासागर पु० गङ्गया सङ्गतः सागरः शा० त० । गङ्गा-

सागरयोः सङ्गमरूपे तीर्थभेदे ।

गङ्गासुत पु० ६ त० । १ भीष्मे, २ कार्त्तिकेये च हम० ।

गङ्गाह्रद पु० गङ्गाया ह्रद इव । भारतप्रसिद्धे स्वस्तिपुरस्थे

१ कूपरूपे तीर्थभेदे । “ततः स्वस्तिपुरं गच्छेत्” इत्यु-
पक्रमे “गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ! ।
तिस्रः कोट्यश्च तीर्थानां तत्र कूपे महीपते! ।
तत्र स्नात्वा नरो राजन्! स्वर्गलोकं प्रप-
द्यते” भा० व० ८३ अ० । २ कोटितीर्थस्थे तीर्थभेदे च
“कोटितीर्थे सुतपसा लभेदिह सुवर्णकम् । गङ्गा-
ह्रदश्च तत्रैव तीर्थं भरतसत्तम! । तत्र स्नायीत
धर्म्मज्ञ! व्रह्मचारी समाहितः । राजसूयाश्वमेधाभ्यां
फलं विन्दति मानवः” । तत्राध्याये “६ त० । ३ गङ्गा-
याह्रदे च ।

गङ्गुक पु० कङ्गुक + पृषो० । कङ्गुके धान्यभेदे (काङनी)

सुश्रु० । “रक्तशालियष्टिकगङ्गुकमुकुन्दकपाण्डुकपीतक-
प्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककल-
मनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः” ।

गङ्गोद्भेद पु० गङ्गायाः उद्भेदः प्रथमप्रकाशो यत्र ।

तीर्थभेदे । “गङ्गोद्भेदं समासाद्य तर्पयेत् पितृदेवताः ।
वाजपेयमवाप्नोति ब्रह्मभूतो भवेत् सदा” भा० वन० ८१ अ०

गङ्गोज्झ न० गङ्गया उज्झ्यते उज्झ--कर्मणि घञ् । गङ्गा

स्रोतःशून्ये जलादौ ।
पृष्ठ २४९३

गङ्गोल पु० गोमेदकनामके मणिभेदे हारावली ।

गच्छ पु० गम--सम्प० क्विप् मलोपे तुक् च गतंगतिं छ्यति

छो--क । १ वृक्षे त्रिका० । लीलावत्युक्ते श्रेढीव्यवहारे
प्रवृत्तगत्यादिक्रियाविरतिकारके २ पदसंज्ञे स्थाने पु० ।
तज्ज्ञानार्थं तत्राह “श्रेढीफलादुत्तरलोचनघ्नाच्चयार्द्ध्व-
वक्त्रान्तरवर्गयुक्तात् । मूलं मुखोनं चयखण्डयुक्तं चयोद्धृतं
गच्छमुदाहरन्ति । उदाहरणम् । द्रम्मत्रयं यः प्रथमे-
ऽह्नि दत्त्वा दातुं प्रवृत्तोद्विचयेन तेन । शतत्रयं
षष्ट्यधिकं द्विजेभ्यो दत्तं कियद्भिर्दिवसैर्वदाशु । न्यासः
आदिव० । ३ । चयः । २ । गच्छः । ० । सर्वधनं ३६० ।
लब्धो गच्छः १८ । अथ द्विगुणोत्तरादिफलानयने
करणसूत्रं सार्द्धवृत्तम् । विषमे गच्छे व्येके गुणकः स्थाप्यः
समेऽर्द्धिते वर्गः । गच्छक्षयान्त्यमन्त्याद्व्यस्तं गुणवर्गजं
फलं यत्तत् । व्येकं व्येकगुणोद्धृतमादिगुणं स्याद्गुणो-
त्तरे गणितम् । उदाहरणम् । पूर्बं वराटकयुगं येन
द्विगुणोत्तरं प्रतिज्ञातम् । प्रत्यहमर्थिजनाय स मासे
निष्कान् ददाति कति । न्यासः आदिः । २ ।
चयोद्विगुणः २ । गच्छः । ३० । लब्धावराटकाः । २१४७८-
६ ४६ । निष्कवराटिकाभिर्भक्ताजाता निष्काः । १०४८-
५७ । द्रम्माः । ९ । पणाः । ९ । काकिण्यौ । २ ।
वराटकाः । ६ । उदाहरणम् । आदिर्द्विकं सखे!
वृद्धिः प्रत्यहं त्रिगुणोत्तरा । गच्छः सप्तदिनं यत्र गणितं
तत्र किं वद । न्यासः । आदिः । २ । चयोगुणः
३ । गच्छः । ७ । लब्धं गणितम् । २१८६”
शब्दकल्पद्रुमे निर्विसर्गगच्छेत्यस्य विभक्त्यन्तस्य शब्दत्व-
कल्पनेनार्थकथनमतीव हास्यास्पदम् गच्छेत्यस्य
विभक्त्यन्ततया पदत्वेन शब्दत्वाभावात् अन्यथा नाना-
विभक्तियोगेन नानाशब्दार्थकथनापत्तेः ।

गज मदे स्वने च भ्वा० पर० अक० सेट् । भजति अगाजीत्

अजगीत् । जगाज । गजः ।

गज स्वने भ्वा० इदित् पर० अक० सेट् । गञ्जति अगञ्जीत् ।

जमञ्ज । गञ्ज्यते । गञ्जा ।

गज खने चुरा० उभ० अक० सेट् । गजयति ते अजग जत् त ।

गज पुंस्त्री० गज--मदे अच । १ हस्तिनि “नगजा न गजा

दयिता दयिताः” भट्टिः । इभशब्दे विवृतिः । स्त्रियां
जातित्वात् ङीष् । २ अष्टसंख्यायाम् गजानामैरावता-
दीनमष्टत्वात् तथात्वम् । “कृत्वा त्रिघ्नं गर्जर्हृत्वा” ज्यो०
त० “गजभुक्तशेषम्” तन्त्रसा० । “अरत्नीनां शतान्यष्टा-
वेकषष्ट्यान्वितानि च । गजप्रमाणमाख्यातं मुनिभिर्मान-
वेदिभिः” शब्दार्थचि० उक्ते ३ मानभेदे । “साधारणनरा-
ङ्गुल्या त्रिंशदङ्गुलको गजः” इत्युक्ते ४ मानभेदे । ५
मानमात्रे ६ वास्तुमानभेदे च मेदि० । स च ज्यो० त० उक्तः यथा
“प्रस्तारदैर्घ्यमानं तु स्वहस्तेन तथा नरैः । कृत्वा त्रिघ्नं
गजैर्हृत्वा वास्तुमाननिरूपणम् । ध्वजो धूमश्च सिंहश्च
श्वा वृषः खर एव च । गजः काकपदं चैव मानान्यष्टौ
च वास्तुनः” ज्यो० त० । “पुष्टिर्गजे काकपदे विनाशः”
तत्फलम् ७ औषधपाकार्थे गर्त्तभेदे वैद्यकम् गजपुटशब्दे
दृश्यम् । गजानां समूहः तल् । गजता तत्समूहे स्त्री ।
ततः ऊर्द्ध्वमाने दघ्नच्, गजदघ्न, द्वयसच्, गजद्वयस,
गजतुल्योर्द्धपरिमाणे त्रि० । स्त्रियां ङीप् । “द्वितीयश्च
तृतीयश्च ऊर्द्ध्वमाने सती मम” व्या० का० उक्तेः ऊर्द्ध्वमान
एव तयोः प्रयोगः । परिमाणमात्रे तु मात्रच् । गजमात्र
इत्येव त्रि० ।

गजकन्द पु० गजो गजदन्त इव कन्दोऽस्य । (हातिकाँदा) हस्तिकन्दे वृक्षे राजनि

गजकर्ण पु० गजस्य कर्ण इव कर्णोऽस्य । १ यक्षभेदे “कुस्तुम्बरुः

पिशाचश्च गजकर्णो विशालकः” भा० स० १० अ० । यक्ष-
कथने । २ औषधिभेदे स्त्री ङीप् । “गजकर्णी तु
तिक्तोष्णा तथा वातकफान् जयेत् । शीतज्वरहरा
स्वादुः पाके तस्यास्तु कन्दकः । पाण्डुरोगकृमिप्लीहा-
गुल्मानाहोदरापहः । ग्रहण्यर्शोविकारघ्नो वनशूरण-
कन्दवत्” भावप्र० ।

गजकूर्म्माशिन् पु० गजश्च कूर्म्मश्च तौ अश्नाति अश--भो-

जने णिनि । १ गरुड़े शब्दरत्ना० गजकच्छपभोजीत्या-
दयोऽप्यत्र । तौ च विभावसुप्रतीकमुनी अन्योन्यशापाद्
गजंकूर्न्मतां प्राप्तौ गरुड़ेन भक्षितौ यथाह भा०
आ० २९ अ०
“आसीद्विभावसुर्नाम भहर्विः कोपनो भृशम् । भ्राता
तखानुजश्चासीत् सुपतौको महावपाः । स नेच्छति
धनं भ्रात्ना सहैकस्थं महामुनिः । विभागं कीर्त्तय-
त्येव सुप्ततीकी हि निव्यशः । अथाब्रवीच्च तं भ्राता
सुप्रतीकं विभावसुः । विभागं बहवो मोहात् कर्त्तु-
मिच्छन्ति निव्यशः । ततो विभक्तास्त्वस्योऽन्यं विरु-
ध्यस्तेऽर्थमोहिताः । ततः स्वार्थपरान् मूढ़ान्
पृथद्भूतान् स्वकैर्धनैः । विदित्वा भेदयन्त्येतानमित्रा मित्र-
रूपिणः । विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।
भिन्नानामतुलो नाशः क्षिपमेव प्रवर्त्तते । तस्माद्विमाय
पृष्ठ २४९४
भ्रातॄणां न प्रशंसन्ति साधवः । गुरुशास्त्रेऽनिवद्धाना-
मन्योऽन्येनाभिशङ्किनाम् । नियन्तुं नहि शक्यस्त्वं
भेदतो धनमिच्छसि । यस्मात्तस्मात् सुप्रतीक! हस्तित्वं
समवाप्स्यसि । शप्तस्त्वेवं सुप्रतीको विभावसुमथाव्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि । एवमन्यीऽन्य-
शापात्तौ सुप्रतीकविभावसू । गजकच्छपतां प्राप्तावर्थार्थं
मूढ़चेतसौ । रोषदोषानुषङ्गेण तिर्य्यग्योनिगतावुभौ ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ । सरस्यस्मिन्महा-
कायौ पूर्ववैरानुसारिणौ । तयोरन्यतरः श्रीमान्
समुपैति महागजः । यस्य वृंहितशब्देन कूर्म्मोऽप्यन्त-
र्ज्जलेशयः । उत्थितोऽसौ महाकायः कृत्स्नं विक्षो-
भयन् सरः । यं दृष्ट्वा वेष्टितकरः पतत्येष गजो
जलम् । दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्य्यवान् ।
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् । कूर्म्मोऽप्य-
भ्युद्यतशिरा युद्धायाभ्येति वीर्य्यवान् । षड़ुच्छ्रितो
योजनानि गजस्तद्द्विगुणायतः । कूर्म्मस्त्रियोजनोत्-
सेधो दशयोजनमण्डलः । तावुभौ युद्धसम्मत्तौ
परस्परबधैषिणौ । उपयुज्याशु कर्मेदं साधयेहितमात्मनः ।
महाभ्रघनसङ्काशौ तौ भुक्त्वाऽमृतमानय” ।
इत्येवं पित्रानुशिष्टो गरुड़स्तावभक्षयत् यथाह तत्रैव
३० अ० । “मक्षयामास गरुड़स्तावुभौ गजकच्छपौ” ।

गजकृष्णा स्त्री गज इव कृष्णा । गजपिप्पल्याम् भावप्र०

गजपिप्पलीशब्दे दृश्यम् ।

गजचिर्भ(र्भ)टा स्त्री गजप्रिया चिर्भ(र्भि)टा शा० त० । इन्द्र-

वारुण्याम् (राखालशशा) रत्नमा० ।

गजचिर्भिट पु० गजचिर्भिटाया इव आकारो ऽस्त्यस्य अच् ।

गोडुम्बायाम् त्रिका० ।

गजचिर्भिटी स्त्री गजप्रिया चिर्भिटी । १ माहेन्द्रवारुण्याम् राजनि० ।

गजच्छाया स्त्री “यदेन्दुः पितृ (१०) दैवत्ये सूर्य्यश्चैव करे(१३)स्थितः

याम्या १४ तिथिर्भवेत् सा हि गजच्छायेति कीर्त्तिता” १ इत्यक्ते,
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः । यदा तदा
गजच्छाया” २ इत्युक्ते च योगभेदे “द्विगुणा ह्यात्मनश्छाया
दर्शे स्यादापराह्णिकी । गजच्छायेति सा प्रोक्ता इत्युक्ते
३ दर्शापराह्णे च । “सैंहि यो यदा भानुं ग्रसते पर्व-
सन्धिषु । गजच्छाया तु सा प्रोक्ता श्राद्धं तत्र प्रकल्प-
येत्” वराहोक्ते ४ सूर्य्यग्रहणकाले च कुञ्जरच्छायशब्दे
२०६८ पृ० वि० ।

गजढक्का स्त्री गजोपरिस्था ढक्का । हस्तिमदसूचनार्थकृतशब्दायां गजोपरिस्थढक्कायाम् हारा० ।

गजता स्त्री गजानां समूहः तल् । हस्तिसमूहे अमरः ।

गजदन्त पु० गजस्य दन्ताविब दन्तावस्य । १ गणेशे । २ हस्ति-

दन्ततुल्यदन्तवति त्रि० । ६ त० । ३ करिदन्ते पु० गणेशस्य
तथात्वं च गजाननत्वेन तत्तुल्यदन्तत्वात् । गजदन्ताकृति-
त्वात् भित्तौ द्रव्यादिस्थापनार्थं गजदन्तद्वयाकारे ४
नागदन्ते (दाण्डा) ५ दन्तोपरिजातदन्ते तस्याकारेण
गजदन्ततुल्यत्वात्तथात्वम् ।

गजदन्तफला स्त्री गजदन्त इव फलमस्याः । १ डङ्गरीलतायाम् राजनि० ।

गजदान न० ६ त० । १ हस्तिमदे । तस्य प्रस्रवणस्थानञ्च

“करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः”
पालकाव्ये उक्तम् । ६ त० । २ हस्तिनो विसर्गे च ।
“गां पुच्छे करिणं करे इत्युक्तेः तस्य करावच्छेदेन
ग्राहकेण स्पर्शनेन तस्य दानं विहितम् ।

गजनासा स्त्री ६ त० । गजस्य शुण्डे । सा इव ऊरुर्यस्याः

गजनासोरु (रू) करिशुण्डतुल्यनाकायां स्त्रियाम् ।
उपमानपूर्वकत्वात् वा ऊङ् । “धर्मस्तु गजनासोरु! सद्भि-
राचरितः पुरा” रामा० २, ३०, ३० ।

गजपति पु० ६ त० । १ श्रेष्ठगजे २ अत्युच्चगजे च “गजपति

द्वयसीरपि हैमनः” माघः ।

गजपादप पु० गजप्रियः पादपः शा० त० । (खुलकुङि) ख्याते स्थालीवृक्षे भावप्र० ।

गजपिप्पली स्त्री गजोपपदा पिप्पली शाक० त० । स्वनाम-

ख्यातायां पिप्पल्याम् । “चविकायाः फलं प्राज्ञैः कथिता
गजपिप्पली । गजकृष्णा कटुर्वातश्लेष्मनुत् वह्निव-
र्द्धिनी । उष्णा निहन्त्यतीसारश्वासकण्ठामयक्रमीन्”
भावप्र० हरतीति शेषः । “मूर्वा निर्दहनी गाठा
त्र्यूषणं गजपिप्पली” सुश्रुतः ।

गजपुट पु० “हस्तप्रभाणो गर्त्तो यः पुटः स तु गजाह्वयः”

इत्युक्ते औषधपाकार्थे हस्तमित खाते गर्त्तभेदे वैद्यकम् ।

गजपुर न० गजस्य हस्तिनामनृपस्य पुरम् । “युधिष्ठिर

राजधान्याम् (दिल्ली) “स निर्ययौ गजपुराद्याजकैः
परिवारितः” भा० आनु० १६७ अ० ।

गजपुष्पी स्त्री गजस्तन्मद इव गन्धयुतं पुष्पमस्याः ।

नागपुष्पायां लतायां शब्दार्थचि० । “गजपुष्पीमिमां फुल्लामुत्-
पाट्य शुभलक्षणाम्” रामा० कि० १ । १२ । ३९ ।

गजप्रिया स्त्री ६ त० । शल्लकीद्रुमे हेमच० ।

गजबन्धनी स्त्री गजा बध्यन्तेऽत्र ल्युट् ङीप् । हस्तिबन्ध

नशालायां (हातिशाला) अमरः ।

गजबन्धिनी स्त्री गजस्य बन्धोऽस्त्यत्र इनि ङीप् । गजशालायां जटा० ।

पृष्ठ २४९५

गजभक्षक पु० गजो भक्षकोऽस्य । अश्वत्थवृक्षे राजनि० ।

गजभक्ष्या स्त्री गजेन भक्ष्या । शल्लकीवृक्षे अमरः । गजेन

भक्ष्यते कर्म्मणि घञ् । गजभक्षा तत्रार्थे स्त्री शब्दरत्ना० ।

गजमण्डली स्त्री गजानां सन्निवेशनभेदेन मण्डली परिवेशः

वेष्टनाकारपरिधिः । गजानां सन्निवेशनविशेषेण
परिधिरूपे वेष्टने । स्वार्थे क ह्रस्वः । तत्रार्थे । “चन्द्रा-
कृतीनि गजमण्डलिकाभिरुच्चैः” माघः । ६ त० । २
गजसमूहे च ।

गजमाचल पुंस्त्री मच--कल्कने घञ् माचः गजस्य माचं

शाठ्यं लुनाति लू--बा० ड । १ सिंहे हारा० स्त्रियां
जातित्वात् ङीष् ।

गजमुक्ता स्त्री गजे तत्कुम्भे जाता मुक्ता । हस्तिकुम्भजाते

मुक्ताभेदे “मुक्ताफलैः किशरिणां किराता” कुमा० व्या०
मल्लिनाथधृतवाक्यम् “करीन्द्रजामूतवराहशङ्खमत्स्याहिशु-
क्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके देवां तु
शुक्त्युद्भवमेव भूरि” मुक्तैव स्वार्थे क ठञ् । गजमौक्ति
कमप्यत्र । “गजमौक्तिकावलियुतेन वक्षसा” किरा० मल्लि-
नाथतद्व्या० करिणां मुक्तायोनित्वे प्रमाणमाहागस्त्यः
“जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः । शुक्त्युद्भवाश्च-
विज्ञेया अष्टौ मौक्तिकयोनयः” ।

गजमुख पु० गजस्य मुखं मुखमस्य । १ गणेशे यथा च

तस्य तन्मुखमुखता तथा इभाननशब्दे ९८१ पृ० उक्ता ।
“प्रमथाधिपो गजमुखः” वृह० स० ५८ अ० । गजवदनाद-
योऽप्यत्र ।

गजमोटन पुंस्त्री० गजं मोटयति चु० मुट--क्षोदे ल्यु ।

१ सिंहे शब्दमा० । स्त्रियां जातित्वात् ङीष् ।

गजवल्लभा स्त्री ६ त० । १ बहुवीजायां गिरिकदल्यां, २ शल्ल-

क्याञ्च राजनि० ।

गजवीथी स्त्री उत्तरमार्गस्थे “रोहिण्यार्द्रामृगशिरो

गजवीथ्यभिधीयते” इत्युक्ते १ नक्षत्रत्रये । खगोलशब्दे २४५१
पृ० विवृतिः । ६ त० । २ गजानामावलौ च ।

गजशिक्षा स्त्री गजानां शिक्षा । गजचालनाभ्यासे “तथैव

गजशिक्षायां नीतिशास्त्रेषु पारगः” भा० आ० १०९ अ० ।

गजशिरस् पु० गजस्य शिर इव शिरोऽस्य । १ दैत्यभेदे

“गजोदरोगजशिरागजस्कन्धोगजेक्षणः” हरिवं० २४०
अ० । गजस्य तन्नामासुरस्य वा शिरः शिरोऽस्य । २ गणेशे
च । इभाननशब्दे ९८१ पृ० गजाननशब्दे च दृश्यम् ।

गजसाह्वय पु० गजेन हस्तिनामकनृपेण सहित आह्वये

यस्य । हस्तिनापुरे (दिल्ली) । “निर्ययुर्गजसाह्वयात्”
भा० व० १ अ० । गजाह्वयमप्यत्र न० ।

गजस्कन्ध पु० गजस्य स्कन्ध इव स्कन्धोऽस्य । दैत्यभेदे गज

शिरःशब्दे उदा० दृश्यम् । गजवत् संश्लिष्टस्कन्धे उत्तम-
पुरुषलक्षणयुते च ।

गजाख्य पु० गजं गजकर्णमाख्याति पत्रेण आ + ख्या--क ।

१ चक्रमर्दवृक्षे राजनि० । तस्य पत्रस्य गजकर्ण्णतुल्या-
कारत्वात् तथात्वम् । २ गजतुल्यनामनि हस्तिनापुरे न०

गजाग्रणी पु० ६ त० । ऐरावते हस्तिनि शब्दर० ।

गजाजीव पु० गजैस्तत्पालनादिभिराजीव्यते जीव--घञ् ।

१ हस्तिपालके हेमच० ।

गजाण्ड न० गजस्याण्डमिव मूलं यस्य । १ पिण्डमूले राजनि०

गजादिनामन्(मा) स्त्री गज इति शब्द आदौ यस्य

तादृशं नामास्य वा ङीप् । गजपिप्पल्याम् “काला-
मृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः” सुश्रुतः ।

