रामायणम्/अरण्यकाण्डम्/सर्गः ४७
< रामायणम् | अरण्यकाण्डम्
← सर्गः ४६ | रामायणम्/अरण्यकाण्डम् अरण्यकाण्डम् वाल्मीकिः |
सर्गः ४८ → |
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥ रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥ ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥ दुहिता जनकस्य अहम् मैथिलस्य महात्मनः । सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥ उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने । भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥ तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः । अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥ तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने । कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥ प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे । मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥ द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्तमम् । न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥ एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते । इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥ अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा । मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥ अष्टा दश हि वर्षाणि मम जन्मनि गण्यते । राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥ विशालाक्षो महाबाहुः सर्व भूत हिते रतः । कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥ कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् । अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥ कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः । तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥ भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् । त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥ वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् । तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥ चकार तत् वचः तस्या मम भर्ता दृढ व्रतः । दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥ एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् । तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥ रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा । स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥ अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह । जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥ प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः । ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥ विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा । समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥ आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् । रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥ सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः । एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥ एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः । प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥ येन वित्रासिता लोकाः स देव असुर मानुषा । अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥ त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् । रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥ बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः । सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥ लंका नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥ तत्र सीते मया सार्धम् वनेषु विचरिष्यसि । न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥ पंच दास्यः सहस्राणि सर्व आभरण भूषिताः । सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥ रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा । प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥ महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् । महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥ सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् । सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥ महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् । नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥ पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् । पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥ त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् । न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥ पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् । राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥ क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः । आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥ मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि । काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥ अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् । राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥ अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि । सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥ यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि । अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥ कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि । अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि । रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥ यद् अंतरम् सिंह शृगालयोः वनेयद् अंतरम् स्यन्दनिका समुद्रयोः । सुर अग्र्य सौवीरकयोः यद् अंतरम्तद् अंतरम् दाशरथेः तव एव च ॥३-४७-४५॥ यद् अंतरम् कांचन सीस लोहयोःयद् अंतरम् चन्दन वारि पंकयोः । यद् अंतरम् हस्ति बिडालयोः वनेतद् अंतरम् दशरथेः तव एव च ॥३-४७-४६॥ यद् अंतरम् वायस वैनतेययोःयद् अंतरम् मद्गु मयूरयोः अपि । यद् अंतरम् हंस गृध्रयोः वनेतद् अंतरम् दाशरथेः तव एव च ॥३-४७-४७॥ तस्मिन् सहस्राक्ष सम प्रभावेरामे स्थिते कार्मुक बाण पाणौ । हृता अपि ते अहम् न जराम् गमिष्येवज्रम् यथा मक्षिकया अवगीर्णम् ॥३-४७-४८॥ इति इव तत् वाक्यम् अदुष्ट भावासुदुष्टम् उक्त्वा रजनी चरम् तम् । गात्र प्रकंपात् व्यथिता बभूववात उद्धता सा कदली इव तन्वी ॥३-४७-४९॥ ताम् वेपमानाम् उपलक्ष्य सीताम्स रावणो मृत्यु सम प्रभावः । कुलम् बलम् नाम च कर्म च आत्मनःसमाचचक्षे भय कारण अर्थम् ॥३-४७-५०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-४७॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र