"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<poem>

[https://sa.wikisource.org/s/1ce पूर्वपुटम्]
तासाम्̣ वाक्यानि क्ड़्त्यानि स्वल्पानि सुगुरूण्य् अपि।

तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि।
करॊति सः क्ड़्तैर् लॊकॆ लघुत्वम्̣ याति सर्वतः॥पञ्च_१.१५१॥

करॊति सः कृतैर् लॊकॆ लघुत्वं याति सर्वतः॥पञ्च_१.१५१॥
स्त्रियम्̣ च यः प्रार्थयतॆ संनिकर्षम्̣ च गच्छति।

स्त्रियं च यः प्रार्थयतॆ संनिकर्षं च गच्छति।
ईषच् च कुरुतॆ सॆवाम्̣ तम् ऎवॆच्छंति यॊषितः॥पञ्च_१.१५२॥

ईषच् च कुरुतॆ सॆवां तम् ऎवॆच्छंति यॊषितः॥पञ्च_१.१५२॥
अनर्थित्वान् मनुष्याणाम्̣ भयात् परिजनस्य च।

अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥

मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥
नासाम्̣ कश्चिद् अगम्यॊ स्ति नासाम्̣ च वयसि स्थितिः।

नासां कश्चिद् अगम्यॊऽस्ति नासां च वयसि स्थितिः।
विरूपम्̣ रूपवंतम्̣ वा पुमान् इत्य् ऎव भुज्यतॆ॥पञ्च_१.१५४॥

विरूपं रूपवंतं वा पुमान् इत्य् ऎव भुज्यतॆ॥पञ्च_१.१५४॥
रक्तॊ हि जायतॆ भॊग्यॊ नारीणाम्̣ शाटिका यथा।

रक्तॊ हि जायतॆ भॊग्यॊ नारीणां शाटिका यथा।
घ्ड़्ष्यंतॆ यॊ दशालंबी नितंबॆ विनिवॆशितः॥पञ्च_१.१५५॥

घृष्यतॆ यॊ दशालंबी नितंबॆ विनिवॆशितः॥पञ्च_१.१५५॥
अलक्तिकॊ यथा रक्तॊ निष्पीड्य पुरुषस् तथा।

अलक्तिकॊ यथा रक्तॊ निष्पीड्य पुरुषस् तथा।
अबलाभिर् बलाद् रक्तः पाद-मूलॆ निपात्यतॆ॥पञ्च_१.१५६॥

अबलाभिर् बलाद् रक्तः पाद-मूलॆ निपात्यतॆ॥पञ्च_१.१५६॥

ऎवम्̣ स राजा बहुविधम्̣ विलप्य तत्-प्रभ्ड़्ति दंतिलस्य प्रसाद-पराङ्मुखः सम्̣जातः। किम्̣ बहुना राज-द्वार-प्रवॆशॊ पि तस्य निवारितः। दंतिलॊ प्य् अकस्माद् ऎव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलॊक्य चिंतयामास-अहॊ साधु चॆदम् उच्यतॆ-

ऎवं स राजा बहुविधं विलप्य तत्-प्रभृति दंतिलस्य प्रसाद-पराङ्मुखः संजातः। किं बहुना। राज-द्वार-प्रवॆशॊऽपि तस्य निवारितः। दंतिलॊऽप्य् अकस्माद् ऎव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलॊक्य चिंतयामास-अहॊ साधु चॆदम् उच्यतॆ-

कॊ र्थान् प्राप्य न गर्वितॊ विषयिणः कस्यापदॊ स्तम्̣ गताः

कॊऽर्थान् प्राप्य न गर्वितॊ विषयिणः कस्यापदॊऽस्तं गताः
स्त्रीभिः कस्य न खंडितम्̣ भुवि मनः कॊ नामा राज्ञाम्̣ प्रियः।

स्त्रीभिः कस्य न खंडितं भुवि मनः कॊ नामा राज्ञां प्रियः।
कः कालस्य न गॊचरांतर-गतः कॊ र्थी गतॊ गौरवम्̣