गजानन पु० गजस्याननमाननं यस्य । १ गणेशे अमरः ।

इभाननशब्दे ९८१ पृ० दृश्यम् । स्कन्दपु० गणेशख० ११ अ० तु
अन्यथा तस्य गजाननता वर्णिता तत्र गणेशस्य मस्तक-
शून्यतयोत्पत्तौ पुरा शिवच्छिन्नेन कैलासे स्थापितेन
गजासुरमस्तकेन मुखयोजनं तेन कृतमित्युक्तं यथा “गुरुरुवाच
अबतारो यदि धृतः साधुत्राणाय भो विभो! । प्रकाश-
याशु वदनं सर्वेषां शोकनाशनम् । नयस्व सर्वदेवाना
मानन्दं हृदयं प्रभो! । शिव उवाच । प्रत्युवाच गुरुं
पुत्रः पार्वत्या हीनमस्तकः । शिशुरुवाच । महेशाख्येन
राज्ञा ते प्रणतौ चरणौ यदा । तदाशीर्या त्वया दत्ता
तस्मै राज्ञे गुरो! मुदा । गजयोनौ जनिर्मुक्तिः
शिवहस्तादुदीरिता । तत्सर्वमभवत् तस्य विद्यते चारुम-
स्तकः । पूज्यमानं शिवेनास्ते शुण्डादण्डः शुशोभनः ।
अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् । शिवौवाच
आश्चर्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् । गुरुरुवाच ।
भगवन्! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः । मया
यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो! । अहमीशस्वरू-
पन्ते परिच्छेत्तुं न च क्षमः । श्रुत्वैवं ब्रह्मणः पुत्रो
नारदस्तव्र चाव्रवीत् । नारद उवाच ।
“एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो! । अथवा
बालरूपम्य छिन्नन्ते केन तच्छिरः । एतन्मे संशयं छिन्धि
कृषया परमेश्वर! । शिव उवाच । निपीय नारदीं
वाणीमुवाच शिशुरुच्चकैः । शिशुरुवाच । सिन्दूरः कोऽपि
पृष्ठ २४९६
दैत्यो मे वायुरूपधरोऽच्छिनत् । अष्टमे मासि सम्पूर्णे
प्रविश्योमोदरं शिरः । तमिदानीं हनिष्येऽहं गजास्यं
साम्प्रतं द्विज! । शिवौवाच । श्रुत्वैवं नारदः प्राह
शिशुरूपिणमोश्वरम् । नारदौवाच । अकिञ्चिज्ज्ञा वयं
देव! योजनेऽस्य मुखस्य ते । त्वमेव च स्वभावेन
मुखमेतन्नियोजय । शिवौवाच । वदतीत्थं मुनि र्यावत्तावत्
स ददृशेऽखिलैः । सर्वावयवसम्पूर्णो गजाननौमासुतः ।
कीरीटकुण्डलधरो युगवाहुः सुलोचनः । वामदक्षिण-
भागे च सिद्धिवृद्धिविराजितः । दृष्ट्वा विनायकं स्कन्द!
तथाभूतं निजेच्छया । हर्षेणोत्फुल्लनयना देवाः सर्वे
तदाऽब्रुवन् । गजानन इति ख्यातो भवितायं जगत्त्रये”
“एवं भाद्रचतुर्थ्यां स अवतीर्ण्णो गजाननः” इति च
तत्राध्याये । ६ त० । हस्तिमुखे न० ।

गजारि पु० ६ त० । १ सिंहे । २ वृक्षमेदे हड्डचन्द्रः । ३ शिवे च

गजासुरद्वेषिशब्दे दृश्यम् ।

गजारोह पु० गजमारोहति आ + रुह--अण् । १ हस्तिपाले (माहुत) अमरः

गजा(द)शन पु० गजेरस्य(द्य)ते कर्मणि ल्युट् । १ अश्वत्थ-

द्रुमे । २ शल्लक्यां स्त्री ङीप् । ३ गजभक्षायाम् (भाग
शब्दच० ४ पद्ममूले न० रत्ना० ।

गजासुर पु० गजाकारोऽसुरः । असुरभेद ।

तस्योत्पत्तिकथा च स्कन्दपु० गणेशख० १० अ० यथा
“साम्प्रतं कथयिव्यामि गजासुरकथानकम् । पुरा युगे स
राजासोन्नीतिज्ञो लोकपालकः । लक्ष्मीवान् रूपसम्पन्नो
वेदशास्त्रार्थकोविदः । देवद्विजार्चनरत आत्मविद्याविशा-
रदः” । “महेश इति नाम्ना च विख्यातो भुवनत्रये”
इत्युपक्रम्य “उत्पत्तिप्राप्स्यते राजन् त्वया योनौ गजस्य
हेति” गुरुवाक्यमुपन्यस्य “कदाचिद्गच्छता तेन वीक्षितो नारदः
पथि । अवमन्य ययौ तं तु सप्तोऽसौ मुनिना रुषा ।
इभास्यो भवितासि त्वमौद्धत्यादन्यजन्मनि । गजासुर इति
ख्यातिं यास्यसि त्वं नराधिप! । कैलासे प्राप्स्यसे
स्थानमन्ते तस्येव जन्मनि । अवमन्य यतो यातो
मामिदानीं नराधम! । इयुक्तान्तर्हितो भूत्वा स
स्वयं नारदी मुनिः । गुरुनारदवाक्याभ्यां महेशो
विस्मयं गतः । गते बहुतिथे काले राजा पञ्चत्वमाप सः ।
पर्य्यलीकानने स्कन्द! करिण्यां जनिमाप सः । इभास्यो
बलवान् वीरः सर्वत्रासौ नराकृतिः”

गजासुरद्वेषिन् पु० गजासुरं द्वेष्टि द्विष--णिनि ६ त० ।

महादेवे कृत्तिवासःशब्दे विवृतिः ।
स्कन्दपु० गणेशख० १० अ० तु तं हत्वा तस्य स्वभक्तिमालक्ष्य
तच्चर्म्मधारणं ताच्छरसः कैलासे स्थापनञ्च वर्णितं यथा
“जघान तं त्रिशूलेन स्कन्द! कोपात् गजासुरम्” इत्युपक्रम्य
“तव हस्तादभून्मृत्युरन्त ते दर्शनं यतः । उक्तञ्च
गुरुणा पूर्वं भघिव्यं नारदेन च । कैलासन्तु गते तस्मित्
गृह्यास्य चर्म्म चाननम् । चर्मणः परिधानञ्च
मुखस्यापि प्रपूजनम् । भक्तवात्सस्यभावेन क्रियतेऽद्यापि
षण्मुख!” । अस्यैव शिरसा विमस्तकस्य विनायकस्य
गजाननतेति गजाननशब्दे दर्शितम् ।

गजास्य पु० गजस्यास्यमास्यमस्य । १ गणेशे हेम० । ६ त० ।

२ हस्तिवदने न० । गजस्यास्यमिवास्यं यस्य । ३ गजासुरे
पु० गजासुरशब्दे दृश्यम् ।

गजाह्व न० गजसहिता आह्वा यस्य शाक० त० । १ हस्ति-

नापुरे मेदि० । गजाह्वयमयत्र । “युधिष्ठिरस्यानुमते
वनवासात् गजाह्वयम्” भा० व० ६ अ० । २ तत्पुरयुक्ते
देशभेदे तद्वासिषु तन्नृपेषु च पु० बहुव०, स च देशः
वृहत्सं० १४ अ० कूर्मविभागे मध्यस्थतयोक्तः । “गजा-
ह्वयाश्चेति मव्यमिदम्” ।

गजाह्वा स्त्री गजोपपदा आह्वा अस्या । १ गजपिप्पल्याम् वेदि० । २ हस्तिनापुर्य्याञ्च ।

गजेन्द्र पु० गज इन्द्र इव व्याघ्रा० उपमितस०, ६ त० वा । १ श्रेष्ठ-

गजे । २ गजयथपतौ च । “नेत्रश्रियं विकसतो विदधुर्ग-
जेन्द्राः” माघः । अगस्त्यशापेन गजेन्द्रतां प्राप्ते ३ इन्द्रद्युम्ने
नृपे च तस्य तथाशापादिकथा भाग० ८ क० ४ अ० उक्ता यथा
“स वै पूर्वमभूद्राजा पाण्ड्योद्रविडसत्तमः । इन्द्र-
द्युम्न इति ख्यातो विष्णुव्रतपरायणः । स एकदा-
ऽऽराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् ।
जटाधरस्तापस आप्लुतोऽव्युतं समर्चयामास कुलाचला-
श्रमः । यदृच्छया तत्र महायशा मुनिः समागमच्छिव्य-
गणैः परिश्रितः । तं वीक्ष्य तूणीमकृतार्हणादिकं
रहस्युपासीनमृषिश्चुकोप ह! तस्माइमं शापमदाद-
साधुरयं दुरात्माऽकृतबुद्धिरद्य । विप्रावमन्ता विशतां
तमित्रं यथा गजस्तब्धमतिः स एव । श्रीशुक उवाच ।
एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप! सानुगः । इन्द्र-
द्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् । आपन्नः
कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्य्यर्च्चनानु-
भावेन यद्गजत्वेऽप्यनुस्मृतिः” ।
ततः तच्छापेन गजेन्द्रतां प्राप्तस्य कदाचित् त्रिकूटप
र्वते वरुणोद्यानस्थसरसि निमग्नस्य ग्राहेण ग्रहणं
पृष्ठ २४९७
पूर्वजन्माज्जि तहरिसेवावासनावशात् हरिस्तवनमेव
तदुपायतया संचिन्त्य तस्य स्तवने कृते हरिणा तस्य
ततो विमोक्षणं कृतं तेनैव च दिव्यगतिलाभश्च तस्य
जात इत्येषा कथा तत्रैव ३० अ० स्थिता दिग्मात्रं ततः
उदाह्रियते ।
“घृणी करेणुं करभांश्च दुर्भदो नाचष्ट कृच्छ्रं कृपणोऽज-
मायया । तं तव कश्चिन्नृप! दैवचोदितो ग्राहो बलीयां-
श्चरणे रुषाऽग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो
यथाबलं सोऽतिबली विचक्रमे । यथातुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा । विचक्रुशुर्दीनधियो-
ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् । नियु-
ध्यतोरेवमिभेन्द्रनक्रयोर्विकर्षतीरन्तरतो बहिर्म्मिथः ।
समाः सहस्रं व्यगमन्महीपते! सप्राणयाश्चित्रममं-
सतामराः । तती गजन्द्रस्य मनोवलौजसां कालेन
दीर्वण महानभूद्व्यवः । विकृव्यमाणस्य जलेऽवसीदतो
विपर्य्ययोऽभूत् सकलं जलौकसः । इत्थं गजेन्द्रः स
यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया ।
अपायन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यप-
द्यत । न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः
भवति मोक्षधुम् । ग्राहेण पाशेन विधातुरावृतो-
ऽप्यहं च तं यामि परं परायणम् । यः कश्चनेशोब-
लिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति, यद्भयान्मृत्युः प्रधावत्यरणं
तमीमहि” । भा० ८ । २ अ० ।
ततः तत्कृतस्तुतिमुपवर्ण्ण्य ३ अ० शेषे, हरिणा ततो
गजेन्द्रस्य मोक्षणमुक्तं यथा
एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविध-
लिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मक-
त्वात्तत्राखिलामरमयो हरिराविरासीत् । तं तद्वदार्त्त-
मुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह
संस्तुवद्भिः । छन्दोमयेन गरुडेन समुह्यमानश्चकायुधोऽभ्यग-
मदाशु यतो गजेन्द्रः । सोऽन्तःसरस्युरुवलेन गृही-
त आर्त्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छान्नारायणाखिल-
गुरो! भगवन्नमस्ते । तं वीक्ष्य पीडितमजः सहसा-
ऽवतीर्व्य स ग्राहमाशु सरसः कृपयोज्जहार । ग्राहा-
द्विपाटितमुखादरिणा गजेन्द्रं सम्पश्यतां हरिरमूमुच-
दुच्छ्रियाणाम्” ।
गजेन्द्रमोक्षणरूपस्य हरिचरितस्य श्रवणे फलमाह
“एतन्महाराज! तवेरिता मया कृष्णानुभावो गजराज
मोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं
कुरुवर्य! शृण्वताम् । यथानुकीर्त्तयन्त्येतच्छ्रयस्कामाद्वि-
जातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये” ।
तद्गजेन्द्रकृतस्तवमाहात्म्यमपि तत्रैवोक्तं यथा “ये मां
स्त्युवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये
चाहं ददामि विमलां मतिम्” तं प्रति हरेर्वरदानम् ।

गजेष्टा स्त्री गजानामिष्टा । विदार्य्याम् भूमिकुष्माण्डे

राजनि० ।

गजोदर पु० गजस्योदरमिवोदरमस्य । दैत्यभेदे हरिवं०

गजाशिरःशब्दे दृश्यम् ।

गजोषणा स्त्री गजोपपदा ऊषला । गजपिप्पल्याम् । राजनि० ।

गञ्ज पु० गजि--घञ् । १ अवज्ञायाम् हेमच० । आधारे घञ् ।

२ गोष्ठागारे हारा० । ३ भाण्डागारे ४ खनौ मेदि० ।
५ पामरगृहे, ६ हट्टस्थाने, ७ मद्यभाण्टे, शब्दरत्ना०
८ मदिरागृहे स्त्री टाप् अमरः ।

गञ्जन त्रि० गजि--स्वने णिच्--ल्यु । तिरस्कारके “नेत्रे

खञ्जनगञ्जने सरसिजप्रस्पर्द्धि पाणिद्वयम्” सा० द० ।
“युष्मत्कृते खञ्जनगञ्जनाक्षि! शिरीमदीयं यदि याति
यातु” उद्भटः । “अलिकुलगञ्जनमञ्जनकम्” गोतगो० ।

गञ्जिका स्त्री गञ्जैव स्वार्थे क । मदिरागृहे शब्दर० ।

गड़ सेके भ्वा० पर० सक० सेट् । गडति अगाडीत्-

अगडीत् । जगाड घटा० । गडयति--ते ।

गड़ वदनैकदेशे (गण्डव्यापारे) इदित् भ्वा० पर० अक० सेट् ।

गण्डति अगण्डीत् । जगण्डः गण्डः । गण्डूषः ।

गड़ पु० गड--सेके अच् । (गडुइ) गरघ्नोनामके मत्स्य

भेदे । “गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत् ।
कफघ्नी रुचिकृल्लव्वी दीपनी बलवीर्य्यकृत्” भावप्र० ।
तस्य पाकविशेषे गुणा उक्ता वैद्यके “पुच्छ-
शीर्षेण रहिताः कासमर्द्दविमर्द्दिताः । हिङ्गुतैले च
संतप्ता गडमस्यस्य खण्डकाः । गडो वातहरी बल्यो
वृष्यः पथ्योऽग्निवर्द्धनः । सुरुच्यः शुक्रदोऽत्यर्थं किञ्चित्
कफकरः सरः” २ अन्तराये मेदि० । ३ परिखायां ४
व्यवधाने शब्दर० । ५ देशभेदे शाम्बरे राजनि० ।
गडसंज्ञायां क्वुन् । गडक (गडुइ) मत्स्यभेदे अमरः ।

गड़देशज न० गडदेशे शाम्बरदेशे जायते जन--ड । शाम्ब-

रदेशजातलवणे राजनि० ।
पृष्ठ २४९८

गड़यन्त पु० घटा० गड--णिच्--झच् ह्रस्वः । १ मेघे सि० को०

गड़लवण न० गडदेशर्ज लवणम् । शाम्बरदेशजे लवणभेदे

राजनि० । “गड़ोत्थं लघुवातघ्नमत्युष्णं भेदि पित्तलम् ।
तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि च” भावप्र०

गड़ि पु० गड--इन् । १ वत्सतरे राजनि० । २ भारवहनादि-

स्वकार्य्ये अलसे गवादौ (गड़िया) “गुणानामेव दौरा-
त्म्यद्धुरि धुर्य्यो नियुज्यते । अंसजातकिणस्कन्धः सुखं
स्वपिति गौर्गडिः” काव्यप्र० ।

गडु पु० गड--उन् । १ गलगण्डे घाटामस्तकयोर्मध्ये

मासवृद्धिकारके रोगभेदे भरतः । २ कुब्जे मेदि० । ३ शल्या-
स्त्रे शब्दर० । ४ किञ्चुलके (केँचो) त्रिका० । गल
गण्डवन्निरर्थके ५ पदार्थे च “काव्यान्तर्गडुभूतत्वात्
नालङ्कारः प्रहेलिका” सा० द० । “किमन्तर्गडुला” सर्वद०
स० । अस्य कण्ठशब्देन समासे आहिता० वा पूर्वनि० ।
गडुकण्ठः, कण्ठगडुः ।

गडुक पु० गडुर्गलगण्ड इव कायति र्मध्ये कै--क । (गाडु)

ख्याते भृङ्गारे पात्रभेदे तन्मध्यस्य गलगण्डाकृतित्वात्
तथात्वम् । “घण्ठागडुककुम्भादिस्नानोपस्करभाजनैः”
काशी० ३ अ० । ३ तदाकृतौ ऋषिभेदे पु० तस्य गोत्रापत्यम्
इञ् । गाडुकि तदपत्ये पुंस्त्री अन्यशब्देन तस्य द्वन्द्वे
अद्वन्द्वे च बहुषु इञोलुक् । गडुकास्तदृषेर्गोत्रापत्येषु ।

गडुर(ल) त्रि० गडुः कुब्जरोगोऽस्त्यस्य सिध्मा० लच् बा० र

वा । १ कुब्जे शब्दर० । स्त्रियां गौरा० ङीष् ।
गलगण्डवदाकृतिमत्त्वात् तस्य तथात्वम् । ततः ब्राह्मणा०
भावे ष्यञ् । गाडुल्य तद्भावे न० कडा० कर्म्मधा० अस्य
पूर्वनि० । खञ्जगडुलः गडुलखञ्जः ।

गडेर पुंस्त्री० गड--एरक् । १ मेषे (गाडोल) । त्रिका० ।

जातित्वात् स्त्रियां ङीप् ।

गड़ोत्थ न० गड़ात् देशभेदात् उत्तिष्ठति उद् + स्था--क ।

शाम्बरदेशजे लवणभेदे राजनि० ।

गडोल पु० गड--ओलच् । १ गुड़के (गुली) अस्त्रभेदे उज्ज्व० । २ ग्रासे हेम० ।

गड्डर(ल) पु० गड--बा० डर डल वा डस्य नेत्त्वम् । १ मेषे ।

गड्डरि(लि)का स्त्री गड्डरं(लं)मेषमनुधावति ठन् ।

मेषानुगन्त्र्यां १ मेषपङ्क्तौ । तत्सादृश्यादविच्छिन्नगतौ
अज्ञातप्रवाहागममूले २ धारावाहिनि च शब्दचि० ।

गड्डुक पु० गडुक + पृषो० । १ भृङ्गारे जलपात्रभेदे शब्दर०

पृषो० दीर्घमध्योऽपि तत्रार्थे ।

गण सख्याने अद० चु० उभ० सक० सेट् । गणयति ते अ-

जीगणत् त अजगणत् त । गणयाम्--बभूव
आसचकार चक्रे । गणयितव्यः । गण्यः । गणयिता गणयन् ।
गणितम् । गणनम् गणना । गणायत्वा ।
विगणय्य । गणः, “गणयति विहितहुताशविकल्पम्” गीतगो०
“तां भक्तिरेवागणयत् पुरस्तात्” रघुः । “पदानि गणयन्
गच्छ स्वानि नैषध! कानिचित्” भा० व० २६१८ । नलं प्रति
कर्कोटकनागोक्तिः “यदि त्रिलोकी गणनापरा स्यात्
तस्याः समाप्रिर्यदि नायुषः स्यात् । पारेपरार्द्ध
गणितं यदि स्यात् गणेयनिःशषगुणोऽपि स स्यात्” नैष० ।
“लीलाकमलपत्राणि गणयामास पार्वती” कुमा० । “अजी-
गणद्दाशरथं न वाक्यम्” भट्टिः । “वाणीं काणभुजीमजी-
गणदवासासीच्च वैयासिकीस्” माघटी०, मल्लिनाथः “वृह-
स्पतिश्च भगवानादित्येष्येव गण्यते” भा० आ० २६०३ श्लो०
  • अव + अवज्ञायाम् । “नार्थनूनैर्नावगणैरेकात्मभिरसाधनैः”
भा० व० ८२ अ० ।
  • वि + विशेषेण संख्याने “अदूरवर्त्तिनीं सिद्धिं राजन्!
विगणयात्मनः” रघुः ।

गण पु० गण--कर्मणि अच कर्त्तरि अच् वा । १ समूहे ।

“गणानां त्वां गणपतिम्” यजु० २३, १९ । “गणपतिं गणानां
समूहानां पालकम्” येददी० । २ प्रमथे “सकलहंसगणं
शुचि मानसम् शिवमगात्मजया च कृतेर्ष्यया सकलहं
सगणं शुचिमानसम्” “गणानमेरुप्रसवावतंसाः” कुमा० ।
सेनाविशेषाणां ३ सङ्ख्याविशेषे अमरः । स च अनीकि-
नीशब्दे १६९ पृ० दर्शितेन “त्रयोगुल्मा गणो नाम” इत्या-
दिवाक्येन उक्तः तेन (रथाः २७ गजाः २७ । अश्वाः ८१
पदातिकाः १३५ सर्वसमष्टिः २७०, इति संख्याविशेषः) ।
४ चोरनामगन्धद्रव्ये मेदि० । गणः प्रमथादिः वश्यत्वेन
सत्त्वादिगुणगणः वश्यत्वेन वा गणः गणदैत्यः नाश्यत्वेन
वाऽस्त्यस्य अच् । ५ गणेशे “गणदीक्षाप्रवर्त्तकः” महानि० ।
प्रमथाधिपत्वात् तस्य गणेशत्वम् । विवाहे वरकन्ययो-
र्मेलनज्ञानोपयोगिनि ६ देवराक्षसमानुषसूचके ताराभेद-
वर्गे उपयमशब्दे १२५० पृ० बिवृतिः । “गणमैत्री भकूटं च
नाड़ी चैते गुणाधिकाः” मुहूर्त्तचि० । “नो गणानां
च दोषः” ज्यो० त० । ७ ध्रुवादिसंज्ञके नक्षत्रविशेष-
समूहे “उग्रः पूर्वमघान्तका ध्रुवगणः इत्यादि”
ज्यो० त० । सम्भूय एकद्रव्यतापादनेन ८ बाणिज्यकारिणि-
बणिक्समूहे च “श्रेणिनैगमपाषण्डिगणानामप्ययं विधिः”
“गणद्रव्यं हरेद्यस्तु संविदं यश्च लङ्घयेत्” याज्ञव० ।
पृष्ठ २४९९
“भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च ।
तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” उक्तेषु शबादि-
विकरणविशेषनिमित्तेषु दशसु ९ धातुसमुदायेषु तद्युक्त-
त्वात् १० गणपाठग्रन्थेऽपि । पाणिनिरचिते ११ स्वरादि-
स्मरूपप्रतिपादकग्रन्थे १२ देत्यभेदे स च दैत्यः अभिजिद-
परनाम्नो गुणवतः गुणवत्यां जातः यथाह स्कन्दपु०
गणेशख० ३ अ० “अथ सोप्यऽभिजित् पत्न्या समुद्रस्नान-
माययौ । पर्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ।
तृषिता सा गुणवती पपौ चाऽञ्जलिना जलम् । यद्वीर्य्यं
ब्रह्मणात्यक्तं दैवात्तदुदरे गतम्” । “भार्य्या गुणवती तस्य
नवमासादनन्तरम् । पुत्रं प्रासूताऽह्नि शुभे दिव्यरूपं
गुणाद्भुतम् । ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां
पिता । कृत्वाभ्युदयिकं चक्रे व्यतीते दशमेऽहनि”
स च महादेवमाराध्य लब्धवरस्त्रैलोक्यं निर्जित्य
कपिलमुनेश्चिन्तामणिं हृतवान् तेन जातमन्युना तेन
गणेशस्य सेवने कृते गणेशेन तद्गृहे अवतीर्य्य तं
गणदैत्यं नाशितवान् इत्येषा कथा तत्रैव विस्तीर्णा दिङ्मात्र
मुच्यते यथा “कथं नाशितवाञ्छम्भो! गणदैत्यं विना-
यकः । तर्त्सवं कृपया देव! कथयस्व ममाग्रतः ।
शिवउवाच । यथा नाशितवान् दैत्यं गणं दुष्टमतिं विभुः ।
तथाहं कथष्यामि तच्छृणुष्व षड़ानन” ६ अ० इत्युपक्रम्य
“प्राप्तसंज्ञां परशुना हन्ति स्म नं रुषा विभुः ।
दृष्टवान् परशुं वीरमुख्यः सूर्यमिवाऽपरम् । सुतीक्ष्णं
ज्वालया व्याप्तं कालचक्रनिभं शुभम् । दहन्तं
दशदिग्भागान् प्रलयानलसन्निभम् । यदा तत्सादरं द्रष्टु
मुपचक्राम दैत्यराट् । तदैवापातयच्छित्वा परशुस्तस्य
मस्तकम् । सपर्वतवना पृथ्वी चात्नसत् सागरैः सह ।
अभिजित्प्रमुखाः सर्वे रुरुदुः पतिते गणे” ७ अ० ।
शस् गणशस्, कृत्वस् गणकृत्वस् वीप्सार्थे कारकार्थ-
वृत्तौ गणशब्दार्थे अव्य० । १३ स्वपक्षे “सगणाय
मपरिवाराय सायुधाय सशक्तिकाय इन्द्राय नमः” इति
विधानपारिजा० । १४ वाक्ये निघण्टुः ।

