"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.9 नवमी दशतिः" इत्यस्य संस्करणे भेदः
Content deleted Content added
<table> <tr><td><p> पवस्व मधुमत्तम इन्द्राय सोम क्रतुवि... नवीन पृष्ठं निर्मीत अस्ती |
(भेदः नास्ति)
|
०८:१०, ५ अक्टोबर् २०११ इत्यस्य संस्करणं
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः | | १अ १छ् |
अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुं | | २अ २छ् |
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं | | ३अ ३छ् |
एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहं | | ४अ ४छ् |
स सुन्वे यो वसूनां यो रायामानेता य इडानां | | ५अ ५छ् |
त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः | | ६अ ६छ् |
एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः | | ७अ ७छ् |
य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा | | ८अ ८छ् ८ए |