कः कालस्य न गॊचरांतर-गतः कॊऽर्थी गतॊ गौरवं
कॊ वा दुर्जन-वागुरासु पतितः क्षॆमॆण यातः पुमान्॥पञ्च_१.१५७॥

कॊ वा दुर्जन-वागुरासु पतितः क्षॆमॆण यातः पुमान्॥पञ्च_१.१५७॥

तथा च-

तथा च-
काकॆ शौचम्̣ द्यूत-कारॆषु सत्यम्̣ सर्पॆ क्षांतिः स्त्रीषु कामॊपशांतिः।

काकॆ शौचं द्यूत-कारॆषु सत्यं सर्पॆ क्षांतिः स्त्रीषु कामॊपशांतिः।
क्लीबॆ धैर्यम्̣ मद्यपॆ तत्त्व-चिंता राजा मित्रम्̣ कॆन द्ड़्ष्टम्̣ श्रुतम्̣ वा॥पञ्च_१.१५८॥

क्लीबॆ धैर्यं मद्यपॆ तत्त्व-चिंता राजा मित्र कॆन दृष्टं श्रुतं वा॥पञ्च_१.१५८॥

अपरम्̣ मयास्य भूपतॆर् अथवांयस्यापि कस्यचिद् राज-संबंधिनः स्वप्नॆपि नानिष्टम्̣ क्ड़्तम्। तत् किम् ऎतत्-पराङ्मुखॊ माम्̣ प्रति भूपतिः इति।

अपरं मयास्य भूपतॆर् अथवान्यस्यापि कस्यचिद् राज-संबंधिनः स्वप्नॆपि नानिष्टं कृतम्। तत् किम् ऎतत्-पराङ्मुखॊ मां प्रति भूपतिः इति।

ऎवम्̣ तम्̣ दंतिलम्̣ कदाचिद् राज-द्वारॆ विष्कंभितम्̣ विलॊक्य सम्̣मार्जन-कर्ता गॊरंभॊ विहस्य द्वारपालान् इदम् ऊचॆ-भॊ भॊ द्वारपालाः! राज-प्रसादाधिष्ठितॊ यम्̣ दंतिलः स्वयम्̣ निग्रहानुग्रह-कर्ता च। तद् अनॆन निवारितॆन यथाहम्̣ तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनॊ भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गॊरंभस्य चॆष्टितम्। अथवा साध्व् इदम् उच्यतॆ-

ऎवं तं दंतिलं कदाचिद् राज-द्वारॆ विष्कंभितं विलॊक्य संमार्जन-कर्ता गॊरंभॊ विहस्य द्वारपालान् इदम् ऊचॆ-भॊ भॊ द्वारपालाः! राज-प्रसादाधिष्ठितॊऽयं दंतिलः स्वयं निग्रहानुग्रह-कर्ता च। तद् अनॆन निवारितॆन यथाहं तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनॊ भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गॊरंभस्य चॆष्टितम्। अथवा साध्व् इदम् उच्यतॆ-
अकुलीनॊ पि मूर्खॊ पि भूपालम्̣ यॊ त्र सॆवतॆ।

अकुलीनॊऽपि मूर्खॊऽपि भूपालं यॊऽत्र सॆवतॆ।
अपि सम्̣मानहीनॊ पि स सर्वत्र प्रपूज्यतॆ॥पञ्च_१.१५९॥

अपि सम्मानहीनॊऽपि स सर्वत्र प्रपूज्यतॆ॥पञ्च_१.१५९॥
अपि कापुरुषॊ भीरुः स्याच् चॆन् अंड़्पति-सॆवकः।

अपि कापुरुषॊ भीरुः स्याच् चॆन् नृपति-सॆवकः।
तथापि न पराभूतिम्̣ जनाद् आप्नॊति मानवः॥पञ्च_१.१६०॥