गणक त्रि० गण--ण्वुल् । १ संख्याकारके २ सांवत्सरिके पु० ।

तस्य लक्षणगुणदोषादिकमुक्तं वृ० सं० २ अ० यथा
“ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्
कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता ।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।
“अथातः सांवत्सरसूत्रं व्याख्यास्यामः । तत्र सांवत्-
सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः
समसुसंहतोपचितगात्रसन्धिरविकलश्चारुकरचरणनखन-
यनचिवुकदशनश्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गम्भी-
रोदात्तघोषः । प्रायः शरीराकारानुवर्त्तिनो हि गुणाश्च
दोषाश्च भवन्ति । तत्र गुणाः । शुचिर्दक्षः प्रगल्भो
वाग्मी प्रतिभानवान् देशकालवित् सात्विको न पर्षद्भीरुः
सहाध्यायिभिरनभिमवनीयः कुशलोऽव्यसनी शान्ति-
पौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवास-
निरतः स्वतन्त्राश्चर्योत्पादितज्ञानप्रभावः पृष्टाभिधाय्य-
न्यत्र दैवात्ययाद्ग्रहगणितसंहिताहोराग्रन्थार्थवेत्ता ।
तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु
पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाम-
मुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्यवयवाद्यस्य कालस्य
क्षेत्रस्य च वेत्ता । चतुर्णां च मासानां सौरसावन-
नाक्षत्रचन्द्राणामधिमासकावमसम्भवस्य च कारणाभिज्ञः ।
षष्ट्यव्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेद-
वित् । सौरादीनाञ्च मानानां सदृशासदृशयोग्या-
योग्यत्वप्रतिपादनपटुः । सिद्धान्तभेदेऽप्ययननिवृत्तौ प्रत्यक्षं
सममण्डलरेखासम्प्रयोगाभ्युदितांशकानाञ्च छायाजल-
यन्त्रदृग्गणितसाम्येन प्रतिपादतकुशलः । सूर्य्यादीनाञ्च
ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः
सूर्य्यचन्द्रमसोश्च ग्रहणे ग्रहणादिमोक्षकालदिक्प्रमाण-
स्थितिविमर्दवर्णदेशानामनागतग्रहसमागमयुद्धानामा-
देष्टा । प्रत्येकग्रहभ्रमणयोजनकक्षाप्रमाणप्रतिविषय-
योजनपरिच्छेदकुशलो भूभगणभ्रमणसंस्थानाद्यक्षाबल-
म्बकाहर्व्यासचरदलकालराश्युदयच्छायानाडीकरणप्रभृ-
तिंषु क्षेत्रकालकरणेष्वभिज्ञो नानाचोद्यप्रश्नभेदोपलब्धि-
जनितवाक्सारो निकषसन्तापाभिनिवेशैर्विशुद्धस्य
कनकस्येवाधिकतरममलीकृतस्य शास्त्रस्य वक्ता तन्त्रज्ञो भवति ।
उक्तञ्च न प्रतिबद्धं गमयति वक्ति न च प्रश्नमेकमपि पृष्टः ।
निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ।
ग्रन्थोऽन्यथान्यथार्थः करणं यच्चान्यथा करोत्यबुधः । स
पितामहमुपगम्य स्तौति नरो वैशिकेनार्य्याम् । तन्त्रे
सुपरिज्ञाते लग्ने छायाम्बुयन्त्रसोवदिते । होरार्थे
च सुरूढ़े नादेष्टुर्भारती बन्ध्या । उक्तञ्चार्य्यविष्णु-
गुप्तेन । अप्यर्णवस्य पुरुषः प्रतरन् कदाचिदासादयेद-
निलवेगवशेन पारम् । न त्वस्य कालपुरुषाख्यमहा-
पृष्ठ २५००
र्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम् । होरा-
शास्त्रेऽपि राशिहोराद्रेक्काणनवांशकद्वादशभागत्रिंश-
द्भागबलाबलपरिग्रहो ग्रहाणां दिक्स्थानकालचेष्टाभि-
रनेकप्रकारबलनिर्धारणं प्रकृतिधातुद्रव्यजातिचेष्टादि-
परिग्रहो निषेकजन्मकालविस्मापनप्रत्ययादेशसद्योमर-
णायुर्दायदशान्तर्दशाष्टवर्गराजयोगचन्द्रयोगद्विग्रहादियो-
गानां नाभसादीनाञ्च योगानां फलान्याश्रयभावाबलो-
कननिर्याणगत्यनूकानि तात्कालिकप्रश्नशुभाशुभनिमि-
त्तानि विवाहादीनाञ्च कर्मणां करणम् । यात्रायाञ्च
तिथिदिवसकरणनक्षत्रमुहूर्त्तविलग्नयोगदेहस्पन्दनस्वप्नवि-
जयस्नानग्रहयज्ञगणयागाग्निलिङ्गहस्त्यश्वेङ्गितसेनाप्रवाद-
चेष्टादिग्रहषाङ्गुण्योपायमङ्गलामङ्गलशकुनसैन्यनिवेशभूम-
योऽग्निवर्णा मन्त्रिचरदूताटविकानां यथाकालं प्रयोगाः
परदुर्गलम्भोपायाश्चेत्युक्तं चाचार्यैः । जगति प्रसा-
रितमिवालिखितमिव मतौ निषिक्तमिव हृदये । शास्त्रं
यस्य सभगणं नादेशा निष्फलास्तस्य । संहितापारगश्च
दैवचिन्तको भवति । यत्रैते संहितापदार्थाः । दिनकरा-
दीनां ग्रहाणां चारास्तेषु च तेषां प्रकृतिविकृतिप्रमाण-
वर्णकिरणद्युतिसंस्थानास्तमनोदयमार्गमार्गान्तरवक्रानुव-
क्रर्क्षग्रहसमागमचारादिभिः फलानि नक्षत्रकूर्मविभागेन
देशेष्वगस्तिचारः सप्तर्षिचारो ग्रहभक्तयो नक्षत्रव्यूह-
ग्रहशृङ्गाटकग्रहयुद्धग्रहसमागमग्रहवर्षफलगर्भलक्षण-
रोहिणीस्वात्याषाढीयोगाः सद्योवर्षकुसुमलतापरि-
धिपरिवेषपरिघपवनोल्कादिग्दाहक्षितिचलनसन्ध्यारा-
गगन्धर्बनगररजोनिर्घातार्घकाण्डसस्यजन्मेन्द्रध्वजेन्द्र-
चापवास्तुविद्याङ्गविद्यावायसविद्यान्तरचक्रमृगचक्राश्व-
चक्रवातचक्रप्रासादलक्षणप्रतिमालक्षणप्रतिष्ठापनवृक्षायु-
र्वेददगार्गलनीराजनखञ्जनोत्पातशान्तिमयूरचित्रकघृत-
कम्बलखङ्गपट्टकृकवाकुकूर्मगोऽजाश्वेभपुरुषस्त्रीलक्षणान्य-
न्तःपुरचिन्तापिटकलक्षणोपानच्छेदवस्त्रच्छेदचामरदण्ड-
शय्यासनलक्षणरत्नपरीक्षादीपलक्षणदन्तकाष्ठाद्याश्रितानि
शुभाशुभानि निमित्तानि सामान्यानि च जगतः प्रति-
षुरुषं पार्थिवे च प्रतिक्षणमनन्यकर्माभियुक्तेन
दैवज्ञेन चिन्तयितव्यानि । न चैकाकिना शक्यन्तेऽहर्निश-
मवधारयितुं निमित्तानि । तस्मात् सुभृतेनैव दैवज्ञे-
नान्ये तद्विदश्चत्वारो भर्त्तव्याः । तत्रैकेनैन्द्री वाग्नेयी
च दिगवलोकयितव्या । याम्या नैरृती चान्येनैवं
वारुणींवायव्या, चोत्तरा चैशानी चेति । यस्मादुल्का-
पातादीनि निमित्तानि शीघ्रमुपगच्छन्तीति । तेषां
चाकारबर्णस्नेहप्रमाणादिग्रहर्क्षामिघातादिभिः फलानि
भवन्ति । उक्तञ्च गर्गेण महर्षिणा “कृत्स्नाङ्गोपाङ्ग-
कुशलं होरागणितनैष्ठिकम् । यो न पूजयते राजा स
नाशमुपगच्छति । वनं समाश्रिता येऽपि निर्ममा निःपरि-
ग्रहाः । अपि ते परिपृच्छन्ति ज्योतिषां गतिकोविदम् ।
अप्रदीपा यथा रात्रिरनादित्यं यथा नभः । तथाऽसां-
वत्सरो राजा भ्रमत्यन्ध इवाध्वनि । मुहूर्त्तं तिथि-
नक्षत्रमृतवश्चायने तथा । सर्वाण्येवाकुलानि स्युर्न स्यात्
सांवत्सरो यदि । तस्माद्राज्ञाभिगन्तव्यो विद्वान् सांवत्-
सरोऽग्रणीः । जयं यशः श्रियं भोगान् श्रेयश्च
समभीप्सता । नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ।
चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते । न सांवत्-
सरपाठी च नरकेषूपपद्यते । व्रह्मलोकप्रतिष्ठाञ्च लभते
दैवचिन्तकः । ग्रन्थतश्चार्थतश्चैतत्कृत्स्नं जानाति यो
द्विजः! अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपाबनः ।
म्लेच्छा हि यवनास्तेषु सम्यक् शास्त्रमिदं स्थितम् ।
ऋषिवत्तेऽपि पूज्यन्ते किं पुनर्दैवविद्द्विजः! कुहका-
वेशपिहितैः कर्णोपश्रुतिहेतुभिः । कृतादेशो न सर्वत्र
प्रष्टव्यो न स दैववित् । अविदित्वैव यः शास्त्रं दैवज्ञत्वं
प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ।
नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स ब्रजत्यन्ध-
तामिस्रं सार्द्धमृक्षविडम्बिना । नगरद्वारलोष्टस्य यद्वत्
स्यादुपयाचितम् । आदेशस्तद्वदज्ञानां यः सत्यः स
विभाव्यते । सम्पत्त्या योजितादेशस्तद्विच्छिन्नकथाप्रियः! ।
मत्तः शास्त्रैकदेशेन त्याज्यस्तादृग्महीक्षिता । यस्तु
सम्यग्विजानाति होरागणितसंहिताः । अभ्यर्च्यः स
नरेन्द्रेण स्वीकर्त्तव्यो जयैषिणा । न तत्सहस्रं करिणां
वाजिनां वा चतुर्गुणम् । करोति देशकालज्ञो यदेको
दैवचिन्तकः । दुःस्वप्नदुर्विचिन्तितदुःप्रेक्षितदुःकृतानि
कर्माणि । क्षिप्रं प्रयान्ति नाशं शशिनः श्रुत्वा
भसंवादम् । न तथेच्छति भूपतेः पिता जननी वा स्वजनो
ऽथवा सुहृत् । स्वयशोऽभिविवृद्धये यथा हितमाप्तः
सवलस्य दैववित्” ।
सि० शि० ज्योतिःशास्त्रस्य वेदनेत्र रूपाङ्गत्वप्रतिपा-
दनेन तदध्ययने द्विजातिमात्रस्यैवाधिकारं प्रतिपाद्य
तद्वेत्तुर्गणकस्य प्रशंसा दर्शिता यथा
“त्रुट्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमाच्चारश्च
पृष्ठ २५०१
द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः । भूधिष्ण्य
ग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स
उदाहृतोऽत्र गणितस्कन्धप्रवन्धे बुधैः ॥ जानन् जातक-
संहिताः सगणितस्कन्धैकदेशा अपि ज्योतिःशास्त्रविचार
सारचतुरः प्रश्नेष्वकिञ्चित्करः । यः सिद्धान्तमनन्तयुक्ति-
विततं नो वेति भित्तौ यथा राजा चित्रमयोऽथवा
सुवटितः काष्ठस्य कण्ठीरवः ॥ गर्जत्कुञ्जरवर्जिता नृपच-
मूरप्यूर्जिताऽश्वादिकैरुद्यानं च्युतचूतवृक्षमथवा पाथो-
विहीनं सरः । योषित् प्रोषितनूतनप्रियतमा यद्वन्न
भात्युच्यकैर्ज्योतिःशास्त्रमिदं तथैव विबुधाः सिद्धान्त-
हीनं जगुः” ॥ “इदानीं ज्योतिःशास्त्रस्य वेदाङ्गत्वं
निरूय वेदाङ्गत्वादवश्यमध्येतव्यं तद्द्विजैरेव नान्यैः
शूद्रादिभिरित्येतत्प्रतिपादनार्थं श्लोकचतुष्टयमाह” प्रमि०
“वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिष-
स्योक्तमस्मात् ॥ शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी
श्रोत्रमुक्तं निरुक्तं च कल्पः करौ । या तु शिक्षास्य
वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।
वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य
तेनोच्यते । संयुतोऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गेन
हीनो न किञ्चित्करः । तस्माद्द्विजैरध्ययनीयमेतत् पुण्यं
रहस्यं परमं च तत्त्वम् । यो ज्योतिषं वेत्ति नरः स
सम्यग् धर्मार्थकामान् लभते यशश्च” सि० शि० । एवं गणकस्य
प्रशंसायां स्थितायाम् सिद्धान्तानभिज्ञस्य नक्षत्रसूचिनो
निन्दाश्रवणाच्च “वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधको-
त्तमः! तथाप्यस्पृश्यगणकं सर्वदा तु परित्यजेत्” महिष-
मर्द्दिनीतन्त्रवाक्यम् नक्षत्रसूचिविषयम् “चमकारस्य द्वौ
पुत्रौ गणको वाद्यपूरकः, इत्युक्त सङ्कीर्णवर्णरूपगणकपरत्वे
सङ्कोचाभावाच्च तस्याधमशूद्रतया वेदाङ्गज्योतिषेऽनधिकारात्
अनधिकृतशास्त्राध्यायिनो निन्दौचित्यात् । “द्विजातेऽस्तु
यथोक्त स्कन्धादित्रयवेत्तृरूपगणकस्य प्रशंस्यत्वात् । न तथा ।
यथाहपी० धा० “सिद्धान्तसंहिताहोरारूपस्कन्दत्रयात्मकम् ।
वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् । विनैतदखिलं
श्रौतं स्मार्तकर्म न सिध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा
निर्मितं पुरा । अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः” इति ।
तत्रैव ज्योतिःशास्त्राध्येतुर्माहात्म्यमाह माण्डव्यः “एवं-
विधस्य श्रुतिनेत्रशास्त्रस्वरूपवेत्तुः खलु दर्शनं वै ।
निहन्त्यशेषं कलुषं जनानां षड़व्दजं धर्मसुखास्पदं स्यात्” अत्र
ज्ञानविशेषेण ज्योतिर्विदः पूज्यतातारतम्यं जीर्णैरभ्य-
धायि “दशदिनकृतपापं हन्ति सिद्धान्तवेत्ता त्रिदिनजनि-
तदोषं तन्त्रबिज्ञः स एव । करणभगणवेत्ता हन्त्यहोरा-
त्रदोषं जनयति घनमंहश्चात्र नक्षत्रसूची” । नक्षत्रसूची
दैवज्ञो घनं बहु अंहः पापं जनयति । तल्लक्षणं
वराहसंहितायां “अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रप-
द्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः” अन्यच्च
“तिथ्युत्पत्तिन्न जानन्ति ग्रहाणां नैव साधनम् ।
परवाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” व्युत्पत्तिस्तु गृहे गृहे
गत्वाऽपृष्ट एव नक्षत्राण्यश्विन्यादीनि शुभाशुभफलसूच-
कानि सूचयतीति नक्षत्रसूची । वराहः “नक्षत्रसूच-
कोद्दिष्टमुपवासं करोति यः । स व्रजत्यन्धतामिस्रं
सार्द्धमृक्षविड़म्बिना नक्षत्रसूचकं पापं भिषजं शुल्क-
जीविनम् । तादृक् पौराणिकादींश्च वाङ्मात्रेणापि
नार्चयेत्” अतएव वसिष्टः “त्रिस्कन्धपारङ्गम एव पूज्यः
श्राद्धे सदा भूसुरवृन्दमध्ये । नक्षत्रसूची खलु पापरूपो
हेयः सदा सर्वसुधर्मकृत्ये” । वराहोऽपि ग्रन्थतश्चाऽर्थत-
श्चैव कृत्स्नं जानाति यो द्विजः । अग्रभुक् स
भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः । नासांवत्सरिके देशे
वस्तव्यं भूतिमिच्छता । चक्षुर्भूतोऽपि यत्रैव पापं तत्र
न विद्यते । मुहूर्त्तं तिथिनक्षत्रमृतवश्चायनानि च ।
सर्वाण्येवाकुलानि स्पुर्न स्यात् सांवत्सरो यदि” । अत
एव यद्धर्मशास्त्रे सुमन्तुः “तस्करकितवेत्यादिना महता
गद्येन यत् “सांवत्सरिकोऽपाङ्क्तेयः” इत्याह यच्च
महाभारतेऽपि “कितवो भ्रूणहा यक्ष्मीत्यादिपद्यषट्कमध्ये
क्रुशीलवो देवलको नक्षत्रैर्यश्च जीवति । एतानिह
विजानीयाद्ब्राह्मणान् पङ्क्तिदूषकानित्युक्तं तन्नक्षत्र-
सूचकज्योतिर्विद्विषयं यदाह कश्यपः “दारर्त्विगृभ्रूण-
हन्तॄंश्च व्यङ्गान्नक्षत्रसूचकान् । वर्ज्जयेत् ब्राह्मणानेतान्
सर्वकर्मसु यत्नतः” इति “नक्षत्रसूचकश्चैव पर्वकारश्च
गर्हितः” इति ब्रह्मपुराणेऽप्युक्तम् मनुः “तिथिं पक्षस्य
न ब्रूयान्न नक्षत्राणि निर्दिशेत्” इत्याह स्म
अपृष्ट इति शेषः । यमोऽपि “नक्षत्रतिथिपुण्याहान्मु-
हूर्त्तान् मङ्गलानि च । न निर्दिशन्ति ये विप्रा-
स्तैर्भुक्तं ह्यक्षयं भवेदिति” वसिष्ठवाक्यन्तु “प्राग-
भिहितम् महाप्रयोजनं त्वेतच्छास्त्रस्य सम्यग्ज्ञा-
नाद्ब्रह्म सायुज्यमिति” तदुक्तं गर्गेण “ज्योतिश्चक्र
तु लोकस्य सर्वस्योक्तं शुभाऽशुभम् । ज्योतिर्ज्ञानं च यो
पृष्ठ २५०२
वेद स याति परमां गतिम्” । गतिं ब्रह्मसायुज्यमिति
सूर्य्यसिद्धान्तेऽपि “दिव्यञ्चक्षुर्ग्रहर्क्षाणां दर्शितं ज्ञान-
मुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्व-
तम्” वराहसंहितायामपि “न साम्बत्सरपाठी च नरके
परिपच्यते । ब्रह्मलोके प्रतिष्ठाञ्च लभते दैवचिन्तक” इति
गणकस्य पत्नी ङीष् गणकी तत्पत्न्यां जटा० । “तस्मिन्
मग्नं गणक! कथय क्षिप्रमम्भः प्रमाणम् “गणक!
पवनवेगादेकदेशे स भग्नः” लीला० । “गणकचक्रचूड़ामणिः”
सि० शि० । “चर्म्मकारस्य द्वौ पुत्रौ गणको वाद्यपूरकः”
इत्युक्ते ३ सङ्कीर्णजातिभेदे प्रजापतिपुत्रे तारापुञ्जा-
त्मके अष्टसंख्यके ४ केतुभेदे “तारापुञ्जनिकाशा गणका
नाम प्रजापतेरष्टौ” वृह० सं० ११ अ० ।

गणकर्णिका स्त्री गणस्य गणेशस्य कर्ण इव पत्रमस्याः

कप् अत इत्त्वम् । इन्द्रवारुण्याम् राजनि० ।

गणकार पु० गणं धात्वादिगणपाठं करोति कृ--अण् ।

धात्वादिगणार्थप्रतिपादके १ ग्रन्थकर्त्तरि २ भीमसेने शब्दच० ।

गणकारि पु० गणं धात्वादिगणं करोति कृ बा० इञ् ।

धात्वर्थप्रतिपादकग्रन्थकर्त्तरि । ६ त० गणकस्यारौच ।
तस्यापत्यं कुर्वा० ण्य । गाणकार्य्य तदपत्ये पुंस्त्री ।

गणकूट पुंन० गणरूप कूटम् । वरकन्ययोर्नक्षत्रभेदेन

जातयोः विवाहे मेलनोपयोगिनि सुरराक्षसमानुवरूपे कूटे ।
उपयमशब्दे १२५० पृ० विवृतिः ।

गणचक्रक न० गणानां धार्मिकगणानां चक्रसत्र कप् ।

धार्म्मिकानां सम्भूय भोजने त्रिका० ।

गणता गणस्य भावः तल् । गणसमूहे ।

गणतिथ त्रि० गण + असंख्यावाचकत्वेऽपि पूरणे डट्

तिथुगागमश्च । गणानां पूरणे ।

गणदीक्षिन् पु० गणान् दीक्षयति दीक्ष--णिनि । १ बहुया-

जके । “वेणाभिशस्तवार्द्धूषि गणिका गणदीक्षिणाम्”
अभक्ष्यान्नकथने याज्ञ० । “गणदीक्षिणो बहुयाजकाः”
मिता० ३ गणेशदीक्षकावति त्रि० स्त्रियां ङीप् ।

