प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायाः १४६-१५० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १५१-१५५
वेदव्यासः
अध्यायाः १५६-१६० →

3.151
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव ।।
वासुदेवांशकाज्जाताः सर्वे देवगणा नृप ।। १ ।।
अधिकेन तदंशेन साध्या जातास्तथासुराः ।।
तत्रापि चाधिकांशेन चतुरात्मा हरिः स्मृतः ।। २ ।।
नरो नारायणश्चैव हयो हंसश्च वीर्यवान् ।।
हयो हरिरिति ख्यातो हंसः कृष्णश्च कीर्तितः ।। ३ ।।
चतुरात्मा हरि र्जातो गृहे धर्मस्य यादव ।।
आदित्येषु तथा युक्तो मित्रावरुणसंज्ञकौ ।। ४ ।।
तावेव साध्यौ जानीहि हरिं कृष्णं च यादव ।।
आदित्येषु तु या युक्तौ शक्रविष्णू सुरोत्तमौ ।। ५ ।।
तावेव सिद्धसाध्येषु नरनारायणौ पुनः ।।
चैत्रशुक्लचतुर्थ्यां तु सोपवासस्तु पूजयेत् ।। ६ ।।
देवेशं चतुरात्मानं वित्तशक्त्या नराधिप ।।
व्रतमेतन्नरः कृत्वा पूर्णं द्वादशवत्सरम्।।
न दुर्गतिमवाप्नोति मोक्षोपायं च विन्दति।।७।।
ततः समासाद्य च निष्कलत्वं परेण पुंसा च समत्वमेति ।।
सर्वेश्वरश्चाप्रतिमप्रभावो विमुक्तदुःखो भुवनस्य गोप्ता ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रते श्रीविष्णुव्रतवर्णनो नामैकपञ्चाशदुत्तरशततमोऽध्यायः ।।१५१ ।।
समाप्तं चतुर्मूर्तिव्रतम् ।।
3.152
मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १ ।।
वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ।।
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ।। २ ।।
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ।।
पञ्चमण्डलगाः कार्याः पञ्चभिर्वणकैः पृथक् ।। ३ ।।
पार्थिवं मण्डलं कार्यं शुक्ल वर्णं महीपते ।।
वारुणं च तथा श्वेतं रक्तमाग्नेयमिष्यते ।। ४ ।। तु. अग्निपुराणम् अध्यायः ७४.१८

