"रामायणम्/अरण्यकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{header
{{Ramayana|अरण्यकाण्ड}}
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३०|सर्गः ३०]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ३२|सर्गः ३२]]
| notes =

{{रामायणम्/अरण्यकाण्डम्}}

'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥'''

त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।

प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥

जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।

खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥

एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।

अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥

केन भीमम् जनस्थानम् हतम् मम परासुना ।

को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥

न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।

प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥

कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।

मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥

वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।

दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥

तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।

भयात् संदिग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥

दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।

स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥

पुत्रो दशरथः ते सिंह संहननो युवा ।

रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥

श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।

हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥

अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।

नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥

स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।

उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥

रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।

आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥

रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।

दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥

तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।

कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥

स तेन सह संयुक्तः पावकेन अनिलो यथा ।

श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥

न एव देवा महत्मनो न अत्र कार्या विचारणा ।

शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥

सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।

येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥

तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।

इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥

अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।

गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥

अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।

श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥

असाध्यः कुपितो रामो विक्रमेण महायशाः ।

आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥

स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।

असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥

भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।

वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥

संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।

शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥

न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।

रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥

न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।

अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-३१-२८॥

भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।

श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥

न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।

तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥

तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।

सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥

अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।

चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥

बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।

आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥

तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।

रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥

स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।

चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥

स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।

मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥

तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।

अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥

कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।

आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥

एवम् उक्तो महातेजा मारीचेन स रावण ।

ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥

आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।

जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥

तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।

राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥

आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।

त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥

सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।

रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥

प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।

आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥

कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।

सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥

विशुद्ध वंश अभिजना अग्र हस्तः
तेजोहस्तःतेजो मदः संस्थित दोर्??? विषाणः ।

उदीक्षितुम् रावण न इह युक्तः
सयुक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥

असौ रण अन्तः स्थिति संधि वालः
विदग्धवालःविदग्ध रक्षो मृग हा नृसिंहः ।

सुप्तः त्वया बोधयितुम् न शक्यः
शारांगशक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥

चापापहारे भुज वेग पंके
शरपंकेशर ऊर्मिमाले सु महा आहव ओघे ।

न राम पाताल मुखे अति घोरे
प्रस्कन्दितुम्घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥

प्रसीद लंकेश्वर राक्षसेन्द्र
लंकाम्राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।

त्वम् स्वेषु दारेषु रमस्व नित्यम्
रामःनित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥

एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।

न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥

'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥'''

==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुंदरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[वर्गः:काव्य]]
[[वर्गः:Hinduism]]