गणदेवता स्त्री गणभूता सङ्घभूता देवता । सङ्घभूते देवभेदे

“आदित्याविश्वे वसवस्तुषिता भास्वरानिलाः । महाराजि-
कसाध्याश्च रुद्राश्च गणदेवताः । आदित्या द्वादश प्रोक्ता
विश्वे देवा दश स्मृताः । वसवश्चाष्टसंख्याताः षट्त्रिं-
शत् तुषिता मताः । आभास्वराश्चतुःषष्टिर्वाताः पञ्चाश-
दूनकाः । महाराजिकनामानो द्वेशते चापि विंशतिः ।
साध्या द्वादशविख्याता रुद्राश्चेकादश स्मृताः । एते च
संहता देवास्तत्रादित्याः स्वनामतः” जटाधरकोषः ।

गणद्रव्य ६ त० । गणस्वामिके द्रव्ये । गणं गणींभूतं द्रव्यं

द्रव्याणां गणे च ।

गणद्वीप पुंन० गणानां सप्तानां राज्यत्वात् द्वीपः । सप्तानां

राज्यरूपे द्वीपभेदे “यत्नवन्तो गणद्वीपं सप्तराज्योपशो-
भितम्” रामा० कि० ४०३० अ० । यवद्वीपमिति पाठा-
न्तरम् ।

गणन न० गण--भावे ल्युट् । सङ्ख्याकरणे सङ्ख्याने

(गोणा) “येनैव लिखितं कुर्य्यात् तेनैव गणनं भवेत्”
विश्वसारत० । युच् । गणनाप्यत्र स्त्री । “यदि त्रिलोकी
गणनापरा स्यात्” नैष० “व्याजपर्वगणनामिवोद्वहन्” रघुः

गणनाथ पु० गणानां प्रयथादीनां नाथः । १ गणेशे २ शिवे च

गणनायकादयोऽप्यत्र । ३ बहूनां स्वामिनि त्रि० ।
गणनायिका स्त्री ३ दुर्गायाम् त्रिका० ।

गणनीय त्रि० गणयितुमर्हति गण--अनीयर् । गणनार्हे

अमरः । यत्, गण्य, तव्य गणितव्य तदर्थे त्रि० ।

गणपति पु० ६ त० । गणेशे तस्याविर्भावकथा इभाननशब्दे

९८१ पृ० गजाननशब्दे २४९५ पृ० च उक्ता तस्य गणाधि-
पतित्वं याज्ञवल्क्येनोक्तं तच्च बाक्यं गणपतिकल्पशब्दे
दृश्यम् २ शिवे ३ समूहपतौ च “गणानां त्वा गणपतिम्”
यजु० १६ । १८ ।

गणपतिकल्प पु० गणपत्युद्देशेन कल्पः विधानभेदः ।

गणेशोद्देशेन विघ्नविघाताय तत्स्नपनादिरूप, विधान-
भेदे । स च कल्पः याज्ञ० उक्तो यथा ।
“विनायकः कर्म्मविघ्नसिद्ध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा । तेनोपसृष्टो
यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं
मुण्डांश्च पश्यति । काषायवाससश्चैव क्रव्यादांश्चाधि-
रोहति । अन्त्यजैर्गर्द्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ।
ब्रव्रजल्लपि तथात्मानं मन्यतेऽनुगतं परैः । विमना
विफलारम्भः संसीदत्यनिमित्ततः । तेनोपसृष्टो लभते न
राज्यं राजनन्दनः । कुमारी न च भर्त्तारमपत्यं न
च गर्भिणी । आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं
तथा । बणिग्लाभं न चाप्नोति कृषिञ्चैव कृषी बलः ।
स्नपनं तस्य कर्त्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च । सर्व्वौषधैः सर्व-
गन्धैः प्रलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वसि
वाच्या द्विजाः शुभाः । अश्वस्थानाद्गजस्थानाद्वल्मी-
पृष्ठ २५०३
कात् सङ्गमात् ह्रदात् । मृत्तिकां रोचनां गन्धान्
गुग्गुलुञ्चाप्सु निःक्षिपेत् । या आहृता एकवर्णैश्चतुर्भिः
कलशैर्ह्रदात् । चर्म्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं
तथा । सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते । भगन्ते
वरुणो राजा भगं सूर्य्यो वृहस्पतिः । भगमिन्द्रश्च
वायुश्च भगं सप्तर्षयो ददुः । यत्ते केशेषु दौर्भाग्यं
सीमन्ते यच्च मूर्द्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्-
घ्नन्तु सर्वदा । स्नातस्य सार्षपं तैलं स्रुवेणोडुम्बरेण
च । जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च ।
मितश्च संमितश्चंव तथा शालकटङ्कटौ । कुष्माण्डो
राजपुत्रश्चेत्थन्ते स्वाहासमन्वितैः । नामभिर्बलिमन्त्रैश्च
नमस्कारसमन्वितैः । दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्य
सर्वतः । कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान् पक्वांस्तथैवामान् मांसमेतावदेव तु । पुष्पं
चित्रं सुगन्धञ्च सुराञ्च त्रिविधामपि । मूलकं पूरिका-
पूपांस्तथैवैरण्डिकाः स्रजः । दध्यन्नं पायसञ्चैव गुड़-
पिष्टं समोदकम् । एतान् सर्वानुपाहृत्य भूमौ कृत्वा
ततः शिरः । विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् । रूपं देहि
यशो देहि भाग्यं भगवति! देहि मे । पुत्रान् देहि
धनं देहि सर्वान् कामांश्च देहि मे । ततः शुक्लाम्बरधरः
शुक्लगन्धानुलेपनः । ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं
गुरोरपि । एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्म्मणां फलमाप्नोति श्रियञ्चाप्नोत्यनुत्तमाम् । आदित्यस्य
सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव
कुर्वन् सिद्धिमवाप्नुयात्” ।

गणपर्व्वत पु० गणभूयिष्टः पर्वतः । कैलासाचले त्रिका० ।

गणपाठ पु० गणानां स्वरादिगणानां पाठोऽत्र । पाणि-

न्यादिरचिते स्वरादिगणानां स्वरूपकथने ग्रन्थभेदे ।

गणपाद पु० गणस्येव पादोऽस्य । प्रमथतुल्यपादयुक्ते

युक्तारोह्यादित्वादाद्युदात्ततास्य ।

गणपीठक न० गणस्य पीठ इव कायति कै--क । १ वक्षसि शब्दच० ।

गणपुङ्गव पु० गणः पुङ्गव इव उपमि० स० । १ गणश्रेष्ठे २

देशभेदे च । ३ तत्रवासिषु ४ तद्देशनृपेषु च वहुव० “कौलिङ्गान्
गणपुङ्गवानथ शिवोनायोध्यकान् पार्थिवान्” वृह०
स० ४ अ० ।

गणपूज्य पु० गणो गणेशः प्रमथो वा पूज्योऽत्र । १ देशभेदे

२ तद्देशस्थजनेषु ३ तन्नृपेषु च बहुव० । “गणपूज्यस्खलित-
व्रतशवरपुलिन्दार्थपरिहीनाः” वृह० सं० १६ अ० ।

गणपूर्य्य पु० गणानां ग्रामादिस्थलीकानां पूर्व्वः प्रधानम् ।

ग्रामण्याम् “अपरिज्ञातपूर्व्वाश्च गणपूर्व्वाश्च भारत!”
भा० आ० २३ अ० श्राद्धानर्हकथने । “गणपूर्व्वा ग्रामण्यः”
नीलक० । गणमुख्यादयोऽत्यत्र । “रविजेन सिते
विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम्” वृह० स० १७ अ०

गणभर्त्तृ पु० गणानां प्रमथादीनां भर्त्ता । १ महादेवे ।

“शृङ्गाण्यमूष्य भजते गणभर्त्तुरुक्षा” किरा० ।
गणस्वामिप्रभृतयोऽप्यत्र । २ गणेशे ३ समूहस्वामिनि त्रि० ।

गणयज्ञ पु० गणस्य भ्रातॄणां सखीनां वा समूहस्य कर्त्तव्यः

यज्ञः । मरुत्स्तोमाख्ये भ्रातृसखिवर्गकर्त्तव्ये यज्ञभेदे ।
“वैश्यस्तोमदक्षिणालिङ्गो मरुत्स्तोमे गणयज्ञो भ्रा-
तॄणां सखीनां वा” कात्या० श्रौ० २२ । ११ । १२ । “सत्र-
गणयज्ञे सहत्वशब्दात्” कात्या० २५ । १३ । २९ । “एतच्च सत्रे
भवति गणयज्ञे च “तेन सह यजेरन्निति” सहत्वश-
ब्दात्” कर्कः । “तयोरनेकयजमानसद्भावान्नान्यत्र” सं० व्या० ।

गणयाग पु० गजोद्देशेन शान्त्यर्थ्यं यागः । गणेशोद्देशेन

कर्त्तव्ये गणपतिकल्पोक्ते तत्स्ननपनादौ “विजयस्नानग्र-
हयज्ञगणयागाग्निलिङ्गेत्यादि” वृह० सं० २ अ० ।

गणरत्न न० गणाः स्वरादयः रत्नानीव यत्र । पाणिन्युक्त

स्वरादिगणानाम् श्लोकैर्निर्बन्धनपूर्वकं तदर्थकथनरूपे
ग्रन्थवेदे । तस्य व्याख्या गणरत्नमहोदधिः ।

गणराज्य न० वृ० स० १४ उक्ते दक्षिणस्यामुक्ते देशभेदे

“गणराज्यकृष्णवेल्लूरेत्यादि तद्वाक्यं कूर्म्मविभागशब्दे
२४६८ पृ० उक्तम् ।

गणरात्र न० गणानां रात्रीणां समाहारः गणशब्दस्य

संख्यावत्त्वात् द्विगुस० षच्समा० । रात्रिवृन्दे ।

गणरूप पु० गणा बहूनि रूपाण्यस्य । १ अर्कवृक्षे अमरः ।

संज्ञायां कन् । गणरूपक राजार्के राजनि० ।

गणरूपिन् पु० गणा बहूनि रूपाणि सन्त्यस्य इनि । श्वे-

तार्के रत्नमा० ।

गणवत् त्रि० गणोऽस्त्यस्य मतुप् मस्य वः । १ गणयुते

“गणवती याज्यानुवाक्ये भवतः” तैत्ति० २ । ३ । ३ । ५ । स्त्रियां
ङीप् । सा च २ दिवोदासमातरि त्रिका० ।

गणशस् अव्य० गण + वीप्सावृत्तौ कारकार्थे शस् । गणान्

गणान् कृत्वा इत्याद्यर्थे । “स विशमसृजत यान्येताति
देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या
विश्वेदेवा मरुतः” शत० ब्रा० १३ । ४ । २ । २४ । “अजगणनन्
गणशः प्रियमन्ततः” माघः ।
पृष्ठ २५०४

गणश्रि पु० गणं गणरूपं श्रयति श्रि--क्विप् नि० तु

गभावः । गणरूपेणावस्थिते मरुदादौ संहतदेवे ।
“रोदसी आ वदता गणश्रियः” ऋ० १ । ६४ । ९ । हे
गणश्रियः! (मरुतः) गणं श्रयमाणाः सप्त गणरूपेणा-
वस्थिता इत्यर्थः” भा० । “पिव भन्दमाने गणश्रिभिः”
ऋ० ५ । ६१ । ८ । “गणश्रिभिः गणभावमाश्रयद्भिः”
भा० “गणश्रिये स्वाहा गणपतये स्वाहा” यजु० २२ । ३ ।

गणहासक पु० गणान् हासयति हस--णिच्--ण्वुल् । १

चोरनामगन्धे अमरः । ३ समूहहासके त्रि० । अण् उपमि०
स० । गणहास तत्रार्थे राजनि० ।

गणाग्रणी पु० ६ त० । १ गणेशे त्रिका० । २ बहूनामग्रगण्ये त्रि०

गणाचल पु० गणभूयिष्ठोऽचलः । कैलासपर्वते जटा० ।

गणाधिप पु० ६ त० । १ गणेशे अमरः २ शिवे हला० ।

गणाधिपत्यादयोप्यत्र । “गगनं गणाधिपतिमूर्त्तिरिति” माघः ।
जैनशास्त्रप्रसिद्धेषु “गणा नवास्यर्षिसंघा एकादश
गणाधिपाः” । हेमचन्द्रोक्तेषु एकादशजैनश्रेष्ठभेदेषु ।

गणान्न न० गणायोत्सृष्टं, गणानां वाऽन्नम् । मठादौ १

बहुजनोद्देशेनोत्सृष्टान्ने, २ बहुस्वामिकेऽन्ने च “गणान्नं
गणिकान्नञ्चेति” मनुना निषिद्धान्नमध्ये गणितम् ।
“गणान्नं गणिकान्नञ्च लोकेभ्यः परिकृन्तति” मनुना ।
तद्भक्षणे पापविशेष उक्तः ।

गणाभ्यन्तर त्रि० गणायोत्सृष्टमठादौ अभ्यन्तरः तदुपजीवना

सक्तः । “गणायोत्सृष्टमठधनाद्युपजीविनि” कूल्लू० ।
“ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च” मनुः ।

गणि स्त्री गण--इन् । गणने ।

गणिका स्त्री गणः समूहोऽस्त्यस्याः भर्त्तृत्वेन ठन् । १ वेश्या-

याम्, तद्वच्चित्राकर्षकत्वात् २ यूथिकायाम्(युँइ)अमरः ।
३ गणिकारिकावृक्षे शब्दर० । गण--ण्वुल् । ४ हस्तिन्यां
जटा० । “अनुरागवन्तमपि लोचनयोर्दधत वपुः स्वक-
मतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपर-
द्दिग्गणिका” माघः । वेश्यायाः साधारणस्त्रीत्वं लक्षणा-
दिकं च सा० द० उक्तं यथा ।
“धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।
निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि । वित्तमात्रं
ममालोक्य सा रागं दर्शयेद्बहिः । काममङ्गीकृतमपि
परिक्षीणधनं नरम् । मात्रा निष्कासयेदेषा पुनः स-
न्घानकाङ्क्षया । तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तध-
नास्तथा । लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः ।
एषापि मदनायत्ता क्वापि सत्यानुरागिणी । रक्तायां
वा विरक्तायां रतमस्यां सुदुर्लभम्” । प्रसङ्गात् तस्याः
पञ्चमजातित्वं तद्गमनादौ दण्ड दण्डाभावादिकं मिता-
क्षरोक्तम् प्रदर्श्यते ।
“साधारणस्त्रीगमने दण्डमाह “अवरुद्धासु दासीषु
भुजिष्यासु तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चा-
शत्पणिकन्दमम्” या० । गच्छन्नित्यनुवर्त्तते । उक्तलक्षणा-
वर्णस्त्रियोदास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदा-
सार्थं गृहे एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो
निरुद्धाः, अवरुद्धाः पुरुषनियतपरिग्रहा भुजिष्याः ।
यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा
चशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजि-
ष्याणां ग्रहणन्तासु च सर्वपुरुषसाधारणतया गम्या-
स्वपि गच्छन् पञ्चाशत् पणन्दण्डन्दापनीयः
परपरिगृहीतत्वेन तासाम्परदारतुल्यत्वात् । एतच्च स्पष्ट-
मुक्तन्नारदेन “स्वैरिण्यब्राह्मणी वेश्या दासी
निष्कासिनी तथा । गम्याः स्युरानुलोम्येन स्त्रियो न
प्रतिलोमतः । आस्वेव तु भुजिष्यासु दोषः स्यात्
परदारवत् । गम्यास्वपि हि नोपेयाद्यत्ताः
परपरिग्रहाः” इति । निष्कासिनी स्वाम्यनवरुद्धा दासी ।
ननु स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधान-
मयुक्तम् न हि जातितः शास्त्रतो वा काश्चन लोके
साधारणाः स्त्रिय उपलभ्यन्ते । तथाहि स्वैरिण्यो-
दास्यश्च तावद्वर्णस्त्रियएव “स्वैरिणी या पतिं हित्वा
सवर्णं कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न
प्रतिलोमतः” इति स्मरणात् । न च वर्णस्त्रीणाम्पत्यौ
जीवति भृते वा पुरुषान्तरोपभोगो घटते “दुःशीलः
कामवृत्तो वा गुणैर्वा परिवर्जितः । परिचार्य्यः स्त्रिया
साध्व्या सततन्देववत् पतिः । कामन्तु क्षपयेद्देहं पुष्प-
मूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ
प्रेते परस्य त्विति” निषेध(मनु)स्मरणात् । नापि कन्या-
वस्थायां साधारणत्वं पित्रादिपरिरक्षितायाः कन्थाया
एव दानोपदेशाद्दात्रभावेऽपि तथाविधाया एव स्वयं
वरोपदेशात् । न च दासीभावात् स्वधर्माधिकार
च्युतिः । पारतन्त्र्यं हि दास्यन्न स्वधर्मपरित्यागः ।
नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्य
पृष्ठ २५०५
जात्यन्तरासम्भवात् । तदन्तःपातित्वे च पूर्ववदेवागम्य
त्वं प्रतिलेमजत्वे तु तासान्नितरामगम्यत्वम् । अतः
पुरुषान्तरोपभोगे तासान्निन्दितकर्माभ्यासेन पातित्यात्
पतितसंसर्गस्य च निषिद्धत्वान्न सकलपुरुषोपभोगयोग्य-
त्वम् । सत्यमेवम् । किन्त्वत्र स्वैरिण्याद्युपभोगे
पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचो-
युक्तिः । दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुष-
परिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्था-
द्गम्यते । स्वैरिण्याद्यानां पुनदण्डाभावो विधाना-
भावात् “कन्याम्भजन्तीमुत्कृष्टं न किञ्चिदपि दापये-
दिति” लिङ्गदर्शनाच्चावगम्यते । प्रायश्चित्तन्तु स्वधर्म-
स्खलननिमित्तङ्गम्यानाङ्गन्तॄणां वाऽविशेषाद्भवत्येव ।
यत् पुनर्वेश्यानाञ्जात्यन्तरासम्भवेन वर्णान्तःपातित्य-
मनुमानादुक्तम् वेश्यावर्णानुलोमाद्यन्तःपातिन्यो
मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवदिति । तन्न कुण्ड-
गोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या
काचिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा
पुरुषादुत्पन्ना पुरुषसंयोगवृत्तिर्वेश्येति ब्राह्मण्यादि-
वल्लोकप्रसिद्धिबलादभ्युपगमनीयम् । न च निर्मूले-
यम्प्रसिद्धिः । स्मर्य्यते हि स्कन्दपुराणे “पञ्चचूडा
नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जाति-
रिति । अतस्तासान्नियतपुरुषपरिणयनविधिविधुरतया
समानोत्कृष्टजातिपुरुषाभिगमने न दृष्टदोषो नापि दण्ड-
स्तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्ड-
स्तथाप्यदृष्टदोषोऽस्त्येव “स्वदारनिरतः सदेति” नियमात् ।
“पशुवेश्याभिगमने प्राजापत्यं विधीयते” इति प्राय-
श्चित्तस्मरणाच्चेति निरवद्यम् । अवरुद्धासु दासीष्वित्य-
नेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं
विदधतस्तास्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तम् । तस्या-
पवादमाह “प्रसह्य दास्यभिगमे दण्डो दशपणः
स्मृतः । बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक्” या० ।
पुरुषसम्भोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्क-
दानविरहण प्रसह्य वलात्कारेणाभिगच्छतो दशपणो
दण्डः । यदि बहवः अकामामनिच्छन्तीमपि वलात्कारे-
णाभिगच्छन्ति तर्हि प्रत्येकञ्चतुर्विंशतिपणपरिमित-
न्दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भाटिन्दत्त्वा-
पश्चादनिच्छन्तीमपि बलात् व्रजन्ति तदा तेषा-
मदोषः यदि व्याध्याद्यभिभवस्तस्या न स्यात् “व्याधि-
ता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता चेन्ना-
गच्छेददण्ड्या वड़वा स्मृतेति” नारदवचनात् । किञ्च ।
“गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते
समन्द प्यः पुमानप्येबमेव च” या० । यदा तु शुल्कं गृही
त्वा सुस्थापि तं नेच्छति तदा शुल्कं द्विगुणं दद्यात्
तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्क-
हानिरेव “शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्वि-
गुणं वहेत् । अनिच्छन् दत्तशुल्कोऽपि शुल्कहानि-
मवाप्नुयादिति तेनैवोक्तत्वात् । तथान्योऽपि विशेषस्त नैव
दर्शितः “अप्रयच्छंस्तथा शुल्कमनुभूय पुमान् स्त्रि-
यम् । आक्रमेण च सङ्गच्छन् तथा दन्तनखादिभिः ।
अयोनौ चाभिगच्छद्यो बहुभिर्वाभिवासयेत् । शुल्कम-
ष्टगुणं दाप्यो विनयन्तावदेव तु । “वेश्या प्रधाना यास्तत्र
कामुकास्तद्गृहोषिताः । तत्समुत्थेषु कार्य्येषु निर्णयं
संशये विदुरिति” । “गणान्नं गणिकान्नञ्च” अभक्ष्या-
न्नकथने मनुना तदन्नं निषिद्धम् ।

गणिकारिका स्त्री गणनं गणिः गण--इन् तं करोति अण्

गौरा० ङीष् गणिकारी स्वार्थे के ह्रस्वः, कृ--ण्वुल् वा
कापि अत इत्त्वम् । १ (गणियारी) द्रुमे अमरः ।
“अग्निमन्थो जयः सस्याच्छ्रीपर्णी गणिकारिका । जया
जयन्ती तर्कारी नादेयी वैजयन्तिका । अग्निमन्थः
श्वयथुनुद्वीर्य्योष्णः कफवातहृत् । पाण्डनुत् कटुक-
स्तिक्तस्तुवरो मधुरोऽग्निदः” भावप्र० ।

गणिकारी स्त्री गणिं गणनं करोति कृ--अण् उप० स०

गौरा० ङीष् । क्षुद्रगणिकारिकायाम् राजनि० ।

गणित न० गण--भावे क्त । १ गणने “पारेपरार्द्धं गणितं

यदि स्यात्” नैष० । ग्रहाणां २ गतिस्थित्यादिगणने
यथा गणिताध्यायः । करणे क्त । ३ व्यक्ताव्यक्तरूपे
अङ्कशास्त्रे “द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं
तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः । यदि भवति तदेवं
ज्यौतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा
नामधारी” सि० शि० । कर्म्मणि क्त । ४ कृतगणने संख्याते त्रि०
अमरः “विद्यां प्रमादगणितामपि चिन्तयामि” चौरप०
गणनया आगते ५ क्षेत्रफलादौ (कालि) “क्षेत्रस्य पञ्चकृति-
तुल्यचतुर्भुजस्य कर्ण्णौ ततश्च गणितं गणक! प्रचक्ष्व” ।
“सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात्” लीला० ।
पृष्ठ २५०६

