विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १२१-१२५

← अध्यायाः ११६-१२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १२१-१२५
वेदव्यासः
अध्यायाः १२६-१३० →

3.121
वज्र उवाच ।।
कस्मिन्देशे महाभाग प्रादुर्भावं कमर्चयेत ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ।। १ ।।
मार्कण्डेय उवाच ।।
ब्रह्माणं पुष्करे देवं प्रयागे योगशायिनम । ।
कालंजरे महादेवं शक्रतीर्थे शतक्रतुम ।। २ ।।
सिन्धुकूले वराहं च शालिग्रामे त्रिविक्रमम् । ।
काश्मीरेषु तथा मत्स्यं सागरे वडवानलम् । । ३ । ।
अयोध्यायां तथा रामं नैमिषे धर्ममेव च ।।
कर्णाटे चाश्वशिरसं मद्रदेशे नृकेसरिम् ।। ४ ।।
शत्रुघ्नं मथुरायां च दण्डकेषु च लक्ष्मणम् ।।
भरतं केकयेष्वेव यमुनायां तथा बलिम् ।। ५ ।।
प्राग्ज्योतिषेऽनिरुद्धं च प्रद्युम्नं दक्षिणापथे ।।
तथा भार्गवरामं च मलये यदुनन्दनम् ।। ६ ।।
पाञ्चालविषये राजन्पृथुं वैन्यं च पूजयेत ।।
तमसातीरमासाद्य वाल्मीकिं पूजयेन्नरः ।। ७ ।।
वाराणस्यां परे पारे व्यासं यदुकुलोद्वह ।।
गङ्गाकूले महाराज वासुदेवं च पूजयेत् ।। ८ ।।
गजेन्द्रमोक्षणं देवमङ्गेषु यदुनन्दन ।।
द्वारवत्यां तथा कृष्णं नरनारायणावुभौ ।। ९ ।।
बदर्याश्रममासाद्य पूजयेत्तु विचक्षणः ।।
कुरुक्षेत्रेपि धर्मज्ञ रामं भृगुकुलोद्वहम ।। 3.121.१० ।।
अथ वा यादवश्रेष्ठ रथस्थौ कृष्णफाल्गुनौ ।।
हंसप्रपतने हंसं मत्स्यं मत्स्येषु यादव ।। ११ ।।
गयाशीर्षे वराहं तु मूलस्थाने दिवाकरम् ।।
प्रभासे च तथा सोमं हिमवत्यलकाधिपम ।। १२ ।।
ऐरावत्यां भोगमयं सरय्वां राममेव च ।।
भोगिभोगासनासीनं सरयूतटसंस्थितम ।। १३ ।।
सर्वमूर्तिधरं देवं सर्वत्राप्यथ वार्चयेत ।।
सर्वत्र सर्व शक्तिर्हि सर्वात्मा स निगद्यत ।। १४ ।।
सर्वत्र देवः स तु सर्वशक्तिः सर्वेश्वरः सर्वशरीरसंस्थः ।।
पूज्यः सदा सर्वफलप्रदाता लोके सकामान्विदधाति राजन् ।। १५ ।।
इति श्रीविप्णुधर्मौत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुदेशाधिदेशप्रादुर्भावपूजावर्णनो नामैकविंशत्युत्तशततमोऽध्यायः । १२१ ।।
3.122
वज्र उवाच ।।
केन कार्येण देवस्य किंकिं नाम प्रकीर्तयेत् ।।
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ।। १ ।।
मार्कण्डेय उवाच ।।
वासुदेवाच्युतानन्तसत्याजपुरुषोत्तम ।।
परमात्मेश्वराद्यैश्च ततो मोक्षं प्रयच्छति ।। २ ।।
धर्मविद्धर्मकृद्धर्मी विश्वात्मा विश्वकृच्छुचिः ।।
शुचिमद्विष्णुरब्जाख्यो पुष्कराख्यो ह्यधोक्षजः ।। ३ ।।
शुचिःश्रवा शिपिविष्टो यज्ञेशो यज्ञभावनः ।।
नाम्नामित्येवमादीनां समुच्चारणतो नरः ।। ४ ।।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा ।।
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ।। ५ ।।
श्रियः पतिः श्रीपरमः श्रीमाञ्छ्रीवत्सलाच्छनः ।।
नृसिंहो दुष्टदमनो जयो विष्णुस्त्रिविक्रमः ।। ६ ।।
स्तुतः प्रयच्छते चाथ अणिमादिभिरच्युतः ।।
काम्यः कामप्रदः कान्तः कामयात्मा तथा हरिः ।। ७ ।।
आनन्दो माधवश्चैव कामसंवृद्धये जपेत् ।।
