"सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/पुस्तकार्पणम्" इत्यस्य संस्करणे भेदः

<div style="width:25%; float:left;height:2px; background:red;"></div> <div style="width:25%; float:left;height:2px; backgroun... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१७:४१, २० जुलै २०२० इत्यस्य संस्करणं


नाम Name पुस्तकार्पणम्
आरम्भदिनाङ्कः श्रावणशुक्लपूर्णिमा
०३-०८-२०२०
स्थितिः status भविष्यति
निरीक्षकः coordinator सायन्तः माहातो

पुस्तकसमर्पणम् इत्युपक्रमः संस्कृतविकिस्रोतःपक्षतः आयोजितः । संस्कृतदिने कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । ततः तस्य पुस्तकस्य कार्यकरणे आत्मना सह इतोऽपि द्वौ योजनीयौ । एवं त्रयः मिलित्वा एकस्य पुस्तकस्य पाठशुद्धिकार्यं सम्पादनीयम् । एवं त्रिभिः मिलित्वा विकिस्रोतःद्वारा संस्कृतमातुः पदतले पुस्तकमेकं समर्पितम् भवति ।

उद्देश्यम्

  • विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
  • विकिकार्ये नूतनानां समर्थानां योजनम् ।
  • विद्यमानानां विकिसदस्यानां विकिसङ्घटनसामर्थ्यवर्धनम् ।
  • विकिकार्यस्य स्वयंपठने, पाठने च विकिसदस्यानां दक्षतासम्पादनम्
  • विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः
  • विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।

स्वरूपम्

  • विकिसदस्य संस्कृतोत्सवदिने (०३-०८-२०२० तमे दिनाङ्के) एकं पुस्तकं चिनुयुः ।
  • आत्मना सह अपरौ द्वौ योजनीयौ । तौ विकिदृष्ट्या परमनूतनौ चेत् समीचीनतरम् ।
  • विकिमध्ये कृतकार्यः सदस्यः अन्यौ सदस्यौ विकिमध्ये पाठशुद्धिक्रमं पाठयेत् । कार्यविभाजनं च सूचयेत् ।
  • त्रिभिः मिलित्वा आदौ पुस्तकस्य प्रथमपरिष्कारः समापनीयः ।
  • ततः कार्ये परस्परं परिवर्तनं कृत्वा(स्वीकृतस्य पुस्तकस्य) द्वितीयपरिष्कारः अपि समापनीयः ।
  • यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।

साहाय्यम्

विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।


सामान्यप्रश्नाः

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पञ्जीकरणप्रक्रिया कथम्?
भागग्राहिणः इत्यत्र हस्ताङ्कनं करणीयम् ।
  • नूतनौ द्वौ यदा योज्येते ते कुत्र हस्ताङ्कनं कुर्युः ?
भवतः हस्ताङ्कनकरणानन्तरं तद्विषये सूचयिष्यते ।
  • पुस्तकचयनानन्तरं समानपुस्तकम् अन्यः अपि न चिनुयात् वा ?
पुस्तकचयनानन्तरं प्रबन्धकाः सूचनीयाः । यथा अन्यः समानं पुस्तकं न चिनुयात् तथा प्रबन्धकाः पश्यन्ति।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
अवश्यं भागं गृह्णीयुः । पूर्वं यः विकिमध्ये कृतकार्यः सः अन्यान् समर्थान् प्रेरयेत् ।