तथापि न पराभूतिं जनाद् आप्नॊति मानवः॥पञ्च_१.१६०॥

ऎवम्̣ स बहु-विधम्̣ विलप्य विलक्ष-मनाः सॊद्वॆगॊ गत-प्रभावः स्व-ग्ढ़म्̣ निशामुखॆ गॊरंभम् आहूय वस्त्र-युगलॆन सम्̣मांयॆदम् उवाच-भद्र! मया न तदा त्वम्̣ राग-वशान् निःसारितः। यतस् त्वम्̣ ब्राह्मणानाम् अग्रतॊ नुचित-स्थानॆ समुपविष्टॊ द्ड़्ष्ट इत्य् अपमानितः। तत् क्षम्यताम्।

ऎवं स बहु-विध विलप्य विलक्ष-मनाः सॊद्वॆगॊ गत-प्रभावः स्व-गृहं निशामुखॆ गॊरंभम् आहूय वस्त्र-युगलॆन सम्मान्यॆदम् उवाच-भद्र! मया न तदा त्वं राग-वशान् निःसारितः। यतस् त्वं ब्राह्मणानाम् अग्रतॊऽनुचित-स्थानॆ समुपविष्टॊ दृष्ट इत्य् अपमानितः। तत् क्षम्यताम्।

सॊ पि स्वर्ग-राज्यॊपमम्̣ तद्-वस्त्र-युगलम् आसाद्य परम्̣ परितॊषम्̣ गत्वा तम् उवाच-भॊः श्रॆष्ठिन्! क्षांतम्̣ मया तॆ तत्। तद् अस्य सम्̣मानस्य क्ड़्तॆ पश्य मॆ बुढि-प्रभावम्̣ राज-प्रसादम्̣ च। ऎवम् उक्त्वा सपरितॊषम्̣ निष्क्रांतः। साधु चॆदम् उच्यतॆ-

सॊऽपि स्वर्ग-राज्यॊपमं तद्-वस्त्र-युगलम् आसाद्य परं परितॊषं गत्वा तम् उवाच-भॊः श्रॆष्ठिन्! क्षान्तं मया तॆ तत्। तद् अस्य सम्मानस्य कृते पश्य मॆ बुद्धि-प्रभावं राज-प्रसादं च। ऎवम् उक्त्वा सपरितॊषं निष्क्रान्तः। साधु चॆदम् उच्यतॆ-

स्तॊकॆनॊन्नतिम् आयाति स्तॊकॆनायात्य् अधॊ-गतिम्।

स्तॊकॆनॊन्नतिमायाति स्तॊकॆनायात्य् अधॊगतिम्।
अहॊ ससद्ड़्शॊ चॆष्टा तुलायष्टॆः खलस्य च॥पञ्च_१.१६१॥

अहॊ सुसंदृशो चॆष्टा तुलायष्टॆः खलस्य च॥पञ्च_१.१६१॥

ततश् चांयॆ-द्युः स गॊरंभॊ राज-कुलॆ गत्वा यॊग-निद्राम्̣ गतस्य भूपतॆः सम्̣मार्जन-क्रियाम्̣ कुर्वंन् इदम् आह-अहॊ अविवॆकॊ स्मद्-भूपतॆः। यत् पुरीषॊत्सर्गम् आचरम्̣श् चर्भटी-भक्षणम्̣ करॊति।

ततश् चान्यॆ-द्युः स गॊरंभॊ राज-कुलॆ गत्वा यॊग-निद्रा गतस्य भूपतॆः सम्मार्जन-क्रिया कुर्वन्न् इदम् आह-अहॊ अविवॆकॊऽस्मद्-भूपतॆः। यत् पुरीषॊत्सर्गम् आचरंश् चिर्भटी-भक्षणं करॊति।

तच् छ्रुत्वा राजा स-विस्मयम्̣ तम् उवाच-रॆ रॆ गॊरंभ! किम् अप्रस्तुतम्̣ लपसि। ग्ढ़-कर्मकरम्̣ मत्वा त्वाम्̣ न व्यापादयामि। किम्̣ त्वया कदाचिद् अहम् ऎवम्̣विधम्̣ कर्म समाचरन् द्ड़्ष्टः?

तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रॆ रॆ गॊरंभ! किम् अप्रस्तुतं लपसि। गृह-कर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिद् अहम् ऎवंविधं कर्म समाचरन् दृष्टः?

सॊ ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणॆन सम्̣मार्जनम्̣ कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितॆन मया किम्̣चिज् जल्पितम्। तन् न वॆद्मि। तत् प्रसादम्̣ करॊतु स्वामी निद्रा-परवशस्य इति।

सॊ ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणॆन सम्मार्जन कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितॆन मया किंचिज् जल्पितम्। तन् न वॆद्मि। तत् प्रसादं करॊतु स्वामी निद्रा-परवशस्य इति।

ऎवम्̣ श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरॆ पुरीषॊत्सर्गम्̣ कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायम्̣ व्यतिकरॊ संभाव्यॊ ममानॆन मूढॆन व्याह्ड़्तः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तम्̣ क्ड़्तम्̣ यत् स वराकः सम्̣मानॆन वियॊजितः। न ताद्ड़्क्-पुरुषाणाम् ऎवम्̣विधम्̣ चॆष्टितम्̣ संभाव्यतॆ। तद्-अभावॆन राज-क्ड़्त्यानि पौर-क्ड़्त्यानि न सर्वाणि शिथिलताम्̣ व्रजंति।

ऎवं श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरॆ पुरीषॊत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायं व्यतिकरॊ संभाव्यॊ ममानॆन मूढॆन व्याहृतः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तं कृतं यत् स वराकः सम्मानॆन वियॊजितः। न तादृक्-पुरुषाणाम् ऎवंविधं चॆष्टितं संभाव्यतॆ। तद्-अभावॆन राज-कृत्यानि पौर-कृत्यानि च सर्वाणि शिथिलतां व्रजन्ति।

ऎवम् अनॆकधा विम्ड़्श्य दंतिलम्̣ समाहूय निजांग-वस्त्राभरणादिभिः सम्̣यॊज्य स्वाधिकारॆ नियॊजयामास। अतॊ हम्̣ ब्रवीमि यॊ न पूजयतॆ गर्वात् इति।

ऎवम् अनॆकधा विमृश्य दंतिलं समाहूय निजांग-वस्त्राभरणादिभिः संयॊज्य स्वाधिकारॆ नियॊजयामास। अतॊऽहं ब्रवीमि यॊ न पूजयतॆ गर्वात् इति।

सम्̣जीवक आह-भद्र ऎवम् ऎवैतत्। यद् भवताभिहितम्̣ तद् ऎव मया कर्तव्यम् इति। ऎवम् अभिहितॆ दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-दॆव ऎष मयानीतः स सम्̣जीवकः। अधुना दॆवः प्रमाणम्। सम्̣जीवकॊ पि तम्̣ सादरम्̣ प्रणम्याग्रतः स-विनयम्̣ स्थितः। पिंगलकॊ पि तस्य पीनायत-ककुद्मतॊ नख-कुलिशालम्̣क्ड़्तम्̣ दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवम्̣ भवतः। कुतस् त्वम् अस्मिन् वनॆ विजनॆ समायातॊ सि?

संजीवक आह-भद्र ऎवम् ऎवैतत्। यद् भवताभिहितं तद् ऎव मया कर्तव्यम् इति। ऎवम् अभिहितॆ दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-दॆव ऎष मयानीतः स संजीवकः। अधुना दॆवः प्रमाणम्। संजीवकॊऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः। पिंगलकॊऽपि तस्य पीनायत-ककुद्मतॊ नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः। कुतस् त्वम् अस्मिन् वनॆ विजनॆ समायातॊऽसि?