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।। ८ ।।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ।।
दामोदरानिरुद्धौ च ज्ञेयौ बन्धनमोक्षदौ ।। ९ ।।
जप्तव्योभ्यसता विद्यां महापुरुष इत्यपि ।।
विद्यार्थिना वा जप्तव्यं तथाश्वशिरसेति च ।। 3.122.१० ।।
बलार्थी बलभद्रेति सौख्यार्थी सुखदेति च ।।
अश्वार्थी चाश्वशिरसं गजार्थी नागमोक्षणम् ।। ११ ।।
गोभिरर्थी जपेन्नाम वासुदेवेति कीर्तितम् ।।
यज्ञार्थी यज्ञपुरुषं कीर्तयेत्प्रयतो नरः ।।१२।।
नारायणेति च तथा विष्णवेति यदूद्वह।।
यद्वाभिरोचतो रामं सर्वार्थेषु ह्युदीरयेत् ।।
सर्वाण्येतानि नामानि परस्य ब्रह्मणो यतः ।।१३ ।।
सर्वाणि नामानि हि तस्य राजन् भवन्ति कामाखिलदायकानि ।।
यदेव संकीर्तयते स शक्त्या तस्मादवाप्नोति हि कामसिद्धिम् ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे कामप्राप्तिवर्णनो नाम द्वाविंशत्युत्तरशततमोऽध्यायः ।। १२२ ।।
3.123
वज्र उवाच ।।
कार्यारम्भे तथा कस्मिन्को नाम द्द्विज कीर्तयेत् ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ।। १ ।।
मार्कण्डेय उवाच ।।
चक्रिणं हलिनं चैव शार्ङ्गिणं खड्गिनं तथा ।।
क्षेमार्थी प्रवसन्राजन्दिक्षु प्राच्यादिषु स्मरेत् ।। २ ।।
अर्चितं चाधिकं चैव सर्वं सर्वेश्वरं प्रभुम् ।।
संस्मरेत्पुरुषं भक्त्या व्यवहारेषु सर्वदा ।। ३ ।।
कूर्मं वराहं मत्स्यं च जलप्रतरणे स्मरेत् ।।
भ्राजिष्णुमग्निजनने जपेद्राममतन्द्रितः ।। ४।।
सङ्ग्रामाभिमुखे गच्छन्संस्मरेदपराजितम् ।।
केशवं पुण्डरीकाक्षं पुष्करार्थं तथा जपेत्।।५।।
नेत्रबाधासु सर्वासु हृषीकेशं तथैव च ।।
अच्युतं चामृतं चैव जपेदौषधकर्मणि ।। ६ ।।
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ।।
ज्वरदुष्ट शिरोरोगविषवीर्यं प्रशाम्यति ।। ७ ।।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ।।
दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसंकटे ।। ८ ।।
अन्धकारे तथा तीव्रे नरसिंहेति कीर्तयेत् ।।
वित्तस्थापनकाले च धान्यसंस्थापने तथा ।। ९ ।।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ।।
नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् ।। 3.123.१० ।।
वामनं खङ्गिनं चैव दुःस्वप्नेषु तु संस्मरेत् ।।
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम्।।११।।
बलभद्रं समृद्धार्थे कृष्यारंभे हलायुधम् ।।
उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप ।।१२ ।।
मङ्गल्यं मङ्गले विष्णुममङ्गल्येषु कीर्तयेत् ।।
अरिष्टान्तेषु शेषेषु विशोकेषु तथा जपेत् ।। १३ ।।
उत्तिष्ठन् कीर्तयेद्विष्णुं प्रसुप्तो माधवं नरः ।।
भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ।। १४ ।।
नारायणं सर्वकाले क्षुतप्रस्खल नादिषु ।।
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ।। १५ ।।
कीर्तयेद्वासुदेवेति अनुक्तेष्वपि यादव ।।
कार्यारम्भेऽथ वा राजन्यथेष्टं नाम कीर्तयेत ।।।। १६ ।।
सर्वाणि नामानि हि तस्य राजन्सर्वार्थसिद्धानि भवन्ति पुंसः ।।
