रामायणम्/अरण्यकाण्डम्/सर्गः ३१
< रामायणम् | अरण्यकाण्डम्
← सर्गः ३० | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ३२ → |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥ त्वरमणः ततो गत्वा जनस्थानात् अकंपनः । प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् ॥३-३१-१॥ जनस्थान स्थिता राजन् रक्षसा बहवो हताः । खरः च निहतः संख्ये क्थम्चित् अहम् आगतः ॥३-३१-२॥ एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः । अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ॥३-३१-३॥ केन भीमम् जनस्थानम् हतम् मम परासुना । को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति ॥३-३१-४॥ न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् । प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ॥३-३१-५॥ कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् । मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ॥३-३१-६॥ वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे । दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ॥३-३१-७॥ तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः । भयात् संदिग्धया वचा रावणम् याचते अभयम् ॥३-३१-८॥ दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः । स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ॥३-३१-९॥ पुत्रो दशरथः ते सिंह संहननो युवा । रामो नाम महास्कंधो वृत्त आयत महाभुजः ॥३-३१-१०॥ श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः । हतः तेन जनस्थाने खरः च सह दूषणः ॥३-३१-११॥ अकंपन वचः श्रुत्वा रावणो राक्षसाधिप । नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ॥३-३१-१२॥ स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह । उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ॥३-३१-१३॥ रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः । आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ॥३-३१-१४॥ रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् । दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि ॥३-३१-१५॥ तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः । कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ॥३-३१-१६॥ स तेन सह संयुक्तः पावकेन अनिलो यथा । श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ॥३-३१-१७॥ न एव देवा महत्मनो न अत्र कार्या विचारणा । शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥३-३१-१८॥ सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् । येन येन च गच्छन्ति राक्षसा भय कर्शिताः ॥३-३१-१९॥ तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् । इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ॥३-३१-२०॥ अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् । गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ॥३-३१-२१॥ अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः । श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ॥३-३१-२२॥ असाध्यः कुपितो रामो विक्रमेण महायशाः । आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ॥३-३१-२३॥ स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् । असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ॥३-३१-२४॥ भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः । वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ॥३-३१-२५॥ संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः । शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ॥३-३१-२६॥ न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया । रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ॥३-३१-२७॥ न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि । अयम् अस्य वध उपाय तत् एकमनाः शृउणु ॥३-३१-२८॥ भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा । श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ॥३-३१-२९॥ न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी । तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ॥३-३१-३०॥ तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने । सीताया रहितो रामो न च एव हि भविष्यति ॥३-३१-३१॥ अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः । चिंतयित्वा महाबाहुः अकंपनम् उवाच ॥३-३१-३२॥ बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह । आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ॥३-३१-३३॥ तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः । रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन् ॥३-३१-३४॥ स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् । चंचूर्यमानः शुशुभे जलदे चंद्रमा इव ॥३-३१-३५॥ स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् । मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः ॥३-३१-३६॥ तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च । अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३१-३७॥ कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप । आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम् ॥३-३१-३८॥ एवम् उक्तो महातेजा मारीचेन स रावण । ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३१-३९॥ आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा । जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम् ॥३-३१-४०॥ तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे । राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत् ॥३-३१-४१॥ आख्याता केन वा सीता मित्र रूपेण शत्रुणा । त्वया राक्षस शार्दूल को न नंदति नंदितः ॥३-३१-४२॥ सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे । रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति ॥३-३१-४३॥ प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् । आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया ॥३-३१-४४॥ कर्मणा अनेन केन असि कापथम् प्रतिपादितः । सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि ॥३-३१-४५॥ विशुद्ध वंश अभिजना अग्र हस्तःतेजो मदः संस्थित दोर्??? विषाणः । उदीक्षितुम् रावण न इह युक्तःस संयुगे राघव गन्धि हस्ती ॥३-३१-४६॥ असौ रण अन्तः स्थिति संधि वालःविदग्ध रक्षो मृग हा नृसिंहः । सुप्तः त्वया बोधयितुम् न शक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः ॥३-३१-४७॥ चापापहारे भुज वेग पंकेशर ऊर्मिमाले सु महा आहव ओघे । न राम पाताल मुखे अति घोरेप्रस्कन्दितुम् राक्षस राज युक्तम् ॥३-३१-४८॥ प्रसीद लंकेश्वर राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ । त्वम् स्वेषु दारेषु रमस्व नित्यम्रामः स भार्यो रमताम् वनेषु ॥३-३१-४९॥ एवम् उक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम् ॥३-३१-५०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकत्रिंशः सर्गः ॥३-३१॥संबंधित कड़ियाँसम्पाद्यताम्