तॆनाप्य् आत्मक-व्ड़्त्तांतः कथितः। यथा वर्धमानॆन सह वियॊगः सम्̣जातस् तथा सर्वम्̣ निवॆदितम्। तच् छ्रुत्वा पिंगलकः सादरतरम्̣ तम् उवाच-वयस्य न भॆतव्यम्। मद्-भुज-पञ्जर-परिरक्षितॆन यथॆच्छम्̣ त्वयाधुना वर्तितव्यम्। अंयच् च नित्यम्̣ मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायम्̣ रौद्र-सत्त्व-निषॆवितम्̣ वनम्̣ गुरूणाम् अपि सत्त्वानाम् असॆव्यम्। कुतः शष्प-भॊजिनाम्।

तॆनाप्य् आत्मक-वृत्तांतः कथितः। यथा वर्धमानॆन सह वियॊगः सजातस् तथा सर्वं निवॆदितम्। तच् छ्रुत्वा पिंगलकः सादरतरं तम् उवाच-वयस्य, न भॆतव्यम्। मद्-भुज-पञ्जर-परिरक्षितॆन यथॆच्छं त्वयाधुना वर्तितव्यम्। अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषॆवित वन गुरूणाम् अपि सत्त्वानाम् असॆव्यम्। कुतः शष्प-भॊजिनाम्।

ऎवम् उक्त्वा सकल-म्ड़्ग-परिव्ड़्तॊ यमुना-कच्छम् अवतीर्यॊदक-ग्रहणम्̣ क्ड़्त्वा स्वॆच्छया तद् ऎव वनम्̣ प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः सम्̣जीविकॆन सह सुभाषित-गॊष्ठीम् अनुभवंन् आस्तॆ। अथवा साध्व् इदम् उच्यतॆ-

ऎवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्यॊदक-ग्रहणं कृत्वा स्वॆच्छया तद् ऎव वनं प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीवकॆन सह सुभाषित-गॊष्ठीम् अनुभवन्न् आस्तॆ। अथवा साध्व् इदम् उच्यतॆ-

यद्ड़्च्छयाप्य् उपनतम्̣ सक्ड़्त् सज्जन-संगतम्।

यद्ड़्च्छयाप्य् उपनत सक्ड़्त् सज्जन-संगतम्।
भवत्य् अजरम् अत्यंतम्̣ नाभ्यास-क्रमम् ईक्षतॆ॥पञ्च_१.१६२॥

भवत्य् अजरम् अत्यंत नाभ्यास-क्रमम् ईक्षतॆ॥पञ्च_१.१६२॥

सम्̣जीवकॆनाप्य् अनॆक-शास्त्रावगाहनाद् उत्पन्न-बुढि-प्रागल्भ्यॆन स्तॊकैर् ऎवाहॊभिर् मूढ-मतिः पिंगलकॊ धीमाम्̣स् तथा क्ड़्तॊ यथारण्य-धर्माद् वियॊज्य ग्राम्य-धर्मॆषु नियॊजितः। किम्̣ बहुना प्रत्यहम्̣ पिंगलक-सम्̣जीवकाव् ऎव कॆवलम्̣ रहसि मंत्रयतः। शॆषः सर्वॊ पि म्ड़्ग-जनॊ दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवॆशम्̣ न लभॆतॆ। अंयच् च सिम्̣ह-पराक्रमाभावात् सर्वॊ पि म्ड़्ग-जनस् तौ च श्ड़्गालौ क्षुधा-व्याधि-बाधिता ऎकाम्̣ दिशम् आश्रित्य स्थिताः।

संजीवकॆनाप्य् अनॆक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्यॆन स्तॊकैर् ऎवाहॊभिर् मूढ-मतिः पिंगलकॊ धीमांस् तथा कृतो यथारण्य-धर्माद् वियॊज्य ग्राम्य-धर्मॆषु नियॊजितः। कि बहुना प्रत्यहं पिंगलक-संजीवकाव् ऎव कॆवलं रहसि मन्त्रयतः। शॆषः सर्वॊऽपि मृग-जनॊ दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवॆशं न लभॆतॆ। अन्यच् च सिंह-पराक्रमाभावात् सर्वॊऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता ऎकां दिशम् आश्रित्य स्थिताः।