तस्माद्यथेष्टं खलु देवनाम सर्वेषु कार्येषु जपेत्तु भक्त्या ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कार्यप्राप्तितत्तन्नामकीर्तनवर्णनो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ।। १२३ ।।
3.124
वज्र उवाच ।।
कस्मिन्काले तु देवस्य किंकिं नाम प्रकीर्तयेत् ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ।। १ ।।
मार्कण्डेय उवाच ।।
पुरुषं वामदेवं च तथा सङ्कर्षणं प्रभुम् ।।
प्रद्युम्नमनिरुद्धं च क्रमाच्छब्देषु वर्जयेत् ।। २।।
विष्णुं मधुनिहन्तारं तथा देवं त्रिविक्रमम् ।।
वामनं श्रीधरं चैव हृषीकेशं तथैव च।।३।।
दामोदरं पद्मनाभं केशवं च यदूत्तम।।
नारायणं माधवं च गोविन्दं च तथा क्रमात् ।।४।।
चैत्रादिषु तु मासेषु देवदेवमनुस्मरेत् ।।
प्रद्युम्नमनिरुद्धं च पक्षयोः शुक्लकृष्णयोः।।५।।
सर्वः शर्वः शिवः स्थाणुर्भूतानां निधिरव्ययः।।
आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत् ।। ६ ।।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवः प्रभुः।।
भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः।।७।।
अव्यक्तः पुंडरीकाक्षो विश्वकर्मा शुचिश्रवाः ।।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।। ८ ।।
अप्रमेयो हृषीकेशः पद्मनाभः परः प्रभुः ।।
अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत्।।९।।
देवदेवस्य नामानि कृत्तिकादिषु यादव ।।
ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ।। 3.124.१० ।।
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ।।
भूधरं गदिनं चैव शिखिनं पद्मिनं तथा ।। ११ ।।
चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ।।
सर्वं वा सर्वदा राम देवदेवस्य यादव ।। १२ ।।
नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर ।।
तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनामाख्यानो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १२४ ।।
3.125
वज्र उवाच ।।
कस्मिन्क्षेत्रे तु देवस्य किंकिं नाम प्रकीर्तयेत् ।।
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ।। १ ।।
मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।।
वासुदेवस्य संवादमर्जुनस्य च यादव ।। २ ।।
वृत्ते भारतसंग्रामे राज्यं प्राप्ते युधिष्ठिरे।
अस्मिन्नेव सभोद्देशे विजह्राते यथासुखम् ।।३।।
वासुदेवार्जुनौ वीरौ लक्षीकृतवसुन्धरौ ।।
ततः कथान्ते कस्मिंश्चित्कृष्णं पप्रच्छ फाल्गुनः ।। ४ ।।
अर्जुन उवाच ।।
क्षेत्रेषु येषुयेषु त्वं कीर्तनीयो मयाच्युत ।।
चेतसा प्रणिधानार्थं त्वं ममाख्यातुमर्हसि ।। ५ ।।
श्रीभगवानुवाच ।।
सर्वगः सर्वभूतोऽहं न हि किञ्चिन्मया विना ।।
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ।। ६ ।।
तथापि येषु स्थानेषु चिन्तनीयोहमर्जुन ।।
स्तोतव्यो नामभिर्यैश्च शृणु त्वं तद्वदामि ते ।। ७ ।।
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ।। ८ ।।
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।।
वृन्दावने च गोविन्दं मां स्तुवन्पुण्यभाग्भवेत् ।। ९ ।।
