पूर्वपुटम्
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि।
करोति सः कृतैर् लोके लघुत्वं याति सर्वतः॥पञ्च_१.१५१॥
स्त्रियं च यः प्रार्थयते संनिकर्षं च गच्छति।
ईषच् च कुरुते सेवां तम् एवेच्छंति योषितः॥पञ्च_१.१५२॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥
नासां कश्चिद् अगम्योऽस्ति नासां च वयसि स्थितिः।
विरूपं रूपवंतं वा पुमान् इत्य् एव भुज्यते॥पञ्च_१.१५४॥
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा।
घृष्यते यो दशालंबी नितंबे विनिवेशितः॥पञ्च_१.१५५॥
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस् तथा।
अबलाभिर् बलाद् रक्तः पाद-मूले निपात्यते॥पञ्च_१.१५६॥

एवं स राजा बहुविधं विलप्य तत्-प्रभृति दंतिलस्य प्रसाद-पराङ्मुखः संजातः। किं बहुना। राज-द्वार-प्रवेशोऽपि तस्य निवारितः। दंतिलोऽप्य् अकस्माद् एव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलोक्य चिंतयामास-अहो साधु चेदम् उच्यते-

कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खंडितं भुवि मनः को नामा राज्ञां प्रियः।
कः कालस्य न गोचरांतर-गतः कोऽर्थी गतो गौरवं
को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान्॥पञ्च_१.१५७॥

तथा च-
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षांतिः स्त्रीषु कामोपशांतिः।
क्लीबे धैर्यं मद्यपे तत्त्व-चिंता राजा मित्र केन दृष्टं श्रुतं वा॥पञ्च_१.१५८॥

अपरं मयास्य भूपतेर् अथवान्यस्यापि कस्यचिद् राज-संबंधिनः स्वप्नेपि नानिष्टं कृतम्। तत् किम् एतत्-पराङ्मुखो मां प्रति भूपतिः इति।

एवं तं दंतिलं कदाचिद् राज-द्वारे विष्कंभितं विलोक्य संमार्जन-कर्ता गोरंभो विहस्य द्वारपालान् इदम् ऊचे-भो भो द्वारपालाः! राज-प्रसादाधिष्ठितोऽयं दंतिलः स्वयं निग्रहानुग्रह-कर्ता च। तद् अनेन निवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनो भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गोरंभस्य चेष्टितम्। अथवा साध्व् इदम् उच्यते-
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते।
अपि सम्मानहीनोऽपि स सर्वत्र प्रपूज्यते॥पञ्च_१.१५९॥
अपि कापुरुषो भीरुः स्याच् चेन् नृपति-सेवकः।
तथापि न पराभूतिं जनाद् आप्नोति मानवः॥पञ्च_१.१६०॥

एवं स बहु-विध विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरंभम् आहूय वस्त्र-युगलेन सम्मान्येदम् उवाच-भद्र! मया न तदा त्वं राग-वशान् निःसारितः। यतस् त्वं ब्राह्मणानाम् अग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इत्य् अपमानितः। तत् क्षम्यताम्।

सोऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितोषं गत्वा तम् उवाच-भोः श्रेष्ठिन्! क्षान्तं मया ते तत्। तद् अस्य सम्मानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च। एवम् उक्त्वा सपरितोषं निष्क्रान्तः। साधु चेदम् उच्यते-

स्तोकेनोन्नतिमायाति स्तोकेनायात्य् अधोगतिम्।
अहो सुसंदृशो चेष्टा तुलायष्टेः खलस्य च॥पञ्च_१.१६१॥

ततश् चान्ये-द्युः स गोरंभो राज-कुले गत्वा योग-निद्रा गतस्य भूपतेः सम्मार्जन-क्रिया कुर्वन्न् इदम् आह-अहो अविवेकोऽस्मद्-भूपतेः। यत् पुरीषोत्सर्गम् आचरंश् चिर्भटी-भक्षणं करोति।

तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रे रे गोरंभ! किम् अप्रस्तुतं लपसि। गृह-कर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिद् अहम् एवंविधं कर्म समाचरन् दृष्टः?