Agnipu 74.1

पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ।।
समानवर्णैर्गंधैस्तु पुष्पैस्तानर्चयेत्पृथक् ।। ५ ।।
शक्त्या च धूपदीपाद्यैर्यथालाभमरिन्दम ।।
यवैर्वान्यैस्तिलैश्चैव सर्षपैश्च घृतेन च ।। ६ ।।
पञ्चभिर्जुहुयान्मिश्रैः सर्वेषां च पृथक्पृथक् ।।
तल्लिङ्गैरथ मन्त्रैर्वा त्वथ वा नृप नामभिः ।। ७।।
ॐकारपूर्वकैर्हुत्वा शक्त्या विप्राँस्तु पूजयेत् ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ।। ८ ।।
दत्त्वा विप्रेषु वस्त्राणि देवरङ्गसमानि च ।।
महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ।। ९ ।।
पञ्चयज्ञमवाप्नोति क्रमशो येऽनुकीर्तिता. ।।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ।। 3.152.१० ।।
मानुष्यमासाद्य भवत्यरोगो बलान्वितो वैरिगणापहर्ता ।।
श्रुतेन रूपेण गुणेन युक्तो जनाभिरामः प्रमदा प्रियश्च ।। ११ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ।। १५२ ।।
3.153
मार्कण्डेय उवाच ।।
इदमन्यत्प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ।।
संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः ।। १ ।।
इडापूर्वस्तथा सोम अनुपूर्वः प्रजापतिः ।।
तत्पूर्वश्च तथा प्रोक्तो देवदेवो महेश्वरः ।। २ ।।
तेषां मण्डलविन्यासैः प्राग्वदेव विधीयते ।।
यागश्च पूजनं कार्यं होमः कार्यस्तथाविधः ।। ३ ।।
तिलव्रीहियवैश्चैव घृतेन सितसर्षपैः ।।
तल्लिङ्गैरथ वा मन्त्रैर्नामभिः प्रत्यहं क्रमात् ।। ४ ।।
नक्ताशनस्तथा तिष्ठेत्प्राग्वद्दिवसपञ्चकम् ।।
संवत्सराख्ये वर्षे तु व्रतमेतत्समारभेत् ।। ५ ।।
व्रतावसाने दातव्यं सुवर्णं पञ्च यादव ।।
चतुर्वेदविदां देयं शाखाभेदेन यादव ।। ६ ।।
एकैकं पञ्चमं देयं तथा कालविदे भवेत् ।।
अश्वमेधफलं ह्येतद्व्रतं तव मयेरितम् ।। ७ ।।
यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः ।।
कृतं नानेन धर्मज्ञ पूज्यमानः सुरासुरैः।८।।
मानुष्यमासाद्य भवत्यरोगो वर्णेन रूपेण बलेन युक्तः ।।
नृपः प्रतापानतशत्रुसंघो देवोत्तमो वा बहुयज्ञयाजी ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चव्रतविधौ संवत्सरपूजायामश्वमेधफलवर्णनो नाम त्रिष्पञ्चाशदुत्तरैकशततमोऽध्यायः ।। १५३ ।।
3.154
मार्कण्डेय उवाच ।।
अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम् ।।
चैत्रशुक्लतृतीयायां स्नानमभ्यङ्गपूर्वकम् ।। १ ।।
कृत्वा शुक्लाम्बरो राजञ्शुक्लमाल्यानुलेपनः ।।
तिष्ठेद् घृतौदनाहारो भूमौ स्वप्याच्च तां निशाम्।।२।।
चतुर्थ्यां च तथा स्नानं बहिर्गत्वा समाचरेत।।
पद्मिन्यां च विशेषेण ततः शुक्लाम्बरः शुचिः ।। ३ ।।
लक्ष्मीं सम्पूजयेत्पद्मे कृतकेऽकृतकेऽपि वा ।।
शुक्लेन गन्धमाल्येन घृतदीपेन चा प्यथ ।। ४ ।।
दध्ना च परमान्नेन आर्द्रकेण गुडेन च ।।
इक्षुणेक्षुविकारैश्च लवणेन च भूरिणा ।। ५ ।।
स्वशक्त्या च महाराज भूयसा बलिक र्मणा ।।
श्रीसूक्तेन ततो वह्नौ पद्मानि जुहुयाच्छुचिः ।। ६ ।।
तदलाभे च बिल्वानि तदलाभे तथा घृतम्।।
ब्राह्मणान्गोरसप्रायं घृतं भूयिष्ठमाशयेत्। ।। ७ ।।
सुवर्णमाषकं दद्याद्ब्राह्मणेभ्यश्च दक्षिणाम् ।।
अनाहारस्ततः स्वप्याच्छुचौ देशे यथाविधि ।। ८ ।।
ततस्तु पञ्चमीं प्राप्य पूर्वाह्णे पद्मिनी जले ।।
स्नात्वा सम्पूजनं कुर्यात्प्राग्वदेव तथा प्रियः ।। ९ ।।
भूय एव द्विजे दद्यात्पूर्वं कनकमाषकम् ।।
पद्माक्षमथ वा बिल्वं प्राश्नीयात्तदनन्तरम्। ।। 3.154.१० ।।
ततो हविष्यमश्नीयाद्वाग्यतो मानवोत्तमः ।।
संवत्सरमिदं बिल्वं प्राश्नीयात्तदनन्तरम् ।।
संवत्सरमिदं कृत्वा व्रतं पार्थिवसत्तम ।।११।।
फलमाप्नोति विपुलं राजसूयाश्वमेधयोः ।।
विना कनकदानेन व्रतमेतत्समाचरेत् ।। १२ ।।
व्रतान्ते माषकं दद्याद्वह्निष्टोमफलं लभेत् ।।
सम्पूज्य सोपवासस्तु शुक्लपक्षस्य पञ्चमीम् ।। १३ ।।
नित्यमेव श्रियं देवीं श्रियमाप्नोत्यनुत्तमाम् ।।
बलमुत्तममाप्नोति रूपमारोग्यमेव च ।।१४ ।। ।
जगत्प्रधाना वरदा वरेण्या विभावरी सर्वगता नरेन्द्र ।।
श्रद्धान्वितः पूजयतीह यस्तु कामानवाप्नोति स सर्वकालम् ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिविधौ लक्ष्मीव्रतवर्णनो नाम चतुष्पञ्चाशदुत्तरशततमोऽध्यायु।। १५४ ।।
3.155
मार्कण्डेय उवाच ।।
अथापरं प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव ।।
शङ्खं चक्रं गदां पद्मं पृथिवीं च महाभुज ।। १ ।।
गन्धैर्मण्डलकान्कृत्वा पञ्चपञ्चसु पूजयेत् ।।
चैत्रशुक्लान्तमारभ्य पञ्चमीप्रभृतीर्नृप।।२।।
सोपवासो बहिः स्नातस्तथा शुक्लाम्बरः शुचिः ।।
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा।।३।।।
सर्वेषां पूजनं कृत्वा जुहुयाज्जातवेदसि ।।
सर्वेषामेव देवानां नामभिस्तु तथा घृतम् ।। ४ ।।
ब्राह्मणान्भोजयेच्चात्र तदा मधुरभोजनम् ।।।
संवत्सरमिदं कृत्वा व्रतान्ते वस्त्र पञ्चकम् ।। ५ ।।
अश्वमेधमवाप्नोति पञ्चरात्रविदे ददत् ।।
पञ्चवर्णं च राजेन्द्र राजसूयफलं लभेत् ।। ६ ।।
मानुष्यमासाद्य भवत्यरोगो बलान्वितो धर्मपरो विनीतः ।।
धनेन रूपेण सुखेन युक्तो राजाधिराजोऽप्यथ वा नरेन्द्रः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिव्रते आयुधादिव्रतनिरूपणो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ।। १५५ ।।