गणिताध्याय पु० गणितम् ग्रहगतिस्थित्यादिगणनमधीयते-

ऽत्र । अधि + इ--आधारे घञ् । सि० शि० ग्रन्थान्तर्गते अध्या-
यभेदे तत्र च प्रतिपाद्यविषयाश्च प्रथमं ग्रहाणां मध्यम-
गत्यादिकम् । ततः कालमानम् ततो भगणाः । मध्यग्रह-
स्पष्टताकरणम् ग्रहकक्षामानम् । प्रत्यव्दशुद्धिः ।
अधिमासादिनिर्ण्णयः । स्पष्टग्रहानयनम् । त्रिप्रश्नाधिकारः ।
पर्व्वसम्भवः । चन्द्रग्रहणम् सूर्य्यग्रहणम् ग्रहच्छाया ।
ग्रहोदयास्तमनादि । ग्रहशृङ्गोन्नतिः । ग्रहयुतिः ।
भग्रहयुतिः पाताधिकारश्चेति ।

गणितिन् त्रि० गणितमनेन गणित + इष्टा० कर्त्तरि इनि । गणनाकर्त्तरि ।

गणिपिटका स्त्री हेमचन्द्रोक्ते आचाराङ्गादिषु द्वादशसु

जिनानामङ्गेषु । यथा “आचाराङ्गं सूत्र कृतं २
स्थानाङ्गं ३ समवाययुक् ४ । पञ्चमं भगवत्यङ्गं ५ ज्ञाता
धर्म्म कथा ६ ऽपि च । उपासकाऽन्तकृत् ७ अनुत्तरापा-
तिका ८ दशाहः ९ । प्रश्नघ्याकरण १० ञ्चैव विपाकश्रुत ११
मेव च । इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः ।
दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया”

गणेय त्रि० गण--एय । गणनीये संख्येये अमरः । “गणेयनिः-

शेषगुणोऽपि स स्यात्” नैष० ।

गणेरु पु० गण--बा० एरु । १ कर्ण्णिकारवृक्षे, २ वेश्यायां

३ हस्तिन्याञ्च स्त्री मेदि० ।

गणेरुका स्त्री गणेरुषु वेश्यासु कायति कै--क । १ कुट्टिन्याम् त्रिका० ।

गणेश पु० गणानामीशः । १ स्वनामख्याते देवे २ शिवे च ।

गणेशोत्पत्तिः इभाननशब्दे ९८१ पृ० उक्ता तस्य वक्रतुण्डकपि-
लचिन्तामणिविनायकादिरूपेण प्रादुर्भावकथा स्कन्धपु०
गणेशस्य० उक्ता । तत एवावसेया विस्तरभयान्नोक्ता ।
गणेशस्य परब्रह्मरूपत्वं नामभेदात् तद्भेदाश्च गणपति
तत्त्वग्रन्थे विस्तरेणोक्ता दिग्मात्रमुदाह्रियते । “एष सर्वे
श्वरः एष सर्वज्ञः एष भूतपतिरेष भूतलय एष सेतुर्विधरणः
प्रधानक्षत्रज्ञपतिर्गणेशः इति” श्रुतिप्रसिद्धसर्वेश्वरादिपद-
वद्गणेशपदस्य नित्यसिद्धेश्वरपरत्वम् दृश्यते इत्युप-
कम्य “तस्मात् प्रधानक्षेत्रज्ञपतिर्गणेशः” इति श्रुतेः
“गुणत्रयस्येश्वरोऽसि न नाम्रा त्वं गणेश्वरः” इति विना-
यामसंहितावचनाच्च गणशब्दाभिहितस्य सत्वादिगुणसं-
वातस्य पतिर्गणेश इति सिद्धमित्युक्तम्” । अन्ते च नमः
स हमानायेत्याद्यनुवाकैस्तस्य सर्व्वेर्षां नाम्नां सङ्कल-
नेन एकोननवत्यधिकशतद्वयम् इत्युक्तम् । गणपतिभेदाश्च
आगममन्त्रैर्व्वेदमन्त्रैर्बाराधनीया इत्यप्युक्तम् । तन्त्रे
तु अन्यथा संख्योक्ता यथा शारदतिलकराघवटीका-
याम् “विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।
विघ्नकृत् विघ्नहर्त्ता च गणैकदददन्तकाः । गजवक्त्र-
निरञ्जनौ कपर्द्दी दीर्घजिह्वकः । शङ्कुकर्णश्च
वृषभध्वजश्च गणनायकः । गजेन्द्रः सूर्पकर्णश्च स्यात्त्रि-
लोचनसंज्ञकः । लम्बोदरमहानन्दौ चतुर्म्मूर्त्तिसदा-
शिवौ । आमाददुर्मुखौ चैव सुमुखश्च प्रमोदकः ।
एकपादो द्विजिह्वश्च सुरवीरः सषण्मुखः । वरदो
वामदेवश्च वक्रतुण्डो द्विरण्डकः । सेनानीर्ग्रामणी-
र्म्मत्तो विमत्तो मत्तवाहनः । जटी मुण्डी तथा खङ्गी
वरेण्यो वृषकेतनः । भक्ष्यप्रियो गणेशश्च मेघनादकसंज्ञकः ।
व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद्गणपा इमे । तरुणारुण-
सङ्काशा गजवक्त्रास्त्रिलोचनाः । पाशाङ्कुशवराभीतिहस्ताः
शक्तिसमन्विताः” । तेषाञ्च पञ्चाशच्छक्तयस्तत्रोक्ता यथा
“ह्रीः श्रीश्च पुष्टिः शान्तिश्च स्वस्तिश्चैव सरस्वती । स्वाहा
मेधा कान्तिकामिन्यौ मोहिन्यपि वैनटी । पार्वती ज्वा-
लिनी नन्दा सुयशाः कामरूपिणी । उमा तेजीवती सत्य
विघ्नेशानी सुरूपिणी । कामदा मदजिह्वा च भूतिः
स्याद्भौतिकासिता । रमा च महिषी प्रोक्ता मञ्जुला च
विकर्णपा । भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा
धनुर्द्वरा । यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा ।
लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा । भर्गा च
भगिनी चैव भोगिनी शुभदा मता । कालरात्रिः
कालिका च पञ्चाशच्छक्तयः स्मृताः । सर्वालङ्करणोद्दीप्ताः
प्रियाङ्कस्थाः सुशोभनाः । रक्तोत् लकरा ध्येया रक्त-
गाल्याम्बरारुणाः” ।

गणेशकुण्ड न० नर्म्मदास्थकुण्डभेदे । तत्कुण्डाविर्भवकथा

स्कन्दपु० गणेशख० ११ ख० यथा “पार्वती सिन्दूरेणाथ
दृष्टा सा पर्य्यलीवने । प्रसुप्तां गिरिजां वीक्ष्य प्रसुप्तं
मां (शिवम्) च षण्मुख! । प्रविवेशोदरं दैत्य
उमाया बायुरूपवृक् । छित्त्वा नखैः करे धृत्वा गर्भस्थ-
मस्तकं बहिः । निर्गत्य तच्छिरस्त्यक्तं बिन्ध्याचलस-
मीपतः । यत्रास्ते शर्म्मदात्री सा नर्मदा दुरितापहां ।
मुक्तिदा सर्वजन्तूनाम् तपसां सिद्धिदायिनी । गणेश-
कुण्डं तत्राभूदपतद्यत्र तच्छिरः । तदादि नर्मदान्तःस्था
कुण्डान्तःस्थास्तथोपलाः । आसन् ये रक्तवर्णाभा
गणेशास्तेऽभवन् भुवि” ।

गणेशकुसुम न० गणेश इव रक्तत्वात् कुसुम० । रक्तकुसुमे शब्दार्थचि ० ।

गणेशखण्ड न० स्कन्दपुराणान्तर्गते गणेशाविर्भवादिवेदके

खण्डभेदे ।
पृष्ठ २५०७

गणेशजननी स्त्री त० । १ दुर्गायां “गणेशजननी दुर्गा

राधा लक्ष्मीः सरस्वती” तन्त्र० गणेशमात्रादयोऽप्यत्र ।

गणेशभूषण न० गणेशं भूषयति भूषि--ल्यु । सिन्दूरे राजनि०

तस्य ध्याने “सिन्दूरशोभाकरम्” इत्युक्तेः सिन्दूरस्य
तथात्वम् सिन्दूरेण शोभाकरमिति तदर्थः ।

गणेशान पु० गणानामीशानः । गणेशे “गणेशानं

करिगणेशानाननमनामयस्” काशीख० । “ततः सस्मार-
हेरम्बं व्यासः सत्यवतीसुतः । स्मृतमात्रो गणेशानो
भक्तचिन्तितपूरकः” भा० आ० १३ अ० । २ शिवे च ।

गणेश्वर पु० गणानामीश्वरः । १ गणेशे २ शिवे च । गणात्मक

ईश्वरः । ३ रुद्रादिषुत्रयस्त्रिंशित्संघदेवेषु च । ते च रुद्रा-
दयः ११ आदित्याः १२ वसवः ८ अश्विनौ २ । एते त्रय-
स्त्रिंशत् । रुद्रादीन् एतान् अभिधाय “एते देवास्त्रय
स्त्रिंशत् सर्वभूते गणेश्वराः” भा० आनु० १५० अ० ।

