"अथर्ववेदः/काण्डं १/सूक्तम् ०६" इत्यस्य संस्करणे भेदः

{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

२०:३१, २५ डिसेम्बर् २०१९ इत्यस्य संस्करणं

← सूक्तं १.५ अथर्ववेदः - काण्डं १
सूक्तं १.६
सिन्धुद्वीपः (अथर्वा कृतिर्वा)।
सूक्तं १.७ →
दे. अपांनपात्, आपः, २ आपः सोमोऽग्निश्च। गायत्री, ४ पथ्यापङ्क्तिः

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शं योरभि स्रवन्तु नः ॥१॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
अग्निं च विश्वशंभुवम् ॥२॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
ज्योक्च सूर्यं दृशे ॥३॥
शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।
शिवा नः सन्तु वार्षिकीः ॥४॥