उक्तम्̣ च-

उक्तं च-
फल-हीनम्̣ अंड़्पम्̣ भ्ड़्त्याः कुलीनम् अपि चॊन्नतम्।

फल-हीनं नृपं भृत्याः कुलीनम् अपि चॊन्नतम्।
संत्य् अज्यांय् अत्र गच्छंति शुष्कम्̣ व्ड़्क्षम् इवांडजाः॥पञ्च_१.१६३॥

संत्यज्यान्यत्र गच्छंति शुष्क वृक्षम् इवाण्डजाः॥पञ्च_१.१६३॥
तथा च-

तथा च-
अपि सम्̣मान-सम्̣युक्ताः कुलीना भक्ति-तत्-पराः।

अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः।
व्ड़्त्ति-भंगान् महीपालम्̣ त्यजंत्य् ऎव हि सॆवकाः॥पञ्च_१.१६४॥

वृत्ति-भंगान् महीपालं त्यजंत्य् ऎव हि सॆवकाः॥पञ्च_१.१६४॥
अंयच् च-

अन्यच् च-
कालातिक्रमणम्̣ व्ड़्त्तॆर्यॊ न कुर्वीत भूपतिः।

कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः।
कदाचित् तम्̣ न मुञ्चंति भर्त्सिता अपि सॆवकाः॥पञ्च_१.१६५॥

कदाचित् तं न मुञ्चंति भर्त्सिता अपि सॆवकाः॥पञ्च_१.१६५॥

तथा च कॆवलम्̣ सॆवका इठंभूता यावत् समस्तम् अप्य् ऎतज् जगत् परस्परम्̣ भक्षणार्थम्̣ सामादिभिर् उपायैस् तिष्ठति। तद् यथा-

तथा च कॆवलं सॆवका इत्थंभूता यावत् समस्तम् अप्य् ऎतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति। तद् यथा-

दॆशानाम् उपरि क्ष्माभ्ड़्द् आतुराणाम्̣ चिकित्सकाः।

दॆशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः।
वणिजॊ ग्राहकाणाम्̣ च मूर्खाणाम् अपि पंडिताः॥पञ्च_१.१६६॥

वणिजॊ ग्राहकाणां च मूर्खाणाम् अपि पंडिताः॥पञ्च_१.१६६॥
प्रमादिनाम्̣ तथा चौरा भिक्षुका ग्ढ़-मॆधिनाम्।

प्रमादिनां तथा चौरा भिक्षुका गृह-मॆधिनाम्।
गणिकाः कामिनाम्̣ चैव सर्व-लॊकस्य शिल्पिनः॥पञ्च_१.१६७॥

गणिकाः कामिनां चैव सर्व-लॊकस्य शिल्पिनः॥पञ्च_१.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षंतॆ दिवा-निशम्।

सामादि-सज्जितैः पाशैः प्रतीक्षन्तॆ दिवा-निशम्।
उपजीवंति शक्त्या हि जलजा जलदान् इव॥पञ्च_१.१६८॥

उपजीवंति शक्त्या हि जलजा जलदानिव॥पञ्च_१.१६८॥

अथवा साध्व् इदम् उच्यतॆ-

अथवा साध्व् इदम् उच्यतॆ-
सर्पाणाम्̣ च खलानाम्̣ च पर-द्रव्यापहारिणाम्।

सर्पाणां च खलानां च पर-द्रव्यापहारिणाम्।
अभिप्राया न सिध्यंति तॆनॆदम्̣ वर्ततॆ जगत्॥पञ्च_१.१६९॥

अभिप्राया न सिध्यंति तॆनॆदं वर्ततॆ जगत्॥पञ्च_१.१६९॥
अत्तुम्̣ वाञ्छति शांभवॊ गणपतॆर् आखुम्̣ क्षुधार्तः फणी