गणोत्साह पुंस्त्री गणे गणभावे सम्भूयकरणे उत्साहो-

ऽस्य । गण्डके त्रिका० स्त्रियां जातित्वात् ङीष् ।

गण्ड पु० गडि + वदनैकदेशे अच् । १ कपोले(गाल) २ हस्तिकपोले

च अमरः । ३ गण्डके पुंस्त्री० ४ वीथ्यङ्गे ५ पिटके ६ चिह्ने ७ वीरे
८ हयभूषणे ९ बुद्वुदे च मेदि० । १० स्फोटके ११ ग्रन्थौ
रमानाथः । विष्कुम्भादिषु १२ दशमे योगे । १३ अश्विन्यादिनक्ष-
त्राणां दण्डभेदे । गण्डमाह ज्ये० त० “अश्विनी
मथमूलानां तिस्रो गण्डाद्यनाड़िकाः । अन्त्याः पौष्णोर-
गेन्द्राणां पञ्चैव जवना जगुः । मूलेन्द्रयोर्दिवा गण्डो
निशायां पितृसर्पयोः । सन्ध्याद्वये तथा ज्ञेयो रेवती-
तुरगर्क्षयोः । तत्र जातस्य दोषा यथा । सन्ध्यारात्रि
दिवाभागे गण्डयोगोद्भवः शिशुः । आत्मानं मातरं
तातं विनिहन्ति यथाक्रमम्” “मूलयाः प्रथमे पादे
पितुर्वपुर्विनश्यति । द्वितीये नियतां पीड़ां मातुः
कुर्य्यात् पितुस्तथा । तृतीये धननाशञ्च चतुर्थे सर्व-
सम्पदः । व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ववत् ।”
“दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् ।
नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पार्वतीम् ।”
विस्तरस्तु मुहूर्त्तचिन्तामणौ पीयूषधारायाञ्चोक्तो यथा ।
“अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि
नारदः । वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेक-
घटीप्रमाणकम् । अथोचुरन्ये प्रथमाष्टघट्योमूलस्य
शाक्रान्तिमपञ्चनाड्यः । जातं शिशुं तत्र परित्यजेद्वा
सुखं पिताऽस्याष्टसमा न पश्येत्” । “आद्ये पिता
नाशमुपैति मूलपादे, द्वितीये जननी तृतीये । घनं
चतुर्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत् स्यादहिभे विलोमम् ।
स्वर्गे शुचिप्रोष्ठपदेषमाघे भूमौ नभःकार्त्तिकचैत्रपौषे ।
मूलं ह्यधस्तात्तुतपस्यमार्गबैशाखशुक्रेष्वशुभं च तत्र ।
गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे संक्रान्ति
व्यतिपातवैधृतिसिनीबालीकुहूदर्शके । वज्रे कृष्णचतु-
र्द्दशीषु यमघण्टे दग्धयोगे मृतौ विष्टौ सोदरभे जनिर्न
पितृभे शस्ता शुभा शान्तितः” मु० चि० । एतद्व्याख्या पी० धा०
“अत्राभुक्तमूलस्यानेके भेदाः तत्रैकस्तावदयं भेदः ज्ये-
ष्ठानक्षत्रान्तेभवं ज्येष्ठान्त्यं मूलादौ भवं मूलादिभवं
ज्येष्ठान्त्यजातं घटीचतुष्टयं मूलादिजातं घटीचतुष्टयं
मिलित्वाष्टौ घटिकाः प्रहर इति यावत्ताबान् कालो
ऽभुक्तमूलाख्यः (गण्डाख्यः) इति नारद आह
(उपलक्षणत्वादश्लेषान्तिमघटीचतुष्टयं मघादिमघटीचतुष्टयं
चाभुक्तमूलाख्यः कालः यदाह नारदः “यो ज्येष्ठामूल-
योरन्तरालप्रहरजः शिशुः । अभुक्तमूलजः सार्पमघानक्षत्र-
योरपीति” । तथापरोभेदः एकेति ज्येष्ठान्ते एकघटीमितं
मूलादौ घटीद्वयमितमेवं मिलित्वा त्रिघटिकमभुक्तमूलं स्वा-
दिति वसिष्ठमुनिर्जगौ यदाह वसिष्ठः “ज्येष्ठान्त्यपादघटि-
कामितमेव केचिन् मूलं ह्यभुक्तमपरे पुनरामनन्ति । मूला-
द्यपादघटिकाद्वितयेन सार्द्धमष्टौ समाःपरिहरेदिह जन्म-
भाजमिति” समा वर्षाणि । अथान्योभेदः एकेति ज्येष्ठान्त्या-
र्द्धघटिका मूलाद्यार्द्ध घटिका मिलित्वा एकघटी प्रमाणमस्य
तदेकघटीप्रमाणकं “शेषाद्विभाषा” इति पा० कप् तादृशमभुक्त-
मूलं स्यादिति वृहस्पतिर्जगौ तदाह गुरुः “ज्येष्ठान्त्यघटि-
कार्द्धञ्चमूलादौ घटिकार्द्धकम् । तयोरन्तर्गता नाड़ी ह्यभुक्त-
मूलमुच्यत” इति अथेतरो भेदः अथेति अथशब्दः पादपूरणे
मूलनक्षत्रस्य प्रथमा आदिमा अष्ट घटिकाः शाक्रस्य ज्ये-
ष्ठायाः अन्तिमाः षञ्च नाड्यः पञ्च घटिकाः । एवमुभयो-
र्ज्येष्ठा मूलयोरन्तरालवर्त्तिन्यस्त्रयोदशघटिका अभुक्तमूल-
मिति लोका ऊचुः । “ज्येष्ठान्त्यघटिकाः पञ्च मूलाद्या
वसुनाड़िकाः । अभुक्तमूलमित्युक्तं तत्र जातं शिशुं त्यजे-
दिति” स्मरणात् । एवमभुक्तमूलस्यानेकभेदसम्भवे कः
साधीयान् पक्ष इति चेत् उच्यते नारदोक्तः पक्ष एव
साधीयान् किमत्र प्रमाणमिति चेत् शृणु बहुमुनिसं-
वाद एवात्र प्रमाणं तदाह कश्यपः न्येष्ठान्त्यमूलयो-
रन्तरालयामोद्भवः शिशुः । अभुक्तमूलजः सोऽप्य-
श्लेषापितृभयोरपीति” । वसिष्ठोऽपि “भुजङ्गपौर-
पृष्ठ २५०८
न्दरपौष्णभानां तदग्रभानाञ्च यदन्तरालम् अभुक्त-
मूलं प्रहरप्रमाणं त्यजेत् सुतं तत्र भवां सुताञ्चेति” ।
अतएव पूर्वमुक्ते वसिष्ठवाक्ये केचिदित्यन्यमताभिप्रायेण
यतस्तद्वाक्ये केचिदिति अपरे इति चेत्युक्तिरस्ति यद्येवं
षटीन्यूनाधिकभावाभिधायिनां प्रागुक्तवाक्यानां का
गतिरिति चत् । उच्यते दोषस्याधिक्याल्पत्वसूचनमेव
गतिः । अथाभुक्तमूलसंज्ञाकथनस्य प्रयोजनमाह
जातमिति । तत्राभुक्तमूलाख्ये काले जातं शिशुं वालकम्
उपलक्षणत्वात्तत्र जातां कन्यां वा पिता परित्यजेन्नि-
ष्कासयेत् “त्यजेत् सुतं तत्रभवां सुताञ्चेति” वसिष्ठोक्तेः ।
यद्यशक्यं निष्कासनं स्यात्तदा किं कार्य्यमित्यत
आहवेति वा अथ वा पूर्वपक्षकर्त्तव्यताशक्तौ पिताऽस्य शिशोः
कन्याया वा मुखमष्ट समाः अष्टौ वर्षाणि “संवत्सरो
वत्सरोऽव्दो हायनोऽस्त्री शरत्समा” इत्यमरः तावत्
कालं न पश्येत् यदाह नारदः “अभुक्तमूलजं पुत्रं पुत्री-
मपि परित्यजेत् । अथवाव्दाष्टकं तातस्तन्मुखं न
विलोकयेदिति” । च्यवनोऽपि “अभुक्तमूलभेभवं
परित्यजेच्च बालकम् । समाष्टकं पिताऽथ वा न तन्मुखं
विलोकयेत्” इति गण्डान्तदोषस्तु विवाहप्रकरणे वक्ष्यत
इति कृत्वाऽत्र नोक्तः (तच्चोपयमशब्दे १२५८ पृ० दर्शितम्) ।
अथ प्रसङ्गान् मूलाश्लेषा जातस्य बालस्य चरणवशेनशुभा-
शुभफलमुपजात्याह आद्ये इति मूलनक्षत्रस्याद्ये पादे
प्रथमे चरणे चतुर्थांशे इति यावत् तत्र जातस्य शिशोः
कन्याया वा पिता नाशं मरणमुपैति प्राप्नोति तथा
मूलद्वितीयपादे जननी माता नाशमुपैति । तथा तृतीयमूल-
पादे धनं द्रव्यं नाशमुपैति चतुर्थो मूलपादोऽस्य शिशोः
शुभः शुभफलदः । उक्तञ्च व्रह्मपुराणे “मूलाद्येंऽशे पितु-
र्नाशो द्वितीये मातुरेव च । तृतीये धनधान्यादिनाश-
स्तुर्य्ये धनागमः” इति । तुर्य्ये चतुर्थे रत्नमालायाम्
“तदाद्यपादके पिता विपद्यते जनन्यथ । तृतीयके
घनक्षयश्चतुर्थकः शुभावहः” इति । अत्र पितुर्बहु
स्त्रीकत्वेऽपि स्वमातुरेव नाशो वाच्यो न सापत्नमातुः
यदाह कश्यपः “मूलाद्यपादजो हन्ति पितरन्तु
द्वितीयजः । मातरं स्वां तृतीयोऽर्थान् सुहृदश्च तुरीयजः”
इति । यतो मातृशब्दः सापत्नमातुरपि वाचकः ।
यदाह गौतमः “पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो
मातुलास्तदपत्यानि मातुलेयानीति । अतः स्पष्टार्थमेव
कश्यपवाक्ये स्वामिति पदोपादानम् । अत्र विशेषो
वसिष्ठसंहितायां “मूलाद्यपादो दिवसे यदि स्यात्तज्जः
पितुर्नाशनकारणं स्यात् । द्वितीयपादो यदि रात्रि-
भागे तदुद्भवो मातृविनाशकःस्यात् । मूलाद्यपादो यदि
रात्रिभागे तदात्मनो नास्ति पुनर्विनाशः । द्वितीयपादो
दिनगो यदि स्यान्न मातुरल्पोऽपि तदास्ति दोषः” इति ।
नारदसंहितायाञ्च “दिवाजातस्तु पितरं रात्रौ तु
जननीं तथा । आत्मानं सन्ध्ययोर्हन्ति नान्यगण्डं
विवर्जयेदिति” । एतदेव मातापितृगण्डमिति जीर्णा
व्यवहरन्ति । अथ दोषसत्त्वे किं कार्य्यमत आह
अथेति । अथानन्तरं शान्त्या मूलाश्लेषाशान्त्या-
स्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि शुभमनिष्टफल-
नाशकं कल्याणं स्यात् उक्तञ्च वसिष्ठेन “नैरृत्यभौज-
ङ्गमगण्डदोषनिवारणायाभ्युदयाय नूनम् । पितामहोक्तां
रुचिरां च शान्तिं प्रवच्मि लोकस्य हिताय सम्यक् ।
शास्त्रोक्तरीत्या खलु सूतकान्ते मासे तृतीयेऽप्यथ वत्सरान्ते”
इति । नैरृत्यं मूलं तद्दीषः । भौजङ्गमश्लेषा तद्दोषः
गण्डो वक्ष्यमाणस्तद्दोषश्च द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येक-
मभिसम्बध्यत इति न्यायात् अतस्तद्दोषाणां निवारणं
तदर्थम् अतएव कश्यपेन “तद्दोषशमनार्थे हि शान्तिं
कुर्य्यात् प्रयत्नतः” इति सामान्यत उक्तम् । अत्र वसिष्ठवाक्ये
कालत्रयकथनं सामर्थ्यासामर्थ्यकृतं ध्येयं तथा हि
यदि मातुः शीतोदकस्नाने सामर्थ्यं स्यात् तदा सूतकान्त
एव शान्तिस्तत्राप्यशक्तौ तृतीये मासि शान्तिः दीर्घरोगा-
दिना तदाप्यशक्तिश्चेत्तर्हि वर्षसमाप्तिदिवसे शान्तिः ।
मातृगण्डे तु विशेषस्तेनैवोक्तः “मातृगण्डे सुते जाते
सूतकान्ते विचक्षणः । कुर्य्याच्छान्तिं तदृक्षे वा तद्दोषस्या-
पनुत्तये इति” शिष्टास्तु सर्वत्र यस्मिन्नक्षत्रे जन्म तन्नक्षत्र
एव शान्तिरिति व्यवहरन्ति । ननु मूलपादचतुष्टयेऽपि
शान्तिः कर्त्तव्येत्युक्तं तत्र चतुर्थचरणस्य शुभफलत्वात्
शान्तिरयुक्तेति प्रतिभाति “अनिमित्तकृता शान्तिर्निमि-
त्तायोपजायते” स्मरणात् । उच्यते यद्यपि चतुर्थचरणे
धनागमरूपं शुभफलमभिहितं तथापि कश्यपेन
“सुहृदश्चतुरीयजः” इति सुहृन्नाशरूपस्य फलस्यानिष्टस्योक्ते
स्त्रदपाकरणार्थमवश्यं कर्त्तव्या शान्तिः । न हि कस्य-
चिद्वैरिनाशवन्मातुलाद्यनेकसुहृन्नाश इष्टः मूलवृक्ष-
पादे पुरुषकन्ययोरशुभफलकथनाच्च । मूलवृक्षस्तु
समनन्तरमेव मया वक्ष्यते यदि मूलाश्लेषादिदोषसम्भवे शान्ति
र्न क्रियते तदानिष्टं भवति एवेत्याह नारदः “वत्स-
पृष्ठ २५०९
रात् पितरं हन्ति मातरं तु त्रिवर्षतः । द्युम्नं वर्षद्वये-
नैव श्वशुरं नववर्षतः । जातं बाल वत्सरेण बर्षैः पञ्च-
भिरग्रजम् । मातुलं चाष्टभिर्वर्षैरनुक्तान् हन्ति सप्तभिः ।
तस्माच्छान्तिं प्रकुर्वीत प्रयत्नाद्विधिपूर्वकमिति” द्युम्नं
धनं तस्मादवश्यं चरणचतुष्टयेऽपि शान्तिर्विधेयेति ।
अहिभे विलोमभिति । अहिभे अश्लेषायामुक्तं फलं
विलोमं विपरीतं ज्ञेयं तद्यथा मूलस्य प्रथमे पादे
पितृनाश इति फलमुक्तं तत्फलमश्लेषाचतुर्थपादोत्पन्नस्य
स्यात् मूलस्य द्वितीयपादे मातृनाश इत्युक्तं फलं
तदश्लेषातृतीयचरणोत्पन्नस्य स्यात् अर्थनाशस्ततीयचरणे
इत्युक्तं तदश्लेषाद्वितीयपादजातस्य स्यात् मूलस्य चतुर्थपादः
शुभ इत्युक्तं तदश्लेषाप्रथमचरणोत्पन्नस्य स्यादित्यर्थः ।
तदाह कश्यपः “फलं तदेव सार्पर्क्षे प्रतीपं त्वन्त्यपा-
दतः” इति । वसिष्ठोऽपि “मूलाद्यपादजनितः पितरं
निहन्ति द्वैतीयजः स्वजननीं त्रिपदेऽर्थवृन्दम् । तौरी-
यजः शुभकरः फलमेतदेव वैलोमतो भुजगधिष्ण्यभवस्य
सर्वमिति” । द्वितीय एव द्वैतीयः प्रज्ञादेराकृतिगणत्वात्
स्वार्थेऽण् एवं तौरीयवैलोमशब्दौ साध्यौ । अयमर्थः
स्पष्टमुक्तो भास्करव्यवहारे “सार्पांशे प्रथमे राज्यं द्वि-
तीये तु धनक्षयः । तृतीये जननीनाशश्चतुर्थे मरणं
पितुरिति” । अंशश्चरणः अत्र लग्नादिदौष्ट्ये सति दुष्टं
फलमविकलं भवतीत्याह बादरायणः “मूलसार्पादिजं
दौष्ट्यं स्यात् सम्प्रूर्णन्तु लग्नपे । सक्रूरेऽब्जे च विबले
शुभवृष्टिविवर्ज्जिते” इति । अतः यथा अश्लेषादौष्ट्येऽपि
शान्तिकं विधेयं तथाश्लेषान्त्यमघादिस्थान्तरालप्रहरात्मका
भुक्तमूलाख्यकालोयोऽभिविहितस्तत्रोत्पन्नस्यापि शान्तिकं
विधेयम् । अत्र सम्मतिवाक्य प्रागभिहितं तत्र मूलशान्तिर-
श्लेषाशान्तिश्च गण्डान्तेन्द्रमेति पद्यव्याख्यानानन्तरं लिखि-
ष्यते” । “अथात्र प्रसङ्गान्मूलवृक्षविचारोऽभिधीयते जयार्णवे
मूलस्तम्भस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । मुनयोऽष्टौ
दिशो रुद्राः सूर्य्याः पञ्चाङ्घ्रयोऽग्नयः । मूले तु
मूलनाशः स्यात् स्तम्भे वंशविनाशनम् । त्वचि १० मातुर्भ-
वेत् क्लेशः शाखायां ११ सातुलस्य च । पत्रे १२ राज्यं
विजानीयात् पुष्पे ५ मन्त्रिपदं स्मृतम् । फले ४ च
विपुला लक्ष्मीः शिखाया ३ मल्पजीवितमिति” अस्य मूला-
ख्यस्य पुरुषस्याङ्गेषु घटीविन्यासस्तत्रैव । “मूलस्य
घठिकान्यासो मूर्ध्निपञ्च ५ नृपो भवेत् । मुखे सप्त ७ मृतिः
पित्रोः स्कन्धे वेदा ४ महाबलः । बाह्वोरष्टौ बली
पाण्योस्तिस्रो ३ हस्तान्वितो भवेत् । हृदि खेटाः ९
भूपमन्त्री नाभौ द्वौ २ ब्रह्मविद्भवेत् । गुह्ये दशा १०
ऽतिकामी स्याज्जानुनोः षण् ६ महामतिः । पादयोः षण् ६
मतिस्तस्येत्युक्तवान् कमलासनः” इति । अथ मूलोद्भूता-
याः कन्यायाः फलार्थं मूलाङ्गविभागस्तत्रैव । “चतस्रो ४
नाड़िकाः शीर्षे कुर्वन्ति पशुनाशनम् । मुखे षट् ६
धनहानिश्च कण्ठे पञ्च धनागमः । कौटिल्यं हृदये पञ्च
बाह्वोर्बित्तागमं च तत् । वेदाः ४ पाण्योर्दयाधर्म्मं
वेदा ४ गुह्येऽतिकामिनी । ज्येष्ठमातुलनाशश्च जङ्घयो-
र्युग ४ नाड़िकाः । ज्येष्ठभ्रातृविनाशश्च चतस्रो जानु-
युग्मके । पादयोर्दश १० नाड्यश्च तत्र वैधव्यमादिशेत् ।
इति मूलप्रसूतायाः फलमीरितमीदृशमिति” अस्यार्थः
शीर्षे चतस्रो ४ घटिकाः मुखे षट् ६ कण्ठे पञ्च ५
हृदये पञ्च ५ बाह्वोर्बाहुद्वये पञ्चपञ्चेति ५ वीप्सा ।
पाण्योर्मणिबन्धादधो भागयोश्चतस्र इत्यत्रापि वीप्सा ।
गुह्ये चतस्रः ४ जङ्घयोर्जङ्घाद्वये द्वे द्वे २ । २ एवञ्चतस्रः
जानुद्वये द्वे द्वे एवं चतस्रः पादयोः पादद्वये पञ्चपञ्चे-
त्येवं दश १० एवं मिलित्वा षष्टि ६० र्घटिका भवन्ति ।
अथाश्लेषाजातयोः पुत्रकन्ययोरङ्गविभागेन फलं तत्रैवो-
क्तम् मूर्ध्नि पञ्चसु ५ पुत्राप्तिर्मुखे सप्त ७ पितृक्षयः ।
नेत्रे द्वे २ जननीनाशो ग्रीवायां स्त्रीषु लम्पटः । स्कन्धे
येदा ४ गुरौ भक्ति र्हस्तेऽष्टौ ८ च बली भवेत् । हृद्ये-
कादशभि ११ श्चात्मघाती संजायते नरः । द्वाभ्यां नाभौ
भ्रमः, षड्भिर्गुदे नन्दै ९ स्तपोधनः । पादे पञ्च ५ धनं हन्ति
सार्पादेतत्फलं क्रंमादिति” । अथाश्लेषावृक्षोऽपि तत्रै-
वोक्तः फलं पुष्पं दलं शाखा त्वग्लता कन्द एव च ।
सार्पवल्या दशा १० क्षां ५ ङ्कं ९ स्वर ७ विश्वा १३ र्क १२
सागराः ४ । नाडिकास्तद्भवे बाले फलं ज्ञेयं यथाक्रमम् ।
श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः” इति ।
अयञ्च विभागो नक्षत्रस्य षष्टि ६० घटिकात्मकत्वे ज्ञेयः
न्यूनाधिकत्वे तु त्रैराशिकमुह्यम्” ।
वसिष्ठेनान्येष्वपि कियत्सुनक्षत्रेषु जातस्यारिष्टमुक्तं
“चित्राद्यर्द्धे पुष्यमध्ये द्विपादे पूर्वाषाढ़ाधिष्ण्यपादे
तृतीये । जातः पुत्रश्चोत्तराद्ये विधत्ते मातापित्रोर्भ्रा-
तरं चात्मनाशम् । द्विमासस्वोत्तरादोषः पुष्ये चैव
त्रिमासकः । पूर्वाषाढ़ाष्टमे मासि चित्रा षाण्मासिकं
फलमिति” अत्रोत्तराशब्देनोत्तराषाढ़ा गृह्यते पूर्वाषा-
ढ़ासाहचयात् । अत एष्वपि नक्षत्रेषु यथाशक्तिमूलव-
पृष्ठ २५१०
च्छान्तिकं दोषपरिहारार्थं विधेयम् परन्त्वत्र देवताभेद
एव केवलं ध्येयः । स च तत्तत्स्वामिकृतः तत्तन्मन्त्राश्च
वेदादेवावगन्तव्यास्तच्छान्तिकञ्च तिथिगण्डान्तशान्तावस्मा-
भिर्वक्ष्यत इत्यलमतिप्रसङ्गेन” पी० धा० । अथ मूलनिवासं
सफलमिन्द्रवज्राच्छन्दसाह स्वर्गे इति शुचिराषाढ़ः प्रौष्ठपदो
भाद्रपदः इष आश्विनः माघः प्रसिद्धः एषु मासेषु मूलं
मूलनक्षत्रं स्वर्गेऽस्ति स्वर्गे निबासस्तस्य । नभाः श्राबणः
अन्ये प्रसिद्धाः श्रावणकार्त्तिकचैत्रपौषेषु भूमौ मूलं
तिष्ठति । तपस्यः फाल्गुनः शुक्रो ज्येष्ठः अन्यौ प्रसिद्धौ
फाल्गुनमार्गशीर्षवैशाखज्यैष्ठेष्वधस्तात्पाताले मूलं तिष्ठति
एष मूलनिवास उक्तः एतत्फलञ्च मूलनक्षत्रं यदा
यस्मिन्मासे यत्र वसति तत्रैव स्वर्गभूमिपातालेष्वेवोक्त-
शुभाशुभफलं ददाति अयमत्र तात्पर्य्यार्थः द्रव्याद्य-
भावेन शान्तिकं कर्त्तुमशक्नुवतः पुंसः स्वर्गपातालनि-
वासित्वेन मूलस्यारिष्टदोषस्तथा न प्रभवेत् यदा तु
भूमावेव निवासस्तदा दोषनिवारणं नैव स्यादित्यश-
क्तेनापि शान्तिकं विधेयं नैतावता प्रागुक्ते विषये
शान्त्यभाव एव किन्तु यथाशक्ति तत्रापि शान्तिकं विधेयं
शक्तेन तु सर्वत्रैव विधेयम् तदुक्तं ज्योतिषार्णवे
“मार्गफाल्गुनवैशाखज्यैष्ठे मूलं रसातले । माघाश्विन-
नभस्येषु शुचौ मूलं सुरालये । पौषश्रावणचैत्रेषु
कार्त्तिके भूमिसंस्थितम् । भूमिष्ठं दोषबहुलं स्वल्पमन्यत्र
संश्रितम्” क्वचित् सौरमासपरत्वेन मूलनिवासोऽभि-
हितः “वृषालिसिंहेषु घटे च मूलं दिविस्थितं युग्म-
तुलाङ्गलान्त्ये । पातालगं मेषधनुः कुलीरनक्रेषु भूमा-
विति संस्मरन्ति । स्वर्गे मूले भवेद्राज्यं पाताले च धनागमः ।
मर्त्यलोके यदा मूल तदा शून्यं समादिशेदिति” ज्यो-
तिषरत्नेऽभिहितत्वात्” पी० धा० । अथ मूलप्रसङ्गाद्दु-
ष्टेषु गण्डान्तादिनिमित्तेषु सत्सु जातस्यारिष्टं सपरि-
हारं शार्दूलविक्रीडितेनाह गण्डान्तेति एतेषु पदार्थेषु
सत्सु जनिः शिशोरुत्पत्तिर्न शस्ता दुष्टफलदा गण्डान्तः
सन्धिविशेषः स त्रिविधो नक्षत्रतिथिलग्नभेदेन तल्लक्षणं
ज्येष्ठा पौष्ण्यभेत्यादिना वक्ष्यति इन्द्रभं ज्येष्ठानक्षत्रं
शूलः शूलाख्यो दुष्टयोगः पातो महापातो गणित-
साध्यो, व्यतीपाताख्यो वैधृताख्यश्च परिघव्याघातगण्डा
अपि दुष्टयोगाः अवमस्तिथिक्षयः संक्रान्तिः सूर्य्यस्य
राश्यन्तरसंक्रमपुण्यकालः व्यतोपोतवैधृती सप्तदशसप्तविं-
शतितमौ दुष्टयोगौ सिनीवाली दृष्टेन्दुरमावास्या । कुहू-
र्नष्टेन्दुरमावस्या “सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुक-
ला कुहूः” इत्यभिधानात् दर्शश्चन्द्रदर्शनरहितामावास्या
एतच्चाग्रे सम्यक् प्रतिपादयिष्यते वज्रे दुष्टयोगे कृष्णे कृष्णपक्षे
चतुर्दशी बहुवचनमावृत्त्यभिप्रायं यमघण्टे मघाविशाखे-
त्युक्ते दुष्टयोगे दग्धयोगे सूर्य्येशपञ्चाग्निरसाष्टनन्दा
इत्युक्ते दुष्टयोगे केचित्तु चापान्त्यगे गोघटगे पतङ्ग”
इति वक्ष्यमाणो दुष्टयोग इपि व्याचख्युः । मृतौ द्वीशा-
त्तोयादित्यादिनोक्ते भृत्युयोगे विष्टौ भद्रायां सोदरस्य
भ्रातुर्भगिन्या वा भे नक्षत्रे पितृभे माता च पिता च
पितरौ तयोर्भे मातृभे पितृभे च एषु निमित्तेषु सुतस्य
सुताया जन्म चेत् स्यात्तदनिष्टकृत् स्यादित्यर्थः । दुष्ट-
निमित्तस्योपलक्षणत्वात् सूर्य्यचन्द्रग्रहणजन्मत्रीतरजन्मा-
प्यनिष्टं सजातीयापत्यत्रयप्रसवानन्तरं विजातीयाप-
त्यप्रसवस्त्रीतरः तथा पुत्रत्रयप्रसवानन्तरं कन्याया जननं
कन्यात्रयप्रसवानन्तरं पुत्रस्य जननम् अतएव त्रिभ्यः
सजातीयेभ्यः इतरो विजातीयस्त्रीतरः स्त्री च त्रीत-
रेति व्युत्पत्तिश्च त्रीतरश्च त्रीतरा च त्रीतरौ पुमान्
स्त्रियेत्येकशेषः अथ परिहारोऽप्युच्यते सा जनिः
शान्तितो वसिष्ठाद्यर्षिप्रोक्तायाः शान्त्याः शुभा परिणा-
मे सुखदायिनी शारीरक्लेशानुभवपूर्वकनीरोगदीर्घायुष्ट्वं
शिशोः स्यादित्यर्थः । अत्र मूलवाक्यानि लिख्यन्ते ।
तत्र प्राक्पद्यप्रतिज्ञातसकलशान्तिसामान्यकर्मौपयिकी
च मूलशान्तिस्तावदुच्यते । शौनक उवाच । अथातः
सम्प्रवक्ष्यामि मूलजातहिताय च । मातापित्रोर्धन-
स्यापि कुले शान्तिहिताय च । त्यागो वा मूलजातस्य
स्यादष्टाव्दात् प्रदर्शनम् । अभुक्तमूलजातानां परित्यागो
विधीयते । अदर्शने वापि पिता स तु तिष्ठेत्
समाष्टकम् । एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः ।
मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः । जातस्य
जननाहे तु जन्मर्क्षे वा शुभे दिने । समाष्टके वा
मतिमान् कुर्याद्वै शान्तिमादरात् । यदेव शान्तिकं कुर्य्यात् कर्म
तत्तु प्रचक्ष्महे” अधिकं तत्र दृश्यम् ।
“गण्डेषु स्फुटरचनाब्जपत्रवल्ली” “गण्डोज्वलामु-
ज्वलनाभिचक्रया” इति च माघः ।

गण्डक पुंस्त्री गण्ड + स्वार्थे क । (गाण्डार) १ पशुभेदे स्त्रियां

जातित्वात् ङीष् । २ गण्डशब्दार्थे तस्य हयभूषणपरत्वेऽपि
क्वचित् भूषणमात्रपरतेत्यभिप्रायेण “व्याघ्रनखपङ्क्तिम-
ण्डिता गण्डकाभरणा (बालग्रीवा) च” काद० । ३ ग्रन्थौ
पृष्ठ २५११
“गोरोचनालिखितभूर्ज्जपत्रगर्भान् मन्त्रगण्डकान्” काद०
स्फोटकरोगे “अनेकवेत्रावातनिर्मितबहुगात्रगण्डकम्”
काद० । गण्डकी नदी सन्निकृष्टतयाऽस्त्र्यस्य अच् ।
गण्डकप्राचीस्थदेशभेदे तत्रवासिषु तन्नपेषु बहुव०
“ततः स गण्डकान् शूरो विदेहान् भरतर्षभः । विजि-
त्याल्पेन कालेन” भा० स० २८ अ० भीमप्राचीजयोक्तौ ।

गण्डकी स्त्री गण्ड + जातौ ङीष् । १ गण्डकी गण्डकजा-

तिस्त्रियाम् । २ नदीभेदे ३ तदधिष्ठातृदेवीभेदे च सा
च विष्णुसेवया शालग्रामशिलाखनित्वं लेभे
तत्कथा । वराहपु०
“गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे! । शीर्ण-
पर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् । दिव्यं वर्षशतं
तेपे विष्णुं चिन्तयती तदा । ततः साक्षाज्जगन्नाथो
हरिर्भक्तजनप्रियः । उवाच मधुरं वाक्यं प्रीतः
प्रणतवत्सलः । गण्डकि! त्वां प्रसन्नोऽस्मि तपसा
विस्मितोऽनघे! । अनवच्छिन्नया भक्त्या वरं वरय
सुव्रते! । किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि! ।
गण्डक्यपि पुरोदृष्ट्वा शङ्खचक्रगदाधरम् । दण्डवत्
प्रणता भुत्वा ततः स्तोतुं प्रचक्रमे ।” “ततो हिमांशो!
सा देवो गण्डकी लोकतारिणी । प्राञ्जलिः प्रणता भूत्वा
मधुरं वाक्यमब्रवीत् । यदि देव! प्रसन्नोऽसि देयो मे
वाञ्छितो वरः । मम गर्भगतो भूत्वा विष्णो! मत्
पुत्रतां व्रज । ततः प्रसन्नो भगवान् चिन्तयामास
गोपते! । किं याचितं निम्नगया नित्यं मत्सङ्ग-
लुब्धया । दास्यामि याचितं येन लोकानां भवमोक्षणम् ।
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् । गण्डकी
मवदत् प्रीतः शृणु देवि! वचो मम । शालग्रामशिला-
रूपी तव गर्भगतः सदा । तिष्ठामि तव पुत्रत्वे भक्तानु-
ग्रहकारणात् । मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठा
भविष्यसि । दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवाव-
गाहनात् । हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ।
यः स्नास्यति विधानेन देवर्षिपितृतर्पकः । तर्पयेत्
स्वपितॄंश्चापि तारयित्वा दिवं नयेत् । स्वयम् मम प्रियो
भूत्वा ब्रह्मलोकं गमिष्यति । यदि त्वय्युत्सृजेत्
प्राणान् मम कर्मपरायणः । सोऽपि याति परं स्थानं
यत्र गत्वा न शोचति । एवं दत्त्वा वरान् देव्यै तत्रै-
वान्तरधीयत । ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन्
शशलाञ्छन!” । “गण्डक्याश्चैकदेशे च शालग्रामस्थलं
स्मृतम् । पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम्”
स्मृतिः । सा च शोणनदसन्निकृष्टस्थाने गङ्गायां सङ्गता
हरिहरक्षेत्रतया च तत्सङ्गमस्थानं प्रसिद्धम् । “गण्ड-
कीञ्च महाशोणं सदानीरां (करतोयाम्) तथैव च ।
एकपर्वतके सद्यः क्रमेणैवाव्रजन्त ते” भा० स० १९ अ० “गण्ड-
कीन्तु समासाद्य सर्वतीर्थजलोद्भवाम् । वाजपेयम-
वाप्नोति सूर्य्यलोकञ्च गच्छति” भा० व० ८४ । “गण्डक्या
उत्तरे तीरे गिरिराजस्य दक्षिणे । सिंहस्थं मकरस्थञ्च
गुरुं यत्नेन बर्ज्जयेत्” मलमा० त० ।

गण्डकारी स्त्री गण्डं ग्रन्थिं भग्नसंयोजनरूपं करोति

कृ--अण् गौ० ङीष् । (हातजोड़ा) १ वराहक्रान्ताया-
मोषधौ रत्नमा० । २ खदिरवृक्षे शब्दच० ।

गण्डकाली स्त्री गण्डेषु ग्रन्थिषु काली । १ खदिरीवृक्षे

२ समङ्गायाम् अमरः ।

गण्डकीपुत्र पु० ६ त० । १ शालग्रामे शिलाभेदे । गण्डकीशब्दे तस्य तत्पुत्रत्वकथा दृश्या

गण्डकीशिला स्त्री गण्डक्यामुत्पन्ना शिला । शालग्राम-

शिलायाम् ।

गण्डकुसुम न० गण्डस्य हस्तिकपोलस्य कुसुममिव । १ हस्तिमदे हारा० ।

गण्डकूप पु० गण्डे गण्डवदुच्चपर्वतभृगौ कूपः । पर्वतोच्च-

देशस्थे कूपे हारा० ।

गण्डगात्र न० गण्ड इव उच्चावचं गात्रमस्य । (आता) फलप्रधाने वृक्षे शब्दचि० ।

गण्डदूर्व्वा स्त्री गण्डयुक्ता ग्रन्थिमती दूर्वा । (गाँटदूर्वा)

दूर्वाभेदे राजनि० । “गण्डदूर्वा हिगा लौहद्राविणी
ग्राहिणी लघुः । तिक्ता कषाया मधुरा वातकृत् कटु
पाकिनी । दाहतृष्णावलासास्रकुष्ठपित्तज्वरापहा”
भावप्र० ।