सो ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन सम्मार्जन कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितेन मया किंचिज् जल्पितम्। तन् न वेद्मि। तत् प्रसादं करोतु स्वामी निद्रा-परवशस्य इति।

एवं श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायं व्यतिकरो संभाव्यो ममानेन मूढेन व्याहृतः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तं कृतं यत् स वराकः सम्मानेन वियोजितः। न तादृक्-पुरुषाणाम् एवंविधं चेष्टितं संभाव्यते। तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि च सर्वाणि शिथिलतां व्रजन्ति।

एवम् अनेकधा विमृश्य दंतिलं समाहूय निजांग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास। अतोऽहं ब्रवीमि यो न पूजयते गर्वात् इति।

दन्तिल भाण्डपति - गोरम्भ सम्मार्जकोपरि टिप्पणी

संजीवक आह-भद्र एवम् एवैतत्। यद् भवताभिहितं तद् एव मया कर्तव्यम् इति। एवम् अभिहिते दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-देव एष मयानीतः स संजीवकः। अधुना देवः प्रमाणम्। संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः। पिंगलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः। कुतस् त्वम् अस्मिन् वने विजने समायातोऽसि?

तेनाप्य् आत्मक-वृत्तांतः कथितः। यथा वर्धमानेन सह वियोगः सजातस् तथा सर्वं निवेदितम्। तच् छ्रुत्वा पिंगलकः सादरतरं तम् उवाच-वयस्य, न भेतव्यम्। मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम्। अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवित वन गुरूणाम् अपि सत्त्वानाम् असेव्यम्। कुतः शष्प-भोजिनाम्।

एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् एव वनं प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीवकेन सह सुभाषित-गोष्ठीम् अनुभवन्न् आस्ते। अथवा साध्व् इदम् उच्यते-

यद्ड़्च्छयाप्य् उपनत सक्ड़्त् सज्जन-संगतम्।
भवत्य् अजरम् अत्यंत नाभ्यास-क्रमम् ईक्षते॥पञ्च_१.१६२॥

संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् एवाहोभिर् मूढ-मतिः पिंगलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः। कि बहुना प्रत्यहं पिंगलक-संजीवकाव् एव केवलं रहसि मन्त्रयतः। शेषः सर्वोऽपि मृग-जनो दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवेशं न लभेते। अन्यच् च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशम् आश्रित्य स्थिताः।

उक्तं च-
फल-हीनं नृपं भृत्याः कुलीनम् अपि चोन्नतम्।
संत्यज्यान्यत्र गच्छंति शुष्क वृक्षम् इवाण्डजाः॥पञ्च_१.१६३॥
तथा च-
अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः।
वृत्ति-भंगान् महीपालं त्यजंत्य् एव हि सेवकाः॥पञ्च_१.१६४॥
अन्यच् च-
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः।
कदाचित् तं न मुञ्चंति भर्त्सिता अपि सेवकाः॥पञ्च_१.१६५॥

तथा च केवलं सेवका इत्थंभूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति। तद् यथा-

देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः।
वणिजो ग्राहकाणां च मूर्खाणाम् अपि पंडिताः॥पञ्च_१.१६६॥
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम्।
गणिकाः कामिनां चैव सर्व-लोकस्य शिल्पिनः॥पञ्च_१.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम्।
उपजीवंति शक्त्या हि जलजा जलदानिव॥पञ्च_१.१६८॥

अथवा साध्व् इदम् उच्यते-
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम्।
अभिप्राया न सिध्यंति तेनेदं वर्तते जगत्॥पञ्च_१.१६९॥
अत्तु वाञ्छति शांभवो गणपतेर् आखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहोऽपि नागाशनम्।
इत्थं यत्र परिग्रहस्य घटना शंभोर् अपि स्याद् गृहे
तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत्॥पञ्च_१.१७०॥

ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परं करटक-दमनकौ मंत्रयेते। तत्र दमनको ब्रूते-आर्य करटक। आवां तावद् अप्रधानतां गतौ। एष पिंगलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः। सर्वोऽपि परिजनो गतः। तत् कि क्रियते।

करटक आह-यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः। उक्तं च-

अशृण्वन् अपि बोद्धव्यो मंत्रिभिः पृथिवी-पतिः।
यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः॥पञ्च_१.१७१॥

तथा च-
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः॥पञ्च_१.१७२॥

तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तेनांगाराः कर्षिताः।

दमनक आह-सत्यम् एतत्। ममायं दोषः। न स्वामिनः। उक्तं च-

जंबूको हुडु-युद्धेन वयं चाषाढ-भूतिना।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः॥पञ्च_१.१७३॥

करटक आह-कथम् एतत्?

सो ब्रवीत्-

कथा ४ देवशर्म-परिव्राजक-कथासम्पाद्यताम्



अस्ति कस्मिंश्चिद्विविक्त्तप्रदेशे मठायतनम् । तत्र देवशर्मा नाम परिव्राजकः प्रतिवसति स्म । तस्यानेकसाधुजनदत्तसूक्ष्मवस्त्रविक्रयवशात्कालेन महती वित्तमात्रा संजाता । ततः स न कस्यचिद्विश्वसिति । नक्तंदिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते-
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।। १७४ ।।
अथाषाढभूतिर्नाम परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरंगतां लक्षयित्वा व्यचिन्तयत्-कथं मयास्येयमर्थमात्रा हर्तव्या इति । तदत्र मठे तावद्दृढशिलासंचयवशाद्भित्तिभेदो नास्ति । उच्चेस्तरत्वाच्च द्वारेण प्रवेशोपि नास्ति । तदेनं मायावचनैर्विश्वास्य छात्रतां व्रजामि येन स वि- श्वस्तः कदाचिद्विश्वासमेति । उक्तं च-
निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ।। १७५ ।।
एवं निश्चित्य तस्यान्तिकमुपगम्य ॐ नमः शिवाय इति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच भगवन् असारः संसारोऽयं गिरिनदीवेगोपमं यौवनं तृणाग्निसमं जीवितं शरदभ्रच्छायासदृशा भोगाः स्वप्नसदृशो मित्र- पुत्रकलत्रभृत्यवर्गसंबन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसारसमुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देवशर्मा सादरमाह-वत्स धन्योऽसि यत्प्रथमे वयस्येवं विरक्तिभावः । उक्तं च-
पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ।। १७६ ।।
आदौ चित्ते ततः काये सतां संपद्यते जरा ।
असतां तु पुनः काये नैव चित्ते कदाचन ।। १७७ ।।
यथ मां संसारसागरोत्तरणोपायं पृच्छसि तच्छ्रूयताम्-
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ।। १७८ ।।

षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ।। १७९ ।।
तच्छ्रुत्वाषाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाह-भगवन् तर्हि दीक्ष- या मेऽनुग्रहं कुरु । देवशर्मा आह--वत्स अनुग्रहं ते करिष्यामि । परंतु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम् । यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव ममापि च । उक्तं च--
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-
द्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात्-
स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् । । १८० ।।
तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यम्' इति ।
स आह-'भगवन्, भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।'
अथ कृतशयनसमयं देवशर्मानुग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति ।
अथैवं गच्छति काले आषाढभूतिश्चिन्तयामास-'अहो, न कथंचिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि, किं वा पशुधर्मेण व्यापादयामि इति ।
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह च-भगवन्, पवित्रारोपणकृते मम गृहमागम्यताम्' इति । तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाह-भो आषाढभूते, यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि तावदेषा कन्था योगेश्वरस्य सावधानतया रक्षणीया ।' इत्युक्त्वा गतः ।
आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरः प्रस्थितः देवशर्मापि छात्र- गुणानुरञ्जितमनाः सुविश्वस्तो यावदूपविष्टस्तिष्ठति तावत्सुवर्णरोमदेह- यूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयुगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्येन रङ्गभूमिं प्रविश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयत्-अहो, मन्दमतिरयं जम्बूकः । यदि कथ- मप्यनयोः संघट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।' क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशस्तयोः शिरःसंपाते पतितो मृतश्च शृगालः ।
देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्च हा हा मुषितोऽस्मीति जल्पन्पृथिवीतले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्क- र्तुमारब्धः । भो आषाढभूते क्व मां वञ्चयित्वा गतोऽसि । तदेहि मे प्रति- वचनम् । एवं बहु विलप्य तस्य पदपद्धतिमन्वेषयञ्शनैः शनैः प्रस्थितः ।
अथैवं गच्छन्सायंतनसमये कंचिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाच-भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथिधर्मः । उक्तं च-
संप्राप्तो योऽतिथिः सायं सूर्योढो गृहमेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ।। १८१ ।।
तथा च ।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ।। १८२ ।।
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पादशौचेन गोविन्दो अर्घाच्छंभुस्तथातिथेः ।। १८३ ।।
कौलिकोऽपि तच्छ्रुत्वा भार्यामाह-प्रिये गच्छ त्वमतिथिमादाय गृहं प्रति । पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूतं मद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु ।
पत्युर्विदेशगमने परमसुखं जघनचपलायाः ।। १८४ ।।
तथा च । पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् ।
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ।। १८५ ।।
तथा च ।
केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटवः ।
बन्धक्याः परितोषो न स्यादनभीष्टदम्पत्योः ।। १८६ ।।
कुलपतनं जनगर्हां बन्धनमपि जीवितव्यसंदेहम् ।
अङ्गीकरोति सकलमबला परपुरुषसंसक्ता ।। १८७ ।।
अथ कौलिकभार्या गृहं गत्वा देवशर्मणे गतास्तरणां भग्नां च खट्वां सम- र्प्येदमाह-भो भगवन् यावदहं स्वसखीं ग्रामादभ्यागतां संभाष्य द्रुतमा- गच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम् । एवमभिधाय शृंगारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन्गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृङ्गारा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृङ्गारां विलोक्य प्रागेव कर्णपरंपरया तस्या अपवादेश्रवणात् क्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते ततश्च त- थाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामाह- आः पापे पुंश्चलि क्व प्रस्थितासि । सा प्रोवाच अहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्यपानवशादप्रस्तुतं वदसि । अथवा साधु चेदमुच्यते-
वैकल्यं धरणीपातमयथोचितजल्पनम् ।
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ।। १८८ ।।
करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता ।
वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ।। १८९ ।।
सोऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेशविपर्ययं चावलोक्य तामाह-पुंश्चलि चिरकालं श्रुतो मया तवापवादः । तदद्य स्वयं संजातप्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुडप्रहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढबन्धनेन बद्ध्वा सोऽपि मदविह्वलो निद्रावशमगमत् । अत्रान्तरे तस्याः सखी नापिती कौलिकं निद्रावशगतं विज्ञाय तां गत्वेदमाह सखि स देवदत्तस्तस्मिन्स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति । सा चाह पश्य ममावस्थाम् । तत्कथं गच्छामि । तद्गत्वा ब्रूहि तं कामिनं यदत्रावसरे न त्वया सह समागमः । नापिती प्राह-सखि मा मैवं वद । नायं कुलटाधर्मः । उक्तं च-
विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ।। १९० ।।
तथा च ।
संदिग्धे परलोके जनापवादे च जगति बहुचित्रे ।