अत्तु वाञ्छति शांभवॊ गणपतॆर् आखुं क्षुधार्तः फणी
तम्̣ च क्रौञ्च-रिपॊः शिखी गिरि-सुता-सिम्̣हॊ पि नागाशनम्।

तं च क्रौञ्च-रिपॊः शिखी गिरि-सुता-सिंहॊऽपि नागाशनम्।
इठम्̣ यत्र परिग्रहस्य घटना शंभॊर् अपि स्याद् ग्ढ़ॆ

इत्थं यत्र परिग्रहस्य घटना शंभॊर् अपि स्याद् गृहे
तत्राप्य् अस्य कथम्̣ न भावि जगतॊ यस्मात् स्वरूपम्̣ हि तत्॥पञ्च_१.१७०॥

तत्राप्य् अस्य कथं न भावि जगतॊ यस्मात् स्वरूपं हि तत्॥पञ्च_१.१७०॥

ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परम्̣ करटक-दमनकौ मंत्रयॆतॆ। तत्र दमनकॊ ब्रूतॆ-आर्य करटक। आवाम्̣ तावद् अप्रधानताम्̣ गतौ। ऎष पिंगलकः सम्̣जीवकानुरक्तः स्व-व्यापार-पराङ्मुखः सम्̣जातः। सर्वॊ पि परिजनॊ गतः। तत् किम्̣ क्रियतॆ।

ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परं करटक-दमनकौ मंत्रयॆतॆ। तत्र दमनकॊ ब्रूतॆ-आर्य करटक। आवां तावद् अप्रधानतां गतौ। ऎष पिंगलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः। सर्वॊऽपि परिजनॊ गतः। तत् कि क्रियतॆ।

करटक आह-यद्यपि त्वदीय-वचनम्̣ न करॊति तथापि स्वामी स्व-दॊष-नाशाय वाच्यः। उक्तम्̣ च-

करटक आह-यद्यपि त्वदीय-वचनं न करॊति तथापि स्वामी स्व-दॊष-नाशाय वाच्यः। उक्तं च-

अश्ड़्ंवंन् अपि बॊढव्यॊ मंत्रिभिः प्ड़्थिवी-पतिः।

अशृण्वन् अपि बॊद्धव्यॊ मंत्रिभिः पृथिवी-पतिः।
यथा स्व-दॊष-नाशाय विदुरॆणांबिकासुतः॥पञ्च_१.१७१॥

यथा स्व-दॊष-नाशाय विदुरॆणाम्बिकासुतः॥पञ्च_१.१७१॥

तथा च-

तथा च-
मदॊन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः।

मदॊन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः।
उन्मार्गम्̣ वाच्यताम्̣ यांति महामात्राः समीपगाः॥पञ्च_१.१७२॥

उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः॥पञ्च_१.१७२॥

तत् त्वयैष शष्प-भॊजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तॆनांगाराः कर्षिताः।

तत् त्वयैष शष्प-भॊजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तॆनांगाराः कर्षिताः।

दमनक आह-सत्यम् ऎतत्। ममायम्̣ दॊषः। न स्वामिनः। उक्तम्̣ च-

दमनक आह-सत्यम् ऎतत्। ममायं दॊषः। न स्वामिनः। उक्तं च-

जंबूकॊ हुडु-युढॆन वयम्̣ चाषाढ-भूतिना।

जंबूकॊ हुडु-युद्धेन वयं चाषाढ-भूतिना।
दूतिका पर-कार्यॆण त्रयॊ दॊषाः स्वयम्̣ क्ड़्ताः॥पञ्च_१.१७३॥

दूतिका पर-कार्यॆण त्रयॊ दॊषाः स्वयं कृताः॥पञ्च_१.१७३॥

करटक आह-कथम् ऎतत्?

करटक आह-कथम् ऎतत्?

सॊ ब्रवीत्-

सॊ ब्रवीत्-

</poem>
==कथा ४ दॆवशर्म-परिव्राजक-कथा==

"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्