गण्डपाद त्रि० गण्डस्य पाद इव पादोऽस्य ह्रस्त्या० नान्त्यलोपः । गण्डतुल्यचरणे ।

गण्डफलक न० गण्डः फलकमिव प्रशस्तत्वात् उपमितस० ।

१ विस्तीर्णगण्डे । बहु० स० । २ तद्युक्ते त्रि० । “धृतमुग्धगण्ड-
फलकैर्विबभुर्विकसद्भिरास्वकमलैः प्रमदाः” माघःगण्डं
भित्तिरिव । गण्डभित्त्यादयोऽपि तत्रार्थे “निधौतदानामल-
गण्डभित्तिः” “अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय” रघुः ।

गण्डमाला स्त्री ६ त० । १ रोगभेदे । तल्लक्षणभेदाद्युक्तं

भावप्र० यथा
“कर्क्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागल
वङ्क्षणेषु । मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्ड-
माला वहुभिस्तु गण्डैः ।” “गण्डमालाया
एकावस्थाविशेषमपचीमाह “ते ग्रन्थयः केचिदवाप्तपाकाः
पृष्ठ २५१२
स्रवन्ति नश्यन्ति भवन्ति चान्ये । कालानुबन्धं चिर
मादधाति सैवापचीति प्रवदन्ति केचित् । ते ग्रन्थयः
गण्डमालाया एव गण्डाः केचिदवाप्तपाकाः सन्तः
स्रवन्ति, केचित् नश्यन्ति पुनः प्ररोहन्ति । अन्ये भवन्ति
च । कालानुबन्धाच्चिरमादधाति या गण्डमाला चिरं
तिष्ठति सैवापची इति केचिद्वदन्ति । अपच्याः साध्यत्वा
दिकमाह । साध्या स्मृता पीनसपार्श्वशूलकास-
ज्वरच्छर्द्दियुता त्वसाध्या । ग्रन्थेर्लक्षणमाह ।
वातादयो मांसमसृक् च दुष्टे संदूष्य मेदश्च तथा
शिराश्च । वृत्तोन्नत विग्रथितं तु शोथं कुर्व्वन्त्यतो
ग्रन्थिरिति प्रदिष्टः । विग्रथितं ग्रन्थिरूपम्” ।
गण्डमालाऽस्त्यस्य इनि । गण्डमालिन् तद्रोगवति त्रि० ।
तस्य श्राद्धे वर्ज्यतामाह मनुः “भ्रामरी गण्ड-
माली च श्वित्र्यथो पिशुनस्तथा” ।

गण्डमालिका स्त्री गण्डानां ग्रन्थीनां माला यत्र कप्

कापि अत इत्त्वम् । १ लज्जालुलतायाम् रत्नमा० ।

गण्डयन्त पु० गडि झच् । १ मेघे उज्ज्वलदत्तः ।

गण्डली पु० गण्ड इव भूमेरुच्छूनप्रदेशः क्षुद्रशैलस्तत्र

लीयते ला--क्विप् । १ महादेवे “गण्डली मेरुधामा च
देवाधिपतिरेव च” भा० आनु० १७ अ० । “शिवसहस्र-
नामोक्तौ “सुलोपः आर्षः” नीलकण्ठः ।

गण्डलेखा स्त्री लिख्यतेऽत्र लेखा स्थली गण्डः स्थलीव ।

१ प्रशस्तगण्डस्थल्याम् ।

गण्डशिला स्त्री गण्डः भूमेरुच्छूनप्रदेश इव शिला ।

भूमेरुच्छून्नप्रदेशवत् १ स्थूलपाषाणे । “दृष्टोऽङ्गुष्ठशिरो
मात्रः क्षणाद्गण्डशिलासमः” भाग० ३ । १३ । ३१ ।

गण्डशैल पु० गण्ड इव भूमेरुच्छूनप्रदेशः शैलः स्थूलो-

पलः, शैलस्य गण्ड इव वा राजद० पूर्वनि० ।
भूकम्पादिना पर्वतात् पतिते स्थूलपाषाणे अमरः ।
“लीलां दधौ राजतगण्डशैलः” “अस्मिन् भजन्ति
कनकोपलगण्डशैलाः” । “योषाणामुरुभिरुरोजगण्डशैलैः”
इति च माघः ।

गण्डसाह्वया स्त्री गण्डेन सहित आह्वयो यस्याः ।

१ गण्डक्यां नद्याम् “गङ्गा च शतकुम्भा च शरयूर्गण्डका-
ह्वया” भा० व० २१२ अ० ।

गण्डाङ्ग पुंस्त्री गण्ड इव उच्छूनमङ्गं यस्य । १ गण्डके शब्दच० स्त्रियां ङीप् ।

गण्डान्त न० “नक्षत्रतिथिलग्नानां गण्डान्तंत्रिविधं स्मृतम् ।

नवपञ्चचतुर्थानां द्व्येकार्द्ध घटिकामितम्” ज्योति-
षोक्ते तिथिनक्षत्रादीनां सन्धिसमयभेदे उपयमशब्दे
१२५८ पृ० विवृतिः ।

गण्डारि पु० गण्डरोगस्याऽरिः नाशकत्वात् । १ कोबिदारवृक्षे भावप्र० ।

गण्डाली स्त्री गण्डेन ग्रन्थिनाऽल्यते भूष्यते अल--घञ्

गौरा० ङीष् । १ श्वेतदूर्वायां अमरः । गण्डमलति--अल-
अण् गौरा० ङीष् । २ सर्पाक्षीवृक्षे भावप्र० ।

गण्डि पु० गड़ि--इन् । वृक्षस्य मूलाच्छाखावधिभागे (गुँडि) हेम० ।

गण्डिक त्रि० गण्डः बुद्बुद इवाकारेणास्त्यस्य ठन् । बुद्वुदो-

पमे १ क्षुद्रपाषाणादौ “गन्धमादनपार्श्वे तु परे त्वपर-
गण्डिकाः” भा० भी० ६ अ० । “अपरे अस्य गन्धमादनस्यै-
वावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः” नील० । अल्पार्थे
ङीप् स्वार्थे क ह्रस्वः । २ गण्डिका क्षुद्रगण्डपाषाणे स्त्री
“तथा माल्यवतः शृङ्गे पूर्वपूर्वानुगण्डिका” भा० भी० ७ अ० ।
अत्र “नगं डिकाकारयोगं करेऽणुमिति” भा० आश्व०
९ श्लोकं कश्चिदुदाजहार तच्चिन्त्यं तस्य श्लोकस्य
नगमितिच्छेदः तदर्थस्तु नीलकण्ठेनोक्तः यथा नगं पर्वतं,
डीयते विहायसा गच्छति डीः पक्षी ततः अल्पार्थे कन्
डिका मशकादि तस्याकारेण योगोऽस्य तथाभूतं करे
कुर्वे तथा च पर्वतमपि मशकीकर्तुं शक्नोमीति” ।

गण्डीर पु० गडि--बा० ईरन् । १ समष्ठिलायां (शशा) ख्याते

वृक्षेजटा० (गुमिया) ख्याते २ शाकभेदे भरतः । ३ सेहुण्ड-
वृक्षे (सिजु) स्त्री राजनि० गौरा० ङीष् ।

गण्डु(ण्डू) पुंस्त्री गण्ड्यते गडि--आधारे उन् स्त्रीत्वे

अप्राणिजातिवाचकत्वात् ऊङ् । १ उपधाने (वालिश)
जटा० तत्र कपोलरूपवदनैकदेशव्यापारसत्त्वात्तथा-
त्वम् । २ ग्रन्थौ पु० शब्दार्थचि० गण्डूपदः । गण्डुः
ग्रन्थिरस्त्यस्य सिध्मा० वा लच् । ३ गण्डुल ग्रन्थियुते त्रि० ।
पक्षे मतुप् । गण्डुमत् तत्रार्थे त्रि० स्त्रियां ङीप् ।

गण्डूपद पुंस्त्री० गण्ड्वः ग्रन्थयः तद्युतानि पदानि यस्य ।

(केँचो) १ किञ्चुलुके अमरः । स्त्रियां ङीष् । अल्पार्थें
ङीप् । गण्डूपदी २ क्षुद्रकिञ्चुलके अमरः ।

गण्डूपदभव न० गण्डुपद इव भवति भू--अच् । १ सीसके हेमच० ।

गण्डूष पु० गडि--ऊषन् । १ मुखपूरणे २ मुखान्तर्धृतजलादौ

च “गण्डूषमुज्झितवता पयसः सरोषम्” माघः ।
“मुखोष्णः स्नेहगण्डूषो नस्यं स्नैहिकमेव च” सुश्रु० ।
“अपां द्वादशगण्डूषैर्मुखशुद्धिर्विधीयते” आ० त० ।
“तस्य जह्नुः सुतो, गङ्गां गण्डूषीकृत्य योऽपिबत्” भाग०
८ । १५ । ३ । “गजाय गण्डूषजलं करेणुः” कुमा० । ३ हस्ति
पृष्ठ २५१३
शुण्डाग्रे ४ प्रसृतिपरिमाणे च मेदि० “गण्डूषजलमात्रेण
शफरी फर्फरायते” उद्भटः । ५ उन्नतनाभौ च स्त्री टाप्
अमरोक्तं स्त्रीत्वमेतदर्थपरमिति शब्दार्थचि० ।
गण्डूषकबलधारणादौ विधिश्च भावप्र० दर्शितो यथा
“स्नेहक्षीरकषायादिद्रवैः संपूर्णमाननम् । आपूर्य्य
स्थीयते तावद्विधिर्गण्डुषघारणे । कफपूर्णास्यता
यावच्छेदो दोषस्य वा भवेत् । नेत्रघ्राणस्तुतिर्य्यावत्ता-
वद्गण्डूषधारणम् । गण्डूंषान् सुस्थितः कुर्यात्
स्विन्नभालगलादिकः । मनुष्यस्त्रींस्तथा पञ्च सप्त वा
दोषनाशनान् । गलादिक इत्यादि शब्देन गण्डकपोलौ
गृह्येते सुश्रुतोक्तत्वात् । चतुर्विधः स्याद्गण्डूषः
स्नेहनः शमनस्तथा । शोधनो रोपणश्चैव कबलश्चापि
तादृशः । स्निग्धोष्णैः स्नैहिको वाते, स्वादुशीतैः प्रसा-
दनः पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे ।
कषायतिक्तमधुरैः कटूष्णो रोपणो व्रणे । दद्याद्द्रवेषु
र्चणञ्च गण्डूषे कोलमात्रकम् । कर्षप्रमाणः कल्कश्च
कबले दीयते बुधैः । धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषाः
कबलादयः । व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् ।
इन्द्रियाणां प्रसादश्च गण्डूषे विधृते भवेत् । हरेदास्यस्य
वैरस्यं शोषपाकं व्रणं तृषाम् । दन्तचालं च गण्डूषो
वैशद्यं तु करोति हि । अथ कबलः बातपित्तकफघ्नस्य
द्रव्यस्य कबलं मुखे । अर्द्धं निःक्षिप्य संचर्व्य निष्ठी-
वेत्कबले विधिः । कबलः कुरुते काङ्क्षाम्भक्ष्येषु हरते
कफम् । तृष्णां शोफञ्च वैरस्यं दन्तचालञ्च नाशयेत् ।”

गण्डोपधान न० गण्ड उपधीयतेऽत्र उप + धा--आधारे

ल्युट् ६ त० । (गालवालिश) गण्डस्थापनार्हे १
उपधाने । “मृदुगण्डोपधानानि शयनानि सुखानि च” सुश्रु० ।

गण्डोल पु० गड़ि--ओलच् । १ गुड़के २ ग्रासे च हेमच० । गुड़-

कश्च वर्त्तुलाकारः (गोला) पदार्थभेदः । गुड़कशब्दे दृश्यम् ।

गण्डोलपाद पु० गण्डोल इव पादोऽस्य उपमानपूर्वत्वेऽपि

हस्त्या० नान्त्यलोपः । १ गण्डोलतुल्यवर्त्तुलपादे त्रि०
स्त्रियां स्वाङ्गत्वात् वा ङीप् ।

गण्य त्रि० गणं लब्धा गण + यत्, गण--कर्मणि यत् वा । गणं

सङ्ख्यानं १ लब्धरि, २ गणनीये च । अग्रगण्यः । गणेभवः
दिगा० यत् । गण्य ३ गणभवे त्रि० । अस्य केनचित् समासे
उत्तरपदस्थत्वे वर्ग्यादि० अकर्म्म धारये उत्तरपदस्थस्याद्युदा-
त्तता धार्म्मिकगण्य इति ।

गत त्रि० गम--कत्तरि क्त । १ अतीते “नुनोद तस्य स्थलपद्मि-

नीगतम्” किरा० । “गता बहुतरा कान्ते! स्वल्पा तिष्ठति
यामिनी” “गताः समाः पादयुताः” नी० ता० “आयुषो-
ऽर्ङ्गं गतं तस्य” सू० सि० धातूनामनेकार्थत्वात् २ इत्थंभावं
प्राप्ते च । “तथागतायां परिहासपूर्व्वम्” रघुः
“तथागतायां तथाभूतायाम्” मल्लिना० । तथारूप-
प्राप्तायामिति तु न्याय्यम् । ३ समाप्ते ४ पतिते । कर्म्मणि
क्त । ५ ज्ञाते ६ प्राप्ते ७ कृतगतिके च । भावे क्त । ८ गमने न०
“गतं तिरश्चीनमनूरुसारथेः” माघः । “गतेषु लीलाञ्चित-
विक्रमेषु” कुमा० । “गतं गतं वह्निसमागतं गतम्” भट्टिः ।

गतत्रप त्रि० गता त्रपा लज्जा यस्य । १ निर्लज्जे ।

गतनासिक त्रि० गता नासिकाऽस्य । (खाँदा) नासिकाशून्ये अमरः ।

गतप्रत्यागत त्रि० पूर्वं विरागात् स्वस्थानात् गतः पश्चा-

दागतः स्वसेवायां विरक्ततया पूर्वं गते पश्चादागते १ भृत्यादौ
“शत्रुसेविनि मित्रे च गूढ़े युक्ततरो भवेत् । गत
प्रत्यागते चैव स हि कष्टतरो रिपुः” मनुः । “सा चेदक्ष-
तयोनिः स्याद्गतप्रत्यागताऽपि वा” मनुः । भावे क्त ।
२ गमनप्रत्यागमनयोश्च न० द्विव० । गदाशब्दे दृश्यम् ।

गतबुद्धि त्रि० गता बुद्धिरस्य । १ ज्ञानशून्ये ।

गतरस त्रि० गतो रसोऽस्य । १ नष्टरसे “यातयामं गतरसम् ।

अभक्ष्यकथने” स्मृतिः ।

गतभर्त्तृका स्त्री गतो नष्टः प्रोषितो वा भर्त्ता यस्याः

कप् । १ विधवायां २ प्रोषितभर्त्तृकायाञ्च । “किमु मुहु-
र्मुमुहुर्गतभर्त्तृकाः” माघः ।

गतव्यथ त्रि० गता नष्टा व्यथा यस्य । १ व्यथाशून्ये ।

गतसङ्ग त्रि० गतः सङ्गोऽस्य । १ फलकामनाशून्ये २ फलासक्ते ।

गतसन्नक पु० गतं सन्नमवसादहेतुर्मदोऽस्य कप् । निर्मदे

१ हस्तिनि शब्दच० ।

गतस्पृह त्रि० गता स्पृहा अस्य । १ निवृत्ततर्षे । “गतस्पृहोऽप्यागमनप्रयोजनम्” माघः ।

गतस्मय त्रि० गतः स्मयो गर्व्वो, विस्मयो वा यस्य ।

१ अहङ्कारशून्ये २ विस्मयशून्ये च ।

गताक्ष त्रि० गतमक्षि यस्य षच् समा० । १ अन्धे हेमच० स्त्रियां षित्त्वात् ङीष् ।

गतागत न० गतं गमनमागतमागमनं द्वयोः, समाहारः । १

गमागमनयोः । “एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा
लभन्ते” गीता । जीवस्य गतागतं च संसारे मरणोत्तरं
पुनर्जन्मग्रहणरूपम् निष्क्रियस्य तस्य अन्यथा तदसम्भवात् ।
“गतागतकुतूहलं नयनयोरपाङ्गावधि” रसमञ्जरी ।
“मध्येन मघानां गतागतं लोहितः
करोति ततः” वृह० सं० ६ अ० । गतागतेन निर्वृत्तम् अक्ष-
पृष्ठ २५१४
द्युता० ठक् । गातागतिक यातायातनिष्पादिते त्रि० । पूर्बं
गतं पश्चादागतम् । २ पक्षिगतिभेदे जटाधरः ।
गमकर्त्तरि क्तं । कर्म्म० । पूर्वं गते पश्चादागते त्रि० ।
खगगतिशब्दे विवृतिः । आ + गम--क्तिन् गतोत्तरमागतिः ।
गताततिरप्यत्र स्त्री । “जावालिरपि जानीते लोकस्यास्य
गतागतिम्” रामा० अयो० ११० ।

गताध्वत् त्रि० गतः अध्वा येन । १ गतमार्गे २ ज्ञाततत्त्वे च

“गताध्वा च्छिन्नसंशयः” भा० शा० ३२२ अ० । स्त्रियां “डाबुभा
भ्यामत्यतरस्याम्” पा० वा डाप् । सा च ३ चतुर्दशीयुक्ता-
मावास्यायां खर्विताशब्दे २४६९ पृ० कर्म्मप्रदीपवाक्यं
दृश्यम् । “अमावास्यां कुर्व्वीत चन्द्रे दृश्यमानेऽप्येकदा
गताध्वा भवतीति” गोपथब्रा० १ । ५ । १० ।

गतानुगत त्रि० गतस्य गमनस्यानुगतम् अनुगमनम् । १

गमनामुरूपगमने । तेन निर्वृत्तं अक्षद्यूतादि० ठक् । गाता-
नुग तक गमनानुगमननिष्पन्ने त्रि० । गतानुगतमस्त्यस्य
ठन् । गतानुगतिक तद्युक्ते त्रि० “गतानुगतिको लोको
न लोकः पारमार्थिकः” पञ्चत० ।

गतान्त त्रि० गत उपस्थितः अन्तः अन्तकांलोऽस्य । १ उप

स्थितान्तकाले, मुमूर्षौ “मभ वृद्धस्य कैकेयि! गतान्तस्य
तपस्विनः” रामा० अ० १२ । ३० । गतः प्राप्तः अन्तो
येन । २ प्राप्तचरमसीमनि च ।

गतायुस त्रि० गतं गतप्रायमायुर्जीवनकालोऽस्य । १ प्राप्त-

चरमकाले, गतायुर्लक्षणं सुश्रुतेनोक्तं यथा
“शरीरशीलयोर्यस्य प्रकृतेर्व्विकृतिर्भवेत् । तस्यारिष्टं
समासेन व्यासतस्तु निबोध मे । शृणोति विविधान्
शब्दान् यो दिव्यानामभावतः । समुद्रपूरमेघानाम-
सम्पत्तौ च निःस्वनान् । तान् स्वनान्नावगृह्णाति
मन्यते चान्यशब्दवत् । ग्राम्यारण्यस्वनांश्चापि विपरीतान्
शृणोत्यपि । द्विषच्छब्देषु रमते सुहृच्छब्देषु कुप्यति । न
शृणोति च योऽकस्मात्तं ब्रुवन्ति गतायुषम् । यस्तूष्ण-
मिव गृह्लाति शीत, मुष्णञ्च शीतवत् । सञ्जातशीतपिड़को
यश्च दाहेन पीड्यते । उष्णगात्रोऽतिमात्रञ्च यः शीतेन
प्रवेपते । प्रहारान्नाभिजानाति योऽङ्गच्छेदमथापि वा ।
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते । वर्ण्णान्य-
भावराज्यो वा यस्य गात्रे भवन्ति हि । स्नातानु-
लिप्तं यञ्चापि भजन्ते नीलमक्षिकाः । सुगन्धिर्वाति
योऽकस्मात्तं ब्रुवन्ति गतायुषम् । विपरीतेन गृह्णाति
रसान् यश्चोपयोजितान् । उपयुक्ताः क्रमाद्यस्य रसा
दोषाभिवृद्धये । यस्य दोषाग्निसाम्यञ्च कुर्थ्युर्म्मिथ्योप-
योजिताः । यो वा रसान्न संवेत्ति गतासुं तं प्रच-
क्षते । सुगन्धिं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् ।
गृह्णीते योऽन्यथा गन्धं शान्ते दीपे च नीरुजः । यो
वा गन्धान्न जानाति गतासुं तं विनिर्दिशेत् । द्वन्द्वा-
न्युष्णहिमादीनि कालावस्था दिशस्तथा । विपरीतेन
गृह्णाति भावानन्यांश्च यो नरः । दिवाज्योतींषि
यश्चापि ज्वलितानीव पश्यति । रात्रौ सूर्य्यं ज्वलन्तं
वा दिवा वा चन्द्रवर्चसम् । अमेघोपप्लवे यश्च शक्रचाप-
तडिद्गुणान् । तडित्वतोऽसितान् यो वा निर्मले गगने
घनान् । विमानयानप्रासादैर्यश्च सङ्कुलमम्बरम् । यश्चा-
निलं मूर्त्तिमन्तमन्तरीक्षञ्च पश्यति । धूमनीहारवासो-
भिरावृतामिव मेदिनीम् । प्रदीप्तमिब लोकञ्च यो वा
प्लुतमिवाम्भसा । भूमिभष्टापदाकारां लेखाभिर्य्यश्च
पश्यति । न पश्यति सनक्षत्रां यश्च देवीमरुन्धतीम् ।
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषम् । ज्योत्स्ना-
दर्पणतोयेषु छायां यश्च न पश्यति । पश्यत्येकाङ्ग-
हीनां वा विकृतां वाऽन्यसत्वजाम् । श्वकाककङ्कगृध्राणां
प्रेतानां यक्षरक्षसाम् । पिशाचोरगनागानां भूतानां
विकृतामपि । यो वा मयूरकण्ठाभं विधूमं वह्निमी-
क्षते । आतुरस्य भवेन्मृत्युः स्वस्थो व्याधिमवाप्नुयात् ।”
अधिकं कालचिह्नशब्दे १९९६ पृ० उक्तम् ।

गतार्त्तवा स्त्री गतमार्त्तवं यस्याः । गतपञ्चाशद्वर्षवयस्कायां

स्त्रियाम् । “द्वादशाद्वत्सरादूर्द्धमापञ्चाशत्समं स्त्रियः ।
मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत्” भावप्र०
तद्गतिकाल उक्तः । रोगादिना तन्मध्ये गतरजस्कायामपि
जातवन्ध्यायां २ स्त्रियाञ्च राजनि० ।

गतार्थ त्रि० गतो ज्ञातोऽर्थो यस्य । ज्ञातार्थके पदार्थे “तदपि

स्वलणकथनेनैव गतार्थम्” सा० द० ।

गतासु त्रि० गताः असवोऽस्य । १ मृते २ शवे “गतासून-

गतासूंश्च नानुशोचन्ति पण्डिताः” गीता । ३ गतप्रायप्राणके
च सुश्रुतः गतायुःशब्दे दृश्यम् ।

