विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १२६-१३०

← अध्यायाः १२१-१२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १२६-१३०
वेदव्यासः
अध्यायाः १३१-१३५ →

3.126
।। वज्र उवाच ।। ।।
नाम्नां संपूजनं विष्णोस्त्वया कार्यं प्रकीर्तितम्।।
प्रादुर्भावेषु काम्यं च पूजनं च त्वयेरितम् ।। १ ।।
काल नामानि च तथा स्थाननामानि चाप्यथ ।।
काम्यानि चैव नामानि त्वया प्रोक्तानि भार्गव ।। २ ।।
तस्यैव देवदेवस्य विष्णोरमिततेजसः ।।
सर्वदेवमयस्येह सर्वरूपधरस्य च ।। ३ ।।
आराधनविधानानि कथयस्व ममानघ ।।
त्वं हि सर्वकथारामो यथा देवः पितामहः ।। ४ ।।
भूय एव समाचक्ष्व उपवासफलं विभो ।।
देवतापूजनार्थाय विधिना पूजनस्य च ।। ५।।
मार्कण्डेय उवाच ।।
अष्टपत्रं तु कमलं विन्यसेद्वर्णकैः शुभैः ।।
ब्रह्माणं कर्णिकायां तु तस्य संपूजयेद्विभुम् ।। ६ ।।
ऋग्वेदं पूर्वपत्रे तु यजुर्वेदं तु दक्षिणे ।।
पश्चिमे सामवेदं तु उत्तरेऽथर्वणं तथा ।। ७ ।।
आग्नेये च तथाङ्गानि धर्मशास्त्राणि नैर्ऋते ।।
पुराणान्येव वायव्ये चैशान्यां न्यायविस्तरम् ।। ८ ।।
एवं विन्यस्य धर्मज्ञ सोपवासस्तु पूजयेत् ।।
चैत्रशुक्लादथारभ्य सोपवासो जितेन्द्रियः ।। ९ ।।
सदा प्रतिपदं प्राप्य शुक्लपक्षस्य यादव ।।
संवत्सरं महाभाग शुक्लगन्धानुलेपनः ।। 3.126.१० ।।
भूरिणा परमान्नेन धूपदीपैरतन्द्रितः ।।
संवत्सरान्ते गां दद्याद्धुते चीर्णे नरोत्तम ।।११।।
इदं व्रतं यस्तु करोति राजन्स वेदवित्स्याद्भुवि धर्मनित्यः ।।
कृत्वा तदा द्वादशवत्सराणि विधेश्च लोक पुरुषः प्रयाति।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ब्राह्मीप्रतिपल्लाभो नाम षड्विंशत्युत्तरशततमोऽध्यायः ।। १२६ ।।
3.127
।। मार्कण्डेय उवाच ।। ।।
आराधनं त्रिदेवस्य तस्य वक्ष्यामि यादव ।।
विष्णोरमितवीर्यस्य द्वितीयमरिमर्दन ।। १ ।।
ब्राह्मी तु राजसी मूर्तिस्तस्य वर्गप्रवर्तिनी ।।
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी ।। २ ।।
तामसी च तथा रौद्री ज्ञेया संहारकारिणी ।।
चैत्रशुक्लप्रतिपदि ब्रह्माणं पूजयेन्नरः ।। ३ ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।।
क्षीरं ब्राह्मैस्ततो मन्त्रैर्जुहुयाज्जातवेदसि ।। ४ ।।
लोहभाण्डं द्विजे दद्यात्क्षीरपूर्णं सकाञ्चनम् ।।
दध्ना च भोजनं कार्यं मध्यं प्राप्ते दिवाकरे ।। ५ ।।
एकवस्त्रांचिते देशे तथा स्वप्यात्कुशास्तृते ।।
ततश्चतुर्थे दिवसे कूपनादेयसारसैः ।।
त्रिभिरेकगतैस्तोयैः सम्यक्स्नानं समाचरेत् ।। ६ ।।
पूजयेत्पूर्तवत्सम्यक्पुरत्रितयमेव तत् ।।
लोहत्रयं द्विजे दद्यात्समाल्यं नृप दक्षिणाम् ।। ७ ।।
तृतीयेह्नि ततः पूजा कार्या रुद्रस्य पार्थिव ।।
गन्धमाल्यनमस्कारधूप दीपैस्तथैव च ।।
मानस्तोकेति मंत्रेण घृतहोमो विधीयते ।।८।।
सघृतं लोहपात्रं च सहिरण्यं सदक्षिणम् ।।
तृतीये दिनभागे तु वाताहारं समाचरेत् ।। ९ ।।
तथा त्रिमधुरं दद्याद्भोजनं तच्च भक्षयेत् ।।
व्रतमेतन्नरः कृत्वा मासिमासि दिनत्रयम् ।।
संवत्सरेण धर्मज्ञ गतिमिष्टामवाप्नुयात् ।। 3.127.१० ।।
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः।।
