शिवपूजाकथनम् सम्पाद्यताम्

ईश्वर उवाच
शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान् ।७४.००१
द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत् ॥७४.००१
गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत् ।७४.००२
नन्दिगङ्गे दक्षिणेऽथ स्थिते(३) वामगते यजेत् ॥७४.००२
महाकालं च यमुनां दिव्यदृष्टिनिपातितः ।७४.००३
उत्सार्य दिव्यान् विघ्नांश्च पुष्पाक्षेपान्तरिक्षगान् ॥७४.००३
दक्षपार्ष्णित्रिभिर्घातैभूमिष्ठान्यागमन्दिरं ।७४.००४
देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत् ॥७४.००४
प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे ।७४.००५
ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत् ॥७४.००५
- -- - -- - - -- - - --
टिप्पणी
३ दक्षशाखास्थिते इति घ, ङ, चिह्नितपुस्तकद्वयपाठ

- - - - -- - - - -- --
निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्(१) ।७४.००६
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत् ॥७४.००६
पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा ।७४.००७
पूरयेदम्बुधौ तांस्तान् गायत्र्या हृदयेन वा ॥७४.००७
गन्धकाक्षत(२) पुष्पादिसर्वद्रव्यसमुच्चयं ।७४.००८
सन्निधीकृत्य पूजार्थं भूतशुद्धादि कारयेत् ॥७४.००८
देवदक्षे ततो न्यस्य सौम्यास्यश्च शरीरतः(३) ।७४.००९
संहारमुद्रयादाय मूर्ध्नि मन्त्रेण(४) धारयेत् ॥७४.००९
भोग्यकर्मोपभोगार्थं पाणिकच्छपिकाख्यया ।७४.०१०
हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा ॥७४.०१०
शोधयेत्पञ्चभूतानि सञ्चिन्त्य शुषिरन्तनौ(५) ।७४.०११
चरणाङ्गुष्ठयोर्युग्मान् शुषिरान्तर्बहिः स्मरेत् ॥७४.०११
शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे(६) पावकप्रभे ।७४.०१२
रन्ध्रमध्यस्थिते(७) कृत्वा प्राणरोधं हि चिन्तकः ॥७४.०१२
निवेशयेद्रेचकान्ते(८) फडन्तेनाथ तेन च ।७४.०१३
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च ॥७४.०१३
- - - - - - - -- - -- - - --
टिप्पणी
१ गन्धकानिति ङ, चिह्नितपुस्तकपाठः । लुड्डुकानिति ख, चिह्नितपुस्तकपाठः
२ गुड्डुकाक्षतेति ङ, चिह्नितपुस्तकपाठः । गण्डूकाक्षतेति घ, चिह्नितपुस्तकपाठः
३ सौम्यास्यः स्वशरीरत इति घ, चिह्नितपुस्तकपाठः
४ मूर्तिमन्त्रेणेति ग, घ, ङ, चिहिनितपुस्तकत्रयपाठः
५ स्वशिरस्तनौ इति ङ, चिह्नितपुस्तकपाठः
६ पश्चादोङ्कारे इति ङ, चिह्नितपुस्तकपाठः
७ चन्द्रमध्यस्थिते इति ख, चिह्नितपुस्तकपाठः चक्रमध्यस्थिते इति ङ, चिह्नितपुस्तकपाठः
८ निवोधयेद्रेचकान्ते इति ख, चिह्नितपुस्तकपाठः

- - - -- - -- - -- - - -- - -
ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्ध्नि विन्यस्य जीवनं ।७४.०१४
सम्पुटं हृदयेनाथ पूरकाहितचेतनं ॥७४.०१४
हूं शिखोपरि विन्यस्य शुद्धं बिन्द्वात्मकं(१) स्मरेत् ।७४.०१५
कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत् ॥७४.०१५
रेचकेन बीजवृत्त्या शिवे लीनोऽथ शोधयेत् ।७४.०१६
प्रतिलोमं स्वदेहे तु(२) बिन्द्वन्तं तत्र बिन्दुकं ॥७४.०१६
लयन्नीत्वा महीवातौ जलवह्नी परस्परं ।७४.०१७
द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु ॥७४.०१७
पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितं ।७४.०१८ तुलनीयं - विष्णुधर्मोत्तरपुराणम् ३.१५२, गरुडपुराणम् १.२३, शिवपुराणम् १.१०
हौमित्यात्मीयबीजेन(३) तन्निवृत्तिकलामयं ॥७४.०१८
पदादारभ्य मूर्धानं विचिन्त्य चतुरस्रकं ।७४.०१९
उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥७४.०१९

