"रामायणम्/अरण्यकाण्डम्/सर्गः ४७" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥ इत्येतद् रामायणम्/अरण्यकाण्डम्/सर्गः ४७ इत्येतद्... |
No edit summary |
||
पङ्क्तिः १:
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अरण्यकाण्डम्
| previous = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४६|सर्गः ४६]]
| next = [[रामायणम्/अरण्यकाण्डम्/सर्गः ४८|सर्गः ४८]]
| notes =
}}
{{रामायणम्/अरण्यकाण्डम्}}
<div class="verse">
<pre>
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥'''
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।
परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥
ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥
दुहिता जनकस्य अहम् मैथिलस्य महात्मनः ।
सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥
उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने ।
भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥
तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः ।
अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ।
कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥
प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे ।
मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥
द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्तमम् ।
न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥
एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते ।
इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥
अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा ।
मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥
अष्टा दश हि वर्षाणि मम जन्मनि गण्यते ।
राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥
विशालाक्षो महाबाहुः सर्व भूत हिते रतः ।
कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥
कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् ।
अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥
कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः ।
तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥
भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् ।
त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥
वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् ।
तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥
चकार तत् वचः तस्या मम भर्ता दृढ व्रतः ।
दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥
एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् ।
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥
रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा ।
स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥
अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह ।
जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥
प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः ।
ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥
विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा ।
समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ।
रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥
सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः ।
एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥
एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः ।
प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥
येन वित्रासिता लोकाः स देव असुर मानुषा ।
अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥
त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् ।
रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥
बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः ।
सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥
लंका नाम समुद्रस्य मध्ये मम महापुरी ।
सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥
तत्र सीते मया सार्धम् वनेषु विचरिष्यसि ।
न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥
पंच दास्यः सहस्राणि सर्व आभरण भूषिताः ।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥
रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा ।
प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥
महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् ।
महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥
सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् ।
सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥
महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् ।
नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥
पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् ।
पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥
त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् ।
न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥
पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् ।
राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥
क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः ।
आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥
मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि ।
काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।
राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥
अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि ।
सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥
यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि ।
अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥
कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि ।
अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि ।
रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥
यद् अंतरम् सिंह शृगालयोः
सुर अग्र्य सौवीरकयोः यद्
यद् अंतरम् कांचन सीस
यद् अंतरम् हस्ति बिडालयोः
यद् अंतरम् वायस
यद् अंतरम् हंस गृध्रयोः
तस्मिन् सहस्राक्ष सम
हृता अपि ते अहम् न जराम्
इति इव तत् वाक्यम् अदुष्ट
गात्र प्रकंपात् व्यथिता
ताम् वेपमानाम् उपलक्ष्य
कुलम् बलम् नाम च कर्म च
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥'''
|