"ऋग्वेदः सूक्तं १.१३४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं १.१३४ पृष्ठं ऋग्वेदः सूक्तं १.१३४ प्रति स्थान...
No edit summary
पङ्क्तिः १:
{{header
| title = [[ऋग्वेदः मण्डल १|ऋग्वेदः मण्डल १]]
| author = परुच्छेपो दैवोदासिः
| translator =
| section = सूक्तं १.१३४
| previous = [[ऋग्वेद: सूक्तं १.१३३|सूक्तं १.१३३]]
| next = [[ऋग्वेद: सूक्तं १.१३५|सूक्तं १.१३५]]
| notes = दे. वायुः । अत्यष्टिः, ६ अष्टिः
}}
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
<poem>
{{ऋग्वेदः मण्डल १}}
{|
<div class="verse">
|
<pre>
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
 
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
 
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र बोधया पुरंधिं जार आ ससतीमिव ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
 
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
 
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
 
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥
|
आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।
नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥
मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णास॒ः सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑ः क्रा॒णा अ॒भिद्य॑वः ।
यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑ः ।
स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑ः ॥
वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।
प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।
प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒ः श्रव॑से वासयो॒षस॑ः ॥
तुभ्य॑मु॒षास॒ः शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।
तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।
अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥
तुभ्यं॑ शु॒क्रास॒ः शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।
त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।
त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥
त्वं नो॑ वायवेषा॒मपू॑र्व्य॒ः सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।
विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥
|}
</prepoem>
{{ऋग्वेदः मण्डल १}}
 
== ==
</pre>
१.१३४.२ हे वायो त्वा त्वाम् अस्मत् अस्माकं संबन्धिनः इन्दवः क्लेदयितारः सोमाः मन्दन्तु मादयन्तु।। कीदृशाः सोमाः। मन्दिनः मादयितारः क्राणासः कुर्वाणाः स्वकार्यं हर्षादिकं सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्टु कृताः अभिद्यवः अभितो द्योतयन्तः गोभिः वाग्भिर्मन्त्ररूपाभिः क्राणाः क्रियमाणा हूयमानाः। यद्वा। गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः। - - - इरध्यै प्रापयितुं परिचरितुं वा। ईर गतौ। - - - कीदृशास्ताः। क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः। क्राणाः कुर्वाणाः (निरु. ४.१९) इति यास्कः।
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३४" इत्यस्माद् प्रतिप्राप्तम्