अर्धचन्द्रं द्रवं सौम्यं शुभ्रसम्भोजलाञ्छितं(४) ।७४.०२०
महाभूताः

ह्रीमित्यनेन बीजेन प्रतिष्ठारूपतां गतं ॥७४.०२०
संयुक्तं राममन्त्रेण(५) पुरुषान्तमकारणं ।७४.०२१
अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥७४.०२१
आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितं ।७४.०२२
हूमित्यनेन बीजेन विद्यारूपं विभावयेत् ॥७४.०२२
घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत् ।७४.०२३
- - - -- -- - --- - --- - - - --
टिप्पणी
१ विष्ण्वात्मकमिति ख, चिह्नितपुस्तकपाठः
२ स्वहेतौ तु इति ख, चिह्नितपुस्तकपाठः
३ हौमित्युन्नीय वीजेनेति ख, चिह्नितपुस्तकपाठः । हौमित्याग्नेयवीजेनेति घ, चिह्नितपुस्तकपाठः
४ अर्धचन्द्रं ततः सौम्ये शिवं पूर्वेण योजयेदिति ङ, चिह्नितपुस्तकपाठः
५ वामं मन्त्रेणेति घ, चिह्नितपुस्तकपाठः । वा समन्त्रेणेति ख, चिह्नितपुस्तकपाठः

- - -- -- - - - - -- - - - -- -
षडस्रं मण्डलं वायोर्बिन्दुभिः षड्भिरङ्कितं ॥७४.०२३
कृष्णं ह्रेमिति बीजेन जातं शान्तिकलामयं ।७४.०२४
सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत् ॥७४.०२४
नभोबिन्दुमयं वृत्तं बिन्दुशक्तिविभूषितं ।७४.०२५
व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलं ॥७४.०२५
हौङ्कारेण फडन्तेन शान्त्यतीतकलामयं ।७४.०२६
ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥७४.०२६ महाभूतोपरि टिप्पणी
आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा(१) ।७४.०२७
आधाराख्यामनन्तञ्च धर्मज्ञानादिपङ्कजं ॥७४.०२७
हृदासनमिदं(२) ध्यात्वा मूर्तिमावाहयेत्ततः ।७४.०२८
सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः ॥७४.०२८
अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः ।७४.०२९
दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतं ॥७४.०२९
हृदयादिकरान्तेषु(३) कनिष्ठाद्यङ्गुलीषु च ।७४.०३०
हृदादिमन्त्रविन्यासः सकलीकरणं मतं ॥७४.०३०
अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्वहिः ।७४.०३१
शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत् ॥७४.०३१
आपदमस्तकं यावद्भावपुष्पैः(४) शिवं हृदि ।७४.०३२
पद्मे यजेत्पूरकेण आकृष्टामृतसद्घृतैः ॥७४.०३२
शिवमन्त्रैर्नाभिकुण्डे तर्पयेत शिवानलं ।७४.०३३
- - - -- - -- - - -- - - -- -
टिप्पणी
१ मूलेनामृतसेचनादिति ङ, चिह्नितपुस्तकपाठः
२ हृद्यासनमिदमिति ङ, चिह्नितपुस्तकपाठः
३ हृदयादिषडङ्गेन इति ङ, चिह्नितपुस्तकपाठः
४ तावत्पुष्पैरिति ङ, चिह्नितपुस्तकपाठः

- - - -- - -- - - - - ---
ललाटे बिन्दुरूपञ्च चिन्तयेच्छुभविग्रहं(१) ॥७४.०३३
एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितं ।७४.०३४
बिन्दुप्रसूतपीयूषरूपतोयाक्षतादिना ॥७४.०३४
हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।७४.०३५
संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत् ॥७४.०३५
रचयित्वार्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया(२) ।७४.०३६
अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयबिन्दुना ॥७४.०३६
तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा ।७४.०३७
अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत् ॥७४.०३७
दर्शयित्वामृतां मुद्रां पुष्पं दत्वा निजासने ।७४.०३८
विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् ॥७४.०३८
स्नाने देवार्चने होमे भोजने यागयोगयोः ।७४.०३९
आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥७४.०३९
नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतं ।७४.०४०
पूजनेऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत् ॥७४.०४०
ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः ।७४.०४१
ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत् ॥७४.०४१
प्रक्षाल्य पिण्डिका लिङ्गे अस्त्रतोये ततो हृदा ।७४.०४२
अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनं ॥७४.०४२
आत्मद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत् ।७४.०४३
वायव्ये गणपतये हां गुरुभ्योऽर्चयेच्छिवे ॥७४.०४३
- --- - - - -- - -- - - - --
टिप्पणी
१ चिन्तयेत्सपरिग्रहमिति ङ, चिह्नितपुस्तकपाठः
२ रोचयेद्धेनुमुद्रयेति ख, चिह्नितपुस्तकपाठः