स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ।। १९१ ।।
अन्यच्च ।
यदि भवति दैवयोगात्पुमान्विरूपोऽपि बन्धकीरहसि ।
न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ।। १९२ ।।
साब्रवीत्-यद्येवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि । संनिहितश्चायं पापात्मा मत्पतिः ।
नापित्याह सखि मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वामुन्मोचयामि । मामात्मस्थाने बध्वा द्रुततरं देवदत्तं संभाव्यागच्छ ।
साब्रवीत् एवमस्तु इति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बध्वा तां देवदत्तसकाशे संकेतस्थानं प्रेषितवती ।
तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गतकोपो विमदस्तामाह हे परुषवादिनि यद्यद्यप्रभृति गृहान्निष्क्रमणं न करोषि न च परुषं वदसि ततस्त्वामुन्मोचयामि । नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे तावत्सोऽपि भूयो भूयस्तां तदेवाह ।
अथ सा यावत्प्रत्युत्तरं किमपि न ददौ तावत्स प्रकुपितस्तीक्ष्णशस्त्रमादाय तस्या नासिकामच्छिनत् । आह च- रे पुंश्चलि तिष्ठेदानीम् । न त्वां भूयस्तोषयिष्यामि इति जल्पन्पुनरपि निद्रावशमगमत् ।
देवशर्मापि वित्तनाशात्क्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । साऽपि कौलिक- भार्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमा- गत्य तां नापितीमिदमाह-अयि शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापित्याह-शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं मां मोचय बन्धनाद्यावन्नायं मां पश्यति येन स्वगृहं गच्छामि । तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह-पुंश्चलि किमद्यापि न वेदसि। किं भूयोऽप्यतो दुष्टतरं कर्णच्छेदादिनिग्रहं करोमि । अथ सा सकोपं साधिक्षेपमिदमाह-
धिग्मूढ को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ।
तच्छृण्वन्तु सर्वेऽपि लोकपालाः ।
आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ।। १९३ ।।
तद्यदि मम सतीत्वमस्ति मनसापि परषुरुषो नाभिलषितस्ततो देवा भूयोऽपि मे नासिकां तादृग्रूपामक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति ततो मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाह- भो दुरात्मन्पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता। अथासावुल्मुकमादाय यावत्पश्यति तावत्तद्रूपां नासिकां च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मितमनास्तां बन्धनाद्विमुच्य शय्या- यामारोप्य च चाटुशतैः पर्यतोषयत् । देवशर्मापि तं सर्ववृत्तान्तमालोक्य विस्मितमना इदमाह-
शम्बरस्य च या माया या माया नमुचेरपि ।
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ।। १९४ ।।
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि ।
अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ।। १९५ ।।
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्रीबुद्ध्या न विशेष्येत तस्माद्रक्ष्याः कथं हिताः ।। १९६ ।।
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।
इति यास्ताः कथं धीरैः संरक्ष्याः पुरुषैरिह ।। १९७ ।।
अन्यत्राप्युक्तम्-
नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः ।। १९८ ।।
सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ।। १९९ ।।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ।
पुरुषैः सुखलेशवञ्चितैमर्धुलुब्धैः कमलं यथालिभिः ।। २०० ।।

अग्रिमपुटम्

संबंधित कड़ियाँसम्पाद्यताम्

  1. पञ्चतन्त्रम्
    1. कथा-मुखम् १-७
    2. प्रथमम् तन्त्रम् - मित्रभेदः १-५०
    3. प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००
    4. प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०
    5. प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००
    6. प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०
    7. प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००
    8. प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०
    9. प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००
    10. प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०
    11. प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१
    12. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०
    13. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००
    14. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०
    15. द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६
    16. तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०
    17. तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००
    18. तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०
    19. तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००
    20. तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०
    21. तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०
    22. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०
    23. चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४
    24. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०
    25. पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८
  2. पंचतंत्र (hindi wikipedia)
  3. पंचतंत्र (हिन्दी में)]
  4. हितोपदेशम्

बाहरी कडियाँसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पञ्चतन्त्रम्_०२ग&oldid=112783" इत्यस्माद् पुनः प्राप्तिः