गति स्त्री गम--भावे क्तिन् । १ गमने । “सूत्रस्येवास्ति मे

गतिः” रघुः । “प्रणयातिभूमिमगमयत् गतिभिः”
माघः । “उपागमे दुश्चरिता इवापदां गतिं न निश्चेतु-
मलं शिलीमुखाः” किरा० । २ परिणामे च “दुरधिगमा-
हि गतिः प्रयोजनानाम्” किरा० । “गतिः परिणामः”
मल्लि० । ३ ज्ञाने । करणे क्तिन् । ४ प्रमाणे च । “अनेन
पृष्ठ २५१५
पूर्वं न मयेति का गतिः” किरा० “का गतिः किं प्रमा-
णम्” मल्लि० । आधारे क्तिन् । ५ सरणौ पथि “भिन्नगति-
र्हि लोकः” रघुः । ६ स्थाने च । “कां गतिं कृष्ण! गच्छति”
गीता “गतिं प्रतापस्य जलत्प्रमाथिनः” किरा० “गतिं
स्थागम्” मल्लि० । गम्यते कर्म्मणि क्तिन् । ७ स्वरूपे
“न वयं निरूपयितुमस्य गतिम्” किरा० “गतिं
स्वरूपम्” मल्लि० । ८ विषवे च “मनोरथानामगतिर्न
विद्यते” कुमा० “अगतिरविषयः” मल्लि० । भावे क्तिन् ।
९ यात्रायाम् । करणे क्तिन् १० अभ्युपाये “कलौ नास्त्येव
नास्त्येव नास्त्येव गतिरन्यथा” पुरा० । ११ नाड़ीव्रणे
मेदि० । पक्षिग्रहगतिभेदाश्च खगगतिशब्दे २४१५ पृ०
उक्ताः । वृह० स० ७ अ० नक्षत्रभेदेन बुधस्य गतिभेदा-
स्तत्फलभेदाश्चोक्ता यथा
“प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तवोरपापाख्याः । सप्त
पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः । प्राकृतसञ्ज्ञा १
बायव्य १५ याम्य २ पैतामहानि ४ बहुलाश्च ३ । मिश्रा गतिः २
ब्रदिष्टा शशि ५ शिव ६ पितॄ १० भुजग ९ दैवानि । सङ्क्षिप्तायां ३
पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां ४ भाद्रपदाद्वयं
सशाक्राश्वयुक् १८ । १ । पौष्णम् २७ । योगान्तिकेति ५ मूलं द्वे
चषाढे गतिः सुतस्येन्दोः । घोरा ६ श्रवणस्त्वाष्ट्रं १४ वासवं २३
वारुणं २४ चैव, पापाख्या ७ । सवित्रं १३ मैत्रं १७ शक्राग्नि-
दैवतं १६ चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं
प्राह । चत्वारिंशत्त्रिंशद्द्विसमेता विंशति २२ र्द्विनवकं च १८ ।
नव मासार्धं दश चैकसंयुताः ११ प्राकृताद्यानाम् । प्राकृत-
गत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमभ् । सङ्क्षिप्तमिश्रयो-
र्मिश्रमेतदन्यासु विपरीतम् । ऋज्व्यतिवक्रा वक्रा
विकला च मतेन देवलस्यैताः । पञ्चचतुर्द्व्येकाहा
ऋजव्यादीनां षडभ्यस्ताः । ऋज्व्यो हिता प्रजानामतिव-
क्रार्थं गतिर्विनाशयति । शस्त्रभयदा च वक्रा विकला
भयरोगसञ्जननी ।”
पाणिन्युक्तेषु प्रादिषु १२ शब्दविशेषेषु पु० ते च “प्रादयः”
“उपसर्गाः क्रियायोगे” “गतिश्च” “उर्यादिचिव्डाचश्च”
“अनुकरणं चानितिपरम्” “आदरानादरयोः सदसती”
भूषणेऽलम् “अन्तरपरिग्रहे” “कणेमनसी” “श्रद्धाप्रती-
घाते” “पुरोऽव्ययम्” “अस्तं च” “अच्छ गत्यर्थवदेषु”
“अदोऽनुपदेशे” “तिरोऽन्तर्धौ” “विभाषा कृञि”
“उपाजेऽन्वाजे” “साक्षात्प्रभृतीनि च” “अनत्याधाने
उरसिमनसी” “मध्ये पदे निवचने च” “नित्यं हस्ते
पाणावुपयमने” “प्राध्वं बन्धने” “जीविकोपनिषदा-
वौपम्ये ।” पा० उक्ताः धातुविशेषयोग एव तत्संज्ञां
भजन्ते धातुविशेषाश्च सि० कौ० त० स० प्र० दृश्याः ।
तेषाञ्च गतिसंज्ञकानां “गतिर्गतौ” पा० अनुदात्तता ।
“सगतिरपि तिङ्” पा० । काष्ठं प्रपचतीत्यादौ
अनुदात्तता । “गतिरनन्तरः” पा० “कर्म्मार्थे क्तान्ते
परेऽव्यवहितो गतिः प्रकृत्या” । पुरोहितम् । “गतिकारको-
पपदानां कृद्भिः समासबचनं प्राक्सुबुत्पत्तेः” वार्त्ति० ।
“गतिबुद्ध्यादि” पा० णिचि प्रयोज्यकर्त्तुः कर्म्मत्वम् ग्रामं
गमयति देवदत्तम् चैत्रः । गत्यर्थकर्म्मणि द्वितीयाचतुर्थ्यौ
चेष्टायामनध्वनि” पा० । ग्रामं ग्रामाय वा गच्छति
अध्वनि तु मार्गं गच्छति । अचेष्टायां मनसा गच्छति
“गत्यर्थाकर्म्मकेत्यादि” पा० कर्त्तरि च क्त । ग्रामं
गतश्चैत्रः चकारात् भावे कर्म्मणि च गतं चैत्रस्य, गतो
ग्रामश्चैत्रेण । “क्तोऽधिकरणे च” “ध्रौव्यगतिप्रत्यव-
सानेत्यादि” पा० आधारे क्त । “इदं यातं रमापतेः”
सि० कौ० । सर्वे गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्चेत्युक्तेः
“मतिबुद्धिपूजार्थेभ्यश्च” पा० वर्त्तमानेऽपि क्त । शास्त्र-
मधिगतम् विप्रेण वर्त्तते, तेन ज्ञायमानमित्यर्थः । गत्यर्थ-
कधातवश्च गणपाणे पठिता एव ज्ञेयाः । वैदिकप्रयोगे तु
केचित्ततोन्येऽपि धातवः समष्ट्या निघण्टौ पठिता यथा
“वर्तते । अयते । लोटते । लोठते । स्यन्दते ।
कसति । सर्पति । स्यमति । स्रवति । स्रंसते ।
अवति । श्चोतति । ध्वंसति । वेनति । मार्ष्टि ।
भुरण्यति । शवति । कालयति । पेलयति । कण्ट-
ति । पिस्यति । विस्यति । मिस्यति । प्रवते ।
प्लवते । च्यवते । कवते । गवते । नवते । क्षोदति ।
नक्षति । सक्षति । म्यक्षति । सचति । ऋच्छति ।
तुरीयति । चतति । अतति । गाति । इयक्षति ।
सश्चति । त्सरति । रंहति । यतते । भ्रमति ।
ध्रजति । रजति । लजति । क्षियति । धमति ।
मिनाति । ऋण्वति । ऋणोति । स्वरति । सिसर्ति ।
वेषिष्टि । योषिष्टि । रिणाति । रीयते । रेजति ।
दध्यति । दभ्नोति । युध्यति । धन्वति । अरुषति ।
आर्यति । डीयते । तकति । दीयति । ईषति ।
फणति । हनति । अर्दति । मर्दति । सर्सृते ।
नसते । हर्यति । इयर्ति । ईर्ते । ईङ्खते । ज्रयति ।
श्वात्रति । गन्ति । आ गनीगन्ति । जङ्घन्ति ।
पृष्ठ २५१६
जिन्वति । जसति । गमति । ध्रति । ध्राति ।
ध्रयति । वहते । अथर्यति । जेहते । ष्वःकति ।
क्षुम्पति । प्साति । वाति । याति । इषति ।
द्राति । द्रूडति । एजति । जमति । जवति ।
बञ्चति । अनिति । पवते । हन्ति । सेधति ।
अगन् । अजगन् । जिगाति । पतति । इन्वति ।
द्रमति । द्रवति । वेति । हयन्तात् । एति ।
जगायात् । अयुथुरिति । द्वाविंशशतं गतिकर्माणः ।”
एतेषां भ्वाद्यादिगणोयत्वं विकरणादेवावसेयम् ।

गतितालिन् पु० स्कन्दसैन्यभेदे “शृणु नामानि चाप्येषां

येऽन्ये स्कन्दस्य सैन्यकाः” इत्युपक्रमे “वैताली गतिताली
च तथा कथकवाचिकौ” भा० शल्य० ४६ अ० ।

गतिला स्त्री गम--इलच् मिथिला० नि तान्तादेशः । १ वेत्र-

लतायाम् उज्ज्वल० । २ नद्यां ३ परम्परायाञ्च उणादिको० ।

गतिसत्तम पु० गतिर्वोधः, प्राप्यं स्थानं वा चासौ

सत्तमश्च । १ परमेश्वरे । “आदित्यो ज्योतिरात्मा
च सहिष्णुर्गतिसत्तमः” विष्णुस० ।

गत्वन् त्रि० गम--क्वनिप् मलोपे तुक् । गन्तरि । स्त्रियां ङीप्

रश्चान्तादेशः । गत्वरी ।

गत्वर त्रि० गम--क्वरप् मलों, तुक् । गमनशीले

स्त्रियां ङीप् । “अभिमानधनस्य गत्वरैः” किरा० ।

गत्वा अव्य० गम--क्त्वा । गतिं कृत्वेत्यर्थे “सद्यः पुरीपरिसरे

च शिरीषमृद्वी गत्वा जवात् त्रिचतुराणि पदानि
सोता” उत्तरच० । वेदे तु “क्त्वोयक् च” पा० यक् ।
गत्वाय तदर्थे अव्य० “दिवं सुपर्ण्णो गत्वाय सोमं
वज्रिण आभरत्” ऋ० ८, १००, ८ । “गत्वाय गत्वा” भा० ।
स्रात्व्यादि० नि० आतःस्थाने ईत् । गत्वी तदर्थे अव्य० ।
“सा नोदुही यद्यवसेव गत्वी” ऋ० ४ । ४१ । ५ ।

गद मेघध्वनौ अद० चुरा० उभ० अक० सेट् । गदयति ते

अजगदत् त । गदयां बभूव आस चकार चक्रे ।

गद व्यक्तभाषणे भ्वा० पर० सक० सेट् । गदति अगादीत्-

अगदीत् जगाद । गदितं गदः । गद्यं निगाद्यम् ।
प्रणिगदति + प्रण्यगदत् । “जगादाग्रे गदाग्रजम्” माघः ।
“यश्च सायं सदा चैवं श्लोकमेक जगाद ह” भा० व०
६७ अ० । “अथ जगदुरनीचैराशिषस्तस्य विप्राः” भट्टिः ।
“शुद्धान्तरक्ष्या जगदे कुमारी” रघु । “अन्तर्वाष्पभरो-
परोधि गदितम्” शकु० । “विस्तरात् गदते मम”
देवीमा० ।
  • नि + नितरां कथने । “निगदामि यथा युक्तं पुराणाश्रयसें
युतम्” भा० आ० ५ अ० । “पौरा निवर्त्तध्वमिति
न्यगादीत्” भट्टिः । “मखांशभाजां प्रथमो मनीषि-
भिस्त्वमेव देवेन्द्र! यदा निगद्यसे” रघुः । “न नैषध
कार्य्यमिदं निगाद्यम्” नैष० । भावे वा अप् । निगादः
निगदः । चतुर्थ्यन्ततयोच्चारणे च । “प्रतिनिगद्य होमः”
कात्या० श्रौ० ६, १०२६ । “देवतां प्रति निगद्य देवतापदं
चतुर्थ्यन्यमुच्चार्य्य स्वाहाकारेण होमः” कर्कः ।
  • प्रति + प्रत्युत्तरकथने । “आभिर्गाथाभिरव्यग्रः प्रश्नं प्रति-
जगाद ह” भा० आनु० ३२४ अ० ।
  • वि + विरुद्धोक्तौ । “न हि निम्बात् स्रवेत् क्षौद्र लोके
विगदितं वचः” रामा० अयो० ३५ अ० ।

गद पु० गद--अच् । १ रोगे अमरः । “व्रणोत्थानाञ्च विज्ञानं

तद्गदप्रतिषेधनम् । प्रतिश्यायनिषेधश्च शिरोगदविवेच-
नम् । चिकित्सा तद्गदानाञ्च” सुश्रुतः । “येषां गदानां
ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः!” सुश्रु० । “असाध्यं
कुरुते कोपं प्राप्ते काले गदो यथा” माघः ।
गद--अभ्रध्वनौ भावे अच् । २ मेघध्वनौ । शब्दक०
भाषणार्थकतोक्तिश्चिन्त्या हलन्तत्वात् ततो भावे घञ
एवानुशासनात् नावेवोपगदेऽपोविधानात् । ३
रोहिणीगर्भजाते वसुदुवपुत्रभेदे पु० । “बलं गदं
सारणञ्च दुर्मदं विपुलम् ध्रुवम् । वसुदेवस्तु रोहिण्यां
कृतादीनुदपादयत्” भाग० ९, १४ अ० । “हृदीकः
ससुतोऽक्रूरो जयन्तगदसारणाः । आसते कुशलं
कच्चित्” भा० १ । १२१४, २८ । चलितानकदुन्दुभिः पुरः
सबलस्त्वं सह सारणेन तम् । समितौ रमसादुपागतः
सगदः सम्प्रतिपत्तुमर्हसि” माघः “जगादाग्रे गदाग्रजम्”
माघः । कु(ड़) ४ कुष्ठे विषभेदे न० राजनि० । गदाख्य-
गदाह्वयादयोऽप्यत्र । ५ असुरभेदे पु० । गदाशब्दे दृश्यम् ।

गदगद न० गद्गद + पृषो० । गद्गदभाषणे “वक्त्रजेषु कण्ठा-

ष्ठतालूनामन्यतमे गदगदवाक्यता” सुश्रु० । गदगदेत्येव
पाठः सम्यक् ।

गदयित्नु पु० गदि--इत्नुच् णेरयादेशः । १ कामे, २ कामुके

३ वायदूके च त्रि० मेदि० ४ शब्दे उज्ज्वलदत्तः ।

गदा स्त्री गद--अच् टाप् । १ स्वनामख्याते लौहादि-

कीलिते, २ लौहमये वाऽस्त्रभेदे, तद्युद्धक्रियाभेदो
वह्नि पु० धनुर्वेदे दर्शितो यथा “आहतं विहृतं चैव
गोमूत्रकमनावनम् । तथोर्द्धगावनमितं वामदक्षिणमेव
पृष्ठ २५१७
च । व्याहृतञ्च परावृत्तम् पादोद्धूतमवप्लुतम् ।
हंसमार्गं विमागञ्च गदाकर्म्म प्रकीर्त्तितम्” । तत्रैवा-
नतिदूरे च “सव्यासव्यवटङ्गञ्च वराहोद्धूतकं तथा ।
हस्तावहस्तपालीनमेकहस्तावहस्तके । द्विहस्तबाहुपाशे
च कठिकाचितकोद्धते । प्रव्ये ललाटघाते च भुजावि-
धमनं तथा । कारोद्धूतं विमानञ्च पादाहतविपादकम् ।
गात्रसंप्रंषणं क्लान्तं तथागात्रविपर्य्ययम् । ऊर्द्धप्रहारं
वातञ्च गोमूत्रे सव्यदक्षिणे । पादसन्ताड़नं मण्डं
कवचं विधमाकुलम् । तिर्य्यग्वन्धमपाधातं भीमवेगप्रदर्श-
नम् । सिंहाक्रातं गजाक्रान्तं गर्द्धभाक्रान्तमेव च ।
गदाकर्म्माणि जानीयात्” । भा० शल्य० गदा
पर्वणि ५७ अ० तु अन्यथै च प्रकारो दर्शितः यथा
“अचरद्भीमसेनस्तु मार्गान् बहुविधांस्तथा । मण्ड-
लानि विचित्राणि गतप्रत्यागतानि च । अस्त्रय-
न्त्राणि चित्राणि स्थानानि विविधानि च । परिमोक्षं
प्रहाराणां वर्जनं परिधावनम् । अभिद्रवणमाक्षेप-
मवस्थानं सविग्रहम् । परिवर्त्तनसंवर्तमवप्लुतमुपप्लु-
तम् । उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ । एवन्तौ
विचरन्तौ तु न्यघ्नतां वै परस्परम्” । “मण्डलानि शत्रोः
परिवेष्टनानि परितो भ्रमणानि । गतं शत्रोः सम्मुख-
नमनं प्रत्यागतम् आभिमुख्येन तत एवापसरणम् । अस्त्र-
यन्त्राणि कठिनमर्मदेशमाक्षिप्य येन शत्रोरुत्क्षेपणमप-
क्षेपणं च क्रियते तदस्त्रयन्त्रम् अस्यते क्षिप्यतेऽनेनेत्यस्त्रं
तच्च तद्यन्त्रं निग्रहणम् चास्त्रयन्त्रमिति समासः । स्था-
नानि तेषामेवोपयोगीनि मर्मदेशादीनि परिधावनं
वेगेन सव्यापसव्यकरणम् । अभिद्रवणं वेगेनाभ्यागमनम्
आक्षेपं परयत्नस्य तत्पातनहेतुतासम्पादनम् । अवस्थान-
मचाञ्चल्यं सविग्रहं शत्रावुत्थिते पुनस्तेन सहयुद्धकरणं
परिवर्त्तनं शत्रुं प्रहर्त्तुं परितः प्रसरणं, संवर्त्तं शत्रु-
प्रसरणस्यावरोधनम् अवप्लुतं प्रहारवञ्चनार्थं नम्रीभावेन
निःसरणम् उपप्लुतं तदेवार्वाग्गमनयुक्तम् । उपन्यस्तं
उपेत्यायुधप्रक्षेपः अपन्यस्तं परावृत्य पृष्ठतः कृतेन
हस्तेन शत्रोस्ताड़नम्” नी० क० ।
गदालक्षणन्तु हेमा० परि० ख० लक्षणसमुच्चये “गदा पञ्चा-
शदङ्गुलायामा श्रेष्ठा, चत्वारिंशदङ्गुलायामा मध्या,
त्रिंशदङ्गुलायामा कनिष्ठेत्यादि” अधिकं तत्रैव दृश्यम् ।
असुरभेदस्य गदस्यास्थिजातत्वात् विष्णुगदायास्तथात्वम् ।
यथा वायुपु० गयामा० ५ अ० । “गदो गामासुरो ह्यासीत्
वज्राद्वज्रतरो दृढः । प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि
दुस्त्यजम् । ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतां
तदा । तदस्थ्ना वज्रनिष्पेषैः कुन्दैः स्वर्गेऽप्यधारयत्”
तस्याश्च विष्णवे दानकथा गदाधरशब्दे वक्ष्यते अन्य गदानां
तदाकृतित्वात्तथात्वम् । “मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वा-
त्मिकां गदाम्” विष्णु स० भा० धृतवाक्यात् ३ बुद्धितत्त्वे च ।
गदाधरः गदाभृत् । ४ पाटलावृक्षे शब्दच० ।

गदागद पु० द्वि० व० गदमागच्छति आ + गम--ड गदागं

रुग्नं दायतः शोधयतः दैप्--शोधने क । अश्विनोकुभा-
रयोः त्रिका० ।

गदाग्रज पु० गदस्याग्रजः । १ बलरामे गदशब्दे बलरामस्य

तथात्वं दृश्यम् २ श्रीकृष्णे त्रिका० तस्य सापत्न्यभ्रातृ-
त्वेऽसि एकपिवृकत्वेन तस्य गदतोऽग्रजत्वात् तथात्वम्
“तथ्यामुतथ्यानुजवज्जदागाग्रे गदाग्रजम्” माधः ।

गदाग्रणी पु ६ त० । १ क्षयरोगे राजनि० तस्य सर्वरोग-

श्रेष्ठत्वात्तथात्वम् ।

गदाधर पु० गदां धारयति धृ--अन्तर्भूतण्यर्थे अच् । १ विष्णौ

तस्य तद्धारणकथा वायुपु० गयामा० ५ अ० गदाशब्ददर्शि
वाक्ये गदानिर्म्माणमुक्त्वा “अथ कालेन महता मनौ
स्वायम्भुवेऽन्तरे । हेतिरक्षो व्रह्मपुत्रस्तपस्तेपे सुदारुणम् ।
दिव्यवर्षसहस्राणां शतं वायुमभक्षयत् । उन्मुखश्चोर्द्ध-
बाहुश्च पादाङ्गुष्ठभरेण हि । एकेनातिष्ठदव्यग्रः शीर्ण-
पर्णानिलाशनः! ब्रह्मादींस्तपसा तुष्टान् वरं वव्रे
वरप्रदान् । देवैर्दैत्यैश्च शस्त्रास्त्रैर्विविधैर्मनुजादिभिः । कृष्णे-
शानस्य चक्राद्यैरबध्यः स्यां महाबलः । तथेत्युक्त्वान्त-
र्हितास्ते हेतिर्देवानथाजयत् । इन्द्रत्वमकरोद्धेति र्भीता
ब्रह्महरादयः । हरिन्ते शरणं जग्मुरूचुर्हेतिं जहीति
तान् । ऊचे हरिरबध्योऽयं हेतिर्देवासुरैः सुराः! ।
महास्त्रं मे प्रयच्छध्वम् हेतिं हन्मि हि येन तम् ।
इत्युक्तास्ते ततो देवा गदान्तां हरये ददुः । दधार तां
गदामादौ दैवैरुक्तो गदाधरः । गदया हेतिमाहत्य
देवेभ्यस्त्रिदिवं ददौ” वायुपु० गया० ५ अ० । मनस्त-
त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम्! धारयन्
लोकरक्षार्थमुक्तश्चक्रगदाधरः” विष्णुसह० भाष्यधृत-
वाक्यात् लोकमर्य्यादारक्षार्थं बुद्धित्त्वस्य प्रेरकत्वेन
धारयितृत्वाद्वा तस्य तथात्वम् । “गदाधरं व्यपगत
कालकल्मषम्” वायुपु० विष्णुस्तवः । “शङ्खभृन्नन्दकी
चक्रा शार्ङ्कधन्वा गदाधरः” विष्णुस० ।
“बुद्धितत्त्वात्मिकां गदाम् वहन् गदाधरः” भा० ।
विष्णोर्मूर्त्तिभेदे गदाया हस्तविशेषेण धारणं ध्यानशब्दे
विष्णुचतुर्विंशतिमूर्त्तिध्यानकथने वक्ष्यते ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ग&oldid=85296" इत्यस्माद् प्रतिप्राप्तम्