- - -- - -- - -- - -- - -- -
आधारशक्तिमङ्कुरनिभां कूर्मशिलास्थितां ।७४.०४४
यजेद्ब्रह्मशिलारूढं शिवस्यानन्तमासनं ॥७४.०४४
विचित्रकेशप्रख्यानमन्योन्यं पृष्टदर्शिनः ।७४.०४५*
कृतत्रेतादिरूपेण शिवस्यासनपादुकां ॥७४.०४५
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्चाग्निदिङ्मुखान् ।७४.०४६
कूर्पारकुङ्कुमस्वर्णकज्जलाभान् यजेत्क्रमात् ॥७४.०४६
पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव ।७४.०४७
वरदाभयहस्ताश्च शक्तयो धृतचामराः ॥७४.०४७
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी ।७४.०४८
बलविकरणी पूज्या बलप्रमथनी क्रमात् ॥७४.०४८
हां सर्वभूतदमनी केशराग्रे मनोन्मनी ।७४.०४९
क्षित्त्यादि शुद्धविद्यान्तु तत्त्वव्यापकमासनं ॥७४.०४९
न्यसेत्सिंहासने देवं शुक्लं पञ्चमुखं विभुं ।७४.०५०
दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः ॥७४.०५०
शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः ।७४.०५१
डमरुं बीजपूरञ्च नीलाब्जं सूत्रकोत्पलं ॥७४.०५१
द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्तिन्तु मध्यतः ।७४.०५२
हां हं हां शिवमूर्तये स्वप्रकाशं शिवं स्मरन् ॥७४.०५२
ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदं ।७४.०५३
ततो ललाटमध्यस्थं स्फुरत्तारापतिप्रभं ॥७४.०५३
षडङ्गेन समाकीर्णं बिन्दुरूपं परं शिवं ।७४.०५४
पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्तौ निवेशयेत् ॥७४.०५४
ओं हां हौं शिवाय नम आवाहन्या हृदा ततः ।७४.०५५
आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवं ॥७४.०५५
निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः ।७४.०५६
विघ्नानुत्सार्य विष्ठ्याथ(१) लिङ्गमुद्रां नमस्कृतिं ॥७४.०५६
हृदावगुण्ठयेत्पश्चादावाहः सम्मुखी ततः ।७४.०५७
निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः ॥७४.०५७
आकर्मकाण्डपर्यन्तं सन्निधेयो परिक्षयः ।७४.०५८
स्वभक्तेश्च(२) प्रकाशो यस्तद्भवेदवगुण्ठनं ॥७४.०५८
सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकतां ।७४.०५९
अङ्गानामङ्गिना सार्धं विदध्यादमृतीकृतं ॥७४.०५९
चिच्छक्तिहृदयं शम्भोः शिव ऐश्वर्यमष्टधा(३) ।७४.०६०
शिखा वशित्वं चाभेद्यं तेजः कवचमैश्वरं ॥७४.०६०
प्रतापो दुःसहश्चास्त्रमन्तरायापहारकं ।७४.०६१
नमः स्वधा च स्वाहा च वौषट्चेति यथाक्रमं ॥७४.०६१
हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ।७४.०६२
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकं ॥७४.०६२
अर्घ्यं शिरसि देवस्य दूर्वापुष्पाक्षतानि च ।७४.०६३
एवं संस्कृत्य संस्कारैर्दशभिः परमेश्वरं ॥७४.०६३
यजेत्पञ्चोपचारेण विधिना कुसुमादिभिः ।७४.०६४
अभ्युक्ष्योद्वर्त्य निर्मज्य राजिकालवणादिभिः ॥७४.०६४
अर्घ्योदबिन्दुपुष्पाद्यैर्गड्डूकैः(४) स्नापयेच्छनैः ।७४.०६५
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ॥७४.०६५
ईशादिमन्त्रितर्द्रव्यैरर्च्य तेषां(५) विपर्ययः ।७४.०६६
- - -- - - - - - -- - - - - --
टिप्पणी
१ छोट्याथ इति ख, चिह्नितपुस्तकपाठः
२ अभुक्तेज्या इति ग, चिह्नितपुस्तकपाठः
३ शिवमैश्वर्यमष्टधा इति ग, घ, चिह्नितपुस्तकद्वयपाठः
४ गन्धकैरिति ख, चिह्नितपुस्तकपाठः