सौभाग्यरूपद्रविणोपपन्नः साक्षाच्छिवो लोकधुरन्धरः स्यात्।।११।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिमूर्तिव्रतं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ।। १२७।।
3.128
मार्कण्डेय उवाच ।।
एकमेव जगत्सर्वं प्रकृतिः पुरुषः स्मृतः ।।
चैत्रशुक्लसमारंभे सोपवासो जितेन्द्रियः।।१।।
पुरुषं पूजयेद्विष्णुं स्थले वा यदि वा जले ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा।।२।।
पौरुषं तु तथा सूक्तं जपेदन्तर्जले नरः ।।
तथा चैनं च प्रत्यष्टं बुधो दद्याज्जलाञ्जलिम् ।।३ ।।
तथा पुष्पाणि धर्मज्ञः फलानि च महाभुज ।।
धूपं दद्यात्सनैवेद्यं जपेच्छक्त्या तथा च तम् ।। ४ ।।
जुहुयाच्च तथाऽऽज्येन द्विजे दद्याच्च काञ्चनम् ।।
आहारं पयसा कुर्यान्निशाकाले च भार्गव।। ।। ५ ।।
एतत्संवत्सरं कृत्वा नित्यव्रतमतन्द्रितः ।।
पक्षयोरुभयोर्वीर सर्वपापैः प्रमुच्यते ।। ६ ।।
प्रसादमासाद्य स वासुदेवात्सर्वेश्वरात्सर्वगणादचिन्त्यात् ।।
लोकेश्वरान्मोक्षपदं प्रयाति ये यान्ति सिद्धा मुनयः प्रतीताः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे पौरुषीप्रतिपद्वर्णनो नामाष्टाविंशत्युत्तरशततमोऽध्यायः ।। १२८ ।।
3.129
मार्कण्डेय उवाच ।।
पुरुषः प्रकृतिश्चोभौ जगत्सर्वं प्रकीर्तितम् ।।
अग्नीषोमात्मकं सर्वं तथा तस्य प्रकीर्तितम् ।।१।।
वासुदेवश्च लक्ष्मीश्च तावेव परिकीर्तितौ ।।
चैत्रशुक्लसमायां च सोपवासो जितेन्द्रियः ।।२।।
पौरुषेण स सूक्तेन वह्निं संपूजयेन्नरः ।।
गन्धमाल्यनमस्कारधूपदीपान्नसप्रदा ।। ३ ।।
लक्ष्मीं च वरदां देवीं पूजयेदुदकेन तु ।।
श्रीसूक्तेन च धर्मज्ञ यथावन्मनुजेश्वर ।। ४ ।।
काञ्चनं राजतं चोभौ दद्याद्विप्रेषु दक्षिणाम् ।।
प्राणयात्रां बुधः कुर्यात्क्षीरेण सघृतेन च ।। ५ ।।
संवत्सरमिदं कृत्वा व्रतं सम्यगुपोषितः ।।
मुच्यते पातकैः सर्वैर्मोक्षोपायांश्च विन्दति ।। ५।।
कामानवाप्नोत्यथ वा विचित्राँल्लोकांश्च मुख्यान्वसुधां समग्राम् ।।
विरूपतो रूपमथापि चाग्र्यं यशस्तथाग्र्यं तनयांश्च मुख्यान्।।६।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे प्रकृति पुरुषनिरूपणो नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ।। १२९ ।।
3.130
मार्कण्डेय उवाच ।।
नासत्यौ देवभिषजावश्विनौ परिकीर्तितौ ।।
तावेव कथितौ लोके सूर्यताराधिपौ नृप ।। १ ।।
अश्वयानरतो यस्मादश्विनौ परिकीर्तितौ ।।
चैत्रशुक्लद्वितीयायां सोपवासो जितेन्द्रियः ।। २ ।।
नासत्यौ देवभिषजौ पूजयेत्प्रयतः शुचिः ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ३ ।।
कृत्वा च रूपनिर्माणं नासत्यौ पूजयेन्नरः ।।।
दीपमालां ततो दद्यात्तयोर्निशि विशेषतः ।। ४ ।।
कनकं रजतं चोभे दद्याद्विप्रेषु दक्षिणाम् ।।
संमील्य नेत्रयुगलं विष्णुं च संस्मरेन्नरः ।। ५ ।।
प्रदीप्ततेजा भवति चक्षुष्मांश्चैव जायते ।।
प्राणयात्रां तु कुर्वीत दध्ना घृतयुतेन च ।। ६ ।।
नेत्रव्रतं द्वादशवत्सराणि कृत्वा भवेद्भूमिपतिः प्रतीतः ।।
सरूपरूपोरिगणप्रमाथी धर्माभिरामो नृपवर्यमुख्यः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नासत्यपूजाचक्षुर्व्रतं नाम त्रिंशदुत्तरशततमोऽध्यायः ।। १३० ।।