जयं जयन्त्यां स्तुन्वंश्च जयन्तं हस्तिनापुरे ।।
वराहं कन्दमाले च कश्मीरेषु च चक्रिणम् ।। 3.125.१० ।।
जनार्दनस्तु कुब्जाम्रे मथुरायां च केशवम् ।।
श्रीकुब्जे श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ।। ११ ।।
शालिग्रामे महायोग्यं हरिं गोवर्धनाचले ।।
पिण्डारके चतुर्बाहुं शंखद्वारे च शंखिनम् ।। १२ ।।
वामनं तु कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ।। १३ ।।
श्वेतद्वीपपतिं चापि गङ्गासागरसंगमे ।।
भूधरं देविकातीरे प्रयागे योगशायिनम् ।। १४ ।।
नरनारणायाख्यौ च तथा बदरिकाश्रमे ।।
समुद्रे दक्षिणे नाम पद्मनाभेति फाल्गुन ।। १५ ।।
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।।
एवं रामं महेन्द्राद्रौ हृषीकेशं तथा बुध ।। १६ ।।
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।।
नृसिंहं कृतशौचे तु विपाशायां द्विजप्रियम् ।। १७ ।।
नैमिषे यज्ञपुरुषं जम्बुमाले तथाच्युतम् ।।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ।। १८ ।।
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।।
दामोदरं रैवतके नन्दायां जलशायिनम् ।। १९ ।।
सर्वयोगेश्वरं चैव सिन्धुसागरसंगमे ।।
सह्याद्रौ देवदेवेशं वैकुण्ठं माधवे वने ।।3.125.२० ।।
सर्वपापहरं विंध्ये चोड्रेषु पुरुषोत्तमम् ।।
ह्रदये चापि कौन्तेय परमात्मा सनातनः ।। २१ ।।
वटेवटे वैश्रवणं चत्वरेचत्वरे शिवम् ।।
पर्वतेपर्वते रामं सर्वत्र मधुसूदनम् ।। २२ ।।
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।।
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषां पतिम् ।। २३ ।।
अर्चयन्प्रणमन्स्तुन्वन्संस्मरेश्च धनञ्जय ।।
एतेष्वेतानि नामानि नरः पापात्प्रमुच्यते ।। २४ ।।
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणयेन्नरः ।।
द्विजानां प्रीणनं कृत्वा स्वर्गलोके महीयते ।। २५ ।।
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।।
जपन्वै पञ्च पञ्चाशत्त्रिसन्ध्यं मत्परायणाः ।। २६ ।।
त्रीणि जन्मानि यत्पापं चावस्थात्रितये कृतम् ।।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ।। २७ ।।
द्विकालं वा जपन्वैतद्दिवारात्रौ च यत्कृतम् ।।
तस्माद्विमुच्यते पापात्संस्तुवन्परमो नरः ।। २८ ।।
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।।
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम् ।। २९ ।।
धन्यो यशस्यः शत्रुघ्नो जयः कुरुकुलोद्वह ।।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ।। 3.125.३०।।
उपोषिताश्च मनसः स्थानेष्वेतेषु मानवः ।।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ।। ३१ ।।
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ।। ३२ ।। ।।
यस्तु मत्परमः कालं करोत्येतेषु मानवः।।
देवानामपि पूज्योऽसौ मम लोके महीयते।।३३।।
स्थानेष्वथैतेषु च ये वसन्ति संपूजयन्ते मम सर्वकालम् ।।
तदेह चान्ते त्रिदिवं प्रयान्ति नाकं च लोकं समवाप्नुवन्ति।।३४।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।। १२५ ।।