५ इत्यादिमन्त्रितैर्भक्ष्यैश्चैषामिति ख, चिह्नितपुस्तकपाठः

- - -- - -- - - -- -- - -- - -
तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवं ॥७४.०६६
विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः ।७४.०६७
स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा ॥७४.०६७
निर्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत्करं ।७४.०६८
न शून्यमस्तकं लिङ्गं पुष्पैः कुर्यात्ततो ददेत् ॥७४.०६८
चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना(१) ।७४.०६९
धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना(२) ॥७४.०६९
अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत् ।७४.०७०
दद्यादाचमनं पश्चात्स्वधान्तं हृदयाणुना(३) ॥७४.०७०
आरात्रिकं समुत्तार्य तथैवाचामयेत्पुनः ।७४.०७१
प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥७४.०७१
हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभं ।७४.०७२
शिखां रक्ताञ्च नैर्ऋत्ये कृष्णं वर्म च वायवे ॥७४.०७२
चतुर्वक्त्रं चतुर्बाहुं(४) दलस्थान्(५) पूजयेदिमान् ।७४.०७३
दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभं ॥७४.०७३
मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च ।७४.०७४
हृं शिखायै हैं वर्म हश्चास्त्रं परिवारयुताय च ॥७४.०७४
शिवाय दद्यात्पाद्यञ्च आचामञ्चार्घ्यमेव च ।७४.०७५
गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकं ॥७४.०७५
करोद्वर्तनताम्बूलं मुखवासञ्च दर्पणं ।७४.०७६
- -- - - -- - -- - -- - - -
टिप्पणी
१ शिवात्मनेति ख, चिह्नितपुस्तकपाठः
२ शिवात्मनेति ख, चिह्नितपुस्तकपाठः
३ हृदयात्मनेति ख, चिह्नितपुस्तकपाठः
४ चतुर्वक्त्रांश्चतुर्बाहूनिति घ, ङ, चिह्नितपुस्तकद्वयपाठः
५ दलाग्रे इति ङ, चिह्नितपुस्तकपाठः

- - --- - - - -- - - - -- -
शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकं ॥७४.०७६
मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितं ।७४.०७७
चर्मणावेष्टितं खड्गं रक्षितं कुशपुष्पकैः ॥७४.०७७
अक्षतैर्मुद्रया युक्तं शिवमुद्भवसञ्ज्ञया ।७४.०७८
गुह्यातिगुह्यगुप्त्यर्थं(१) गृहाणास्मत्कृतं जपं ॥७४.०७८
सिद्धिर्भवतु मे येन(२) त्वत्प्रसादात्त्वयि स्थिते ।७४.०७९
भोगी श्लोकं पठित्वाद्यं(३) दक्षहस्तेन शम्भवे ॥७४.०७९
मूलाणुनार्घ्यतोयेन वरहस्ते(४) निवेदयेत् ।७४.०८०
यत्किञ्चित्कुर्महे देव सदा सुकृतदुस्कृतं ॥७४.०८०
तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर ।७४.०८१
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥७४.०८१
शिवो जयति सर्वत्र यः शिवः सोहमेव च ।७४.०८२
श्लोकद्वयमधीत्यैवं जपं देवाय चार्पयेत् ॥७४.०८२
शिवाङ्गानां(५) दशांशञ्च दत्वार्घ्यं स्तुतिमाचरेत् ।७४.०८३
प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्तये(६) ।७४.०८३
नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलादिषु ॥७४.०८३
- - - - --- - -- -- - - -- -
टिप्पणी
१ गुह्यातिगुह्यगोप्ता त्वमिति ग, ङ, चिह्नितपुस्तकपाठः
२ सिद्धिर्भवतु मे देवेति ख, ग, चिह्नितपुस्तकपाठः
३ पठित्वामुमिति ख, चिह्नितपुस्तकपाठः
४ हरहस्ते इति ग, चिह्नितपुस्तकपाठः
५ शिवज्ञानामिति ख, चिह्नितपुस्तकपाठः
६ नमेदष्ताङ्गमूर्तये इति ङ, चिह्नितपुस्तकपाठः

- - - -- - - ---- - - - - - -

इत्यादिमहापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमोऽध्यायः ॥

अग्निपुराणम्
















सम्पाद्यताम्

  • ७४.४५ शिव के सिंहासन के रूप में जो मञ्च या चौकी है, उसके चार पाये हैं जो विचित्र सिंह की सी आकृति से सुशोभित होते हैं। वे सिंह मण्डलाकार में स्थित रहकर अपने आगवाले के पृष्ठभाग को ही देखते हैं तथा सत्ययुग, त्रेता,द्वापर और कलियुग - इन चार युगों के प्रतीक हैं।- अग्निपुराण(कल्याण विशेषाङ्क वर्ष ४४)